22017: नित्यं क्रीडाजीविकयोः

Padacheda: नित्यम् | S | 1 | 1 |

क्रीडा-जीविकयोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

A word ending with a sixth case-affix is invariably compounded with a word ending with अक , when these affixes denote a sport or livelihood; and the compound is तत्-पुरुष।

Vasu English Translation

A word ending with a sixth case-affix is invariably compounded with a word ending with अक , when these affixes denote a sport or livelihood; and the compound is तत्-पुरुष। This is a Nitya-samasa incapable of analysis. This anuvritti of the word ‘na’ which began with sútra 10, does not extend further. The affix तृच् never has the sense of sporting or livelihood; the only examples possible are of ‘aka.’ Thus उद्दालकपुष्पभजिका ‘a sort of game played by the people in the eastern districts in which uddalaka flowers are broken or crushed.’ So also वारणपुष्पप्रचायिका ‘a play of gathering flowers.’

So also दन्तलेखकः ‘one who earns his bread by painting or marking the teeth.’ नखलेखक ‘a nail-painter by profession.’

Why do we say ‘when meaning sporting or livelihood.’ Observe ओदनस्य भोजकः.

Bhashya

नित्यं क्रीडाजीविकयोः (437) (277 तत्पुरुषसंज्ञासूत्रम् ॥ 2 । 2। 1 अ.11 सू.) (नित्यग्रहणसंबन्धविचाराधिकरणम्) (आक्षेपभाष्यम्) किमिह नित्यग्रहणेनाभिसंबध्यते विधिः, आहोस्वित् - प्रतिषेधः? ॥ (समाधानभाष्यम्) विधिरित्याह ॥ कुत एतत्?। विधिर्हि विभाषा, नित्यः प्रतिषेधः ॥ नित्यम् ॥ 17 ॥

Kashika

नेति निवृत्तम्, न तृजकौ। नित्यं समासो विधीयते। क्रीडायां जीविकायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति। तृच् क्रीडाजीविकयोर्नास्तीत्यक एवोदाह्रियते। उद्दालकपुष्पभञ्जिका। वारणपुष्पप्रचायिका। जीविकायाम् — दन्तलेखकः। नखलेखकः। क्रीडाजीविकयोरिति किम्? ओदनस्य भोजकः॥

Siddhanta Kaumudi

एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । संज्ञायाम् (SK3286) इति भावे ण्वुल् । जीविकायां । दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकायां तृजकाभ्यां कर्तरि (SK709) इति निषेधे प्राप्ते वचनम् ॥

Balamanorama

नित्यं क्रीडाजीविकयोः - नित्यं क्रीडा । उद्दालकपुष्पभञ्जिकेति । उद्दालकः=श्लेष्मातकः, तस्य पुष्पाणि, तेषां भञ्जनमित्यस्वपदविग्रहः । संज्ञायामिति । ‘स्त्रियां क्तिन्’ इत्यधिकारेसंज्ञाया॑मिति भावे ण्वुलित्यर्थः । अत्र कर्मणि षष्ठ्याः समासः । वस्तुतस्तु ‘स्त्रियां क्ति’ न्नित्यधिकारेधात्वर्थनिर्देशे ण्वु॑लिति भावे ण्वुलित्येव युक्तम् ।संज्ञाया॑मिति त्वधिकरणार्थमिति कृदन्ते वक्ष्यते । तथा सति उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः । जीविकायामिति । उदाहरणं वक्ष्यत इत्यर्थः । दन्तलेखक इति । दन्तानां लेखनेन जीवतीत्यस्वपदविग्रहः । लिखेः कर्तरि ण्वुल् । अकादेशः । जीविका समासगम्या । ननुषष्ठी॑ति सूत्रेणैवात्र षष्ठीसमाससिद्धेः किमर्थमिदमित्यत आह — तत्रेति । तत्र=तस्मिन्नुदाहरणद्वये, क्रीडाबाधकेउद्दालकपुष्पभञ्जिके॑त्यत्र विभाषाधिकारात् षष्ठीसमासनिषेधे प्राप्ते, जीविकाबोधकेतु ‘दन्तलेखक’ इत्यत्र ‘तृजकाभ्याम्’ इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्धमित्यर्थः ।

Tattvabodhini

नित्यं क्रीडाजीविकयोः - नित्यंक्री । भावे ण्वुलिति । भञ्जनं भञ्जिता ।पुष्पाणा॑मिति कर्मणि षष्ठी ।भावे॑इत्युपलक्षणम्, अधिकरणे ण्वुल्यपि बाधकाभावादिति मत्वासंज्ञाया॑मिति सूत्रे कृदन्ते मनोरमायामुक्तम्उद्दालकः श्लेष्माकतसत्स्य पुष्पाणि भज्यनते यस्यां क्रीडायां सा उद्दालकपुष्पभञ्जिके॑ति ।

Padamanjari

नित्यं क्रीडाजीविकयोः॥ नेति निवृतमिति। नित्यग्रहणाद्, महाविभाषाधिकाराद्विलक्पेनैव पाक्षिकस्य प्रतिषेधस्य सिद्धत्वान्नित्यः प्रतिषेधो भविष्यति, किं नित्यग्रहणेन ! तृच् क्रीडाजीविकयोर्नास्तीति। वामनस्तु ठके जीविकार्थऽ इत्यत्र ठक इति किं रमणीयकर्ताऽ इति जीविकायां तृचं प्रत्युदाहरिष्यति। स मन्यते - मा भूत्क्रीडायां तृच्, लक्षणाभावात्, जीविकायां तु ण्वुल्तृचाविति ण्वुलिव तृच् कस्मान्न स्यादिति। अन्ये तु तदनुसारेणेदमप्येवं व्याचक्षते - क्रीडाजीविकयोर्नास्तीति द्व्योर्नास्ति, किन्त्वन्यतरत्रैवेत्यर्थः। अक एवोदाह्रियत इति। उभयत्रेत्यर्थः। उद्दालकपुष्पभञ्जिकेत्यादौ। संज्ञायामिति ण्वुल। नित्यग्रहणमुतरार्थम्। न हि वाक्येन क्रीडाजीविकयोरवगतिरस्ति, क्रियाकारकसम्बन्धमात्रावगमात्॥

Nyaas

उद्दालकपुष्पभञ्जिका इति। रोगाख्यायां ण्वुल् बहुलम् (3.3.108) इत्यनुवर्तमाने संज्ञायाम् (8.2.11) इति ण्वुल्। उद्दालकपुष्पादिषु कर्मणि षष्ठी। दन्तलेखकः, नखलेखकः इति। ण्लुल्तृचौ (3.1.133) इति ण्वुल्। क्रीडायां विषये षष्ठी (2.2.8) इति सूत्रेण महाविभाषया विकल्पेन समासे प्राप्ते जीविकायाञ्च कर्तरि च (2.2.16) इति निषेधे प्राप्तेऽयमारम्भः। तत्र नित्यग्रहणं किमर्थम्? जीविकार्थम्। इतरत्र त्वारम्भसामर्थ्यान्नित्योऽयं भविष्यति। जीविकायां त्वसति नित्यग्रहणे महाविभाषाधिकाराद्विकल्पेन समासः स्यादिति तदर्थं नित्यग्रहणं कृतम्, उत्तरार्थञ्च॥

Prakriyasarvasvam

अनयोर्द्योत्ययोः षष्ठ्यकेन नित्यं समस्यते । पुष्पप्रचायिका क्रीडा । जीविकाया तृचापीति रामः । दन्तलेखकः । दन्तलेखिता । एवं गोपालकः ॥

Sutra Prayogas

  • धिक्शालभञ्जिका-प्रख्यान् (भट्टिकाव्यम्): नित्यं क्रीडा इत्यादिना सः ।