Sutras 1 - 20¶
- 22001: पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे
- 22002: अर्धं नपुंसकम्
- 22003: द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्
- 22004: प्राप्तापन्ने च द्वितीयया
- 22005: कालाः परिमाणिना
- 22006: नञ्
- 22007: ईषदकृता
- 22008: षष्ठी
- 22009: याजकादिभिश्च
- 22010: न निर्धारणे
- 22011: पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन
- 22012: क्तेन च पूजायाम्
- 22013: अधिकरणवाचिना च
- 22014: कर्मणि च
- 22015: तृजकाभ्यां कर्तरि
- 22016: कर्तरि च
- 22017: नित्यं क्रीडाजीविकयोः
- 22018: कुगतिप्रादयः
- 22019: उपपदमतिङ्
- 22020: अमैवाव्ययेन