24073: बहुलं छन्दसि¶
Padacheda: बहुलम् | S | 1 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) there is diversely the लुक् elision of the विकरण शप् – कर्तरि शप् (3.1.68).
Vasu English Translation¶
In the छन्दस् (Vedas) there is diversely the लुक् elision of the विकरण शप् – कर्तरि शप् (3.1.68). There is elision in other conjugations than Adadi; and there is sometimes even no elision in Adadi verbs. As वृत्रं हनति ‘he kills Vritra.’ हन् + शप् + ति = हनति instead of हन्ति । So also, अहिः शयते instead of शेते. (Rig.V. I.32.5). In these cases the Vikarana शप् has not been elided.
In some cases the शप् is elided as त्राध्वम् नो देवाः instead of त्रायध्वम् ॥
Kashika¶
छन्दसि विषये शपो बहुलं लुग् भवति। अदिप्रभृतिभ्य उक्तस्ततो न भवत्यपि। वृ॒त्रं ह॑॑॑नति (ऋ० ८.८९.३)। अहि॑॑ः॑ शयते (ऋ०१.३२.५)। अन्येभ्यश्च भवति — त्राध्वं॑ नो देवाः(ऋ०२.२९.६)॥
Siddhanta Kaumudi¶
वृत्रं हनति वृत्रहा । अहिः शयत उप पृक्पृथिव्याः (अहिः॑ शयत उप॒ पृक्पृ॑थि॒व्याः) । अत्र लुङ्ग । अदादिभिन्नेऽपि क्वचिल्लुक् । त्राध्वं नो देवाः (त्राध्वं॑ नो दे॒वाः) । जुहोत्यादिभ्यः श्लुः (SK2489) ॥
Nyaas¶
त्राध्वम् इति। त्रैङ पालनै (धातुपाठः-965) भौवादिकः, लोट, ध्ममादेशः, टेरेत्त्वम्, सवाभ्यावामौ (3.4.91) इत्यमादेशः॥
Prakriyasarvasvam¶
<karika>’अदिप्रभृतिभ्यः—’ (२-४-७२) इत्युक्तः शपो लुग् बहुलं स्यात् । लोकेऽप्ययमशादेशोऽस्त्यन्वादेशे तथापि तु । स्वरमात्रे भिदेत्येतत्सूत्रं छान्दस ईरितम् ॥ ८७१ ॥</karika> वृत्रं हनति वृत्रहेत्यत्र नत्राध्वं नो देवा इति भूवादेरपि स्यात् ।