24076: बहुलं छन्दसि

Padacheda: बहुलम् | S | 1 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) there is elision of the शप् diversely.

Vasu English Translation

In the छन्दस् (Vedas) there is elision of the शप् diversely. Elision does not take place where ordained, and takes place where not ordained. दाति प्रियाणि (instead of ददाति) ‘he gives pleasant objects,’ धाति instead of दधाति ।

So also there is slu-elision of the vikaranas after roots other than those belonging to the Juhotyadi class. Thus; पूर्णां विवष्टि, जनिम विवक्ति.

Kashika

छन्दसि विषये बहुलं शपः श्लुर्भवति। यत्रोक्तं तत्र न भवति, अन्यत्रापि भवति। जुहोत्यादिभ्यस्तावद् न भवति। दाति॑॑॑ पि्॒रयाण्ि॑ा॑ (ऋ०४.८.३)। धाति दे॒वम् (ऋ०७.९०.३)। अन्येभ्यश्च भवति। पू॒र्णां वि॑॑वष्टि (ऋ०७.१६.११)। जनि॑॑मा विवक्ति(ऋ०९.९७.७)॥

Siddhanta Kaumudi

दाति प्रियाणिचिद्वसु (दाति॑ प्रि॒याणि॑चि॒द्वसु॑) । अन्यत्रापि । पूर्णां विवष्टि ॥

Nyaas

दाति, धाति इति। ददातिदधात्योः पूर्वसूत्रेण श्लौ प्राप्ते बहुलं प्रतिषिध्यते। शपो लुक्। विवष्टि इति। वश कान्तौ (धातुपाठः-1080), अदादित्वाच्छपो लुकि प्राप्ते श्लुः, श्लौ (6.1.10) इति द्वर्वचनम्, भृञामित् (7.4.76) इत्यनुवर्तमाने बहुलं छन्दसि (7.4.78) इतीत्त्वम्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्। ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्। विभक्ति इति। भज सेवायाम् (धातुपाठः-998) भौवादिकः,शपः श्लुः, पूर्ववदित्त्वम्, चोः कुः (8.2.30) ) इति कुत्वम्। विवक्ति इति क्वचित्पाठः। स च वच परिभाषणे (धातुपाठः-1063) इत्येतस्यादादिकस्य वेदितव्यः॥अगात् इति। इमो गा लुङि (2.4.45) इति गादेश-। अपात् इति। पा पाने (धातुपाठः-925)। अभूत् इति। भूसुवोस्तिङि (7.3.88) इति गुणप्रतिषेधः॥गापोग्र्रहणे इण्पिवत्योग्र्रहणम् इति। इणादेशस्य ग्रहणं तावद्गातीत्यत एव श्तिपा निर्देशाद्विज्ञायते। श्तिपा हि विकरणशून्य एवमर्थो निर्देशः क्रियते - लुग्विकरणस्यैव ग्रहणं यथा स्यादिति; अन्यथा हि यदि गायतेग्र्रहणमिष्टं स्यात् तदा गा इत्येवं ब्राऊयात्। एवं तर्हि गामादाग्रहणेष्वविशेषः (व्या।प।124) इत्युभयोरपि ग्रहणं भविष्यति, किं श्तिपा निर्देशेन? तस्मादयमेव श्तिपा निर्देशो ज्ञापयति - इमादेश्सयैवेदं ग्रहणम्, न गायतेरिति। पाग्रहणे पिबतेरेव गर्हणमित्येतदपि लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम् (व्या।प।50) इत्यनया परिभाषया विज्ञायते। अघासीत् इति। कै गै शब्दे (धातुपाठः-916,917) यमरमनमातां सक् च (7.2.73) इति सगागमः। सिच्, इट् च। अस्तिसिचोऽपृक्ते (7.3.96) इतीट्। `इट ईटि (8.2.28) इति सिचो लोपः। अपासीत् इति। पा रक्षणे (धातुपाठः- 1056) पूर्ववत् सगादिकार्यम्।आगासाताम् इति। कर्मण्यात्मनेपदम्। आताम्। किमर्थं पुनः सिचो लुगुच्यते, न लेरित्येवोच्येत? अत्राप्ययमर्थः सम्पाद्यते, उत्तरसूत्रे लिग्रहणं न कर्तव्यं भवति? नैतदस्ति; इह लेर्हि लुकि विज्ञायमाने मा हि गातामिति आदिः सिचोऽन्यतरस्याम् (6.1.187) इत्यादिः स्वरो न सिद्ध्येत्,स पुनरुदात्तः। अगुरित्यत्रापि आतः (3.4.110) इति सिजभ्यस्तविदिभ्यश्च (3.4.109) इति झेर्जुस्भावो न सिद्ध्यति। तस्मात् सिच एव लुग् वक्तव्यः॥

Prakriyasarvasvam

<karika>जुहोत्यादिभ्य इत्युक्तः शपः श्लुर्बहुलं भवेत् । बिभेतेस्तेन न श्लुः स्यात् ‘यत इन्द्रभयामहे’ ॥ ८७२ ॥</karika>