22008: षष्ठी¶
Padacheda: षष्ठी | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A word ending with a sixth case-affix is compounded with a case-inflected word with which it is in construction and the compound is तत्-पुरुष।
Vasu English Translation¶
A word ending with a sixth case-affix is compounded with a case-inflected word with which it is in construction and the compound is तत्-पुरुष। As राजः पुरुषो=राजपुरुषः ‘the king’s man’ ब्राह्मणकम्बलः ‘the Brahmana’s blanket.’
Vart:-When a word takes the genitive case because of its connection with a word ending in a krit affix; that word may be compounded with such a krit word. Rule (2.3.65)., states the conditions when a krit-formed word governs the genitive case. Thus इक्ष्मप्रवश्चनः ‘a hatchet’ (a fuel cutter), पलाशशातनः ‘Palasadestroyer.’
Why do we say so? The very fact that a special rule has been made for the compounding of genitive cases governed by krit-nouns, shows that other words which take genitive case by some special rule, are not so compounded. Such as the genitive cases ordained by (II.3.38, 51.52). In fact the genitive case ordained by any rule of Panini, other than (2.3.51), is a ‘pratipadavidhana’ genitive; and a word taking genitive case according to those rules, is incapable of composition; see vårtika under (2.2.10).
Bhashya¶
षष्ठी (428) (273 तत्पुरुषसंज्ञासूत्रम् ॥ 2 । 2 । 1 आ.7) (इष्टानुपपत्तिनिराकरणाधिकरणम्) (1346 समासप्रतिप्रसववार्तिकम् ॥ 1 ॥ ॥ कृद्योगा च ॥ कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्। इध्मप्रव्रश्चनः। पलाशशातनः ॥ (आक्षेपभाष्यम्) किमर्थमिदमुच्यते? ॥ (समाधानभाष्यम्) प्रतिपदविधाना च षष्ठी न समस्यते। इति वक्ष्यति। तस्यायं पुरस्तादपकर्षः ॥ (आक्षेपभाष्यम्) का पुनः षष्ठी प्रतिपदविधाना, का च कृद्योगा? ॥ (समाधानभाष्यम्) सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणां वर्जयित्वा। कर्तृकर्मणोः कृतीति तु या षष्ठी सा कृद्योगा ॥ (1347 समासप्रतिप्रसववार्तिकम् ॥ 2 ॥) ॥ तत्स्थैश्च गुणैः ॥ (भाष्यम्) तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यम्। ब्राह्मणवर्णः। चन्दनगन्धः। पटहशब्दः। नदीघोषः ॥ (1348 समासनिषेधवार्तिकम् ॥ 3 ॥) ॥ न तु तद्विशेषणैः ॥ (भाष्यम्) न तु तद्विशेषणैरिति वक्तव्यम्। इह मा भूत् - घृतस्य तीव्रो गन्धः। चन्दनस्य मृदुरिति ॥ (आक्षेपभाष्यम्) किमर्थमिदमुच्यते? ॥ (समाधानभाष्यम्) गुणेन नेति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः ॥ (आक्षेपभाष्यम्) किं पुनः कारणं गुणेन नेत्युच्यते, न पुनर्गुणवचनेन नेत्युच्येत? ॥ (समाधानभाष्यम्) नैवं शक्यम्। इह हि न स्यात् - काकस्य कार्ष्ण्यं बलाकायाः शौक्ल्यमिति। एतदेव खल्वपि तस्मिन्योगे उदाहरणम्। यद्धीदं ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णा इति। असार्मथ्यादत्र न भविष्यति ॥ कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति ॥ द्रव्यमत्रापेक्ष्यते दन्ताः ॥ तस्माद् गुणेन न इति वक्तव्यम्। तत्स्थैश्च गुणैरित्युच्यमाने । न तु तद्विशेषणैः। इति वक्तव्यम् ॥ षष्ठी ॥ 8 ॥
Kashika¶
षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। राज्ञः पुरुषः, राजपुरुषः। ब्राह्मणकम्बलः॥ कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्॥ इध्मप्रव्रश्चनः। पलाशशातनः। किमर्थमिदमुच्यते? प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः॥
Siddhanta Kaumudi¶
राज्ञः पुरुषो राजपुरुषः ॥
Laghu Siddhanta Kaumudi¶
सुबन्तेन प्राग्वत्। राजपुरुषः॥
Balamanorama¶
षष्ठी - षष्ठी । षष्ठन्तं सुबन्तेन समस्यते, स तत्पुरुष इत्यर्थः । राजपुरुष इति । राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनीं विभकिंत प्रत्ययलक्षणेनाश्रित्य नलोपः । नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यं, पदत्वस्य सुब्घटितसमुदायधर्मत्वेन तस्याऽङ्गकार्यत्वाऽभावादिति भावः ।
Tattvabodhini¶
षष्ठी - राजपुरुष इति । राजन् अस् — पुरुष सु इत्यलौकिकविग्रहे समासे कृते सुपो लुक्यन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः ।
Padamanjari¶
षष्ठी॥ कृद्योगा चेत्यादि।’कर्तृकर्मणोः कृति’ इति कृच्छब्दोपादानेन या विहिता सा कृद्योगा। इध्मप्रव्रश्चन इति। ठोव्रश्चू च्छेदनेऽ, ठ्करणे ल्युट्। पलाशशातन इति। पलाशानि शात्यन्तेउपात्यन्ते येन दण्डादिना स पलाशशातनः। किमर्थमिदमुच्यत इति। सूत्रेण सिद्धिं मन्वानस्य प्रश्न। प्रतिपदविधाना चेत्यादि। यदा तस्य वक्तव्यस्यारम्भः तदेदमपि वक्तव्यम्। तस्य त्वनारभ्यतां तत्रैव वक्ष्यामः। अपकर्ष इति। अपवाद इत्यर्थः॥
Nyaas¶
कृद्योगा च इत्यादि। कृद्योगलक्षणा षष्ठी समस्यते इति व्याख्येयम्। तत्रेदं व्याख्यानम् - यदयं क्तेन च पूजायाम् (2.2.12) अधिकरणवाचिना च (2.2.13) कर्मणि च (2.2.14) तृजकाभ्यां कर्तरि च {च नासति सूत्रे} इति निषेधमारभते, तज्ज्ञापयति - कृद्योगा या षष्ठी सा समस्यते इति ; अन्यथा प्रतिषेधारम्भोऽनर्थकः स्यात्; प्राप्त्यभावात्। इध्मप्रव्रश्चः इति। करण ल्युट्। कृत्युल्युटो बहुलम् (3.3.113) इति कर्तरि वात। कर्त्तृकर्मणोः कृति (2.3.65) इति कर्मणि षष्ठी। पलाशशातनः` इति। शदेण्र्यन्तस्य शदेरगतौ तः (7.3.42) इति दकारस्य तकारः। पूर्ववल्ल्युट्, षष्ठी च। किमर्थमित्युच्यते, यावता षष्ठीत्यनेनैव कृद्योगलक्षणाया अपि षष्ठ्याः समासः सिद्धः एवेत्यत आह- प्रतिपदविधाना च इत्यादि। सुबोधम्।
Prakriyasarvasvam¶
षष्ठ्यन्तं समर्थेन सुपा वा समस्यते । राजपुरुषः ॥
Vartika¶
कृद्योगा च षष्ठी समस्यत इति वक्तव्यम् ।
Sutra Prayogas¶
जगतीधरम् (शिशुपालवधम्): षष्ठी इति समासः।