22010: न निर्धारणे¶
Padacheda: न | S | 0 | 0 |
निर्धारणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A word in the genitive case is not compounded with another, when the force of the sixth case-affix is that of specification (निर्धारण).
Vasu English Translation¶
A word in the genitive case is not compounded with another, when the force of the sixth case-affix is that of specification (निर्धारण). With this sutra, begins a series of exceptions to the composition of words in the genitive case. The separation of one from the many, on account of its genus, attribute and action, is called ‘nirdharana.’ As क्षत्रियो मनुष्याणां शूरतमः ‘the Kshatriya is the most powerful amongst men.’ कृष्णा गवां संपन्नक्षीरतमः ‘the black cow is the most milk-giving amongst cows.’ धावन्नधगानां शीघ्रतमः ‘the runner is the swiftest amongst walkers.’ This form of genitive meaning ‘amongst,’ is ordained by sutra (2.3.41).
Vart:- A word taking a genitive-case by force of any rule other than sutra (2.3.50), is never compounded. See sutra 8. Thus the following words are never compounded सर्पिषोज्ञानम् , मधुनोज्ञानम्.
Bhashya¶
न निर्धारणे (430) (274 तत्पुरुषसमासनिषेधसूत्रम् ॥ 2 । 2। 1आ.9 सू.) (अनिष्टपरिहाराधिकरणम्) (1349 समासनिषेधवार्तिकम् ॥ 1 ॥) ॥ प्रतिपदविधाना च ॥ (भाष्यम्) प्रतिपदविधाना च षष्ठी न समस्यत इति वक्तव्यम्। इह मा भूत् - सर्पिषो ज्ञानम्, मधुनो ज्ञानम् ॥ न निर्धारणे ॥ 10 ॥
Kashika¶
पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते। निर्धारणे या षष्ठी सा न समस्यते। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम्। क्षत्रियो मनुष्याणां शूरतमः। कृष्णा गवां संपन्नक्षीरतमा। धावन्नध्वगानां शीघ्रतमः॥ प्रतिपदविधाना च षष्ठी न समस्यत इति वक्तव्यम्॥ सर्पिषो ज्ञानम्। मधुनो ज्ञानम्॥
Siddhanta Kaumudi¶
निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः ।<!प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् !> (वार्तिकम्) ॥ सर्पिषो ज्ञानम् ॥
Balamanorama¶
न निर्धारणे - न निर्धारणे । नृणां द्विजः श्रेष्ठ इति । अत्रनृणा॑मिति षष्ठन्तस्य द्विजशब्देन समासो न भवति । पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्ठएव न तु निर्धारणषष्ठी ।यतो निर्धारणं यच्च निर्धायते यश्च निर्धारणहेतुः-एतत्त्रितयसंनिधान एव तस्याः प्रवृत्ते॑रिति कैयटः ।गुणेन निषेधस्त्वनित्य॑ इति तरप्सूत्रे कैयटः । केचित्तुउत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः॑ इति गीतावाक्यात्कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः ।प्रतिपदविधानेति । पदं पदं प्रतीति वीप्सायामव्ययीभावः । प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना । ‘षष्ठी शेषे’ इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम् । सर्पिषो ज्ञानमिति । अत्रज्ञोऽविदर्थस्य करणे॑ इति विहितषष्ठ्याः समासो न भवति, ‘न निर्धारणे’ इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम् ।
Tattvabodhini¶
न निर्धारणे - नृणामिति ।यतश्च निर्धारण॑मिति षष्ठी । द्विजशब्देनात्र समासप्रसङ्गस्तदपेक्षा हि षष्ठी । श्रेष्टत्वं द्विजेतरमनुष्येभ्यः, तेषां समान्यशब्देनोपस्थिततया । तान्विहायानुपस्थितकल्पनाया अन्याय्यत्वात् । अथं कथं पुरषोत्तम इति । यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः — एतत्त्रितयसंनिधाने सत्येवायं निषेध इतिद्विवचनविभज्योपे॑ति सूत्रे कैयटः । अन्ये तु — पुरुषेषूत्तम इति निर्धारणसप्तम्याःसंज्ञाया॑मिति समासः । न चैवंन निर्धारणे॑इति व्यर्थम् । स्वरे भेदात् । सप्तमीसमासे हि तत्पुरुषे तुल्यार्थे॑त्यादिना पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे तुसमासस्ये॑त्यन्तोतात्तत्वं स्यात्तच्चाऽनिष्टमित्याहुओः । तन्मन्दम् ।संज्ञाया॑मिति समासस्य नित्यत्वेन स्वपदविग्रहाऽसंङ्गतिप्रसङ्गात् । तस्मात्कैयटोक्तसमाधानमेव समीचीनमिति नव्याः ।प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् । प्रतिपदविधानेति । पदं पदं प्रति विहिता प्रतिपदविधान ।षष्ठी शेषे॑ इथि विहायाऽन्येनज्ञोऽविदर्थस्ये॑त्यादिना विहिता सर्वैव षष्ठीत्यर्थः । धातुकारकविशेषं गृहित्वैवज्ञोऽविदर्थस्य॑इत्यादिना षष्ठी विधीयत इति भवति तस्याः प्रतिपदविधानत्वम् । नन्वनेनैव गतार्थत्वा॒न्न निर्धारणे॑ इति व्यर्थमिति चेत् । अत्राहुः — ॒यतश्च निर्धारण॑मिति सूत्रं न षष्ठीं विधत्ते, किं तु सप्तमीमेव । षष्ठी तु तया मा बाधीति प्रतिप्रसूयत इत्यन्यदेतत् । एवंस्वमीआराधिपती॑त्यादिष्वपि । तेनगृहस्वामी॒॑सर्वेआरः॑निषादाधिपति॑रित्यादि सिद्धमिति । वस्तुतस्तुपज्ञोऽविदर्थस्ये॑त्यादिचतुर्दशसूत्रीमध्येदिवस्तदर्थस्ये॑त्यादिषट्सूत्रीं विहायाविशिष्टायाममष्टसूत्र्यांशेषे॑इति वर्तते, तथा च न माषाणामाश्नीया॑दित्यादाविवषष्ठी शेषे॑ इत्येवसिद्धे नियमार्थं प्रकरणम् — इह षष्ठएव न तु तल्लुगिति । तथा च लुकः प्रयोजकीभूतः समास एव नेति फलितोऽर्थः । ततश्चप्रतिपदविधाने॑ति वचनं न कर्तव्यम् । एवं स्थितेकृद्योगा षष्ठी॑ति वचनमपि मास्तु ।कर्तृकर्मणोः कृती॑त्यत्र हिशेषे॑ इति निवृत्तम् । तथा चाऽप्राप्तषष्ठीविधानार्थमेव तदिति समासनिवृत्तिप्रसङ्गाऽभावात्षष्ठी॑इत्यनेनैव समाससिद्धेः । सर्पिषो ज्ञानमिति । वस्तुतः करणस्य संबन्धमात्रविवक्षयाज्ञोऽविदर्थस्य॑इति षष्ठी । सर्पिःसंबन्धि प्रवर्तनमित्यर्थः । पूरणगुण । अर्थशब्दस्य त्रिषु संबन्धादाह ।
Padamanjari¶
न निर्द्धारणे॥ जातिगुणक्रियाभिरिति। उपलक्षणमेतत्; कतरो भवतोर्देअवदत इति संज्ञायामपि निर्द्धारणदर्शनात्। क्षत्रियो मनुष्याणां शूरतम इति। अत्र क्षत्रियशब्देन समासप्रसङ्गः; तदपेक्षया हि मनुष्याणामिति षष्ठी, न शूरतमापेक्षया, गुणशब्दत्वाच्च न तेन समासप्रसङ्गः। कृष्णा गवामिति। नात्रायमर्थः - गवां मध्ये या कृष्णा सा सम्पन्नक्षीरतमेति, एवं हि कृष्णाशब्दस्य गवामित्यनेन सम्बन्धः। न च तस्य समासप्रसङ्गः; गुणेन नेति प्रतिषेधात्। तस्माद्रवां मध्ये या सम्पन्नक्षीरतमा सा कृष्णेत्ययमत्रार्थः। धावन्नध्वगानामिति। अत्र धावच्छब्देन समासाप्रसङ्गः; सत्संज्ञकत्वात्। शीघ्रतमशब्दस्तु गुणशब्दो न वेति चिन्त्यम्। प्रतिपदविधाना चेति। शेषलक्षणां मुक्त्वा सर्वान्या प्रतिपदविधाना षष्ठी। कथं गृहस्वामी, विद्यादायादः, पृथिवीश्वर इति, यावता’स्वामीश्वर’ इत्यादिना प्रतिपदमत्र षष्ठी ? नानेन षष्ठी विधीयते, किं तर्हि? सप्तमी। सा तु षष्ठआआ मा बाधिष्टेति चकारेण शेषलक्षणैवाभ्यनुज्ञायते। अत एव’न निर्द्धारणे’ इति सूत्रारम्भः।’यतश्च निर्द्धारणम्’ इत्यत्रापि हि चकारेण शेषलक्षणैव षष्ठी प्रतिप्रसूयते; अन्यथा सापि प्रतिपदविधानैव स्यादिति किं’न निर्द्धारणे’ इत्यनेन। सर्पिषो ज्ञानमिति।’ज्ञो’ विदर्थस्य करणेऽ इति षष्ठी। अत्राहुः -‘ज्ञो’ विदर्थस्य करणेऽ इति षष्ठीप्रकरणे’शेषे’ इति वर्तते, तत्र न माषाणामश्नीयादितिवत्’षष्ठी शेषे’ इत्यनेनैव सिद्धा षष्ठी, प्रकरणं तु नियमार्थम्। षष्ठी भवत्येव श्रूयत एव, न तस्याः समासो भवतीत्यर्थः। समासे’सुपो धातुप्रातिपदिकयोः’ इति सुब्लुक् स्यात्। तस्मात्प्रतिपदविधाना चेति न वक्तव्यम्, एवं च कृत्वा’कृद्योगा च’ इत्यपि न वक्तव्यम्,’कर्तृकर्मणोः कृति’ इत्यत्र हि’शेषे’ इति निवृतमिति वक्ष्यते, तेन कर्तृकर्मविवक्षायामप्राप्तैव षष्ठी तेन विधीयत इति कुतः समासनिवृत्तिरिति॥
Nyaas¶
मनुष्याणां क्षत्रियः शूरतमः इति। यतश्च निद्र्धराणम् (2.3.41) इति षष्ठी। प्रतिपदविधाना च इत्यादि। षष्ठी शेषे (2.3.50) इति सामान्यलक्षणविहितां षष्ठीं त्यक्त्वा याऽन्या विशेषलक्षणाविहिता षष्ठी सा प्रतिपदविधाना,क सा च षष्ठी न समस्यत इत्येतद्रूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - नेति योगविभागः क्रियते, तेन प्रतिपदविदाना षष्ठी न समस्यत इति।यद्येवम्, कथं गृहस्वामी, विद्यादायादः, पृथ्वीआर इति, प्रतिपदविधाना ह्रेषा षष्ठी बाधिष्यत इति चकारेण पुनः षष्ठीप्रतिप्रसवः क्रियते। न ह्रेवंविदा षष्ठी प्रतिपदविधाना भवति। अत व न निर्धारणे इति निषेधो विधीयते। यतश्च निर्धारणम् (2.3.41) इत्यत्रापि चकारेण सैव शेषलक्षणा षष्ठी प्रतिप्रसूयते, अन्यथा हीयमपि प्रतिपदविधानैव षष्ठीति समासो न स्यात्। ततश्च न निर्धारणे`इति प्रतिषेधोऽनर्थकः स्यात्।`सर्पिषो ज्ञानम् इति। ज्ञोऽविदर्थस्य (2.3.51) इति करणे षष्ठी॥
Prakriyasarvasvam¶
निर्धारणार्था षष्ठी न समस्यते । नृणां श्रेष्ठोऽयम् । सर्वमहानित्यादौ स्यादिति भोजः । ‘ज्ञोऽविदर्थस्य करणे’ (२-३-५१) इत्यादिप्रतिपदोक्तषष्ठ्या निष्ठान्तेनासमासो वाच्यः । सर्पिषो ज्ञातम् । सर्पिषा प्रवृत्तमित्यर्थः । भावे क्तः ॥
Vartika¶
प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् ।
Sutra Prayogas¶
पुरुषोत्तमः (रघुवंशम्): न निर्धारणे इति षष्ठीसमासनिषेधात् सप्तमीसमासः।
करेणुवर्याः (किरातार्जुनीयम्): न निर्धारण इति षष्ठीसमासनिषेधः।
पुरुषोत्तम (शिशुपालवधम्): न निर्धारणे इति षष्ठीसमासप्रतिषेधः।
परि-पर्युदधे (भट्टिकाव्यम्): पञ्चम्यपापरिभिः इति पञ्चमी।