24061: न तौल्वलिभ्यः¶
Padacheda: न | S | 0 | 0 |
तौल्वलिभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
After the words तौल्वलि and the rest, there is no लुक् elision of the युवन् affix.
Vasu English Translation¶
After the words तौल्वलि and the rest, there is no लुक् elision of the युवन् affix. After the words तौल्वलि and the rest there is not luk-elision of the Yuvan affix.
तोल्वलि. 2. धारणि. 3 पारणि. 4 रावणि. 5. दैलीपि. 6. दैवति. 7. वार्कलि. 8. नैवति. 9. नैवकि. 10. ढैवमित्रि 11 दैवमति. 12. दैवयज्ञि. 13 चाफदृकि 14. वैल्वकि. 15. वैकि. 16. वैङ्कि. 17. आनुहारति. 18. आनुराहति. 19. पौष्करसादि. 20. आनुरोहति. 21. आनुति. 22. प्रदोहनि. 23. नैमित्रि. 24. प्राडाहति. 25. बान्धकि. 26. वैशीति. 27. आसिनासिं. 28. आहिसि. 29. आसुरि. 30. नैमिषि. 31. आसिबन्ध कि 32. पौष्पि. 33. कारेणुपालि. 34. वैकर्णि. 35. वैरकि. 36. वैहति ॥
Kashika¶
अनन्तरेण प्राप्तो लुक् प्रतिषिध्यते। तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य न लुग् भवति। तौल्वलिः पिता। तौल्वलायनः पुत्रः॥ तौल्वलि। धारणि। रावणि। पारणि। दैलीपि। दैवलि। दैवमित्रि। दैवयज्ञि। प्रावाहणि । मान्धातकि। आनुहारति। श्वाफल्कि। आनुमति। आहिंसि। आसुरि। आयुधि। नैमिषि। आसिबन्धकि। बैकि। आन्तरहाति। पौष्करसादि। वैरकि। वैलकि। वैहति। वैकर्णि। कारेणुपालि। कामालि॥
Siddhanta Kaumudi¶
तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तः । तुल्वलः, तत इञि फक्, तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥
Balamanorama¶
न तौल्वलिभ्यः - न तौल्वलिभ्यः । बहुवचनात्तौल्वल्यादीनां ग्रहणमित्याह — तौल्वल्यादिभ्यः परस्येति । पूर्वेणेति ।इञः प्राचा॑मित्यनेन प्राप्तो लुगनेन प्रतिषिध्यत इत्यर्थः । तुल्वल इति । तुल्वलो नाम प्राच्यः कश्चित् । तस्य गोत्रापत्यं तौल्वलिः ।अत इञ् । तस्यापत्यं युवा तौल्वलायनः ।यञिञोश्चे॑ति फक् ।
Tattvabodhini¶
न तौल्वलिभ्यः - युवप्रत्ययस्य लुगिति । पीलाया वेत्यादि । अपत्येऽणि विहिते गोत्रापत्येऽप्यणेव,एको गोत्रे॑इति वक्ष्यमाणत्वात् । ततोऽणन्तात्पैलशब्दादपत्येऽपि विधीयमानः फैञ् युवापत्ये पर्यवस्यति । तस्य च फिञोऽनेन लुगित्यर्थः । एवं च पीलाया अपत्ये गोत्रापत्ये युवापत्ये चाऽवैरूप्येण पैलशब्दः प्रयुज्यत इत्याह -पैलः पिता पुत्रश्चेति । पैलादिषु ये इञन्ता शालङ्किसात्यकिऔदमेयिपैङ्गलिप्रभृतयस्तेभ्यःइञः प्राचा॑मिति लुकि सिद्धे अप्राचामर्थः पाठ इति ज्ञेयम् । तद्राजाच्चाणः । गणसूत्रमिदम् । तद्राजसंज्ञाकात्परस्य युवप्रत्ययस्य लुगित्यर्थः ।तच्चेद्गोत्रं प्राचां भवतीति । इह प्राचाङ्ग्रहणं गोत्रविशेषणं, न तुप्राचामवृद्धा॑दित्यादिवग्विकल्पार्थमित्यर्थे व्याख्यानं शरणम् । दाक्षिः पितेत्यादि । दक्षस्यापत्यं गोत्रापत्यं च पुमान्दाक्षिः । युवापत्यं तु दाक्षयण तु दाक्षायण इति भावः । न तोल्वलिभ्यः । बहुवचननिर्देशाद्गणपाठसामर्थ्याच्चाद्यर्थावगतिरित्यभिप्रेत्याह -तोल्वल्यादिभ्य इति । देवमित्र । देवयज्ञि । आआफल्कि । आसुरि । नैमेषि । पौष्करसादि । वैकर्णीत्यादि तौल्वल्यादिः ।
Padamanjari¶
न तौल्वलिभ्यः॥’तुल उपमाने’ , औणादिको वलच्। तुल्वलः। धारयतिपारयतिभ्यां नन्द्यादिल्युः - धारणः, पारणः। देवा मित्रमस्येति देवमित्रः। देवेभ्यो यज्ञोऽस्य देवयज्ञः।’पुष पुष्टौ’ , क्यप्, पुष्यः। विलक्षणौ कर्णावस्य विकर्णः। करेणुं पालयति करेणुपालः। ठसु क्षेपणेऽ, कुरच् - असुरः।’हृञ्हरणे’ , अनुपूर्वाल्लटः शत्रादेशः, पुष्करे सीदतीति पुष्करसत्, बाह्वादी अनुशतिकादी च। परिशिष्टाः पारायणे द्रष्टव्याः॥
Nyaas¶
तौल्वल्यादिष्वान्तरहातिशब्दः पौष्करसादिशब्दश्च बाह्वादी इञन्तौ। बाह्वादिषु ह्रन्तरहच्छब्दः पुष्करसच्छब्दस्य पठएते; अत्रोभयपदवृद्धिकश्चानुरशतिकादित्वात्। शेषास्तु अत इञ् (4.1.95) इति इञन्ताः॥