22012: क्तेन च पूजायाम्

Padacheda: क्तेन | S | 3 | 1 |

च | S | 0 | 0 |

पूजायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

A word ending with sixth case-affix is not compounded with a word ending with the affix क्त , when the force of क्त is to denote ‘respect’ etc.

Vasu English Translation

A word ending with sixth case-affix is not compounded with a word ending with the affix क्त , when the force of क्त is to denote ‘respect’ etc. The affix क्त is added in the sense of inclination, understanding or respect by sutra (3.2.188). The present sutra alludes to that aphorism when it uses the word पूजाः and puja itself is used only as an illustration and includes the other two significations of ‘kta’ also, namely mati ‘inclination,’ and buddhi ‘understanding.’

As राज्ञां मतः -बुद्धः - पूजितः ‘the king wishes, understands or respects.’

Why do we say ‘when meaning respect’? When ‘kta’ has not this signification there is compounding. As छात्रहसितं ‘pupil’s laughing.’

Kashika

मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति वक्ष्यति तस्येदं ग्रहणम्। पूजाग्रहण — मुपलक्षणार्थम्। क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते। राज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। पूजायामिति किम्? छात्रस्य हसितम्, छात्रहसितम्॥

Siddhanta Kaumudi

मतिबुद्धि - (SK3089) इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥

Balamanorama

क्तेन च पूजायाम् - क्तेन च । अत्र पूजाग्रहणंमतिबुद्धिपूजार्थेभ्यश्चे॑ति सूत्रोपलक्षणं । तदाह — मतिबुद्धीति सूत्रेणेति । राज्ञा मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणो ज्ञायमानः पूज्यमान इति क्रमेणार्थः ।मतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तः । ‘क्तस्य च वर्तमाने’ इति षष्ठी । नन्वेवं सति ‘राजपूजितः’ ‘राजमतः’ ‘राजबुद्ध’ इति कथं समास इत्यत आह-राजपूजित इत्यादाविति ।

Tattvabodhini

क्तेन च पूजायाम् - क्तेन पूजायाम् । सूत्रे उपलक्षणं पूजाग्रहणं, व्याख्यानादित्याह — मतिबुद्धीति । राज्ञामिति ।क्तस्य च वर्तमाने॑इति कर्तरि षष्ठी । भूत इति । न च तक्रकौण्डिन्यायेन मत्यादिब्यः क्तस्य वर्तमानकालो भूतकालतां बाधत इति वाच्यं,तेनैकदि॑दित्यतःतेन॑ इत्याधिकारेउपज्ञाते॑इति निर्देशेन भूतकालस्याऽबाधज्ञापनात् ।उपज्ञाते॑इत्यत्र हि भूते क्तो, न तु वर्तमाने । अन्यथाक्तस्य च वर्तमाने॑इति षष्ठीविधानादुपज्ञतशब्दस्य तेनेति । तृतीयायोगो न स्यात् । न चैवमपि ज्ञानार्थेष्वेव ज्ञापकत्वमस्त्विति वाच्यं,पूजितोः यः सुरासुरैः॑इति प्रयोगानुरोधेन सामान्यविषयज्ञापकत्वस्यैव न्याय्यत्वात् । अन्ये तु कारकषष्ठआ एव समासनिषेधोऽयम्, शेषषष्ठआ तु समासः स्यादेवेत्याहुः । एतेनकलहं स राममहितः कृतवा॑निति सभट्टिप्रयोगो व्याख्यातः ।राममहितः स, कलहं कृतवा॑नित्यन्वयः ।

Padamanjari

क्तेन च पूजायाम्॥ तस्येति। मत्यादिसूत्रविहितस्य सर्वस्यैव क्तस्य ग्रहणं न तु पूजायामेव विहितस्येत्यर्थः। कथं तर्हि पूजाग्रहणमित्याह - पूजाग्रहणमिति। विवक्षितस्य क्तस्य तटस्थमुपलक्षणं पूजाग्रहणम्, गृहस्येव काकः, न तु समासनिषेधार्थमित्यर्थः। तेन मतिबुद्ध्योरपि विहितस्य ग्रहणं भवतीति भावः। पूजायां विहित इति। वर्तमानादिति शेषः। राज्ञामिति।’क्तस्य च वर्तमाने’ इति षष्ठी। कथं राजाभिमत इति, अस्ति हि भट्टिकाव्ये प्रयोगः -‘कानहं स राममहितः कृतवान्’ इति,’मह पूजायाम्’ रामस्य महित इत्यर्थः? कश्चिदाह - ‘यदा वर्तमाने क्तस्तदा षष्ठीसमासनिषेधश्च, यदा भूते क्तस्तदा कर्तरि तृतीयैव भवति, यथा -‘पूजितो यः सुरैरपि’ इति, तस्याः’कर्तृ करणे कृता बहुलम्’ इति समासः’ इति। स्यादेवं यदि भूते क्तो लभ्यः, न; नाप्राप्ते तस्मिन्नारभ्यमाणः’भतिबुद्धिपूजार्थेभ्यश्च’ इति वर्तमाने क्तस्तस्य बाधको भवति, यथा च वडवाया वृषे वाच्य इति अपत्ये प्राप्तो ठक् ततोऽपकृष्य विधीयते, अपत्ये त्वणेव भवतीति वक्ष्यति। एवं च’पूजितो यः सुरैरपि’ इत्यचिकत्स्योऽपशब्दः। त्वया ज्ञातो मया ज्ञात तु भवत्येव; तेनेत्यधिकारे उपज्ञात इति निर्देशात्। अपर आह -‘क्तेन च पूजायाम्’ इत्यादिषु कारकषष्ठ।ल एव निषेधः। तदेव तु कर्तादिकारकं यदा शेषरूपेण विवक्ष्यते तदा भवत्येव समास इति। तत्र स्वरे विशेषः, कारकषष्ठयाः समासे कृत्स्वरो भवति, शेषषष्ठयाः समासे समासान्तोदातत्वमिति। एवं तु यत्’जनिकर्तुः प्रकृतिः’ , तत्प्रयोजको हेतुश्चऽ इत्यादावुच्यते -‘निपातनात्समासः’ इति, तदनुपपन्नम्; शेषषष्ठ।ल एव समासस्य सिद्धत्वात्। अथ येऽमी नवीना वैयाकरणा आरभन्ते तदपार्थकमापद्येत। तस्मादाप्तप्रयोगस्य यथाकथंचिन्निर्वाहः, न तु यथारुचि पद्ययोग इति धीरा मन्यन्ते॥’क्तेन’ इति निवृतम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। ठुभयप्राप्तौ कर्मणिऽ इति षष्ठ।ल इदं ग्रहरगम्। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते ओदनस्य भोजनं देवदतेन। साधु खलु पयसः पानं देवदतेन। विचित्रा सूत्रस्य कृतिः पाणिनिना॥

Nyaas

``मतिबुद्धिपूजार्थेभ्यश्च` इति वक्ष्यति`इति। क्तमिति वाक्यशेषः। तस्येदं ग्रहणम् इति। मतिबुद्धि (3.2.188) इत्यादिना सूत्रेण यो विहितः क्तः, तस्य पूजायामन्यत्र च सर्वस्य विहितस्येदं ग्रहणम्। न केवलं पूजायां यो विहितस्त्सयैवेष्यत इत्यभिप्रायः। अत एवाह - पूजाग्रहणमुपलक्षणार्थम् इति। कस्योपलक्षणार्थम्? मतिबुद्धि (3.2.188) इत्यादौ सूत्रे निर्दिष्टार्थस्य यः क्तो विधीयते तस्य मत्यादेः। तेन न केवलं पूजायां यः क्तो विहितस्तेन षष्ठीसमासप्रतिषेधो भवति, अपि तु मतिबुद्धयोरपि यो विहितस्तेनापि। राज्ञां मतः इति। क्तस्य च वर्तमाने (2.3.67) इति षष्ठी। पूजायां किम्? छात्रस्य हसितं छात्रहसितम्। नपुंसके भावे क्तः (3.3.114) शेषलक्षणा षष्ठी॥

Praudhamanorama

क्तेन च पूजायाम् ॥ पूजाग्रहणमुपलक्षणमिति व्याचष्टे - मतिबुद्धीति । भूत इति । न च तक्रकौण्डिन्यन्यायेन मत्यादिभ्यः क्तस्य वर्तमानकालो भूतकालतां बाधत इति वाच्यम् । ‘तेने’त्यधिकारे ‘उपज्ञाते’ इति निर्देशेनाऽबाधज्ञापनात् । न च ज्ञानार्थ एव ज्ञापकम् । ‘पूजितो यः सुराऽसुरै’ रित्यादिप्रयोगाऽनुरोधेन सामान्यविषयकत्वस्यैव न्याय्यत्वादित्यनुन्यासकारः । अन्ये तु ‘कारकषष्ठ्या एव समासनिषेधोऽयम् । शेषषष्ठ्या तु समास इत्याहुः । एतेन ‘कलहं स राममहितः कृतवानि’ति भट्टिप्रयोगो व्याख्यातः । इदमेषामिति । ‘क्तोऽधिकरणे चे’ति क्तः । अधिकरणवाचिनश्चे’ति कर्तरि षष्ठी । ‘अधिकरणे चे’त्येव सिद्धे सूत्रद्वयेऽपि ‘वाचि’- ग्रहणं स्पष्टाऽर्थम् । कथन्तर्हि ‘किवृत्तं’, ‘यद्वृत्तमि’ति । नायमधिकरणे क्तः, किन्तु कर्तरि । किमा वृत्तं निष्पन्नमित्यर्थः ।

Prakriyasarvasvam

पूजायामिति मतिबुद्धिपूजार्थेषु क्त उक्तः । तेन षष्ठी न समस्यते । राज्ञां मतः । नृणां ज्ञातः । सतां पूजितः ॥

Sutra Prayogas

  • जनविदितैः (शिशुपालवधम्): क्तेन च पूजायाम् इति षष्ठीसमासनिषेधः।