22009: याजकादिभिश्च

Padacheda: याजक-आदिभिः | S | 3 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

A word ending with a sixth case-affix is compounded with the word याजक ‘sacrificer’ etc. and the compound is तत्-पुरुष।

Vasu English Translation

A word ending with a sixth case-affix is compounded with the word याजक ‘sacrificer’ etc. and the compound is तत्-पुरुष। The compound which was ordained by the last aphorism, would have been prohibited by Rule 16 in the case of याजक &c.; hence the necessity of the present aphorism to guard against such a prohibition. As ब्राह्मणबाजकः ‘a Brahmana’s sacrificer.’ क्षत्रिययाजकः ‘one who sacrifices for Kshatriyas’.

(याजकादि) 1.याजक. 2. पूजक . 3. परिचारक. 4. परिवेषक. 5. परिषेचक. 6.स्नापक or स्नातक. 7.अध्यापक. 8. उत्साहक or उत्सादक. 9. उद्वर्तक. 10. होतृ. 11. नर्तृ . 12. रथगणक. 13. पत्तिगणक. 14. पोतृ. 15. हतृ. 16. वर्तक.

Vart:-A word in the genitive case is compounded with a word expressing a quality which abides in the former word. As ब्राह्मणवर्णः ‘Brahmana-caste.’ चंदनगन्धः ‘sandal-scent.’ कपित्थरसः ‘the wood-apple juice.’

Vart:-So also with an adjective in the comparative degree ; and the sign of comparison तर is elided. Thus सर्वेषां श्वेततरः = सर्वश्वेतः ‘the whitest of all.’ सर्वेषां महत्तरः = सर्वमहान् ‘the greatest among all.’ This ‘vartika’ is an exception in anticipation to the next sutra which prohibits composition, when the genitive has the force of specification. Thus सर्वशुक्ला गौः ‘a cow whitest among all.’

Kashika

पूर्वेण समासः सिद्ध एव, तस्य कर्तरि च**( २.२.१६) इति प्रतिषेधे प्राप्ते वचनमिदमारभ्यते प्रतिप्रसवार्थम्। याजकादिभिः सह षष्ठी समस्यते, तत्पुरुषश्च समासो भवति। ब्राह्मणयाजकः। क्षत्रिययाजकः॥ याजक। पूजक। परिचारक। परिषेचक। स्नातक। अध्यापक। उत्सादक। उद्वर्तक। होतृ। पोतृ। भर्तृ। रथगणक। पत्तिगणक॥ तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यम्॥ चन्दनगन्धः। कपित्थरसः॥ गुणात्तरेण तरलोपश्चेति वक्तव्यम्॥ सर्वेषां श्वेततरः, सर्वश्वेतः। सर्वेषां महत्तरः, सर्वमहान्। **न निर्धारणे (२.२.१०) इति प्रतिषेधे प्राप्ते वचनमिदम्। सर्वशुक्ला गौः॥

Siddhanta Kaumudi

एभिः षष्ठ्यन्तं समस्यते । तृजकाभ्यां कर्तरि (SK709) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः ।<!गुणात्तरणे तरलोपश्चेति वक्तव्यम् !> (वार्तिकम्) ॥ तरबन्तं यद्गुणवाचि तेन सह समासस्तरप्प्रत्ययलोपश्च । न निर्धारणे (SK704) इति पूरणगुण (SK705) इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ।<!कृद्योगा च षष्ठी समस्यत इति वाच्यम् !> (वार्तिकम्) ॥ इध्मस्य व्रश्चनः इध्मव्रश्चनः ॥

Balamanorama

याजकादिभिश्च - याजकादिभिश्च । ननुषष्ठी ॑ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह तृजकाभ्यामिति । ब्राआहृणयाजक इति । ब्राआहृणस्य याजक इति विग्रहः । यजतेण्र्यन्तात्कर्तरि ण्वुल् । अकादेशः ।कर्तृकर्मणोः कृती॑ति कर्मणि षष्ठी । देवपूजक इति । देवानां पूजक इति विग्रहः । पूजकशब्दो याजकादिरिति भावः ।भूभर्ते॑ति तृजन्तस्योदाहार्यम् । भर्तृशब्दस्य याजकादित्वात् । गुणात्तरेणेति । वार्तिकमिदं सर्वं गुणे॑ति सूत्रे भाष्ये स्थितम् । गुणवाचकाद्विहितो यस्तरप्तदन्तेन षष्ठी वा समस्यते, तरपो लोपश्चेत्यर्थः । फलितमाह — तरबन्तं यदिति । ननुषष्ठी॑ति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — न निर्धारणे इति ।सर्वं गुणे॑ति सूत्रे भाष्ये तुपूरणगुणेत्यस्यापवाद॑इत्येवोक्तम् । सर्वशब्दानुवृत्तेः सर्वंशब्द एवेदं वार्तिकमित्यभिप्रेत्योदाहरति — सर्वओत इति । ‘वकानां गुण’ इति शेषः । द्रव्यान्तरवृत्तिओतरूपापेक्षया सर्वेषां वकानां ओतगुणोऽयमधिक इत्यर्थः । ‘द्विवचनविभज्य’ इति विभक्तव्योपपदे तरप् । अत्र सर्वेषामिति षष्ठन्तस्य ओततरशपब्देन समासे तरपो लोपेसर्वओत इति रूपम् । सर्वमहानिति । ‘ईआर’ इति शेषः । पूर्ववत्तरप् । ‘सर्वेषां महत्तरः’ इति विग्रहः । इतरसंबन्धिमहत्तावापेक्षया ईआरस्य महत्त्वमधिकमित्यर्थः । कृद्योगेति । कृता योगो यस्या इति विग्रहः ।कर्तृकर्मणोः कृतीति विहिते॑ति भाष्यम् । इध्मप्रव्रश्चन इति । ‘कुठार’ इति शेषः । प्रवृश्च्यतेऽनेनेति प्रव्रश्चनः॑ । करणे ल्युट् । इध्मानां प्रव्रश्चन इति विग्रहः । कर्मणि षष्ठी ।प्रतिपदविधाने॑ति वक्ष्यमाणनिषेधस्यापवादोऽयम् ।

Tattvabodhini

याजकादिभिश्च - याजकादिभिश्च । याजक । पूजक । परिचारक । परिवेषक । स्नातक । अध्यापक । उत्पादक । होतृष । पोतृ । भर्तृ । रथगणक । पत्तिगणक । वृत् ।गुणात्तरेण तरलोपश्चेति वक्तव्यम् । गुणात्तरेणेति । एतच्च वार्तिकंसर्वं गुणकार्त्स्न्ये॑इत्यत्र पठितम् ।कृद्योगा[च] षष्ठी समस्यत इथि वाच्यम् ।कृद्योगा षष्ठीति ।कर्तृकर्मणोः कृती॑ति कृत्सनियोगेन कृतेत्यर्थः । यदा तुप्रतिपदविधाने॑त्यादिनिषेधवचनमारभ्यते, तदेदं तद्बाधनायारब्धव्यम् । तस्यैवाऽनारभ्यत्वमनुपदं वक्ष्यामः । इध्मव्रश्चन इति । वृक्ष्यते छिद्यतेऽनेनेति व्रश्चनः=कुठारादिति । करणे ल्युट् । इध्मानामिति कर्मषष्ठन्तस्यानेन समासः ।

Padamanjari

याजकादिभिश्च॥ प्रतिप्रसवार्थमिति। अन्येन निवर्तितस्य पुनः प्रवृत्यभ्यनुज्ञानमुप्रतिप्रसवः। तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यमिति क्वचिद्वृतौ पठ।ल्ते, तस्यार्थः - तच्छब्देन सन्निधानाद् गुणा एव परामृश्यन्ते, तस्मिंस्त्वात्मनि ये गुणाः स्थितास्तैः षष्ठी समस्यते। न च स्वात्मन्यवस्थानं कस्यचित्सम्भवति, भेदनिबन्धनो ह्याधाराधेयभावः; विशेषतो गुणानां द्रव्याश्रितत्वात्। तस्मादभिधानव्यापारापेक्षया तत्स्थत्वमुच्यते। गन्धादयो हि गुणाः स्वशब्दैर्द्रव्यात्पृथक्कृता एव च प्रत्याय्यन्ते - चन्दनस्य गन्ध इति, न तु कदाचिद् द्रव्येणैकत्वमापन्नाः न हि भवति चन्दनं गन्ध इति। शुक्लादयस्तु कदाचिद् द्रव्यात्पृथग्भूताः प्रत्याय्यन्ते - पटस्य शुक्ल इति, कदाचिद् द्रव्यस्योपञ्जकास्तेनैकत्वमापन्नाः - शुक्लः पट इति। तत्र ये गुणा द्रव्यात्पृथग्भूता एव स्वशब्देन प्रत्याय्यन्ते तत्परिग्रहाय’तत्स्थैः’ इत्युक्तम्। बलाकायाः शौक्ल्यमित्यत्र तु यद्यपि शौक्ल्यशब्देन द्रव्यात्पृथग्भूतस्यैवाभिधानम्, तथापि तदेव शौक्ल्यं शुक्लः पट इत्यत्र द्रव्येणैकतामापन्नं प्रत्याय्यते। अर्थस्य तत्स्थत्वमाश्रीयते, इति शब्दभेदेऽप्यर्थः स एवेति नास्ति शौक्ल्यस्य तत्स्थत्वमिति समासाभावः। रूपवान्पट इत्यत्र भेदाश्रयेणैव मत्वर्थीयेनाभेदोऽध्यवसीयते इति तत्स्थमेव रूपमिति पटरूपमिति भवत्येव समासः। अयमपि’गुणेन न’ इति प्रतिषेधस्य पुरस्तादपकर्षः। चन्दनगन्ध इति।’गन्धं विक्रीणीते’ इति चन्दनगन्धादौ गन्धशब्दो जातिनिमितकः, न गुणशब्दः; मालतीकुसुमादिष्वदर्शनादिति तत्स्थ एव गन्धः। भाष्ये तु’न तु तद्विशेषणैः’ इति पठितम्, तेषां गुणानां यानि विशेषणानि तैः सह समासो न भवति - घृतस्य तीव्रो गन्धः, चन्दनस्य मृदुः स्पर्श इति तीव्रमृदुशब्दाभ्यां समासो न भवति। तदिदमन्यथासिद्धमिति वृत्तिकारेण उपेक्षितम् कथम्? घृतस्य गन्धेन सम्बन्धः, न तद्विशेषणेन तीब्रेण। यदापि प्रकरणादिवशातीव्रशब्द एव विशेषे गन्धे वर्तते, तदुपजनित एव व्यतिरेके घृतस्येति षष्ठी, तथापि तीव्रं घृतमिति दर्शनातत्स्थत्वाभावादेव समासाप्रसङ्गः॥

Nyaas

चकारोऽनुक्तसमुच्चयार्थः। तेन तत्स्थैश्च गुणैः षष्टी समस्यत इति वक्तव्यम् (इति) इति न वक्तव्यं भवति;अनेनैव सिद्धत्वात्। तस्मिन् स्थिताः = तत्स्थाः। प्रकृतस्यान्यस्याभावात् तदित्यनेन गुणा एव प्रत्यवमृश्यन्ते। तेन गुणात्मन्येव ये गुणा वर्तन्ते , न कदाचिद्द्रव्यात्मनि, तैः षष्ठी समस्यते। यद्यपि नास्त्येव हि स गुणो यो द्रव्ये न वर्तते, सर्वनस्य गुणस्य द्रव्याश्रितत्वात्; तथापि गुणशपब्दास्तु केचित् मतुब्लोपादबेदोपचाराद्वा तद्वति द्रव्ये वर्तमाना गुणमाधारानुगतं गमयन्ति, यथा - शुक्लः पटः, लोहितः कम्बल इति। अपरे त्वाश्रयाद्विभक्तं द्रव्यं प्रत्यनुपसर्जनीभूतं गुणमाहुः, यथा - चन्द्रनस्य गन्धः, कपिस्थस्य रस इति। तस्मादभिधानशक्तव्यापारापेक्षया तत्स्थैरिति विशेषणं युक्तम्। तदेतदुक्तं भवति - ये गुणाः स्वशब्दैद्र्रव्यं प्रत्यनुपसर्जनभावापन्ना एव प्रत्याय्यन्ते, तैः सह षष्ठी समस्यत इति चन्दनस्य गन्धशब्दनगन्धः, कपित्थस्य रसः कपित्थरसः। गन्धादयो हि स्वशब्दैराधारविभक्ता एव प्रत्याय्यन्ते, न तु कदाचिदाश्रयानुगता द्रव्यं प्रति विशेषणीभूताः॥

Prakriyasarvasvam

‘तृजकाभ्याम्—’ (२-२-१५) इति निषेधं बाधित्त्वैभिः षष्ठी समस्यते । द्विजयाजकः । हरिपूजकः इत्यादि । ‘याजकपूजकपरिचारकपरिवेषकस्नापकाध्याप- कोत्सादकोन्मादकोद्वर्त्तकहोतृभर्त्रादिभिश्च’ । (स० ३-२-१३४) भर्तृशब्दोऽत्र धवार्थः । श्रीभर्त्ता । अन्यत्र न । वज्रस्य भर्त्ता । ‘रथपत्ती गणकेन (स० ३-२- १३५) । रथगणकः । पत्तिगणकः ॥