24070: आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्¶
Padacheda: आगस्त्य-कौण्डिन्ययोः | S | 6 | 2 |
अगस्ति-कुण्डिनच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
There is लुक् elision of the गोत्र affixes अण् and यञ् of the words अगस्त्य , and कौणडिन्य , when they take the plural and the words अगस्ति and कण्डिनच् are the substitutes of the bases so remaining after the elision.
Vasu English Translation¶
There is लुक् elision of the गोत्र affixes अण् and यञ् of the words अगस्त्य , and कौणडिन्य , when they take the plural and the words अगस्ति and कण्डिनच् are the substitutes of the bases so remaining after the elision. The plural of आगस्त्य is अगस्तयः (as if it was the plural of अगस्ति) and of कौण्डिन्यः is कुण्डिनाः. The affix अण् (4.1.114) after आगस्त्य and the affix यञ् (4.1.105) after कौण्डिन्य are elided.
The च in कुण्डिनच् is indicatory and regulates the accent (4.1.163); the word कुण्डिन has udatta on the middle vowel; and its substitute will also have the same accent. There is no elision however in आगस्तीयाश्छात्रा (4.1.89) कौण्डिनाश्छात्राः (IV. 2. III).
Bhashya¶
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् (601) (371 प्रकृत्योरादेशसूत्रम् ॥ 2.4.2 आ.6सू.) (प्रकृत्यादेशत्वनिर्णयाधिकरणम्) (1639 वार्तिकम् ॥ 1 ॥) - आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् - (भाष्यम्) आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनं कर्तव्यम्। अगस्ति - कुण्डिनजित्येतौ प्रकृत्यादेशौ भवत इति वक्तव्यम् ॥ किं प्रयोजनम्? (1640 वार्तिकद्वितीयखण्डम् ॥ 2 ॥) - लुक्प्रतिषेधे वृद्ध्यर्थम् - (भाष्यम्) लुक्प्रतिषेधे वृद्धिर्यथा स्यात् ॥ (1641 वार्तिकतृतीयखण्डम् ॥ 3 ॥) - प्रत्ययान्तनिपातने हि वृद्ध्यभावः - (भाष्यम्) प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात्। आगस्तीयाः कौण्डिना इति ॥ (आक्षेपभाष्यम्) यदि प्रकृतिनिपातनं क्रियते। केनेदानीं प्रत्ययस्य लोपो भविष्यति? (1642 वार्तिकम् ॥ 4 ॥) - अधिकारात्प्रत्ययलोपः - (भाष्यम्) अधिकारात्प्रत्ययलोपो भविष्यति ॥ (आक्षेपभाष्यम्) तत्तर्हि प्रकृतिनिपातनं कर्तव्यम्? (समाधानभाष्यम्) न कर्तव्यम् ॥ (1643 वार्तिकम् ॥ 5 ॥) (- योगविभागात् सिद्धम् -) (भाष्यम्) योगविभागः करिष्यते - (ठठआगस्त्यकोण्डिन्ययोः) आगस्त्यकौण्डिन्ययोर्बहुषु लुग्भवति। ततः(ठठअगस्ति कुण्डिनच्) अगस्तिकुण्डिनजित्येतौ च प्रकृत्यादेशौ भविष्यतः आगस्त्यकौण्डिन्ययोरिति ॥ (प्रत्याक्षेपभाष्यम्) एवमपि प्रत्ययान्तयोरेव प्राप्नोति। प्रत्ययान्ताद्धि भवान् षष्ठीमुच्चारयति - आगस्त्यकौण्डिन्ययोः इति ॥ (समाधानभाष्यम्) नैष दोषः। यथापरिभाषितं प्रत्ययस्य लुक्श्लुलुपो भवन्तीति प्रत्ययस्यैव भविष्यति। अवशिष्टस्यादेशो भविष्यतः ॥ आगस्त्य ॥ 70 ॥
Kashika¶
आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोरणो यञश्च बहुषु लुग् भवति, परिशिष्टस्य च प्रकृतिभागस्य यथासंख्यमगस्ति कुण्डिनच् इत्येतावादेशौ भवतः। अगस्तयः। कुण्डिनाः। चकारःस्वरार्थः। मध्योदात्तो हि कुण्डिनीशब्दस्तदादेशोऽपि तथा स्यात्। अगस्त्यशब्दादृष्यण्। कुण्डिनीशब्दाद् गर्गादित्वाद् यञ्। तयोः **गोत्रेऽलुगचि**(४.१.८९) इति लुकि प्रतिषिद्ध आगस्तीयाश्छात्रा इति वृद्धलक्षणश्छो भवति। कौण्डिन्ये त्वणैव भवितव्यं **कण्वादिभ्यो गोत्रे**(४.२.१११) इति। तत्र विशेषो नास्ति। कौण्डिनाश्छात्राः॥
Siddhanta Kaumudi¶
एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक् स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासंख्यमगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥
Padamanjari¶
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्॥ कुण्डिनोशब्दस्य यञि’भस्या’ ढेअ तद्धितेऽ इति पुंवद्भावे’नस्तद्धिते’ इति लोपे कौण्ड।ल् इति प्राप्नोति, अस्मादेव निपातनात्पुंवद्भावः। असति च तस्मिन्नीकारस्य यस्येति लोपः, तस्य स्थानिवत्वादाभीयत्वेनासिद्धत्वाद्वा टिलोपाभावः। आगस्त्यकौण्डिन्येत्येतयोर्गोत्रप्रत्यययोरिति व्यधिकरणे षष्ठयौ, एतयोर्याववयवावीत्यर्थः। तावेव स्वरूपेण दर्शयति - अणश्च यञश्चेति। मध्योदातो हि कुण्डिनीशब्द इति। कुण्डमस्यातीति ठतैनिठनौऽ प्रत्ययस्वरः, ङीबनुदातः। ननु मानुवृतं लुग्ग्रहणम्, प्रत्ययान्तयोरवादेशौ स्तामत आह - तयोरित्यादि। यदि हि प्रत्ययान्तयोरेवादेशौ स्याताम् -‘गोत्रे’ लुगचिऽ इति प्रतिषेधो न स्याद्, लुको ह्यसौ निषेधो नादेशस्य, ततश्चादेशे सत्यवृद्धत्वादणेव स्यात्; लुकि तु सति तस्य प्रतिषेधे तत्सन्नियोगशिष्टस्यादेशस्याप्यभावाद्धृद्धलक्षणश्चो भवति। तत्र विशेषो नास्तीति किमर्थ तर्हीदमुक्तम् - अणश्च यञश्च बहुषु लुग्भवतीति? एवं मन्यते - यदि कुण्डिनजादेशः समुदायस्य स्याद् अगस्त्यादेशोऽपि तथा स्याद्; अतोऽवश्यं लुगनुवर्त्त्यः, अनुवृतस्य च कौण्डिन्येनापि संबन्धः; विरएधाभावादिति॥
Nyaas¶
यद्यपि प्रत्ययान्तात् षष्ठ्युच्चारिता, तथापि प्रत्ययस्यैव लुग्विज्ञायते, न तदन्तस्य; यस्मात् प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तदन्तस्येत्यालोच्याह - आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोः इति। व्यधिकरणे षष्ठ्यौ। आगस्त्यकौण्डिन्ययोर्याववयवौ गोत्रप्रत्ययौ तयोरित्यर्थः। तावेव प्रत्ययौ स्वरूपेण दर्शयन्नाह - अणो यञश्च इति। यञो यद्यपि लुक् सिद्धस्तथापि पुनर्विधीयते कुण्डिनजादेशेन तस्य बाधा मा विज्ञायीति। मध्योदात्तो हि कुण्डिनीशब्दः इति। कुण्डमस्यास्तीति अत इनिठनौ (5.2.115) इतीनिप्रत्यये कृते प्रत्ययस्वरेण। तदादेशोऽपि तथा स्यात् इति। स्थानिवद्भावेन मध्योदात्तः स्यात्। चित्करणान्मध्योदात्तत्वं न बवति। किमर्थं पुनः प्रत्ययान्तरयोरेवायमादेशो न क्रियत इत्याह - तयोः इत्यादि। यदि प्रत्ययान्तयोरेवायमादेशः स्यात गोत्रेऽलुगचि (4.1.89) इति प्रतिषधो न स्यात्। यस्माल्लुकोऽसौ प्रतिषेधो नादेशस्येति स्यादेवात्रादेशः, ततश्चावृद्धादणेव स्यात्; एवं चागस्ता इत्यनिष्टं रूपं स्यात्। यद्यपि वृद्ध्सयादेशः स्यानिवद्भावाद् वृद्धग्रहणेन गृह्रते तथाप्यगस्तीया इति स्यात्, आगस्तीया इति न सिध्यति। न च स्थानिवद्भावो लभ्यते; वृद्धसंज्ञाया अल्विधित्वात्। इह प्रत्ययस्य तु लुकि परिशिष्टस्यादेशे विहिते गोत्रेऽलुगचि (4.1.89) इति लुकि च प्रतिषिद्धे वृद्धाच्छः (4.2.114) सिद्धो भवति। तत्र विशेषो नास्ति इति। सत्यामपि वृद्धसंज्ञायां कण्वादिभ्यो गोत्रे (4.2.111) इति च्छापवदेनाणैव भवितव्यमिति नास्ति कौण्डिन्ये विशेषः॥
Prakriyasarvasvam¶
अनयोर्बहुत्वेऽपत्यप्रत्ययस्य लुक्, क्रमादेतावादेशौ च स्तः । चः स्वरार्थः । आगस्त्यः आगस्त्यौ अगस्तयः । एवं कुण्डिनाः ॥