22002: अर्धं नपुंसकम्

Padacheda: अर्धम् | S | 1 | 1 |

नपुंसकम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word अर्द्ध when it signifies exactly equal parts i.e. halves, is always neuter and is compounded with a word signifying a thing that has parts, provided that the thing halved is numerically one; and the compound is तत्-पुरुष।

Vasu English Translation

The word अर्द्ध when it signifies exactly equal parts i.e. halves, is always neuter and is compounded with a word signifying a thing that has parts, provided that the thing halved is numerically one; and the compound is तत्-पुरुष। The word अर्द्ध is neuter when it means exactly equal parts or bisection.

The word एकदेशिन् and एकाधिकरण are understood here. This sutra also debars sutra 9; as अर्द्धपिप्पल्याः = अर्द्धपिप्पली ‘a half of the pepper’; अर्द्धकोशातकी ‘a half of the Kosátaki.’

Why do we say ‘when it is neuter’? Otherwise we have ग्रामार्द्धः ‘half the village’? नगरार्द्धः ‘half the city.’

The word ekadesin must also be taken here. Thus in the sentence अर्द्धं पशोर्देवदत्तस्य ‘a half of the animal is of Devadatta’; we cannot compound the word ardha with Devadatta.

The word ekadhikarana must also be taken here. So we cannot compound अर्द्धं पिप्पलीनाम् ‘the half of the peppers.’

Bhashya

अर्द्धं नपुंसकम् (422) (तत्पुरुषप्रकरण एकदेशिसमासप्रकरणम्) (267 तत्पुरुषसंज्ञासूत्रम् ॥ 2.2.1 आ.1) (अनिष्टापत्तिनिराकरणाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मान्न भवति - ग्रामर्द्धो नगरार्द्ध इति? ॥ (समाधानभाष्यम्) अर्द्धशब्दस्येदं नपुंसकलिङ्गस्य ग्रहणम्। पुल्लिङ्गश्चात्रार्धशब्दः ॥ (आक्षेपभाष्यम्) क्व पुनरयं नपुंसकलिङ्गः, क्व पुल्लिङ्गः? ॥ (समाधानभाष्यम्) समप्रविभागे नपुंसकलिङ्गः, अवयवाची पुल्लिङ्गः ॥ (आक्षेपभाष्यम्) इह कस्मान्न भवति - अर्द्धं पिप्पलीनामिति? ॥ (प्रत्याक्षेपभाष्यम्) न वा भवति - अर्द्धपिप्पल्य इति? ॥ (प्रत्याक्षेपसमाधानभाष्यम्) भवति, यदा खण्डसमुच्चयः - अर्द्धपिप्पचली चार्द्धपिप्पली चार्धपिप्पली चार्द्धपिप्पल्य इति। यदा त्वेतद्वाक्यं भवति - अर्द्धं पिप्पलीनामिति, तदा न भवितव्यम् ॥ (आक्षेपस्मारणभाष्यम्) तदा कस्मान्न भवति? ॥ (समाधानभाष्यम्) एकाधिकरण इति वर्तते प्र् (आक्षेपभाष्यम्) न तर्हीदानीमिदं भवति - अर्द्धराशिरिति? ॥ (समाधानभाष्यम्) भवति। एकमेवेदमधिकरणं योसौ राशिर्नाम ॥ अर्धं नपुंसकम् ॥ 2 ॥

Kashika

एकदेशिनैकाधिकरण इति वर्तते। समप्रविभागेऽर्धशब्दो नपुंसकमाविष्टलिङ्गः, तस्येदं ग्रहणम्। अर्धमित्येतद् नपुंसकमेकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति। षष्ठीसमासापवादोऽयं योगः। अर्धं पिप्पल्याः, अर्धपिप्पली। अर्धकोशातकी। नपुंसकमिति किम्? ग्रामार्धः। नगरार्धः। एकदेशिनेत्येव — अर्धं पशोर्देवदत्तस्य। देवदत्तेन सह समासो न भवति। एकाधिकरण इत्येव — अर्धं पिप्पलीनाम्॥

Siddhanta Kaumudi

समांसवाच्यर्ध शब्दो नित्यं क्लीबे स प्राग्वत् ।<!एकविभक्तावषष्ठ्यन्तवचनम् !> (वार्तिकम्) ॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्वी इत्यादि सिद्ध्यति । अर्धं पिपल्या अर्धपिप्पली । क्लीबे किम् । ग्राम्यार्धः । द्रव्यैक्य एव । अर्धं पिप्पलीनाम् ॥

Laghu Siddhanta Kaumudi

समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत्। अर्धं पिप्पल्याः अर्धपिप्पली॥

Balamanorama

अर्धं नपुंसकम् - अर्धं नपुंसकम् । अर्धमिति नपुंसकलिङ्गनिर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकग्रहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्याह — समांशवाच्यर्धशब्दो नित्यं क्लीबे इति । ‘वर्तते’ इति शेषः ।वा पुंस्यर्धोऽर्धं समेंऽशके॑ इति कोशादिति भावः । अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः, अंशसामान्यवाची तु पुंलिङ्ग इत्युक्तम् । स प्राग्वदिति । स नित्यनपुंसकलिङ्गोऽर्धशब्दोऽवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात्पूर्वेण न प्राप्तिः । नन्वर्धं पिप्पल्या अर्धपिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्धं पिप्पल्याः अर्धपिप्पली, अर्धेन पिप्पल्या अर्धपिप्पल्या, अर्धाय पिप्पल्याः अर्धपिप्पल्यै, अर्धात्पिप्पल्याः, अर्धस्य पिप्पल्याः अर्धपिप्पल्याः, अर्धे पिप्पल्याः अर्धपिप्पल्यामिति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतयाएकविभक्ति चापूर्वनिपाते॑इत्युपसर्जनत्वात् ‘गोस्त्रियोः’ इति ह्रस्वः स्यादित्यत आह — एकविभक्ताविति ।एकविभक्ति चापूर्वनिपाते॑ इति सूत्रेअषष्ठन्त॑मिति वक्तव्यमित्यर्थः । ततश्च पिप्पलीशब्दस्य षष्ठ्न्यतत्वान्नोपसर्जनत्वमिति न ह्रस्व इत्यर्थः । नन्वेवं सति पञ्चानां खट्वानां समाहारः समाहारं समाहारेणेत्यादिविग्रहेषु खट्वाशब्दस्य नियतविभक्तिकत्वेऽपि षष्ठन्तत्वादनुपसर्जनत्वात्गोस्त्रियो॑रिति ह्रस्वाऽभावेऽदन्तत्वाऽभावेनद्विगो॑रिति ङीबभावे पञ्चखट्वेति स्यात्, पञ्चखट्वीति न स्यादित्यत आह — एकदेशिसमासेति ।अपथं नपुंसक॑मिति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमत्र लिङ्गमिति भावः । अर्धपिप्पलीति ।प्रथमानिर्दिष्ट॑मित्यर्धशपब्दस्योपसर्जनत्वात्पूर्वनिपातः । प#इप्पलीशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि ‘एकविभक्तौ’ इति निषेधादुपसर्जनत्वाऽभावान्न ह्रस्व इति भावः । ग्रामार्ध इति । ग्रामस्याऽर्ध इति विग्रहः । ग्रामस्यांश इत्यर्थः । अर्धशब्दस्य समांशवाचित्वाऽभावेन नित्यनपुंसकत्वाऽभावान्नायं समास, किन्तुषष्ठी॑इत्येव समास इति षष्ठन्तस्य पूर्वनिपातः । द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः । अर्धं पिप्पलीनामिति । अत्र द्रव्यैक्याऽभावान्न समासः । सति समासेऽर्धपिप्पलीत्येव स्यात्, विशेष्यैक्यात् । इदं सूत्रंपरवल्लिङ्ग॑मिति सूत्रभाष्ये प्रत्याख्यातम् ।

Tattvabodhini

अर्धं नपुंसकम् - अर्ध नपुंसतम् । खण्डावाच्यद्र्धशब्दो न नित्यनपुंसकः, ग्रामार्द्धो नगराद्र्ध इति यथा । समांशवाची तु नित्यनपुंसकः । स एवेह गृह्रते,पूर्वसूत्रे एवाद्र्धशब्दे पठनीयेअर्ध॑मितचि योगविभागेन निर्देशान्नपुंसकत्वे लब्धे, पुनर्नपुंसकगिरहणादित्याशयेन व्याचष्टे — नित्यं क्लीबे स इति । यो नित्यनपुंसकलिङिगः स इत्यर्थः । प्राग्वदिति । एकत्वविशिष्टेनावयविना समस्यत इत्यर्थः । अन्ये तु व्याचख्युः — ॒अर्ध॑मिति निर्देशादेव नपुंसकत्वे सिद्धे नपुंसकग्रहणंसूत्रेषु लिङ्गनिर्देशो न विवक्षितः॑इति ज्ञापयितुम् ।तेन तस्येद॑मित्यादि लिङ्गत्रयेऽपि भवतीति ।अर्धपिप्पली॑त्यत्रएकविभक्ति चापूर्वनिपाते॑इत्युपसर्जनसंज्ञायांगोस्त्रीयो॑रिति ह्रस्वः स्यादित्याशङ्क्य समाधत्ते — अषठन्तवचनमिति । तेन पिप्पलीशब्दस्याऽनुपसर्जनत्वातन्न दोष इति भावः । नन्वेवं पञ्चानां खट्वानां समाहारः पञ्चखट्वीति न सिध्द्येत्, उपसर्जनसंज्ञानिषेधेन खट्वेत्याकारे ह्रस्वाप्रवृत्तेरदन्तत्वाभावेनद्विगोः॑इति ङीपोऽप्रवृत्तेरत आह — ।एकविभक्तावषष्ठन्तवचनम् । एकदेशिसमासविषयकोऽमिति ।पञ्चखठ्वी॑ति भाष्योदाहरणमेवअषठन्तो॑त्यस्य संकोचे लिङ्गमितिओओ भावः । अर्धपिप्पलीति । परवल्लिङ्गत्वात्लस्त्रीत्वम् । अर्ध पिप्पलीनामिति । सति समासेअर्धपिप्पली॑त्येव स्यात्, विशेष्यैक्यात् ।परवल्लिङ्ग॑मिति लिङ्गातिदेशेऽपि वचनातिदेशाऽभावाच्चेति भावः ।अर्धपिपल्यः॑इति प्रयोगस्तुअर्धानि पिप्पलीना॑मिति विग्रहे असाधुश्चेदपि खण्डसमुच्चये साधुरेव, अर्धं पिप्पल्या अर्धपिप्पली, अर्धपिप्पली च अर्धपिप्पली चेत्यादिविग्रहात् । एकदेशिना किम् । अर्धं पशोर्देवदत्तस्य । अत्र देवदत्तः स्वामी, न त्ववयवीति न तेन समासः । इदं सूत्रंपरवल्लिङ्ग॑मित्यत्र भाष्ये प्रत्याख्यातम् । तद्यथा — अर्धंपिप्पलीति हि कर्मधारयेण सिद्धम् ।समुदाये दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते॑इति न्यायात् । समप्रविभागादन्यत्र तवाप्येषैव गतिः,अर्धाहारः॑अर्धोक्तम्अर्धविलोकितम् इत्यादिप्रयोगदर्शमात् । न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम्, षष्ठीसमासस्यापूष्टत्वात् । अतएव कालिदासः प्रायुङ्क्त — ॒प्रेम्णा शरीरार्धहरां हरस्ये॑ति ।

Padamanjari

आविष्टलिङ्ग इति। नियतलिङ्ग इत्यर्थः। तस्येदं ग्रहणमिति। तत्रैवार्थे नपुंसकत्वस्याव्यभिचाराद्। अवयववाची ह्यभिधेयवुशेन त्रिलिङ्गः - अपूपार्ध्दं मया भक्षितम्, दन्तार्ध्दमास्यात्पतितम्, ग्रामार्ध्दः, नगरार्धः, सर्पिषार्ध्यया व्यनक्ततोति।’तस्यार्ध्दाः शस्त्वार्ध्दाः परिशिष्य मध्ये निविदं दधाति’ इति। भाष्ये त्ववयववाची पुंलिङ्ग इत्युपलक्षणम् । क्वचितु समप्रविभागे स्त्रीलिङ्गता दृश्यते - एकान्तृचेर्ध्दा युग्मासुऽ इति, यग्मासु ऋक्षु अर्ध्दाः शस्त्वा निविदं दध्यादित्यर्थः, तस्यार्षत्वेन निर्वाहः। अर्धमिति नपुसकनिर्देशः शब्दरूपापेक्षयापि सम्भाव्येत, यथा’स्वमज्ञातिधनाख्यायाम्’ ‘बन्धुनि बहुव्रीहौ’ इति, तस्मान्नपुंसकमित्युक्तम्। अर्ध्दपिप्पलीति। पिप्पलीशब्दस्य ठेकविभक्ति चऽ इत्युपसर्जनसंज्ञा न भवति; एकविभ्कायवषष्ठ।ल्न्तमिति वचनात्। अर्ध्दं पिप्पलीनामिति। न तर्हीदानीमिदं भवति - अर्ध्दानि पिप्पलीनामर्ध्दपिप्पल्य इति; नैतदस्मिन्विग्रहे भवति, खण्डसमुदाये भवति - अर्ध्दपिप्पली चार्ध्दपिप्ली चार्ध्दपिप्पल्य इति। देवददतशब्देन समासो न भवतीति। देवदतोऽत्र स्वामी, न त्वेकदेशी। यस्त्वेकदेशी पशुस्तेन भवत्येव समासः - अर्ध्दपशुर्देअवतदतस्येति, देवदतस्वामिकं पशोरर्ध्दमित्यर्थः। तत्र समुदायेन सम्बन्धान्नास्ति सापेक्षत्वम्। अयं योगः शक्योऽवक्तुम्। कथमर्ध्दपिप्पली? सामानाधिकरण्ये भविष्यति अर्ध्दं चासौ पिप्पली चेति। ननु च यद्यर्ध्दं न पिप्पली, अथ पिप्पली नार्ध्दम्, अर्ध्दं पिप्पली चेति विप्रतिषिध्दम्? नास्ति विप्रातिषेधः; समुदाये हि दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते। किञ्च समप्रविभागादन्यत्रार्ध्दन्द्रादावयमेव गतिप्रकारः, समप्रविभागेऽपि तथास्तु। इदं तर्हि प्रयोजनम् - म्प्रविभागे षष्ठीसमासो मा भूदिति? इष्यते षष्ठीसमासोषऽपि, तथा च भगवान्पिङ्गलनागः प्रयुङ्क्ते’स्वरार्ध्दं चार्यार्ध्दम्’ इति। एवं तर्हि गौणत्वात्सामानाधिकरण्यस्य विशेषणसमासो न किल स्यादित्यमारम्भः॥

Nyaas

समप्रविभागे त्वद्र्धशब्दो नपुंसकमाविष्टलिङ्गस्तस्येदं ग्रहणम् इति। यद्येवम्, समग्रहणमेव कर्तव्यम्? नैवं शक्यम्, अनेकार्थत्वात् समशब्दस्य। तथा हि - स निम्नोन्नतादिरहितेऽपि देशे वर्तते - यथा - समे यजेतेति, निम्नोन्नतादिरहिते देशे यजेतेत्यर्थः। अथापि समप्रविभाग इच्युच्यते, एवमपि गुरुत्वं स्यात्, तस्मान्नपुंसकग्रहणं कर्तव्यम्? न कर्तव्यम्; अद्र्धमिति नपुंसकलिङ्गेन निर्देशादेव हि नपुंसकस्य ग्रहणं भविष्यति, नैतदस्ति; असति हि नपुंसकग्रहणं शब्दरूपापेक्षया नपुंसकनिर्देश इति विज्ञायेत, यथा - स्वमज्ञातिधनाख्यायाम् (1.1.35) , बन्थुनि बहुव्रीहौ (6.1.14) इति च; ततश्चाद्र्धशब्दस्य नपुंसकलिङ्गत्वताऽनाश्रिता स्यात्। एवमनुपंसकलिङ्गोऽपि समस्येत। तस्मादद्र्धशब्दस्य नपुंसकलिङ्गत्वमाश्रयितुं नपुंसकमिति वक्तव्यम्। अद्र्धपिप्तली इति। परवलिङ्गम् (2.4.26) इति स्त्रीलिङ्गता। अथात्र गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वत्वं कस्मान्न भवति? अनुपसर्जनत्वात्। उपसर्जनत्वं तु एकविभक्ति च (1.2.44) इति। अत्र विभाषा छन्दसि (7.4.44) इत्यतो विभाषाग्रहणमनुवर्तते। सा च व्यवस्थितविभाषा प्रतिपादिता। ग्रामार्द्धः इति। ग्रामस्यैकदेश इत्यर्थः।अद्र्ध पशोर्दैवदत्तस्य इति। देवदत्तशब्देन सह समासो न भवति। अनेकदेशित्वाद्देवदत्तस्य। न ह्रसावेकदेशः, किन्तर्हि? स्वामी। यस्त्वेकदेशी पशुशब्दः, तेन सह भवत्येव समासः। सत्यपि पशुशब्दस्य सापेक्षत्वे पशोः प्राधान्यात् समासो भवत्येव - अद्र्धपशुर्देवदत्तस्येति॥

Praudhamanorama

अर्द्धं नपुंसकम् ॥ नित्यं क्लीब इति । ‘अर्द्धमि’ति निर्देशादेव क्लीबत्वे लब्धे नपुंसकग्रहणं नित्यनपुंसकत्वार्थमित्यर्थः । खण्डमात्रवाची तु त्रिलिङ्गः । ‘भित्तं शकलखण्डे वा पुंस्यर्धोऽर्द्धं समेंऽशके’ इत्यमरः । अत्र ‘वा पुंसी’ति पूर्वोत्तराभ्यां सम्बद्ध्यते । तत्र ‘शकलखण्डे’ इति रूपभेदात्क्लीबत्वे निर्णीते, ‘वावचनाच्च पुंस्त्वविकल्पे ‘अस्त्रियामि’ति फलितम् । न च ‘खण्डे’ इति स्त्रीलिङ्गमेव किं न स्यादति वाच्यम् । ‘भिन्नलिङ्गानां न द्वन्द्व’ इति तेन परिभाषितत्वात् । शकलश्चाऽस्त्रीति निर्देशेनैत्र निर्णयात् । ‘अर्द्ध’ इति रूपभेदात् पुंस्त्वाऽवगतौ सत्यामपि वा पुंसीति तद्विकल्पेनाऽविशेषात्स्त्रीनपुंसके लभ्येते । प्राग्वदिति । ‘अवयविना समस्यते’ इत्यादीत्यर्थः । अर्द्धं पिप्पलीनामिति । इह अर्द्धपिप्पली’ति प्राप्तं, परवल्लिङ्गाऽतिदेशेऽपि वचनातिदेशाऽभावात्, विशेष्यैक्याच्चेति भावः । कथं तर्ह्यर्द्धपिप्पल्य इति । ‘अर्द्धानि पिप्पलीनामि’ति विग्रहे मा भूत्, खण्डसमुच्चये तु भविष्यति ‘अद्धपिप्पली चार्द्धपिप्पली चे’त्यादिविग्रहात् । एकदेशिनेति किम् ? ‘अर्द्धं पशोर्देवदत्तस्य’ । अत्र देवदत्तः स्वामी, न त्ववयवीति न तेन समासः । एतत्सूत्रं ‘परवल्लिङ्गमि’ त्यत्र भाष्ये प्रत्याख्यातम् । तथा हि- ‘अर्द्धपिप्पली’ ति कर्मधारयेण सिद्धम् । ‘समुदाये दृष्टाः शब्दा अवयवेऽपि वर्तन्ते’ इति न्यायात् । समप्रविभागादन्यत्र हि तवाऽप्येषैव गतिः । ‘अर्द्धाऽऽहारः’, ‘अर्द्धजरतीयम्’, ‘अर्द्धवैशसम्’, ‘अर्द्धोक्तम्’, ‘अर्द्धविलोकितम्’ इत्यादिदर्शनात् । न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम् । षष्ठीसमासस्याऽपीष्टत्वादिति । तथा च कालीदासः प्रायुङ्क्त ‘प्रेम्णा शरीराऽर्द्धहरां हरस्य’ इति ।

Prakriyasarvasvam

समभागवाच्यर्धशब्दः क्लीबं, स एकदेशिनैकद्रव्येण समस्यते । देहस्यार्ध- मर्धदेहः । वेति भोजः । षष्ठीसमासोऽप्यत्रेष्ट इति हरश्च । तेन देहार्धमित्यपि । अंशवाचिनस्तु षष्ठीसमास एव । ग्रामार्धः । कलायामर्धचन्द्रस्तु अर्धश्चासौ चन्द्रश्चेति नेयः ॥