24062: तद्राजस्य बहुषु तेनैवास्त्रियाम्¶
Padacheda: तद्राजस्य | S | 6 | 1 |
बहुषु | S | 7 | 3 |
तेन | S | 3 | 1 |
एव | S | 0 | 0 |
अस्त्रियाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
There is लुक् elision of तद्राज – ते तद्राजाः (4.1.174), affix, when the word is used in the plural number, provided that the plural number is taken by the base itself and not by its standing as a compound epithet dependent upon another word and provided that the base is not used in the feminine.
Vasu English Translation¶
There is लुक् elision of तद्राज – ते तद्राजाः (4.1.174), affix, when the word is used in the plural number, provided that the plural number is taken by the base itself and not by its standing as a compound epithet dependent upon another word and provided that the base is not used in the feminine. आङ्गः = अंग + अण् (4.1.170) ‘a prince of Anga’; अङ्गाः ‘the princes of Anga.’ The affix अण् is elided by present rule, and the Vriddhih vanishes with it too (1.1.63); but आङ्ग्यः ‘the princesses of Anga,’ plural of आंगी ‘a princess of Anga.’ But प्रियवांगः ‘he to whom the prince of Vanga is beloved’ forms its plural प्रियवांगाः ‘they whose beloved is the prince of Vanga,’ there being no elision.
Bhashya¶
तद्राजस्य बहुषु तेनैवास्त्रियाम् (593) (366 लुक्सूत्रम् ॥ 2.4.2 आ.1 सू.) (प्रत्ययपक्षदूषणाधिकरणम्) (1627 आक्षेपवार्तिकम् ॥ 1 ॥) - तद्राजादीनां लुकि समासबहुत्वे प्रतिषेधः - (भाष्यम्) तद्राजादीनां लुकि समासबहुत्वे प्रतिषेधो वक्तव्यः। प्रिय आङ्ग एषां त इमे प्रियाङ्गाः। प्रियो वाङ्ग एषां त इमे प्रियवाङ्गा इति ॥ (प्रत्याक्षेपभाष्यम्) किमुच्यते समासबहुत्वे प्रतिषेध इति। यदा तेनेव चेत्कृतं बहुत्वम् इत्युच्यते। न चात्र तेनैव कृतं बहुत्वम्? (प्रत्याक्षेपसमाधानभाष्यम्) भवति वै किंचिद् - आचार्याः क्रियमाणमपि चोदयन्ति - तद्वा कर्तव्यम् - तेनैव चेद्बहुत्वमिति। समासबहुत्वे वा प्रतिषेध इति ॥ (1628 वार्तिकम् ॥ 2 ॥) - अबहुत्वे लुग्वचनम् - (भाष्यम्) अबहुत्वे च लुग्वक्तव्यः। अतिक्रान्तः अङ्गानत्यङ्ग इति। बहुवचने परतो यस्तद्राज इत्येवं च कृत्वा चोद्यते ॥ (आक्षेपभाष्यम्) अथ किमर्थं पुनरिदम्, न बहुवचन इत्येव सिद्धम् ? (समाधानभाष्यम) न सिध्यति। बहुवचन इत्युच्यते। न चात्र बहुवचनं पश्यामः ॥ (समाधानबाधकभाष्यम्) प्रत्ययलक्षणेन ॥ (समाधानसाधकभाष्यम्) न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ॥ (समाधानबाधकभाष्यम्) न लुमताङ्गस्य इति वक्ष्यामि ॥ (समाधानसाधकभाष्यम्) नैवं शक्यम्। इह हि दोषः स्यात् - पञ्चभिर्गार्गीभिः क्रीतः पटः पञ्चगार्ग्यो दशगार्ग्यः ॥ (1629 दूषणवार्तिकम् ॥ 3 ॥) - द्वन्द्वेऽबहुषु लुग्वचनम् - (भाष्यम्) द्वन्द्वे अबहुषु लुग्वक्तव्यः। गर्गवत्सवाजा इति। इह च लुग्वक्तव्यः - गर्गेभ्य आगतं गर्गरूप्यं गर्गमयमिति। इह चात्रय इति उदात्तनिवृत्तिस्वरः प्राप्नोति ॥ (प्रत्ययार्थबहुत्वस्थापनाधिकरणम्) (1630 समाधानवार्तिकम् ॥ 4 ॥) - सिद्धं तु प्रत्ययार्थबहुत्वे लुग्वचनात् - (भाष्यम्) सिद्धमेतत् ॥ कथम्? प्रत्ययार्थबहुत्वे लुग्वक्तव्यः ॥ (प्रत्ययार्थपक्षे गौरवभाष्यम्) यदि प्रत्ययार्थबहुत्वे लुगुच्यते, तेनापि, अस्त्रियाम् इति वक्तव्यम्। इह मा भूत - आङ्ग्यः स्त्रियः वाङ्ग्यः स्त्रिय इति ॥ यस्य पुनर्बहुवचने परतो लुगुच्यते तस्य ईकारेण व्यवहितत्वान्न भविष्यति। (प्रत्ययपक्षेपि गौरवभाष्यम्) यस्यापि तु बहुवचने परतो लुगुच्यते, तेनापि अस्त्रियाम् इति वक्तव्यम्। आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रिय इत्येवमर्थम् ॥ (बाधकभाष्यम्) अत्रापि चापा व्यवधानम् ॥ (साधकभाष्यम्) एकादेशे कृते नास्ति व्यवधानम् ॥ (बाधकभाष्यम्) एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव ॥ (1631 अर्थपक्षे दूषणवार्तिकम् ॥ 5 ॥) - द्वन्द्वेऽबहुषु लुग्वचनम् - (भाष्यम्) द्वन्द्वे अबहुषु लुग्वक्तव्यः। गर्गवत्सवाजा इति ॥ (1632 अर्थपक्षदूषणवार्तिकम् ॥ 6 ॥) - गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक् - (भाष्यम्) गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग्वक्तव्यः। बिदानामपत्यं माणवको बैदः। बैदौ ॥ (आक्षेपभाष्यम्) किमर्थमिदम्। नाचीत्येवालुक् सिद्धः? (समाधानभाष्यम्) अचीत्युच्यते। न चात्राजादिं पश्यामः ॥ (समाधानबाधकभाष्यम्) प्रत्ययलक्षणेन ॥ (समाधानसाधकभाष्यम्) वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥ (1633 वार्तिकम् ॥ 7 ॥) - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि - (भाष्यम्) एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि वक्तव्यः। बैदस्यापत्यं बहवो माणवका बिदाः। बैदयोर्वा बिदाः। अञ्ञ् यो बहुषु यञ्ञ्यो बहुष्वित्युच्यमानो लुङ्न प्राप्नोति ॥ (आक्षेपबाधकभाष्यम्) मा भूदेवम्। अञ्ञन्तं यद्बहुषु यञ्ञन्तं यद्बहुष्वित्येवं भविष्यति ॥ (आक्षेपसाधकभाष्यम्) नैवं शक्यम्। इह हि दोषः स्यात् - काश्यपप्रतिकृतयः काश्यपा इति ॥ (आर्थबहुत्वपक्षे दूषणपरिहारभाष्यम्) ततोयमाह - यस्य प्रत्ययार्थबहुत्वे लुक्। द्वन्द्वेऽबहुषु लुग्वचनमित्यस्य परिहारः - (1634 वार्तिकम् ॥ 8 ॥) - न वा सर्वेषां द्वन्द्वे बह्वर्थत्वात् - (भाष्यम्) न वा एष दोषः। किं कारणम्? सर्वेषां द्वन्द्वे बह्वर्थत्वात्। सर्वाणि द्वन्द्वे बह्वर्थानि ॥ कथम्? युगपदधिकरणविवक्षायां द्वन्द्वो भवति ॥ (बहुवचनप्रत्ययपक्षे दूषणपरिहारभाष्यम्) ततोयमाह - यस्य बहुवचने परतो लुक्, यदि सर्वाणि द्वन्द्वे बह्वर्थानि। अहमपीदमचोद्यं चोद्ये - द्वन्द्वेऽबहुषु लुग्वचनमिति ॥ ममापि ह्यत्र सर्वत्र बहुवचनं परं भवति ॥ (बाधकभाष्यम्) लुकि कृते न प्राप्नोति ॥ (परिहारसाधकभाष्यम्) प्रत्ययलक्षणेन भविष्यति ॥ (परिहारबाधकभाष्यम्) न लुमता तस्मिन् इति प्रत्ययलक्षमस्य प्रतिषेधः ॥ (परिहारसाधकभाष्यम्) न लुमताङ्गस्य इति वक्ष्यामि ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - नैवं शक्यम्। इह हि दोषः स्यात् - पञ्चभिर्गार्गीभिः क्रीतः पटः पञ्चगार्ग्यो दशगार्ग्य इति ॥ (समाधानभाष्यम्) इष्टमेवैतत्संगृहीतम् - पञ्चगर्गो दशगर्ग इत्येव भवितव्यम् ॥ (दूषणासंगतिभाष्यम्) तथेदमपरमचोद्यं चोद्ये - गर्गरूप्यं गर्गमयम्। अत्रापि बहुवचन इत्येव सिद्धम् ॥ कथम्? समर्थात्तद्धित उत्पद्यते। सार्मथ्यं च सुबन्तेन ॥ (परिहारभाष्यम्) ततोयमाह यस्य प्रत्ययार्थबहुत्वे लुक्। यदि समर्थात्तद्धित उत्पद्यते। अहमपीदमचोद्यं चोद्ये - गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग् इति। कथम्? यस्यापि बहुवचने परतो लुक् तेनाप्यलुग्वक्तव्यः। तस्यापि ह्यत्र बहुवचनं परं भवति ॥ (अलुग्वचनबाधकभाष्यम्) न वक्तव्यः। अचीत्येवालुक् सिद्धः ॥ (अलुग्वचनसाधकभाष्यम्) अचीत्युच्यते। न चात्राजादिं पश्यामः ॥ (अलुग्वचनबाधकभाष्यम्) प्रत्ययलक्षणेन ॥ (प्रत्ययलक्षणनिषेधस्मारणभाष्यम्) ननु चोक्तं वर्णाश्रये नास्ति प्रत्ययलक्षणम्इति ॥ (समाधानभाष्यम्) यदि वा कानि चिद्वर्णाश्रयाण्यपि प्रत्ययलक्षणेन भवन्ति तथेदमपि भविष्यति ॥ (समाधानान्तरभाष्यम्) अथ वाविशेषेणालुकमुक्त्वा हलि न इति वक्ष्यामि ॥ (आक्षेपभाष्यम्) यद्येवमविशेषेणालुकमुक्त्वाहलि न इत्युच्यते, बिदानामपत्यं बहवो माणवका बिदा अत्रापि प्राप्नोति ॥ (समाधानभाष्यम्) अस्तु। पुनरस्य युवबहुत्वे वर्तमानस्य लुग् भविष्यति ॥ (आक्षेपभाष्यम्) पुनरलुक्कस्मान्न भवति? (समाधानभाष्यम्) समर्थानां प्रथमस्य गोत्रप्रत्ययान्तस्यालुगुच्यते। न चैतत्समर्थानां प्रथमं गोत्रप्रत्ययान्तम्। किं तर्हि? द्वितीयमर्थमुपसंक्रान्तम् ॥ अवश्यं चैतदेवं विज्ञेयम्। अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङि्गरसिका कुत्सकुशिकिका इत्येवमर्थम् ॥ (1635 समाधानवार्तिकम् 9) - गर्गभार्गविकाग्रहणं वा नियमार्थम् - (भाष्यम्) गर्गभार्गविकाग्रहणं वा क्रियते तन्नियमार्थं भविष्यति - एतस्यैव द्वितीयमर्थमुपसंक्रान्तस्यालुग्भवति नान्यस्येति ॥ (दूषणपरिहारभाष्यम्) यदप्युच्यते - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि वक्तव्य इति ॥ मा भूदेवम् - अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्विति। अञ्ञन्तं यद्बहुषु यञ्ञन्तं यद् बहुष्वित्येवं भविष्यति ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - -नैवं शक्यम्। इह हि दोषः स्यात् - कश्यपप्रतिकृतयः काश्यपाः - इति ॥ (परिहारभाष्यम्) नैष दोषः। लौकिकस्य तत्र गोत्रस्य ग्रहणम्। न चैतल्लौकिकं गोत्रम् ॥ (दोषसाम्यभाष्यम्) यस्य बहुवचने परतो लुक्। समासबहुत्वे तेन नेति प्रतिषेधो वक्तव्यः। तेनैव चेत्कृतं बहुत्वमिति वा वक्तव्यम् ॥ यस्य प्रत्ययार्थबहुत्वे लुक् तेनास्त्रियामिति वक्तव्यम् ॥ (समाधानभाष्यम्) यस्य बहुवचने परतो लुक् तस्यायमधिको दोषः। अत्रय इति उदात्तनिवृत्तिस्वरः प्राप्नोति। तस्मात्प्रत्ययार्थबहुत्वे लुगित्येष पक्षो ज्यायान् ॥ (आक्षेपभाष्यम्) अथेह कथं भवितव्यं गार्गा च वात्स्यश्च वाज्यश्चेति ॥ (आक्षेपाशयभाष्यम्) यदि तावदस्त्री विधिनाश्रीयते अस्त्यत्रास्त्रीति कृत्वा भवितव्यं लुका। अथ स्त्री प्रतिषेधेनाश्रीयते अस्त्यत्र स्त्रीति कृत्वा भवितव्यं प्रतिषेधेन ॥ किं पुनरर्थसत्तत्त्वम्? (समाधानभाष्यम्) देवा ज्ञातुमर्हन्ति ॥ (आक्षेपभाष्यम्) अथ यो लोप्यलोपिनां समासस्तत्र कथं भवितव्यम्? (समाधानभाष्यम्) उभयं हि दृश्यते - शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु। नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् इति ॥ तद्राजस्य ॥ 62 ॥
Kashika¶
ते तद्राजाः (४.१.१७४), ञ्यादयस्तद्राजाः (५.३.११९) इति वक्ष्यति। तस्य तद्राजसंज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग् भवति, तेनैव चेत् तद्राजेन कृतं बहुत्वं भवति। अङ्गाः। वङ्गाः। पुण्ड्राः। सुह्माः। मगधाः। लोहध्वजाः। व्रीहिमन्तः। तद्राजस्येति किम्? औपगवाः। बहुष्विति किम्? आङ्गः। तेनैवग्रहणं किम्? प्रियो वाङ्गो येषां त इमे प्रियवाङ्गाः। अस्त्रियामिति किम्? आङ्ग्यः स्त्रियः॥
Siddhanta Kaumudi¶
बहुष्वर्थेषु तद्राजस्य लुक् स्यात्तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि । कथं तर्हि कौरव्याः पशवः, तस्येव रघोः पाण्ड्याः इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । रघूणामन्वयं वक्ष्ये, निरूध्यमाना यदुभिः कथंचित् इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया ॥
Laghu Siddhanta Kaumudi¶
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥
Balamanorama¶
तद्राजस्य बहुषु तेनैवास्त्रियाम् - तद्राजस्य ।ण्यक्षत्रियार्षे॑त्यतोलु॑गित्यनुवर्तते ।तेने॑त्यनन्तरं कृते बहुत्वेइत्यध्याहारः । तदाह — बहुष्विति । तदर्थकृतबहुत्वे इति । अञादिप्रत्ययान्तमात्रार्थगतबहुत्वे सतीत्यर्थः । तेनेति किम् । प्रियो वाङ्गो येषां ते प्रियवाङ्गा इत्यत्र बहुत्वस्यान्यपदार्थगतत्वाद्वाङ्गशब्दात्परस्य न लुक् । यद्यपि वर्तिपदार्थविसिष्टान्यपदार्थंगतं बहुत्वं वर्तिपदार्थगतमपि भवति, ततापि अञ्प्रत्ययान्तार्थवाङ्गमात्रगतं न भवतीति न लुक् । एतदर्थमेवकारग्रहणम् । इक्ष्वाकबः षञ्चाला इति ।जनपदशब्दा॑दिति विहिस्य अञो लुकि आदिवृद्धिनिवृत्तिः । इत्यादीति । अङ्गाः वङ्गा इत्यादि बोध्यम् । कतं तर्हीति । ‘कौरव्या’ इत्यत्र ण्यप्रत्ययस्य, ‘पाण्ड’ इत्यत्र डण्प्रत्ययस्य च तद्राजतया बहुषु लुक्प्रसङ्गादित्यर्थः । साधव इतीति । कौरव्यशब्दात्, पाण्डआशब्दाच्च ‘तत्र साधुः’ इति यत्प्रत्ययेयस्येति चे॑त्यकारलोपे यत्प्रत्ययस्य तद्राजत्वाऽभावान्न लुगित्यर्थः । ननु रघुयदुशब्दयोर्जनपदवाचित्वाऽभावात्प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाऽभावात्कथं बहुषु तस्य लुगित्याशङ्क्यपरिहरति-रघूणामिति । लक्षणयेति । ‘प्रयोग’ इति शेषः । ततश्च नेदमपत्यप्रत्यान्तमिति भावः । लक्षणाबीजं तु रघुयदुसमानवृत्तिकत्वं बोध्यम् ।
Tattvabodhini¶
तद्राजस्य बहुषु तेनैवास्त्रियाम् - तद्राजस्य । तदर्थेति । तद्राजप्रत्ययार्थेन कृत इत्यर्थः । तेनैवेति किम् । प्रियपाञ्चालाः । साधव इतीति । तथाचतत्र साधु॑रिति यत्प्रत्ययस्य तद्राजत्वाऽभावल्लुङ् नेति भावः । रघुयदुशब्दयोक्जनपदवाचित्वाऽभावादाभ्यां परस्य तद्राजसंज्ञा नेति लुकोऽप्रवृत्त्या राघवाणां यादवैरित्येव भवतिव्यमित्याशङ्क्याह -रघुयदुशब्दयोरिति । लक्षणयेति । ततश्चोक्तार्थत्वादपत्यप्रत्ययो नाऽत्रोत्पन्न इति भावः ।
Padamanjari¶
तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ इह बहुष्वित्यनेन जसादिबहुवचनं वा गृह्यएत? अर्थो वा ? आद्ये पक्षेऽयमर्थो भवति - जसादिषु बहुवचनेषु परतस्तद्राजस्यास्त्रीलिङ्गस्य लुगिति। द्वितीये - बहुष्वर्थेषु वर्तमानस्येति। बहुवचनशब्दे हि जसादिषु विनियुक्ते तदेकदेशेन बहुशब्देनापि जसादि शक्यं लक्षयितुम्। संज्ञानामेकदेशस्यापि प्रयोगदर्शनाद् भीमो भीमसेनः, सत्या सत्यभामेति। जसादीनां च बहुत्वाद् बहुष्विति बहुवचनोपपतिः। नन्वेवमपि मुख्यत्वादर्थग्रहणमेव युक्तम्? सत्यम्; तेनैव ग्रहणादस्य पक्षस्य सम्भवः। तद्धि प्रियवाङ्गा इत्यादौ बहुवचनं परमिति लुकः प्रसक्तस्य निवृतये कृतम्। अर्थग्रहणे चात्र तद्राजस्य बहुत्वे वृत्यभावादेव लुकोऽप्रसङ्गः। यद्येवम्, अस्मादेव लिङ्गाद् बहुवचनस्यैव निश्चयादर्तग्रहणस्यासम्भवः? उच्यते - अस्त्रियामिति प्रतिषेधादस्य पक्षस्य सम्भवः। तद्ध्याङ्ग्यः स्त्रिय इत्यादौ तद्राजस्य बहुषु वर्तमानस्य लुङ्मा भूदिति कृतम्। बहुवचनग्रहणे चात्र स्त्रीप्रत्ययेन व्यवधानादेव लुकोऽप्रसङ्गः। न चाम्बष्ठस्यापत्यानि बह्व्यः स्त्रियः’वृद्धेत्कोसलाजादाञ् ञ्यङ्’ ‘यङ्श्चाप्’ आम्बष्ठ।ल इत्यत्रेकादेशस्यान्तवद्भावादव्यवधानाल्लुक्प्रसङ्गः; एकादेशस्य पूर्वविधौ स्थानिवद्भावादत्रापि चापा व्यवधानात्। तदेवं लिङ्गद्वयदर्शनात्पक्षद्वयसम्भवः। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। तत्राद्यो पक्षेऽतिक्रान्तोऽङ्गानत्यङ्गः, अतिगर्गः, अङ्गेभ्य आगतोऽङ्गरूप्यः, गर्गरूप्य इत्यादौ बहुवचनपरत्वाभावाल्लुङ्न स्यात्। न चच वृत्यर्थे वाक्ये यच्छसादि बहुवचनं तत्रैव परतस्तस्यामेवावस्थायां लुग्लभ्यतेऽन्तरङ्गत्वादिति वाच्यम्; ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ इति वचनात्। न च लुप्तेऽपि तस्मिन्प्रत्ययलक्षणेन लुग्लभ्यः,’न लुमताङ्गस्य’ इति निषेधात्। ननु च न लुगङ्गस्य कार्यम्, किं तर्हि? तदेकदेशस्य प्रत्ययमात्रस्य, अङ्गरूप्य इत्यादौ च समर्थातद्धितोत्पतेः वृत्यर्थे वाक्ये यद्वहुवचनमङ्गेभ्य इत्यादि तत्रैव लुक् भविष्यति। इदं तर्हि - अत्रेरपत्यानि बहूनि ठितश्चानिञःऽ इति ढक्, तस्य’कितः’ इत्यन्तोदातत्वम्, तस्य जसि परतः ठत्रिभृगुऽ इति लुकि कृते उदातनिवृत्तिस्वरः प्राप्नोति, तस्माद् द्वितीयं पक्षमाश्रित्याह - बहुषु वर्तमानस्येति। नन्वत्रापि पक्षे आङ्गश्च वाङ्गश्च सौह्मश्र अङ्गवङ्गसुह्माः, गार्ग्यश्च वात्स्यश्च वाजयश्च गर्गवत्सवाजा इत्यादौ द्वन्द्वे लुग्न स्यात्; अत्र ह्यएकैकस्मिन्नेवार्थे प्रत्यय उत्पन्नः, पूर्वत्र तु पक्षेऽन्तिमस्यापि तावत्सिद्ध्यति, बहुवचनपरत्वात्? नैष दोषः; युगपदधिकरणतायां द्वन्द्वः, तत्रैकैकस्य वर्तिपदस्य बह्वर्थकत्वाल्लुग्भविष्यति। नन्वेवमपि तद्धिते उत्पत्तिदशायामेकैकस्मिन्नेवार्थे उत्पन्न इति तद्राजो यो बहुषु यञ् यो बहुषु अञ् यो बहुष्वित्युच्यमानो लुङ् न स्यादेव। नन्वत्र बहुष्वित्यनेन न प्रत्ययमात्रं विशेष्यते, किं तर्हि? प्रत्ययग्रहणपरिभाषया तदन्तग्रहणे सति तदन्तं विशेष्यते - तद्राजान्तं यद्वहुषु यञन्तं यद्बहुषु अञन्तं यद्वहुष्विति। यद्येवम्, कश्यपस्यापत्यं काश्यपः बिदाद्यञ्, तस्य प्रतिकृतय इति ठिवे प्रतिकृतौऽ इति कन्, तस्य’जीविकार्थे चापण्ये’ इति देवपथादिषु अर्चासु पूजनार्थास्विति पाठाद्वा लुपि कृते काश्यपा इत्यञन्तस्य प्रतिकृतिबहुत्वे लुक् प्राप्नोति? नैष दोषः;’यञञोश्च’ इत्यत्र’यस्कादिभ्यो गोत्रे’ इत्यतो’गोत्रे’ इत्यनुवर्तते, तेन गोत्रबहुत्वे लुक् प्रतिकृतिबहुत्वे न भविष्यति। नन्वेवमप्याङ्गस्यैकस्य प्रतिकृतयो बह्व्य इति तद्राजान्तस्य बहुषु वृतेर्लुक्प्रसङ्गः। नह्मत्रेदमस्ति - तद्राजान्तं यदपत्यं बहुत्वे वर्तत इति । एवं तर्हि तेनैव ग्रहणमस्मिन्पक्षे न कर्तव्यमित्युक्तं तदत्रोपयोक्ष्यामहे - यस्मिन्नर्थे लुग्भावी प्रत्यय उत्पन्नस्तेनैव चेत्कृतं बहुत्वमिति। इह चापत्ये प्रत्यय उत्पन्नः प्रतिकृतिकृतं च बहुत्वम्, यद्येवम्, आङ्गस्यापत्यानि ठणो द्व्यचःऽ इति फिञ्, तस्याब्राह्मणगोवमात्रादिति वा’तद्राजाच्चाणः’ इति वा लुक्, अङ्गाः, बैदस्यापत्यानि ठत इञ्ऽ,’ण्यक्षत्रिय’ इति लुक्, बिदाः, अत्र गोत्रे प्रत्यय उत्पन्नो युवकृतं चात्र बहुत्वामिति लुङ् न स्यात्? नैष दोषः; तेनैवेत्यस्य तज्जातीयेनैवेत्यर्थः, युवा चापत्यतया तज्जातीयो न प्रतिकृतिः। एवं च कृत्वा द्वन्द्वो यदा लोपिनामलोपिनां च भवति तदा न भवति - आङ्गदेवदतयज्ञदताः, गार्ग्यदेवदतयज्ञदताः। इह तु भार्गवश्च वात्स्यश्चाग्रायणश्च भृगुवत्साग्रायणा इति, यद्यपि नलोपिभिरेव कृतं बहुत्वम्, आग्रायणे नडादिफको लुगभावात्; तथाप्यपत्यतया तज्जातीयत्वमस्तीति लुग्भवत्येव। यद्येवम्, गार्ग्यश्च काश्यपश्च गालवश्च गार्ग्यकाश्यपगालवानामित्यत्र गालवे ऋष्यणो लुगभावेऽप्यपत्यतया तज्जातीयत्वाद्यञञोर्लुक्प्रसङ्गः। एवं तर्हि भृगुवत्साग्रायणेषु ठगार्ग्यकाश्यपगालवानाम्ऽ इति निर्देशद्वयाल्लोपिभिरपत्यप्रत्ययैः कृते बहुत्वे विकल्पः। तदेवं तद्राजान्तस्य बहुत्वे वर्तमानस्येति स्थितम्। वृतौ तु तद्राजसञ्ज्ञकस्य प्रत्ययस्य बहुषु वर्तमानस्येति व्यधिकरणो षष्ठ।ले, बहुषु वर्तमानस्यास्त्रीलिङ्गस्य तद्राजान्तस्य योऽवयवः प्रत्ययस्तस्येत्यर्थः। तेनैव चेतद्राजेनेति। अत्रापि तद्राजान्तेनेत्यर्थः। तद्राजेत्यापि लोपिप्रत्ययोपलक्षणम्। अङ्गगर्गलोहध्वजा इत्यादावपि भवतीत्याहुः। इहाङ्गस्यापत्यानि बहून्यङ्गास्तेषामपत्यं युवा युवानौ वा आङ्गः आङ्गाविति युवसङ्क्रान्तेः प्राग्गोत्रेऽलुगचीति प्रतिषेधाल्लुगभावः, पश्चातु बहुत्वाभावाद्। अचीति च विषयसप्तमी, तेन युवप्रत्यये पश्चाल्लुमता लुप्तेऽपि विषयभूत एव तस्मिन् प्रागेव लुकः प्रतिषेधः, लुप्तेऽपि वा प्रत्ययलक्षणेन। नन्वचीति वचनाद्वर्णाश्रयोऽयम्, नेत्याह; अचीति प्राग्दीव्यतीयस्य प्रत्ययस्य विशेषणं प्रत्ययश्च लुकि निमितम्। आङ्ग्यः स्त्रिय इति। इह च आङ्गी च वाङ्गश्च सौह्मश्चेति द्वन्द्रे आङ्गोतिशब्देन स्त्रीत्वयुक्तानामभिधानातदणो लुग्न भवति, आङ्गीवङ्गसुह्मा इति भवतीत्याहुः॥
Nyaas¶
बहुषु वर्तमानस्य इति। बहुष्वर्थेषु वर्तमानस्येत्यर्थःर। अथ बहुवचने परतः इत्येवं कस्मान्न व्याख्यायते? अशक्यमेवं वक्तुम्; यतः संख्यावाची बहुशब्दो न बहुवचनवाची। यदि तु बहुवचने परतः इत्ययमर्थोऽत्राभिमतः स्यात्, अस्त्रियामिति प्रतिषेधे न कुर्यात्; प्राप्त्यभावात्। न हि तद्राजान्तदुत्पन्नेन स्त्रीप्रत्ययेन व्यवहिते बहुवचने परतो लुकः प्राप्तिरस्ति। किञ्च, अत्त्रय इत्यत्र बहुचने परतो लुकि विधीयमाने उदात्तनिवृत्तिस्वरः प्रसज्येत। कथम्? अत्त्रेरपत्यानि बहूनीति इतश्चानिञः (4.1.122) इति ढकि तस्य तद्धितस्य, कितः (6.1.170,165) इत्यन्तोदात्तत्तत्वे कृते बहुवचने जसि परतः अत्त्रिभृगुकुत्सवसिष्ठ (2.4.65) इत्यादिना लुकि कृते अनुदात्तस्य च यत्रोदात्तलोपः (6.1.161) इति विभक्तेरुदात्तत्वं प्राप्नोति। तस्मात् बहुषु वत्र्मानस्येत्ययमेवार्थः। बहुष्विति च तद्राजान्तस्य विशेषणम्, न तद्राजस्य; अन्यथा हि द्वन्द्वे दोषः प्रसज्येत - आङ्गश्च वाङ्गश्च सौहृश्चाऽङ्गवाङ्गसुहृआ इत्यत्र हुङ् न स्यात्; न ह्यत्र तद्राजो बहुषु वर्तते। तदन्तस्तु वर्तते, युगपदधिकरणवचनो हि द्वन्द्व इति कृत्वा। तस्मात् तद्राजान्तस्यैवेदं विशेषणम्, न तद्राजस्य।तद्राजसंज्ञकस्य प्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग्भवति इत्ययं तु वृत्तिग्रन्थ एवमुन्नेयः - बहुषु वर्तमानस्यास्त्रीलिङ्गस्य तद्राजान्तस्य यः सम्बन्धी तद्राजसंज्ञकः प्रत्ययस्तस्य तद्राजसंज्ञकस्य प्रत्ययस्य लुग्भवति। कथम्? तद्राजान्तस्यैवैतत् सामर्थ्यं लब्धम्। न ह्रतद्राजान्तस्य तद्राजसंज्ञकः प्रत्ययः सम्बन्धी भवति। सूत्रेऽप्यन्तग्रहणं न कृतम्; प्रत्ययग्रहणपरिभाषयैव तदन्त स्य लब्धत्वात्। तथापि प्रत्ययान्तस्य लुगुच्यमानः प्रत्ययमात्रस्यैव विज्ञायते; प्रत्ययस्य लुक्श्लुलुपः (1.1.61) इति प्रत्ययादशनस्यैव लुक्संज्ञाविधानात्। तेनैव चेत् इति। तद्राजप्रत्ययान्तेनैवेत्यर्थः। अङ्गाः, वङ्गाः, सुह्माः इति। अङ्गस्यापत्यानि बहुनि। द्वयञ्मगध (4.1.168) इत्यादिनाऽण्, तस्य लुक्। लोहध्वजाः, व्रीहिमन्तः इति। पूगाञ्ञ्योऽग्रामणीपूर्वात् (5.3.112) इति ञ्यप्रत्ययः, तस्य लुक्।औपगवाः इति। प्राग्दीव्यतोऽण (4.1.83) प्रियवाङ्गाः इति। बहुव्रीहिः। नात्र तद्राजप्रत्ययेन बहुत्वं किं तर्हि? समासेन। न चासौ तद्राजप्रत्ययान्तःच ततस्तद्राजस्याविहितत्वात्। तद्येवम्, द्वन्द्वोऽपि, तद्राजप्रत्ययान्तो न भवतीति तत्रापि लुङ न स्यात्? नैतत् ; यदि द्वन्द्वोऽपि तद्राजप्रत्ययान्तो न भवति, तथापि प्रत्येकं द्वन्द्वावयवास्तद्राजप्रत्ययान्ता गह्वर्थाश्चेति तत्र भवत्येव लुक। न च बहुष्वित्यर्थग्रहणम्, यश्च बह्वर्थस्तत्रावश्यमेव तत्कृतेन बहुत्वेन भवितव्यम्, तत्क तेनैवेत्यनेन? एवं मन्यते - अन्तरङ्गत्वात् तद्राजप्रत्ययोत्पत्तिवेलायां यद्बहुत्वमुपजायते तदेव यदि गृह्रते, न तु तत्पदान्तरापेक्षम्, ततश्च द्वन्द्वेषु लुग् न स्यात्। तेनैवग्रहणं तु द्वितीयोऽयं यत्न इति - यः प्रत्ययान्तस्य बहुत्वं तेनैव क्रियते, यच्च पदान्तरापेक्षेणापि तत्र सर्वत्र भवतीति। यद्येवम्, इहापि प्राप्नोति - प्रियवाङ्गा इति? नैष दोषः; एवकारो ह्यत्र क्रियते। स तुल्यजातीयापेक्षयैव नियमं करोति, लोपिबिरेव यत् कृतं बहुत्वमिति। न च प्रियवाङ्गा इत्यत्र लोपिभिरेव कृतं बहुत्वम्, यस्मादत्र किञ्चिल्लोपि पदं किञ्चिदलोपि, एवञ्च नियमे सति द्वन्द्वे सति द्वन्द्वेऽपि यत्र लोप्यलोपिनां तत्रापि न भवति - नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् (8.4.67) इति, अत्र गाग्र्यकाश्यपयोः यञिञोश्च (4.1.101) इति लोपः प्राप्नोति। गालवस्य तु ऋष्यणन्तत्वान्नास्ति लुकः प्राप्तिः। आङ्ग्यः इति। टिड्ढाणञ् (4.1.15) इति ङीप्॥
Prakriyasarvasvam¶
तद्राजप्रत्ययस्य तेनैव कृते बहुत्वे सति स्त्रीलिङ्गादन्यत्र लुग् स्यात् । कौञ्जायन्यः कौञ्जायन्यौ कौञ्जायनाः । तेनैव कृते बहुत्व इत्युक्तेः प्रियकौञ्जायन्या इत्यत्रान्यपदार्थकृतं बहुत्वमिति ञ्यस्य लुक् न । एवं व्राध्नायन्य इत्यादि । अप्रसिद्धत्वाद् गणेषु सर्वानुक्तिर्ज्ञेया । नडपुत्रो नाडिः । तत्पुत्रे तु—