22001: पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे¶
Padacheda: पूर्व-अपर-अधर-उत्तरम् | S | 1 | 1 |
एकदेशिना | S | 3 | 1 |
एकाधिकरणे | S | 7 | 1 | 3
Sutrartha¶
Vasu English Summary¶
The words पूर्व ‘front’, अपर ‘near’, अधर ‘lower’, उत्तर ‘upper’, are compounded when in construction with a word signifying a thing that has parts, provided that the thing having parts is distinguished numerically by unity; and the compound is तत्-पुरुष।
Vasu English Translation¶
The words पूर्व ‘front’, अपर ‘near’, अधर ‘lower’, उत्तर ‘upper’, are compounded when in construction with a word signifying a thing that has parts, provided that the thing having parts is distinguished numerically by unity; and the compound is तत्-पुरुष। The word ekadhikarana (the unity of substance) is the attribute of or qualifies the word ekadesin. This debars the Genitive Tat-purusha compound ordained by sutra 9 ; which would have placed the words purva &c., last in the compound, whereas being here exhibited in the nominative case (1.2.43) and (2.2.30), they take the precedence.
पर्व+कायस्य = पर्वकायः ‘the front of the body’; अपरकायः ‘the back of the body’; अधरकायः ‘the lower part of the body ‘; and उत्तरकायः ‘the upper part of the body.’
Why do we say ‘what signifies a thing that has parts’? Observe पूर्व नाभेः कायस्य. But not so in पूर्वं छात्राणामामन्त्रय ‘invite the fore-most of the pupils’: because here the substratum (adhikarana) is not unity (eka). But how do we get the compounds like मध्याह्नः ‘noon’; सायाह्नः ‘evening’? The word ahna is compounded with every word signifying its parts, because we learn this by inference from sutra (6.3.110).
Kashika¶
एकदेशोऽस्यास्तीत्येकदेशी अवयवी। तद्वाचिना सुबन्तेन सह पूर्व अपर अधर उत्तर इत्येते शब्दाः सामर्थ्यादेकदेशवचनाः समस्यन्ते, तत्पुरुषश्च समासो भवति। एकाधिकरणग्रहणमेकदेशिनो विशेषणम्। एकं चेदधिकरणमेकद्रव्यमेकदेशि भवति। षष्ठीसमासापवादोऽयं योगः। पूर्वं कायस्य, पूर्वकायः। अपरकायः। अधरकायः। उत्तरकायः। एकदेशिनेति किम्? पूर्वं नाभेः कायस्य। एकाधिकरण इति किम्। पूर्वं छात्राणामामन्त्रयस्व। कथं मध्याह्नः सायाह्न इति? संख्याविसायपूर्वस्याह्नस्या० (६.३.११०) इति ज्ञापकात् सर्वेणैकदेशशब्देनाह्नः समासो भवति॥
Siddhanta Kaumudi¶
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकदेशिना किम् । पूर्वं नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽह्ना समस्यते । संख्याविसाय - (SK238) इति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु सर्वोप्येकदेशः कालेन समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥
Laghu Siddhanta Kaumudi¶
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवादः। पूर्वं कायस्य पूर्वकायः। अपरकायः। एकाधिकरणे किम्? पूर्वश्छात्राणाम्॥
Balamanorama¶
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे - पूर्वापर ।पूर्वापराधरोत्तर॑मिति समाहरद्वन्द्वात्प्रथमैकवचनम् । एकदेशशब्दोऽवयवे रूढः । एकदेशोऽस्यास्तीत्येकदेशी-अवयवी, तेनेति लभ्यते । अधिकरणं=द्रव्यम् । एकमधिकरणम्-एकाधिकरणम् । एकत्वविशिष्टद्रव्ये वर्तमानेऽवयविवाचकसुबन्तेन पूर्वापराधरोत्तरशब्दाः सुबन्ताः समस्यन्ते, स तत्पुरुष इत्यर्थः । फलितमाह-अवयविना सहेत्यादिना । ननु पूर्वश्चासौ कायश्चेति कर्मधारयेणैव ‘पूर्वकाय’ इत्यादि सिद्धम् । भक्त्या कायशब्दस्य कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह — षष्ठीसमासापवाद इति । पूर्वं कायस्येति विग्रहेषष्ठी॑ति सूत्रे समासे सति षष्ठन्तस्य समासविधौ प्रथमानिर्दिष्टत्वात्पूर्वनिपातः स्यात्तन्निवृत्त्यर्थमिदं वचनमित्यर्थः । पूर्वं कायस्येति । अत्र पूर्वं कायस्येति विग्रहवाक्यम् ।अर्ध॑मिति गम्यम् । विसेष्याभिप्रायान्नपुंसकत्वम् ।तस्य परमाम्रेडित॑मिति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात्षष्ठी । पूर्वकाय इति । पूर्वशब्दस्य समासविधौ प्रथमानिर्धिष्टत्वात् पूर्वनिपातः ।परवल्लिङ्ग॑मिति पुंस्त्वमिति भावः ।यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते॑ इतिपारे मध्ये षष्ठआ वे॑त्यत्रोक्तम् । ततश्च एकदेशिसमासाऽभावे षष्ठीसमासो न भवति । अपरकाय इति । अपरं कायस्येति विग्रहः । अपरकायः । उत्तरकायः । एकदेशिना किमिति । एकद्रव्यवाचिना पूर्वादयः समस्यन्त इत्येवास्त्वित्यर्थः । पूर्वं नाभेः कायस्येति । अत्रनाभे॑रिति पूर्वशब्देऽन्वेति । दिग्योगे पञ्चमी । नाभ्यपेक्षया यत् पूर्वमर्द्धं तत् कायावयवभूतमित्यर्थः । अत्र नाभिशब्दस्य पूर्वांशेऽन्वयः । अत्र पूर्वस्यांशय नाभिरवधिरेव, न त्ववयवी । अतो नाभिशब्देन पूर्वशब्दस्य समासो न भवतीत्यर्थः । पूर्वश्छात्राणामिति । अत्र छात्रशब्दः छात्रसमुदायपरः । उद्भूतावयवसमुदायापेक्षं बहुवचनम् । अवयवावयविभावसम्बन्धे षष्ठी । छात्रसमुदायस्य पूर्वमर्धमित्यर्थः । अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भूताववयकतया बहुत्वादेकसंख्यावैशिष्टआऽभावान्न समास इति भावः । ननु अह्नो मध्यं मध्याह्न इत्यत्र कथमेकदेशिसमासः, मध्यशब्दस्य पूर्वादिष्वनन्तर्भावादित्यत आह — सर्वोऽप्येकदेश इति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति ।तत्पुरुषस्ये॑तिअहस्सर्वैकदेशसंख्यातपुण्याच्चे॑ति च प्रकृते,-॒अह्नोऽह्न एतेभ्यः॑ इत्येकदेशवाचकात्परस्याऽहन्शब्दस्याऽह्नादेशो विधीयते । ततश्चाह्नः साय इति विग्रहे अवयविवृत्तिना अहन्शब्देन षष्ठन्तेन अवयववृत्तिसायशब्दस्य तत्पुरुषसमासे सति प्रतमानिर्दिष्टत्वात्सायशब्दस्य पूर्वनिपाते सति एकदेशवृत्तिसायशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशे रात्राह्नाहाः पुंसीति पुंस्त्वे॒सायाह्न॑ इति भवति । तस्मात्सप्तम्येकवचने परेसङ्क्याविसाये॑ति सायशब्दपूर्वकस्याह्नशब्दस्याऽहन्नादेशविकल्प उक्तः । सायाह्नि, सायाहनि, सायाह्ने इत्युदाहरणम् । तत्र अह्नः साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्टत्वादहन्शब्देन समासो न स्यात् तदा ‘षष्ठी’ इति सूत्रेण अहन्शब्दस्य षष्ठन्तस्य सायशब्देन समासे सति षष्ठन्तस्यैव समासशास्त्रे प्रतमानिर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात्परस्याह्नशब्दस्याऽहन्नादेशविधानं निर्विषयं स्यात्, अतःसर्वोऽप्येकदेशोऽह्ना समस्यते॑ इति विज्ञायते इत्यर्थः । मध्याह्न इति । अह्नो मध्यमिति विग्रहेऽयं समासः । ‘राजाहःसखिभ्यष्टच्’ इति टच् । ‘अह्नोऽह्न एतेभ्यः’ इत्यह्नादेशः । सायाह्न इति । अह्नः साय इति विग्रहः । मध्याह्नवत् । ननुसर्वोऽप्येकदेशः कालेन समस्यते॑ इत्ययुक्तं,संख्याविसाये॑ति सूत्रेऽहन्तशब्दस्यैवौपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापन#आऽनुपपत्तेरित्यत आह — ज्ञापकस्येति । अहन्शब्देन सह सायशब्दस्य एकदेशिसमासं सिद्धवत्कृत्य सायशब्दादह्नशब्दोपादानात्सर्वेणाप्यवयविवृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते, ज्ञापकस्य सामान्या पेक्षत्वात्, नत्वहन्शब्देन सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वेऽपि समासो ज्ञाप्यत इति भावः । मध्यरात्र इति । रात्रेर्मध्यमित्यर्थः । पश्चिमरात्रेति । रात्रेः पश्चिममिति विग्रहः ।अहः सर्वैकदेशे॑त्यच्समासान्तः ।
Tattvabodhini¶
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे - पूर्वापर ।एकदेश॑शब्दोऽवयवे रूढः । अतएव तस्य कर्मधारायत्वेऽपि ततो मत्वर्थीयः ।कृष्णसर्पवा॑नित्यत्रेवन कर्मधारयान्मत्वर्थीयः॑इति निषेधस्य रूढेष्वप्रवृत्तेः । यद्यपीहएकगोपूर्वादि॑ति ठञ् प्राप्तः, तथाप्यत एव निर्देशादिनिः । तदेतदाह — अवयविनेति । नन्विदं सूत्रं व्यर्थं,पूर्वकाय॑इत्यादिप्रयोगाणां कर्मधारयेणैव सिद्धेः,ऊध्र्वकाय॑इतिवत्,समुदाये हि वृत्ताः शब्दा अवयवेष्वपि प्रवर्तन्ते॑इति न्यायादत आह — षषाठछीसमासापवाद इति । तथा चकायपूर्वं॑इत्याद्यनिष्टप्रयोगनिवृत्तये सूत्रमिति भावः । पूर्वं कायस्येति । यद्यपिअन्यारा॑दिति सूत्रेदिशि दृष्टः शब्दो दिक्शब्द॑इति व्याख्यानेन संप्रत्यदिग्वृत्तिनापि योगे पञ्चमी स्वीकृतेति षष्ठीह दुर्लभा, तथापितस्य परमाम्रेडित॑मिति लिङ्गात्अवयववाचिदिक्शब्दयोगे पञ्चमी ने॑त्युक्तत्वात्षष्ठएव भवतीति भावः । पूर्व नाभेरिति । नाभेर्यः पूर्वो भागः स कायस्यावयव इत्यर्थः ।नामे॑रिति दिग्योगलक्षणा पञ्चमी । तेनाऽत्र पूर्वस्य भागस्य नाभिरवधिः, न त्वेकदेशिनीति नाभ्या सह समासो नेत्यर्थः । कायेन तु स्यादेवपूर्वकायो नाभेः॑इति । पूर्वशब्दस्य नित्यसापेक्षत्वात्प्रधानत्वाच्च । पूर्वश्छात्राणामिति । नासौ निर्धारणे षष्ठी, किं तु समुदायसमुदायिसंबन्धे । बहुवचनं तद्भूतावयवभेदसमुदायविवक्षया । ततश्छात्राणामेकदेशित्वे सत्यप्येकत्ववैशिष्टआऽभावान्न समासः । सर्वोऽपीति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति । अन्यथा अह्नस्य सायपूर्वत्वं न स्यादिति भावः । मध्याह्न इति ।राजाहःसखिभ्याः॑इति टच् ।अह्नोह्न॑इत्यह्ना देशःष । अयं चादेशो मध्याह्नसायाह्नशब्दयोरूध्र्वकायवत्कर्मधारयेण न निर्वहति, तस्यैकदेशिसमासप्रयुक्तत्वात्, अतोऽत्र ज्ञापकाश्रयणं युक्तमेवेति बोध्यम् । इत्याहुरुतु । न चैवंदिनमध्यो॑रात्रिमध्य॑इत्यादि न सिध्येदिति वाच्यम् । ज्ञापकसिद्धस्याऽसार्वत्रिकत्वात् ।
Padamanjari¶
एकदेशोऽस्यास्तीत्येकदेशीति। एकगोपूर्वादिति ठञ् प्राप्नोति, अत एव निर्देशादिनिर्द्रष्टव्यः। एकदण्डीत्ययं त्वपशब्दः एको दण्डो यस्येति बहुव्रीहिणैव गतत्वान्मत्वर्थ एव दुर्लभः, किं पुनरिनिष्ठञा बाधितः? एकदेशब्दस्तु कर्मधारय एवावयववचन इति न तत्र बहुव्रीहिणा गतत्वम्, यथा - कृष्णसर्पवानिति। सामर्थ्यादेकदेशवचना इति। एकदेशमपेक्ष्यैकदेशी भवति, नान्यथेत्येतत्सामर्थ्यम्। एकाधिकरणग्रहणमेकदेशिनो विशेषणमिति। सत्सप्तम्यन्तवैयधिकरण्येनेति भावः, तदाह - एक चेदिति। एकत्वसंख्याविशिष्टमित्यर्थः। समानाभिधेयवचन एकाधिकरणशब्दो न भवति, अवयवावयविशब्दयोः सामानाधिकरण्यानुपपतेः, समानाधिकरण्येनेति प्रकृतत्वाच्च। स्यादेतत् -‘समुदायेषु हि दृष्टाः शब्दाः अवयवेष्वपि वर्तन्ते’ इति न्यायेन समानाधिकरण्ये सति पूर्वश्चासौ कायश्चेति विशेषणमित्येव सिध्दः समासो नार्थ एतेन, एवं च कृत्वा परवल्लिङ्गमित्यत्र तत्पुरुषग्रहणं न कर्तव्यं भवति, कथम्? उतरपदार्थप्रधानत्वादेव सिध्दमिति, तत्रह - षष्ठीसमासापवादोऽयं योग इति। सिध्दं तु कथञ्चित्पूर्वकाय इति, कायपूर्व इत्यस्य निवृत्यर्थमेव तु सूत्रं कर्तव्यमित्यर्थः। पूर्वे कायस्येति। यद्यपि दिशि दृष्टः शब्दो दिक्शब्द इत्याश्रयणात्सम्प्रत्यदिग्वृत्तिनीपि योगे पञ्चमी भवति,’तस्य परमाम्रेडितम्’ इति लिङ्गादवयववृत्तिभिर्योगे षष्ठी भवति। पूर्वे नाभेः कायस्येति। नाभेरिति दिग्योगलक्षणा पञ्चमी, मायसम्बन्धी नाभ्यपेक्षया पूर्वो भाग इत्यर्थः। तत्र नाभिरेकदेशी न भवतीति न तेन समासो भवति। यस्त्वेकदेशी कायस्तेन समासो भवत्येव - पूर्वकायो नाभेरिति, पूर्वशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिति केचिदाहुः। अन्ये तु - यत्रार्थप्रकरणादिनावधिर्गम्यते तत्रैव समासः, न शब्दोपादाने इत्याहुः। पूर्वे छात्राणामिति। नेयं निर्ध्दारणे षष्ठी, किं तर्हि? समुदायः छात्राणामित्यनेनोच्यत इति बहुवचनम्, यथा-छात्राणां पञ्चम इति, ततश्च छात्राणामेकदेशित्वमस्त्येव, किं तु बहुत्वसंख्याविशिष्टानामिति समासाभावः। संख्याविसायपूर्वस्येत्यादि। न ह्यन्यथा सायपूर्वत्वमह्वस्योपपद्यते इति भावः। केचितु - सर्वेणैकदेशवाचिना कालवाचिनः समासो भवति, न त्वमहन्शब्दस्यैवेति ज्ञापकशरीरं वर्णयन्ति, तेन मध्यरात्र इत्यपि सिध्दं भवति॥
Nyaas¶
सामर्थ्यादेकदेशवचनाः इति। यदि हि पूर्वादयः शब्दा एकदेशवचना न स्युसतदोत्तरपदस्यैकदेशित्वं न गम्येत;एकदेशिन एकदेशापेक्षत्वात्। तस्मात् सामान्योक्ता अपि पूर्वादयः शब्दा सामर्थ्यादेकदेशवचनाः समस्यन्त इति विज्ञायते। एकाधिकरणग्रहणमेकदेशिनो विशेषणमित्यस्यार्थं विस्पष्टीकर्तुमाह - एकं च इत्यादि। एकमित्येकसंख्याविशिष्टं द्रव्यमित्यर्थः। एकद्रव्यम् इत्यनेनाधिकरमशब्दोऽत्र द्रव्ये वर्तमान उपात्त ति दर्शयति। ननु एकदेशिना इति तृतीयान्तमेतत्, एकाधिकरणे इत्येतत् सप्तम्यन्तम्, तत् कथं तयोर्भिन्नविभक्तिकयोः सामानाधिकरण्येन विशेषणविशेष्यभाव उपपद्यते, कथञ्च न स्यात्; भिन्नार्थत्वात्? नैतदस्ति; `छन्दोवत् सूत्राणि भवन्ति (म।भा।1.1.1) इत्यतो व्यत्ययो बहुलम् (3.1.85) इति बहुलवचनात्। एकाधिकरणे इत्यत्र तृतीयार्थ एवैषा सप्तमी। न सप्तम्यधिकरणे च (2.3.36) इत्यनेन। अतो नास्ति भिन्नार्थत्वमित्यदोषः। षष्ठीसमासापवादोऽयं योगः इति। एकदेशिना इति वचनात् पूर्वादयः शब्दा एकदेशवचना आश्रीयन्ते। सम्बन्धिशब्दा हि नियतमेव प्रतियोगिनमुपस्थापयन्ति। तत्रावयवावयविसम्बन्धे स्तेयकदेशिनः षष्ठआमुपजनितायां षष्ठी (2.2.8) इति समासः प्राप्नोति, अतस्तदपवादोऽयं योग इति। पूर्वकायः इत्यत्र काय एकदेशी, एकद्रव्यञ्च; एकसंख्यायुक्तत्वात्।पूर्वं नाभेः कायस्य इति। नाभेरिति दिग्योगलक्षणा पञ्चमी। नाभेरुपरिष्टात् यत् पूर्वं तत् कायस्येत्येषोऽर्थो विवक्षितः। तेनात्र नाभिरेकदेशिनी न भवति। किं तर्हि? अवधिभूता, तद्वाची नाभिशब्दः पञ्चम्यन्तो न समस्यन्ते। यस्त्वेकदेशी कायस्तद्वाचिनः कायशब्दस्य भवत्येव समासः। सत्यपि पूर्वशब्दस्य सापेक्षत्वे कायस्य प्राधान्यात् प्रधानस्यच सापेक्षस्यापि समासो भवतीति ज्ञापितमेतत् उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (2.1.56) इत्यत्र। पूर्वं {छात्राणामामन्त्रय इत मूलपाठः, पदमञ्जरीसम्मतश्च।} छात्राणामामन्त्रयस्व`इति। अत्र बहुत्वसंख्याविशिष्टैकदेशिनश्छात्रा इति न भवति समासः। ननु चात्र परत्वात् `न निर्धारणे (2.2.10) इति षष्ठीसमासनिषेधो भविष्यति। तत् {किमेवाधिकरणे- इति मुद्रित पाठः।} किमेकाधिकरणग्रहणेन? नैतदस्ति; यदि तह्र्रामन्त्रयस्वेत्येतन्नापेक्ष्यते तदा पूर्वं छात्राणामित्येतावद्वाक्यं परिसमाप्यते,तदा निर्धारणाभावान्नायं तस्य प्रतिषेधस्य विषय इत्यसत्येकाधिकरणेऽनेकसंख्येनाप्येकदेशिना समासः स्यात्। अथ सर्वं हि वाक्यं क्रियया परिसमाप्यत इति पूर्वं छात्राणामित्यत्र यां काञ्चित् क्रियामध्याह्मत्य निर्धारणं परिकल्प्येत, एवं पूर्वं कायस्य इत्यत्रापि निर्धारणं स्यात्। अस्ति ह्यत्राप्यकर्षणक्रिया निर्धारणहेतुः। तथा च तस्यैव योगस्य विषये किलारभ्यमाणोऽयं योगस्तदपवादः स्यात्। न चोत्सर्गापवादयोर्विप्रतिषेध उपपद्यते, तत्कथं परत्वात् न निर्धारणे (2.2.10) इति प्रतिषेधः प्रवर्तते - संख्याविसायपूर्वस्येत्यादि? यदयं संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (6.3.110) इत्याह, ततो ज्ञापकादवसीयते - सर्वेणैकदेशिनाऽह्नः समासो भवतीति। अन्यथा हि सायपूर्वत्वमह्नशब्दस्य नोपपद्यत इत्ययुक्तमेतद्वचनं स्यात्॥
Praudhamanorama¶
पूर्वापरा ॥ एकदेशशब्दोऽवयवे रूढः । अत एव तस्य कर्मधारयत्वेऽपि ततो मत्वर्थीयः, ‘कृष्णसर्पवान् वल्मीक’ इतिवत् । यद्यपीह ‘एकगोपूर्वादि’ति ठञ् प्राप्तस्तथाऽपि अत एत्र निर्देशादिनिः । तदेतदाह - अवयविनेति । ननु किमनेन सूत्रेण, कर्मधारयेणैव ‘पूर्वकाय’ इति सेत्स्यति, ऊर्ध्वकायवत्, ‘समुदाये वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते’ इति न्यायादत आह- षष्ठीत्यादि । तथा च ‘कायपूर्व’ इत्यादिप्रयोगव्यावृत्तये सूत्रमिति भावः । नन्विह षष्ठी तु दुर्लभा, ‘अन्यारादि’ति पञ्चमीप्रसङ्गात् । तत्र हि ‘दिशि दृष्टः शब्दो दिक्शब्द’ ति व्याख्यानेन सम्प्रत्यदिग्वृत्तिनाऽपि योगे पञ्चमी स्वीकृतेति चेत् । सत्यम् । अवयववृत्तिभिर्योगे षष्ठ्येवेष्यते, ‘तस्य परमाम्रेडितमि’ति लिङ्गात् । पूर्वं नाभेरिति । नाभेर्यः पूर्वो भागः, स कायस्याऽवयव इत्यर्थः । ‘नाभेरि’ति दिग्योगलक्षणा पञ्चमी। अत्र पूर्वस्य भागस्य नाभिरवधिः, न त्वेकदेशिनी । अतो नाभ्या सह समासो नेत्यर्थः । कायेन तु स्यादेव पूर्वकायो नाभेरि’ति । ‘पूर्वशब्दस्य नित्यसापेक्षत्वात्प्राधान्याच्च । पूर्वश्छात्राणामिति । समुदायसमुदायिसम्बन्धे षष्ठी । बहुवचनं तु उद्भूताऽवयव भेदसमुदायविवक्षया - यथा ‘छात्राणां पञ्चम’ इति । ततश्छात्राणामेकदेशित्वे सत्यपि एकत्वसंख्या वैशिष्ट्याऽभावान्न समासः । सर्वोऽपीति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति । न ह्यन्यथा सायपूर्वत्वमह्नस्योपपद्यते । न चोर्द्ध्वकायवत् सामानाधिकरण्येन निर्वाहः शङ्क्यः । ‘अहः सर्वैकदेशेत्यादिना विहितस्य समासान्तस्य च ‘अह्नोऽह्न एतेभ्य’ इत्यह्नादेशस्य चैकदेशिसमासं विनाऽनुपपत्तेरिति भावः । इत्याहुरिति । न चैवं ‘दिनमद्ध्यः’ ‘रात्रिमद्धयः’ इत्यादि न सिद्ध्येदिति वाच्यम् । ज्ञापकसिद्धस्याऽसार्वकत्रिकत्वात् । यत्तु प्राचोक्तं- ‘सर्वेणैकदेशेनाऽह्नः समास’ इति । तन्न । एकदेशस्य तृतीयानिर्दिष्टस्य परनिपाताऽऽपत्तौ धर्मिग्राहकमानविरोधात् । यद्धि पाठाऽन्तरं- ‘सर्वेण एकदेशिनाऽह्नः’ इति । तदपि न । अहरेव ह्येकदेशि । न च तेनैव तस्य समास इति सम्भवति ।
Prakriyasarvasvam¶
भागवाचिनः पूर्वादयः शब्दाः एकद्रव्यत्वे सति भागिना समस्यन्ते । षष्ठीसमासस्यापवादोऽयम् । कायस्य पूर्वो भागः पूर्वकायः । एवमपरकायः । अधरकायः । उत्तरकायः । एकदेशिनैव समासोक्तेः पूर्वं नाभेरित्यत्र न । एकद्रव्यत्वाभावाद् योध्दानां पूर्वोऽश इत्यत्र न । ‘सायाह्नमध्याह्नमध्यन्दिनमध्य- रात्रादयः’ (स० ३–२–१२३) इति भोजः । अह्नः सायोऽवसानभागः सायाह्नः । मध्यन्दिने निपातनान्मुम् । आद्युक्तेः पश्चिमरात्रः ॥
Sutra Prayogas¶
अपराह्नशीतलतरेण (शिशुपालवधम्): पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे इत्येकदेशिसमासः।