24071: सुपो धातुप्रातिपदिकयोः¶
Padacheda: सुपः | S | 6 | 1 |
धातु-प्रातिपदिकयोः | S | 6 | 2 |
Sutrartha¶
धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति ।
यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति । कानिचन उदाहरणानि एतानि - 1. ‘राज्ञः पुरुषः’ इत्यत्र षष्ठी (2.2.8) अनेन सूत्रेण षष्ठीतत्पुरुषः समासः भवितुमर्हति । अत्र ‘राज्ञः पुरुषः’ इति स्थिते प्रक्रियायाम् पदयोः अलौकिक-विग्रहं कृत्वा ‘राजन् + ङस् + पुरुष + सुँ ‘ इति जायते । एतत् समस्तपदमस्ति, अतः कृत्-तद्धित-समासाश्च (1.2.46) इत्यनेन अस्य शब्दस्य प्रातिपदिकसंज्ञा भवति । इदानीमस्मिन् प्रातिपदिके ‘ङस्’ तथा ‘सुँ’ एतौ द्वौ सुप्-प्रत्ययौ अवयवरूपेण उपस्थितौ स्तः । अतः एतयोः वर्तमानसूत्रेण ‘लुक्’ (लोपः) भवति । अतः ‘राजन् + पुरुष’ इति अवशिष्यते । अत्र ‘राजन्’ शब्दात् परस्य ङस्-प्रत्ययस्य लुक्-कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन ङस्-प्रत्ययस्य लक्षणम् (= पदत्वम्) ‘राजन्’ शब्दस्य विषये अपि विधीयते । अतः ‘राजन्’ अयं शब्दः, यः मूलरूपेण प्रातिपदिकसंज्ञकः तु अस्ति एव, इदानीम् पदसंज्ञकः अपि भवति । एतादृशम् पदसंज्ञकं यत् प्रातिपदिकम्, तस्य अन्तिम-नकारस्य नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन लोपः भवति, अतः ‘राजपुरुष’ इति समस्तपदम् जायते । 2. ‘उपगोः अपत्यम्’ इत्यत्र तस्यापत्यम् (4.1.92) अस्मिन् अर्थे प्राग्दीव्यतः अण् (4.1.83) इत्यनेन ‘उपगोः’ इति समर्थात् ‘अण्’ प्रत्ययः विधीयते । अत्र ‘उपगोः + अण्’ इति स्थिते अलौकिकविग्रहं कृत्वा ‘उपगु + ङस् + अण्’ इति जायते । अत्रापि कृत्-तद्धित-समासाश्च (1.2.46) इत्यनेन अस्य तद्धितप्रत्ययान्तशब्दस्य प्रातिपदिकसंज्ञा भवति, अतः अस्मिन् प्रातिपदिके उपस्थितस्य ङस्-प्रत्ययस्य वर्तमानसूत्रेण ‘लुक्’ भवति । अतः ‘उपगु + अण्’ इति अवशिष्यते । अग्रे तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिं कृत्वा, तथा ओर्गुणः (6.4.146) इत्यनेन उकारस्य गुणादेशं कृत्वा ‘औपगव’ इति प्रातिपदिकं सिद्ध्यति । 3. ‘पुत्रमात्मनः इच्छति’ इत्यस्मिन् अर्थे ‘पुत्रम्’ इति सुबन्तात् काम्यच्च (3.1.9) अनेन सूत्रेण ‘काम्यच्’ अयम् सनादिप्रत्ययः विधीयते । ‘पुत्रम् + काम्यच्’ इत्यस्य अलौकिकविग्रहं कृत्वा ‘पुत्र + अम् + काम्यच्’ इति जायते । अयं सनादि-प्रत्ययान्तः शब्दः अस्ति, अतः सनाद्यन्ताः धातवः (3.1.32) इत्यनेन अयम् धातुसंज्ञां प्राप्नोति । एवं स्थिते अस्मिन् धातौ विद्यमानः यः ‘अम्’ इति सुप्-प्रत्ययः, तस्य वर्तमानसूत्रेण लोपः विधीयते । अनेनैव ‘पुत्रकाम्य’ इति आतिदेशिकधातुः जायते, यस्य अग्रे तथाविहिताः विकरणतिङादयः प्रत्ययाः भवन्ति (यथा - ‘पुत्रकाम्यति’ - आदयः) । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘धातोः / प्रातिपदिकस्य सुप्-प्रत्ययः’ इति उच्यते । तदन्तर्गताः तद्ग्रहणेन गृह्यन्ते अनया परिभाषया अत्र ‘धातोः / प्रातिपदिकस्य’ इत्यनेन यतोः अन्तर्गतानां सुप्-प्रत्ययानाम् ग्रहणं भवति । 2. कौमुद्यामत्र एकं वात्तिकमुक्तमस्ति - <!इवेन समासः विभक्त्यलोपश्च!> । इत्युक्ते, ‘इव’ शब्देन सह समासः क्रियते चेत् वर्तमानसूत्रेण सुप्-प्रत्ययस्य लोपः न भवति । यथा - ‘जीमूतस्य इव = जीमूतस्येव’ । अत्र ङस्-प्रत्ययस्य वर्तमानसूत्रेण निर्दिष्टः ङस्-प्रत्ययस्य लोपः अनेन वार्त्तिकेन निषिध्यते । 3. अनेन सूत्रेण सुप्-प्रत्ययस्य ‘लुक्’ विधीयते । ‘लुक्’ इति प्रत्ययस्य विशिष्टप्रकारस्य लोपः । प्रत्ययस्य लुक्-श्लु-लुपः (1.1.61) इत्यनेन इयं संज्ञा विधीयते । अत्र ‘लुक्’ इति किमर्थमुक्तमस्ति? प्रत्ययस्य यदा ‘लुक्’ इत्यनेन लोपः भवति, तर्हि लुप्त-प्रत्ययस्य कारणात् प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन जायमानं यत् ‘अङ्गकार्यम्’, तस्य न लुमताङ्गस्य (1.1.63) इत्यनेन निषेधः भवति । यथा - ‘राजन् + ङस् + पुरुष + सुँ’ अत्र ङस्-प्रत्ययस्य लोपे कृते ङस्-प्रत्ययस्य यत् अङ्गकार्यम् (अल्लोपोऽनः (6.4.134) इत्यनेन उपधा-अकारस्य लोपः) तस्य प्रसक्तिः नास्ति । अतः ‘राजपुरुष’ इत्यत्र जकारात् परः यः अकारः, तस्य लोपः न जायते । (केवलं अङ्गकार्यस्यैव अत्र निषेधः भवति, अन्येषां कार्याणाम् न - एतत् स्मर्तव्यम् । अतः नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन ‘राजन्’ इत्यस्य नकारः तु अत्रापि लुप्यते) ।
Sutrartha (English)¶
A सुप् प्रत्यय that comes as a part of a धातु or a प्रातिपदिक is removed.
Vasu English Summary¶
There is लुक् elision of the case-affix of a word when it gets the name of धातु ‘root’ or is of a crude form.
Vasu English Translation¶
There is लुक् elision of the case-affix of a word when it gets the name of धातु ‘root’ or is of a crude form. A noun is changed into a root (धातु) when it is made a denominative verb. As पुत्रीयति (3.1.8) he wishes for a son of his own. A noun which forms part of a compound becomes a crude-form (1.2. 46); as कष्टश्रितः ‘having recourse to pain.’ राजपुरुषः ‘king’s man.’ In all these examples, the case affixes have been elided.
Thus पुत्रम् इच्छति = पुत्रीयति, here the 2nd case-affix is elided. कष्टश्रितः = कष्टश्रित &c.
Why do we say ‘when it gets the name of : धातु or प्रातिपदिक ?
Because when it gets any other name, such as अङ्क &c., the case-affix is not elided. Thus वृक्षः, प्लक्षः ।
Kashika¶
सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञायाश्च लुग् भवति। तदन्तर्गतास्तद्ग्रहणेन गृह्यन्ते। धातोस्तावत् — पुत्रीयति। घटीयति। प्रातिपदिकस्य — कष्टश्रितः। राजपुरुषः। धातुप्रातिपदिकयोरिति किम्? वृक्षः। प्लक्षः॥
Siddhanta Kaumudi¶
एतयोरवयवस्य सुपो लुक् स्यात् । भूतपूर्वे चरट् (SK1999) इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः ।<!इवेन समासो विभक्त्यलोपश्च !> (वार्तिकम्) ॥ जीमूतस्येव ॥
Laghu Siddhanta Kaumudi¶
एतयोरवयवस्य सुपो लुक्॥
Balamanorama¶
सुपो धातुप्रातिपदिकयोः - सुपो धातु ।धातुप्रातिपदिकयो॑रित्यवयवषष्ठीत्याह — एतयोरवयवस्येति । लुक्स्यादिति ।ण्यक्षत्रियार्षञितो यूनि लुक् इत्यतस्तदनुवृत्तेरिति भावः । न च ‘सुप’ इत्यनेन सप्तमीबहुवचनस्यैव ग्रहणं किं न स्यादिति वाच्यम्,पञ्चम्याः स्तोकादिभ्यः॑ इत्यलुग्विधानात्सुप्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात् । नचैव मपि पूर्वं भूत इति लोकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाऽभावात् कथं लुगिति वाच्यं, ‘सुपो धातु’ इति लुग्विषयेअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ #इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवाऽलौकिकविग्रहवाक्ये समासप्रवृत्तिरितिप्रत्ययोत्तरपदयोश्च॑ इति सूत्रभाष्ये स्थितम् ।कृत्तद्धितसमासाश्च॑ इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम् । ‘भस्त्रैषा’ इति सूत्रव्याख्यावलरे प्रपञ्चितं चास्माभिः । एवंच पूर्व अम् भूत सित्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्तेर्नोक्तदोषः । तथाच सुपो लुकि भूतपूर्वेति स्थितम् । ननुसुबन्तं सुबन्तेन समस्यते॑ इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वं च द्वयोरप्यविशिष्टम् । ततश्चप्रथमानिर्दिष्टं समास उपसर्जनम् इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात्उपसर्जनं पूर्व॑मित्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह — भूतपूर्वे चरडिति । पूर्वं भूत इति । लौकिकविग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति समासत्वेन प्रातिपदिकत्वात्समुदायात्पुनर्यथायथं सुबुत्पत्तिरिति भावः ।इवेनेति । इवेत्यव्ययेन सुबन्तस्य समासः । ‘सुपो धातु’ इति लुगभावः । पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, न तु समासस्वर इति वक्तव्यमित्यर्थः । ‘सह सुपा’ इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् । अन्यथा अत्र इवशब्दस्यापि सुबन्तत्वाऽविशेषात्समासशास्त्रे प्रतमानिर्दिष्टत्वेनोपसर्जनत्वात्पूर्वनिपातः स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिट्स्वरेणान्तोदात्तत्वमेव , न तु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न,तत्र तस्येवे॑ति निर्देशात् । क्वाचित्कश्चायं समासः । अत एव बह्वचा एव पदपाठे अवगृह्णन्ति । याजुषास्तु भिन्ने एव पदे पठन्ति । ‘उद्बाहुरिव वामनः’ इत्यादिव्यस्तप्रयोगाश्च सङ्गच्छन्ते ।हरीतकीं भुङ्क्ष्व राजन्मातेव हितकारिणी॑मित्यत्र तु मातरमिवेति भवितव्यम् ।तिङ्समानाधिकरणे प्रथमा॑ ‘अभिहिते प्रथमा’ इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्येण च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमाया मातृसदृशीमित्यर्थे असाधुत्वादित्यस्तां तावत् ।
Tattvabodhini¶
सुपो धातुप्रातिपदिकयोः - सुपो धातु । सुप इति प्रत्याहारस्य ग्रहणं,पञ्चम्याः स्तोकादिभ्यः॑ इत्याद्यलुक्समासविधानाज्ज्ञापकात् । निर्देशादिति । अन्यथा हि प्रथमानिदिष्टत्वाऽविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः ।इवेन समासो विभक्त्यलोपश्च । इवेनेति । अयमपि समासः पूर्ववत्क्वाचित्क एव । तेन जीमूतस्येवेत्यादौ तैत्तिरीयाणां पृथक्पदत्वन पाठः ।उद्बाहुरिव वामनः॑ इत्यादौ व्यस्तप्रयोगश्च सङ्गच्छत इति मनोरमायां स्थितम् । विभक्त्यलोपश्चेति । समासावयस्य सुपोऽलोपविधानेऽपि समासादुत्पन्नस्य सोरव्ययादिति लुग्भवत्येव, अनुपसर्जने तदन्तस्याप्यव्ययत्वादिति बोध्यम् ।
Padamanjari¶
सुपो धातुप्रातिपदिकयोः॥ अत्र’सुपः’ इति सप्तमीबहुवचनं न गृह्यते;’पञ्चम्या स्तोकादिभ्यः’ इत्यादिना पञ्चम्यादीनामलुग्विधानात्। नापि कपः पकारेण प्रत्याहारः, तद्धितानां विधानसामर्थ्यात्; अन्यथा तद्धितान्तस्य प्रातिपदिकत्वातदवयवस्य सर्वस्यैव तद्धितस्य लुक् स्यात्,’द्विगोर्लुगनपत्ये’ इत्येतच्चानर्थकं स्यात्। अतः सुशब्दादारभ्य सुपः पकारेण प्रत्याहार इत्याह - सुपो विभक्तेरिति। धातुप्रातिपदिकयोरिति यदि सप्तमी स्याद् धातुप्रातिपदिकयोः परतः सुपौ लुक् स्यात् - काष्ठ्èअः पचति, शोभनैः काष्ठ्èअरिति, तस्मात्षष्ठीयमित्याह - सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञाया इति। धातुः संज्ञा यस्यास्तस्या इत्यर्थः। कथं पुनर्विभक्तिर्धातुसंज्ञा प्रातिपदिकसंज्ञा वा भवति, तत्राह - तदन्तर्गता इति। एवमपि धातुप्रातिपदिकयोरवयवभूता विभक्तयः स्युर्न तत्संज्ञाः? नेष दोषः; समुदायेषु हि वृताः शब्दा अवयवेष्वपि वर्तन्ते। धातुप्रातिपदिकयोरवयवस्य सुप इत्यपि व्याख्याने न कश्चिद्दोषः। प्रत्युत’सुपः’ इत्यस्य द्विवचनान्तेन सम्बन्धो न दुरुपपादो भवति, तथा तु न व्याख्यातमित्येव॥
Nyaas¶
धातुप्रातिपदिकयोः इति। यदीयं सप्तमी स्यात् तदाऽयमर्थो विज्ञायेत - धातौ च प्रातिपदिके च या सन्निकृष्टा विभ्कतिस्तस्या लुग्भवतीति। सन्निकृष्टत्वञ्चोपश्लेषमन्तरेण न सम्भवतीतीहापि स्यात् - वृक्षः प्लक्ष इति, अस्ति ह्यत्रापि प्रादिपदिकेन विभक्तेरुपश्लेषः। तस्मात् षष्ठीयं युक्तेति मत्वाह - सुपो विभक्तेर्धातुसंज्ञायाः इत्यादि। कथं पुनविभक्तेर्धातुसंज्ञा प्रातिपदिकसंज्ञा च भवतीत्यत आह - तदन्तर्गता इत्यादि। नन्वेमपि धातुप्रातिपदिकयोरेवकदेशीभूता विभक्तयः स्युः, न धातुसंज्ञकाः, नापि प्रातिपदिकसंज्ञकाः? समुदायेषु हि प्रवृत्ताः शब्दा अवयेवष्वपि वर्तन्त इत्यदोषः। पुत्रीयती #इति। आत्मनः पुत्रमिच्छतीति सुप आत्मनः क्यच् (3.1.8) क्यचि च (7.4.33) इतीत्त्वम्, सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञा, सा च सुबन्तात् क्यज्विहित इति ससुप्कस्यैव भवतीति तेनात्र विभक्तिर्धात्वन्तर्गता भवति। कष्टश्रितः इति। कष्टं श्रित इति द्वितीया श्रित (2.1.23) इत्यादिना समासः। कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सापि सुबन्तानां समासो भवतीति ससुप्कस्यैव भवति। तेनात्रापि विभक्तिः प्रातिपद#इकान्तर्गता भवति। वृक्षः, प्लक्ष इत्यत्राप्यप्रत्यय इति प्रातिपदिकसंज्ञाप्रतिषेधात् सविभक्तिकस्य प्रातिपदिकसंज्ञा नास्तीति नास्ति विभक्तेः प्रातिपदिकान्तर्भावः॥
Praudhamanorama¶
निर्देशादिति। अन्यथा हि प्रथमानिर्दिष्टत्वाऽविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः। इवेनेति। अयमपि समासः पूर्ववत्क्वाचित्क एव। तेन ‘जीमूतस्येव’ इत्यादौ तैत्तिरीयाणां पृथक्पदत्वेन पाठः ‘उद्बाहुरिव वामनः’ इत्यादौ व्यस्तप्रयोगोऽपि सङ्गच्छते।
Prakriyasarvasvam¶
एतयोरंशस्य सुपो लुक् स्यात् । इति समासस्थविभक्तिलोपः व्यामवद्यः । क्यपि तु पः स्वराद्यर्थः ।
Sudha¶
सुपो धात्विति । धातुप्रातिपदिकयोरित्यवयवषष्ठीत्याह — एतयोरवयवस्येति । लुक् स्यादिति । ण्यक्षत्रियार्षञितो यूनि लुक (2.4.58) इत्यतस्तदनुवृतेरिति भावः ।
Sutra Prayogas¶
नवनवत्वम् (किरातार्जुनीयम्): सुपो धातुप्रातिपदिकयोः इति सुपो लुक्।