24075: जुहोत्यादिभ्यः श्लुः

Padacheda: जुहोति-आदिभ्यः | S | 5 | 3 |

श्लुः | S | 1 | 1 |

Sutrartha


Vasu English Summary

After the verbs हू ‘to sacrifice’ and others there is श्लु elision of the विकरण शप् – कर्तरि शप् (3.1.68).

Vasu English Translation

After the verbs हू ‘to sacrifice’ and others there is श्लु elision of the विकरण शप् – कर्तरि शप् (3.1.68). These verbs belong to the Juhotyadi class. जुहोति ‘he sacrifices’ (7.1.10). श्लु causes the reduplication of the root. So also बिभेति ‘he fears.’ निनेक्ति from निज् ‘to purify, he purifies.’

Kashika

शबनुवर्तते, न यङ्। जुहोत्यादिभ्य उत्तरस्य शपः श्लुर्भवति। लुकि प्रकृते श्लुविधानं द्विर्वचनार्थम्। जुहोति। बिभर्ति। नेनेक्ति॥

Siddhanta Kaumudi

{$ {!1083 हु!} दानादनयोः $}। आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः ॥ शपः श्लुः स्यात् ॥

Laghu Siddhanta Kaumudi

{$ {! 1 हु !} दानादनयोः $} (धातुपाठे (03.0001)) ॥ शपः श्लुः स्यात्॥

Balamanorama

जुहोत्यादिभ्यः श्लुः - जुहोत्यादिभ्यः श्लुः । शप इति । ‘अदिप्रभृतिभ्यः’ इत्यस्तदनुवृत्तेरिति भावः । हु अ इति स्थिते शपः श्लौ कृते हु तीति स्थिते श्लुः । शप इत ।अदिप्रभृतिभ्यः॑इत्यतस्दनुवृत्तेरिति भावः । हु अ स्थिते शपः श्लौ कृते हु तीति स्थिते —

Padamanjari

जुहोत्यादिभ्यः श्लुः॥ शबनुवर्तते, न यडिति। श्लाविति द्विर्वचनविधानात्। यङ्नुवृतौ हि श्लुना तत्र लुप्तेऽपि’सन्यङेः’ इति षष्ठ।लश्रयणाद् द्विर्वचनसिद्धेरनर्थकं तत्स्यात्। बिभर्तीति।’भृञामित्’ इत्यभ्यासस्येत्वम्। नेनेक्तीति।’णिजिर्शौचपोषणयोः’ ‘णिजां त्रयाणां गुणः श्लौ’ ॥

Nyaas

शबनुवर्तते, न यङ इति। शब एव स्वरितत्वप्रतिज्ञानात्। जुहोति इति। श्लौ (6.1.10) द्विर्वचनम्। बिभर्ति` इति। उरत्ट (7.4.66) इत्यत्त्वम्। `रपरत्वम्। `भृञामित् (7.4.76) इतीत्त्वम्। नेनेक्ति इति। णिजिर् शौचपोषयोः (धातुपाठः-1093) , निजां त्रयाणां गुणः (7.4.75) , श्लौ (6.1.10) इति द्वर्वचनम्॥

Prakriyasarvasvam

एभ्यः शपः श्लुः स्यात् । लोप इत्यर्थः ।