22005: कालाः परिमाणिना¶
Padacheda: कालाः | S | 1 | 3 |
परिमाणिना | S | 3 | 1 |
Sutrartha¶
Vasu English Summary¶
Words denoting time are compounded when in construction, with words denoting the object whose duration is measured by the time, and the compound is तत्-पुरुष।
Vasu English Translation¶
Words denoting time are compounded when in construction, with words denoting the object whose duration is measured by the time, and the compound is तत्-पुरुष। This is also a kind of genitive compound. As मासो जातस्य = मासजातः ‘a month old’ (born a month ago.) So also संवत्सरजातः ‘a year old’. द्व्यहजातः ‘two-days’ old.’ &c.
Bhashya¶
कालाः परिमाणिना (425) (270 तत्पुरुषसंज्ञासूत्रम् ॥ 2.2.1 आ.4) (उत्तरपदार्थप्रधानतादिकरणम्) (आक्षेपभाष्यम्) किंप्रधानोयं समासः? ॥ (समाधानभाष्यम्) उत्तरपदार्थप्रधानः ॥ (आक्षेपभाष्यम्) यद्युत्तरपदार्थप्रधानः सधर्मणानेनान्यैरुत्तरपदार्थप्रधानैर्भवितव्यम्। अन्येषु चौत्तरपदार्थप्रधानेषु यैवासावन्तर्वर्तिनी विभक्तिस्तस्याः समासेपि श्रवणं भवति। तद्यथा - राज्ञः पुरुषो राजपुरुष इति। इह पुनर्वाक्ये षष्ठी, समासे प्रथमा। केनैतदेवं भवति? ॥ (समाधानभाष्यम्) योसौ मासजातयोरभिसंबन्धः समासे स निवर्तते। अभिहितः सोर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमा भविष्यति ॥ (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति - मासजातस्येति? ॥ (समाधानभाष्यम्) भवति बाह्यमर्थमभिसमीक्ष्य षष्ठी ॥ (अनुपपत्तिपरिहाराधिकरणम्) (1342 आक्षेपवार्तिकम् प्र्प्र् 1 प्र्प्र्) ॥ कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः ॥ (व्याख्याभाष्यम्) कालस्य येन समासः सोपरिमाणी। तस्यापरिमाणित्वाद् अनिर्देशः - अगमको निर्देशः अनिर्देशः। नहि जातस्य मासः परिमाणम्। कस्य तर्हि?। त्रिंशद्रात्रस्य। तद्यथा द्रोणो बदराणां देवदत्तस्य इति न देवदत्तस्य द्रोणः परिमाणम्। कस्य तर्हि? बदराणाम् ॥ (1343 समाधानवार्तिकम् ॥ 2 ॥) ॥ सिद्धं तु कालपरिमाणं यस्य स कालस्तेन ॥ (व्याख्याभाष्यम्) सिद्धमेतत्। कथम्?। कालपरिमाणं यस्य स कालस्तेन समस्यत इति वक्तव्यम् ॥ (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते? ॥ (समाधानभाष्यम्) यथान्यासमेवास्तु ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - ।कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः। इति ॥ (प्रत्यक्षेपभाष्यम्) कं पुनर्भवान्कालं मत्त्वाह - । कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देशः। इति?। (प्रत्याक्षेपसमाधानभाष्यम्) येन मूर्तीनामुपचयाश्चापचयाश्च लक्ष्यन्ते तं कालमित्याहुः। तस्यैव कयाचित्क्रियया युक्तस्याहरिति च भवति रात्रिरिति च ॥ कया क्रियया?। आदित्यगत्या। तयैवासकृदावृत्तया मास इति भवति। संवत्सर इति च भवति ॥ तस्यात्मा बहुधा भिन्नो भेदैर्धर्मान्तराश्रयैः। न हि भिन्नमभिन्नं वा वस्तु किञ्चन विद्यते ॥ 1 ॥ नैको न चाप्यनेकोस्ति न शुक्लो नापि चासितः। द्रव्यात्मा स तु संसर्गादेवंरूपः प्रकाशते ॥ 2 ॥ संसर्गिणां तु ये भेदा विशेषास्तस्य ते मताः। संभिन्नस्तैर्व्यस्थानां कालो भेदाय कल्पते ॥ 3 ॥ (प्रत्यक्षेपसमाधानेन समाधानभाष्यम्) यद्येवम्, भवति - जातस्य मासः परिमाणम् ॥ (1344 आक्षेपवार्तिकम् ॥ 4 ॥) ॥ एकवचनद्विगोश्चोपसंख्यानम् ॥ (व्याख्याभाष्यम्) एकवचनान्तानामिति वक्तव्यम्। इह मा भूत् मासौ जातस्य मासा जातस्येति ॥ द्विगोश्चेति वक्तव्यम्। इहापि यथा स्यात् - द्विमासजातस्त्रिमासजातः ॥ (समाधानभाष्यम्) उक्तं वा ॥ किमुक्तम्?। एकवचने तावदुक्तम् - अनभिधानादिति ॥ द्विगोः किमुक्तम्? ।उत्तरपदेन परिमाणिना द्विगोः समासवचनम्। इति ॥ कालाः परि ॥ 5 ॥
Kashika¶
परिमाणमस्यास्तीति परिमाणी, तद्वाचिना सुबन्तेन सह सामर्थ्यात् परिमाणवचनाः कालशब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति। षष्ठीसमासविषये योगारम्भः। मासो जातस्य, मासजातः। संवत्सरजातः। द्व्यहजातः। त्र्यहजातः॥
Siddhanta Kaumudi¶
परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । द्व्यहजातः । द्वयोरह्नोः समाहारो द्व्यहः । द्व्यहो जातस्य यस्य सः इति विग्रहः ।<!उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् !> (वार्तिकम्) ॥ द्वे अहनी जातस्य यस्य स द्व्यह्नजातः । अह्नोऽह्न- (SK790) इति वक्ष्यमाणोऽह्नादेशः । पूर्वत्र तु न सङ्ख्यादेः समाहारे (SK793) इति निषेधः ॥
Balamanorama¶
कालाः परिमाणिना - कालाः परिमाणिना । परिमाणिपदं व्याचष्टे — परिच्छेद्यवाचिनेति ।काला॑इति बहुवचनात्कालविशेषवाचका इत्यर्थः । मासजात इति । अत्र विग्रहे मासः प्रधानम् । समासे तु जातः प्रधानम् ।मासजातो दृश्यता॑मित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतेः । विशेषणविशेष्यभावस्तु एकार्थीभावसम्बन्धसाध्यः । एतदेवाभिप्रेत्य मूले क्वचित् पुस्तकेमासो जातस्य यस्य स॑ इति पठितम् । तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी । जातपरिच्छेदको मास इति विग्रहवाक्ये बोधः । मासपरिच्छेद्यो जात इति समासाद्बोधः । तत्र मासस्तावज्जननं साक्षात्परिच्छिनत्ति । जननाश्रयं तु देवदत्तं जननद्वारां परिच्छिनत्ति । तथाचमासपरिच्छेद्यजननाश्रयो देवदत्त॑ इति समासाद्बोधः फलति । षष्ठीसमासापवादोऽयम् । षष्ठीसमासे तु ‘जातमास’ इति स्यात् । न च मासो जातस्य यस्य स मासजात इति बहुव्रीहिणैवैतत्सिद्धमिति वाच्यं, समानाधिकरणानामेव बहुव्रीहिविधानात् ।निष्ठे॑ति जातशब्दस्य पूर्वनिपातापत्तेश्च ।जातिकालसुखादिभ्यः परा निष्ठा वाच्ये॑ति जातशब्दस्य परनिपातस्तु न, सुखादावस्य पाठकल्पनायां प्रमाणाऽभावादित्यलम् । द्व्यहो जातस्येति । ‘तद्धितार्थ’ इति समाहारे द्विगुः॑ ‘राजाहःसखिभ्यः’ इति टच् ।रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । उत्तरपदेनेति । ‘तद्धितार्थ’ इति सूत्रभाष्ये इदं वार्तिकं पठितम् । तेन हि सूत्रेण उत्तरपदे परे दिक्सङ्ख्ययोस्सुबन्तेन द्विगुसमासो विहितः । उत्तरशब्दश्च समासस्य चरमावयवे रूढः । ततश्च द्वे अहनी जातस्य यस्येति विग्रहे त्रयाणां समासे सति जातशब्दे उत्तरपदे संपन्ने पूर्वयोः सुबन्तयोर्द्विगुसमासप्रवृत्तिर्वक्तव्या । सच समासस्त्रयाणांकालाः परिमाणिने॑ति पूर्वसूत्रेण न सम्भवति,सुप्सुपे॑त्येकत्वस्य विवक्षितत्वात् । अत उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानं वक्तव्यमित्यर्थः । उत्तरपदभूतपरनिमित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत् ।सुप्सुपे॑त्येकत्वलं विवक्षितमित्यत्र इदमेव लिङ्गम् । द्वे अहनी इति । द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि ‘द्व्यहन्-जात’ इति जातशब्दे उत्तरपदे परे द्वि-अहन् इत्यनयोःतद्धितार्थ॑इति द्विगुसमासे ‘राजाहःसखिभ्यः’ इति टचि ‘अह्नोऽह्न एतेभ्यः’ इत्यह्नादेशे ‘द्यह्नजात’ इति रूपमित्यर्थः । अत्र पूर्वयोर्द्विगुतत्पुरुषत्वाऽभावे टच्, अह्नादेशश्च न स्यातामिति भावः । ननु द्वयोरह्नोः समाहारो द्व्यह इति कथं पूर्वमुक्तं, तत्राप्यह्नादेशप्रसङ्गादित्यत आह — पूर्वत्र त्विति । निषेध इति । अह्नादेशनिषेध इत्यर्थः ।
Tattvabodhini¶
कालाः परिमाणिना - कालाः परिमाणिना । परिमीयते परिच्छिद्यते येन तत्परिमाणं=परिच्छेदकं, तद्वान्परिमाणी, तदाह — परिच्छेद्यवाचिनेति । काला इति । कालविशेषवाचका इत्यर्थः । सूत्रे बहुवचननिर्देशात्कालसामान्यस्याऽपरिच्छेदकत्वाच्च । मासो जातस्येति । षष्ठीसमासे प्राप्ते वचनम् । ननु जातः पुरुषस्तस्य तु हस्तवतस्त्यादिकं परिच्छेदकं, न तु कालः, तस्य क्रियामात्रपरिच्छदकत्वादिति चेत् । अत्राहुः — साक्षात्क्रियां परिच्छिन्दन्नपि कालस्तद्द्वारा देवदत्तं परिच्छिनति । यस्य हि जननादूध्र्वं मासो गतः समासजात॑ इति व्यवह्ययते । तत्र व्यवहारकालजननक्षणयोरन्तलभावी मासो जननद्वारा जातमपि परिच्छिनत्त्येवेति । इह विग्रहे षष्ठीनिर्दिष्टस्यापि वृत्तौ प्राधान्यं द्योतयितुंयस्य [सः॑]इत्युक्तम् । अलौकिके तु प्रक्रियावाक्ये नास्य प्रवेशः । एवं बहुव्रीहावपीति बोध्यम् । ननुजातस्य मासः॑ इति विग्रहे वृत्तौ मासशब्दस्य पूर्वपातार्थमेतत्सूत्रारम्भस्यावश्यकत्वेऽपि मासविशेष्यकबोध एवत्रोचित इति किमनेनजातस्य यस्य सः॑इति कथनेनेति चेत् । अत्राहुः — ॒मासजातो मृतः॑इत्यादिप्रयोगानुरोधेन विग्रहेयस्य सः॑ इति स्वीक्रियत इति । मासजात इति । यद्यपि मासो जातो यस्येति बह#उव्रीहिणापीदं सिध्यति,जातिकालसुखादिभ्यः परा निष्ठा वाच्ये॑ति वचनात् । न च स्वरे विशेषः । वा जाते॑इत्यन्तोदात्तत्वस्यापि सिद्धेः, तथापि षष्ठीसमासापवादार्थमिदमारम्भणीयमेव । किं च मासो जातवतो यस्य सामासजातवानित्येतदर्थमपीदमवश्यारम्भणीयमिति ।उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानम् । उत्तरपदेनेति । परिमाण्युत्तरपदहेतुकद्विगुसिद्धये त्रिपदतत्पुरुषो वक्तव्य इत्यर्थः ।सुप्सुपे॑त्येकत्वस्य विवक्षितत्वादप्राप्ते वचनम् । अस्मादेव वार्तिकारम्भात्सुप्सुपे॑ त्येकत्वं विवक्षितमिति ज्ञायते । अह्नादेश इति । त्रपदतत्पुरुषे सत्युत्तरपदे परतःतद्धितार्थ॑इत्यवान्तरद्विगौ सतीति भावः । पूर्वत्रेति । व्द्यहजात इत्यत्रेत्यर्थः ।
Padamanjari¶
कालाः परिमाणिना॥ सामर्थ्यात्परिमाणवचना इति। परिमाणमपेक्ष्यपरिमाणो भवति, नान्यथेत्येतत्सामर्थ्यम्। तत्र च यद्यपि कालः प्रस्थादिवत्सर्वतो मानं न भवति, तथापि परिच्छेदहेतुत्वात्परिमाणमित्युच्यते। मासो जातस्येति कस्य पुनरयं मासः परिच्छेदकः; न तावज्जातस्य, तस्य हि दिष्ट।लदि परिमाणं न तु मासः; नापि जननक्रिया, तस्या एकक्षणभावित्वान्मासेन सम्बन्धाभावात्? उच्यते - जननक्रियावधिर्मासे न परिच्छद्यते। मासो जातस्येति, कोऽर्थः? जननक्रियाया ऊर्ध्वमस्य मासो जातः, अतीते मासेऽस्य जननमिति यावत्। अनेन प्रकारेण मासो जातस्य परिमाणम्, यथा - मासे देयमृणमिति ऋणदानस्यावधिर्मासेन परिच्छिद्यते। मासजात इति। यथा गावोऽस्य सन्तीति गोमानिति वाक्ये षष्ठीनिर्दिष्टस्यापि तद्वतो वृतौ प्राधान्यम्, तत्कस्य हेतोः? अभिहितः षष्ठ।ल्र्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति, यथा - चित्रा गावोऽस्य चित्रगुः पुरुष इति बहुव्रीहाविति, तद्वदत्रापि वाक्ये षष्ठीनिर्देअष्टस्यापि तद्वतो जातस्य वृतौ प्राधान्यां द्रष्टव्यम्। तथा च मासजातो दृश्यतामिति क्रियायोगो जातस्यैव भवति, न पुनरर्द्धपिप्पल्यादिवत्पूर्वपदार्थस्य। द्व्यहजात इति। द्वयोरह्नोः समाहारः राजाहः सखिभ्यष्टच,ऽठ्न संख्यादेः समाहारेऽ इत्यह्नादेशस्य प्रतिषेधः। कथं तर्हि द्व्यहजात इति, द्वे अहनी अस्य जातस्येति त्रयाणां पदानां युगपदनेन समासे कृते जातशब्द उतरपदे परतः पूर्वयोर्द्विगुर्भविष्यति? ननु च’सुप्सुपा’ इत्येकत्वसंख्याया विवक्षितत्वाद् द्वयोर्द्वयोः न बहूनां युगपत्? उच्यते - वक्तव्यमेवैतद् उतरपदेन परिमाणिना द्वयोः समासवचनमिति; परिमाणिवचनेनोतरपदेन द्विगोः सिद्धये समासो वक्तव्यः। अथ द्वयोर्युगपदिति गम्यते, तस्माद्वचनाद्बहूनामप्ययं समासो भवति। एवं द्वौ मासौ जातस्य द्विमासजातः, त्रिपदे तत्पुरुषे जातशब्द उतरपदे परतः पूर्वयोस्तत्पुरुषे सति कालान्ते द्विगावपि पूर्वपदप्रकृतिस्वरो भवति। द्वयोर्मासयोः समाहारो द्विमासम् पात्रादि, द्विमासं जातस्येति विगृह्य समासे क्रियमाणे सति शिष्टत्वात्समासान्तोदातत्वं स्यात्। इह मासौ जातस्य, मासा जातस्येति द्विवचनबहुवचनान्तानामयं समासो भवति। वृतौ विभक्तौ निवृतायां द्वित्वबहुत्वावगतौ प्रमाणाभावाद् अभेदैकत्वसंख्याप्यत्र न भवति, शुद्धमेव त्वेकत्वं गम्यते। यत्र द्वयोर्बहुषु वानुस्यूत एकः शब्दार्थस्तत्रैवाभेदैकत्वसंख्य, मासशब्दस्त्वक्तपरिमाणमर्थमाचष्ट इति द्वित्वबहुत्वावगतौ विभक्तिमपेक्षते, स्वतस्त्वेकत्वस्यैवासाधारणः॥
Nyaas¶
सामर्थ्यात् परिमाणवचनाः इत। एवं ह्रुत्तरपदस्य परिमणिवाचित्वं गम्यते यदि कालशब्दाः परिमाणवचना भवन्ति, नान्यथा। तस्मात् काला इत्येविशेषाभिधानेऽपि सामर्थ्यात् परिमाणवचनः कालशब्दाः समस्यन्ते इति विज्ञायते। ननु चकालः परिमाणेव भवति; अनवधित्वात्, तत् कथं तदभिधायिनः शब्दाः परिमाणवचना भवन्ति? नैष दोषः; यद्यपि मुख्यस्य परिमाणस्य वाचका न भवन्ति, गौणस्य तु भवत्येव। इह हि मुख्यं परिमाणत्वं कालस्य मासदेर्न भवतीति सामर्थ्यात् परिच्छेदहेतुमात्रपरिमाणसाधम्र्यमुपादायोपचारेण कालाः परिमाण्तवेनाभिमताः। मासादयोऽपि हि जातादेः सम्बन्धिनीरादित्यगतीर्गमयन्ति, अतो भवन्ति परिच्छेदहेतवः। षष्ठीसमासविषये योगारम्भः इति। परिमाणपरिमाणिसम्बन्धे हि परिमाणवाचिनः षष्ठआ भवितव्यम्। यत्र च षष्ठी भवति स षष्टीसमासस्य विषयः,तेनायं षष्ठीसमासस्य विषयो योग आरभ्यते। मासजातः इत्यत्र जातः परिमाणी। तस्य परिमाँ मासः। द्वयहजातः इति। द्वयोरह्नोः समाहार इति द्व्यहः। राजाहःसखिभ्यष्टच् (5.4.91) । अह्नष्टखोरेव (6.4.145) इति टिलोपः। न संख्यादेः समाहारे (5.4.89) इत्यह्नादेशप्रतिषेधः। द्व्यहो जातस्य द्व्यहजातः। अथ कालाः इति बहुवचननिर्देशः किमर्थः? स्वरूपविधिनिरासार्थ इति चेत्; नैतदस्ति; न हि स्वरूपग्रहणे सत्युत्तरपदस्य परिमाणिवाचित्वं गम्यते, कालशब्दस्यापरिमाणवाचित्वात्। तस्मात् परिमाणिग्रहणादेव कालविशेषवाचिनां मासादीनां ग्रहणं भविष्यति। एवं तर्हि बहुवचननिर्देशोऽयं मात्राधिक्येन सूत्रप्रबन्धस्यार्थाधिक्यसूचनार्थः। तथा चोक्तम् - इङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेनाचार्याणामबिप्राया लक्ष्यन्ते इति। तेन संख्यापूर्वपदस्त्रिपदोऽप्ययं परिमाणिना तत्पुरुषसमासो भवतीत्येषोऽर्थो लभ्यते। तेन द्व्यह्नजात इत्येवमादि सिद्धं भवति। द्वे अहनी जातमस्येति विगृह्र त्रिपदे तत्पुरुषे कृते जातशब्द उत्तरपदे पूर्वयोः पदयोः तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति द्व्यवयवस्तत्पुरुषो भवति, पूर्वषट्टच्, अह्नोह्न एतेभ्यः (5.4.88) इत्यह्नादेशः॥
Praudhamanorama¶
कालाः परिमाणिना ॥ परिमीयते = परिच्छिद्यते येन तत्परिमाणं = परिच्छेदकं, तद्वान्-परिमाणी तदाह - परिच्छेद्यवाचिनेति । काला इति । कालविशेषवाचका इत्यर्थः । कालसामान्यस्याऽपरिच्छेदकत्वात् । ‘मासो जातस्य’ इति - षष्ठीसमासे प्राप्ते वचनम् । ननु जातः पुरुषस्तस्य च हस्तवितस्त्यादिकं परिच्छेदकं, न कालः, तस्य क्रियामात्रपरिच्छेदकत्वादिति चेत् । सत्यम् । साक्षात् क्रियां परिच्छिन्दन्नपि कालस्तद्वारा देवदत्तं परिच्छिनत्ति । यस्य हि जननादूर्ध्वं मासो गतः स ‘मासजात’ इति व्यवह्रियते । तत्र व्यवहारकाले ‘जननक्षणयोरन्तरालभावी मासो जननद्वारा जातमपि परिच्छिनत्येव । इह विग्रहे षष्ठीनिर्दिष्टस्याऽपि वृत्तौ प्राधान्यं द्योतयितुं ‘यस्य स’ इत्युक्तम् । अलौकिके तु प्रक्रियावाक्ये नाऽस्य प्रवेशः । एवं बहुव्रीहावपि । एतावान्परो विशेषः- इह जातशब्दात् षष्ठी, ‘चित्रगुरि’त्यादौ तु द्वाभ्यामपि शब्दाभ्यां प्रथमैव । ‘समानाधिकरणानां बहुव्रीहिरि’ति वक्ष्यमाणत्वात् । ‘विशेषणविशेष्यभावव्यत्यासेनैकार्थीभावः’ इति तुल्यम् । यत्तु मीमांसकाः- ‘चित्राणां गवामयम्’ इति विगृह्णन्ति । तत्रेदं वक्तव्यम् - उक्तरीत्या वृत्तिवाक्ययोः क्वचित्प्रधानाऽर्थसाम्यलाभेऽपि अषष्ठ्यर्थबहुव्रीहौ पञ्चविधेऽपि कर्मकरणादिप्राधान्यस्याऽभिमतस्योक्तविग्रहादलाभाद्वृत्तिवाक्ययोर्महान् विप्रकर्षः स्यात् । ‘कृतविश्वः’, ‘प्राप्तोदको ग्राम’ इत्यादौ कर्तृकर्मणोः समासेनाऽभिहितत्वान्न कारकविभक्तिरित्यादिसिद्धान्तस्य निर्विवादत्वात् । किञ्चाऽलौकिके प्रविष्टानामेव पक्षाऽन्तरे परिनिष्ठितानां लौकिकेऽपि प्रवेशसम्भवे उपस्थितपरित्यागेनाऽनुपस्थितकल्पनमन्याय्यम्, असाम्प्रदायिकञ्च । तदनुगुणतयैव पदान्तराक्षेपगौरवं तु फलमुखत्वान्न दोषावहम् । अत एव - ‘वाक्यार्थे तत्पदं दातुं प्राच्येन विषयेऽर्पिते । लौकिको वाक्यभेदेन विग्रहो वृद्धसंमतः’ । । अथ वा माऽस्तु तच्छब्दः, प्रधानाऽर्थसाम्यमपि औत्सर्गिकमिह त्यज्यताम् । तथा ‘च हरिणा- ‘क्कचिद्गुणप्रधानत्वमर्थानामविवक्षितम्’ । इत्युपक्रम्य- ‘आख्यातं तद्धिताऽर्थस्य यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥’ इत्युक्तम् । तद्धितग्रहणं कृतामप्युपलक्षणम् । तेन ‘आक्षिकः’, ‘वैयाकरणः’, ‘पाचकः’, ‘इध्मप्रव्रश्चनः’ इत्यादीनां विग्रहवाक्यानीहोदाहरणानि । स्यादेतत्- ‘चित्रगुः, दण्डी’ति समासतद्धितवृत्त्योरलौकिके प्रक्रियावाक्येऽपि च ‘चित्रगोदण्ड’ एते शब्दाः षष्ठ्यन्ता एवेति मीमांसकाऽऽशय इति चेत् । मैवम् । शेषो बहुव्रीहिः, त्रिकः शेषः । अस्तिसामानाधिकरण्ये मतुप् । ‘समर्थानां प्रथमादित्यादिसूत्रभाष्यविरोधेन वृत्तेरेव तत्र दुर्लभत्वादिति दिक् । प्रकृतमनुसरामः । उत्तरपदेनेति । ‘परिमाण्युत्तरपदहेतुकद्विगुसिद्धये बहूनां तत्पुरुषो वक्तव्य’ इत्यर्थः । ‘सुप्सुपे’ त्येकत्वस्य विवक्षितत्वादप्राप्ते वचनम् । आदेश इति । त्रिपदतत्पुरुषाऽनन्तरमुत्तरपदे परतोऽवान्तरद्विगौ सतीति भावः ।
Prakriyasarvasvam¶
<karika>कालवाचिनस्तत्परिमितेन समस्यन्ते । मासो जातस्य यस्यासौ मासजातो द्व्यहागतः । स्याद्वहुव्रीहिरीत्यात्र षष्ठ्यन्तस्याप्रधानता ॥ ३८४ ॥</karika>