24065: अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च

Padacheda: अत्रि-भृगु-कुत्स-वसिष्ठ-गोतम-अङ्गिरोभ्यः | S | 5 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

After the words अत्रि , भृगु , कुत्स , वशिष्ठ , गोतम , अङ्गिरस , there is elision of the गोत्र affix, when the word takes the plural, but not in the feminine.

Vasu English Translation

After the words अत्रि , भृगु , कुत्स , वशिष्ठ , गोतम , अङ्गिरस , there is elision of the गोत्र affix, when the word takes the plural, but not in the feminine. Thus the plural of आत्रेय (अत्रि + ढक (IV.1.122.)) the descendent of अत्रि, is अत्रयः, the regular plural of अत्रि. So also, singular भार्गवः, plural भृगवः, singular कौत्सः, plural कुत्साः; so, वसिष्ठाः, गोतमाः, अङ्गिरसः. In all these the affix has been elided. Thus भृगु + अण् = भार्गवः ‘the descendent of Bhrigu.’ Of course, it is only in the plural number that the Gotra affixes ढक् and अण् are elided, not in any other number; so we have in singular आत्रेयः भार्गवः; dual आत्रेयौ भार्गवौ; plural आत्रयः भृगवः &c.

But when these words are part of a compound, the Gotra affixes are not elided in forming their plural. Thus प्रियात्रेयाः or प्रियभार्गवाः ।

In the Feminine plural the affixes are not elided. Thus:- आत्रेय्यः स्त्रियः ।

Kashika

अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवति। अत्रिशब्दाद् इतश्चानिञः (४.१.१२२) इति ढक्। इतरेभ्य ऋष्यण् (४.१.११४)। अत्रयः। भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः। बहुष्वित्येव — आत्रेयः, भार्गवः। तेनैवेत्येव — प्रियात्रेयाः। प्रियभार्गवाः। अस्त्रियामिति किम्? आत्रेय्यः स्त्रियः॥

Siddhanta Kaumudi

एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥

Balamanorama

अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च - अत्रिभृगु । पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते । तदाह — एभ्यो गोत्रेति । अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अत्रेः ‘इतश्चाऽनिञः’ इति ढको ।ञनेन लुक् । इतरेभ्यस्तु ऋष्यण इति बोध्यम् । लुकि आदिवृद्धेर्निवृत्तिः ।

Tattvabodhini

अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च - अत्रि । गोत्रप्रत्ययस्येति । अत्रि शब्दात्इतश्चाऽनिञः॑इति ढिक् ।इतरेभ्यस्तु ऋष्यणिति बोध्यम् । भारतगोत्रे उदाहरति ।

Nyaas

{आत्रेय्यः - इति मुद्रितः पाठः`आत्त्रेयः इति। टिड्ढाणञ् (4.1.15) इति। ङीप्॥

Prakriyasarvasvam

एभ्योऽपत्यप्रत्ययस्य बहुत्वे लुक् । अत्रेः ‘इतश्चानिञः’ (४-१-१२२) इति ढक् । आत्रेयः आत्रेयौ अत्रयः । भृग्वादेः ऋष्यणो लुक् । भृगवः । कुत्साः । वसिष्ठाः । गौतमाः । अङ्गिरसः ॥