22016: कर्तरि च¶
Padacheda: कर्तरि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
A word ending with a sixth case-affix is not compounded with a word ending with त्रिच् or अक affix when the force of these latter affixes is that of an agent.
Vasu English Translation¶
A word ending with a sixth case-affix is not compounded with a word ending with त्रिच् or अक affix when the force of these latter affixes is that of an agent. The word ‘kartari’ qualifies the word ‘aka’ only and not ‘trich,’ for the latter always denotes the agent and nothing else.
As अपां क्षष्टा ‘the creator of waters’ पुरां भेत्ता ‘the destroyer of cities’ वज्रस्य भर्ता ‘the holder of thunderbolt.’
It might be suggested that the word भर्तृ being read in the class of याजक (sutra 9) ought to be compounded. The word भर्तृ there means ‘husband,’ while in the example we have given, it means ‘holder.’
The above are examples of words formed by तृच्. Now we shall give examples of words formed by अक, thus ओदनस्य भोजकः ‘the eater of rice,’ सक्तूनां पायकः ‘the drinker of saktu.’
Kashika¶
कर्तरि च यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते। सामर्थ्यादकस्य विशेषणार्थं कर्तृग्रहणम्, इतरत्र व्यभिचाराभावात्। अपां स्रष्टा। पुरां भेत्ता। वज्रस्य भर्ता। ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते? संबन्धिशब्दस्य पतिपर्यायस्य तत्र ग्रहणम्। अकः खल्वपि — ओदनस्य भोजकः। सक्तूनां पायकः॥
Siddhanta Kaumudi¶
कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ॥
Balamanorama¶
कर्तरि च - कर्तरि च । कर्तरीत्येतत्षष्ठीत्यनुवृत्तेऽन्येति । तदाह — कर्तरि षष्ठआ इति । अकेनेति ।तृजकाभ्यां कर्तरी॑त्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति ।स्त्रियां क्ति॑न्नित्यधिकारे धात्वर्थनिर्देशे ण्वुल्, अकादेशः, टाप् ।कर्तृकर्मणो॑रिति कर्तरि षष्ठी । अत्र अकस्य कत्र्रर्थकत्वाऽभावात्तृजकाभ्या॑मित्यस्य न प्राप्तिः । ननु पूर्वसूत्रेतृजकाभ्या॑मिति समस्तपदोपादानात्कथमिहाऽकस्यैवानुवृत्तिः, न तु तृच इत्यत आह-नेहेति । तद्योगे इति । तृचः कर्तरि विहितत्वेन ‘रुआष्टां कृष्ण’ इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठआ एवाऽप्रसक्त्या तत्समासनिषेधस्यशशशृङ्गेण कण्डूयनं न कर्तव्य॑मितिवदसंभवपराहतत्वादित्यर्थः ।
Tattvabodhini¶
कर्तरि च - नेह तृजिति । न चोत्तरार्थत्वं शङ्क्यम् । तृच्क्रीडाजीविकयोर्नास्तीति जयादित्येनोक्तत्वादिति भावः । व्वामनस्तु — ॒अके जीविकार्थे॑ इत्यत्रअतके॑ इति किम् ।रमणीयकते॑ति प्रत्युदाहरञ्जीविकायां तृचमिच्छति ।
Padamanjari¶
कर्तरि॥ सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवतीत्याह सामर्थ्यादिति। सम्बन्धिशब्दस्येति। अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति भावः। अन्यस्त्वाह - होतृशब्दसाहचर्यादिति; तन्न, न हि तत्र बह्वचो होता गृह्यते। स एव सम्बन्धिशब्दः क्षीरहोतेत्यादौ क्षीप्तेत्येव गम्यते॥
Nyaas¶
इतरत्र व्यभिचाराभावात् इति। तृचि। सामर्थ्यादकस्येदं विशेषणम्। कर्त्तृग्रहणमित्यत्र हेतुः। सम्भवव्यभिचारे हि विशेषणविशेष्यभावो भवति। न हि तृच् कर्तारं व्यभिचरति; तस्य कर्तर्यैव विधानात्। अकस्तु व्यभिचरति; तस्य भावेऽपि विधानात। अतः सामर्थ्यादकस्यैव विशेषणं कर्त्तृग्रहणम्; न तृचः। अपां रुआष्टा इति। अपामैति कर्मणि षष्ठी। अपां रुआष्टा इति तृच्; व्रश्चादिना (8.2.36) षत्वम्। सृजिदृशोर्झल्यमकिति (6.1.58) इत्यमागमः।ननु च इत्यादि। याजकादिपाठाद्भवितव्यमेवात्र समासनेनेत्यभिप्रायः।सम्बन्धिशब्दस्य इत्यादिना परीहारः। होतृशब्देन सम्बन्धिशब्देन सम्बन्धिशब्देन साहचर्याद्भवर्तृशब्दोऽपि सम्बन्धिशब्दस्तत्र गृह्रते; अयन्तु क्रियाशब्दः - बिभर्तीति भर्ता। सक्तूनां पायकः इति। आतो युक् चिण्कृतोः (7.3.33) इति युक्। अथ किमर्थं तृचः सानुबन्धकस्योच्चारमम्? तृनो निवृत्त्यर्थमिति चेत्, नैतदस्ति; तद्योगे न लोकाव्ययनिष्ठा (2.3.69) इत्यादिना षष्ठीप्रतिषेधात्। एवं तह्र्रेतदेव ज्ञापकम् - तृन्योगेऽपि क्वचित् भवतीति। तेन भीष्मः कुरुणां भशोकहर्ता इत्यादि सिद्धं भवति॥
Prakriyasarvasvam¶
कर्तरि षष्ठ्यकेन न समस्यते । भवतः शायिका । पर्यायादौ ण्युजयम् । रामोक्तैवं सूत्रयोर्व्याख्या ॥