22020: अमैवाव्ययेन¶
Padacheda: अमा | S | 3 | 1 |
एव | S | 0 | 0 |
अव्ययेन | S | 3 | 1 |
Sutrartha¶
Vasu English Summary¶
When an उपपद is compounded with an indeclinable, then it is compounded only with those अव्ययs which end in the affix अम्।
Vasu English Translation¶
When an उपपद is compounded with an indeclinable, then it is compounded only with those अव्ययs which end in the affix अम्। This makes a restriction, to the general compounding of upapadas with avyayas as ordained by the last rule. As स्वादुकारं भुङ्क्ते ‘he eats having made his food sweet.’ So also लवणकारं ‘having seasoned. The avyayas ending in अम् are formed by the affix ण्मुल् (3.4.26) &c.
Why do we say ‘with avyayas ending in अम्’? Observe कालो भोक्तुम् ‘the time of eating.’ Here the avyaya ends in उम् of the affix तुमुन् added by rule (3.3.167) (the affix tumun may be applied, when the word in construction is not a verb, but काल, समय or वेला ‘time.’)
The force of the word only is to indicate that this composition takes place in those cases where a rule ordains अम् only, after any root with regard to any upapada; so that no composition will take place where the affix अम् as well as another affix is ordained after a root with certain upapadas. Thus sutra (3.4.24), declares: “the affixes क्त्वा and णमुल् come after a verb when the words अमे, प्रथम and पूर्व are upapadas.” Here the अम् (affix णमुल्) is not the sole affix ordained; but there is a co-ordinate affix with it namely क्त्वा. Therefore in अग्रेभोजम् ‘having first eaten’ there is no composition because अग्रेभोजम् is not the only form we can have; for, अग्रेभुक्त्वा is also used in the same sense.
Bhashya¶
अमैवाव्ययेन (440) (280 तत्पुरुषसंज्ञानियमसूत्रम् ॥ 2.2.1 आ.14) (अनिष्टपरिहाराधिकरणम्) (आक्षेपभाष्यम्) एवकारः किमर्थः? ॥ (समाधानभाष्यम्) नियमार्थः ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। सिद्धे विधिरारभ्यमाणोन्तरेणैवकारं नियमार्थो भविष्यति ॥ (समाधानसाधकभाष्यम्) इष्टतोवधारणार्थस्तर्हि भविष्यति। यथैवं विज्ञायेत - अमैवाव्ययेनेति ॥ मैवं विज्ञायि - अमाव्ययेनैवेति ॥ (आक्षेपभाष्यम्) अस्ति चेदानीं कश्चिदनव्ययमम्शब्दो यदर्थो विधिः स्यात् ॥ (समाधानभाष्यम्) अस्तीत्याह - खश्यं ब्राह्मणकुलमिति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। अन्तरङ्गत्वादत्र समासो भविष्यति ॥ (समाधानसाधकभाष्यम्) इदं तर्हि प्रयोजनम्। अमैव यत्तुल्यविधानमुपपदं तत्र यथा स्याद् अमा चान्येन च यत्तुल्यविधानं तत्र माभूदिति। अग्रे भोजम्। अग्रे भुक्त्वा ॥ (नियमफलभाष्यम्) अग्रादिष्वप्राप्तविधेः समासप्रतिषेधं चोदयिष्यति। स न वक्तव्यो भवति ॥ अमैवा ॥ 20 ॥
Kashika¶
पूर्वेणैव समासे सिद्धे नियमार्थं वचनम्। अव्ययेनोपपदस्य यः समासः सोऽमैव भवति, नान्येन। स्वादुंकारं भुङ्क्ते। संपन्नंकारं भुङ्क्ते। लवणंकारं भुङ्क्ते। अमैवेति किम्? कालसमयवेलासु तुमुन् (३.३.१६७) — कालो भेक्तुम्। एवकारकरणमुपपदविशेषणार्थम्। अमैव यत्तुल्यविधानमुपपदं तस्य समासो यथा स्यात्, अमा चान्येन च यत्तुल्यविधानं तस्य मा भूत् — अग्रे भुक्त्वा। अग्रे भोजम्॥
Siddhanta Kaumudi¶
अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुंकारम् । नेह ॥ कालसमयवेलासु तुमुन् (SK3179) ॥ कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाऽग्रेप्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥
Balamanorama¶
अमैवाव्ययेन - अमैवाऽव्ययेन ।अमैवे॑त्यनन्तरं तुल्यविधानमित्यध्याहार्यम् । तुल्यार्थैरतुलोपमाभ्या॑मिति तृतीया । अमैव तुल्येति । अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियामार्थमिदमित्याह — तदेवेति । विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते अमा तुल्यविदानत्वेऽवधारणार्थत्वात् । स्वादुङ्कारमिति । स्वादुंकृत्वेत्यर्थः । ‘ओदनं भुङ्क्ते’ इति शेषः ।स्वादुमि णमु॑लिति णमुल् । स्वादुशब्दस्य मान्तत्वं निपातनात् । ‘कृन्मेजन्तः’ इत्यव्ययत्वम् ।तदेवे॑ति नियमस्य प्रयोजनमाह — नेहेति । ‘उपपदसमास’ इति शेषः । भोक्तुमिति । यद्यपि॒कालसमयवेलासु॑ इति सप्तमीनिर्देशात्कालसमयवेलानामुपपदत्वन्तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, न त्वमा । अतः कालदीनामुपपदत्वेऽपि न समास इत्यर्थः । अमैवेति किमिति । अमैवेत्येकारः किमर्थ इति प्रश्नः । अमा चान्येन चेति । अम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसंज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य अमैव तुल्यबिधानत्वाऽभावान्नोपपदसमास इति भावः ।
Tattvabodhini¶
अमैवाव्ययेन - अमैवाव्ययेन । पूर्वेण सिद्धे नियमार्थमिदम् । तुल्यविधनमिति । एतच्चाध्याहारे लभ्यम् । तदेवेति । यस्मिन्नुपपदेयेन वाक्येन अमेव विहितस्तदेवोपपदमव्ययेन समस्यते नान्यदित्यर्थः । नियमबललभ्योऽयमेवकारो न तु सूत्रस्थः । स्वादुङ्कारमिति ।स्वादुमि णमुल् । अव्ययेनेति किम् । कुम्भकारः । असति ह्रव्ययग्रहणे अमैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्येत । तथा सतिस्वादुङ्कारः॑इत्यत्रैव समासः स्यान्न तुकुम्भकार॑इत्यत्र अथ पूर्वसूत्रवैयथ्र्यभीत्याऽब्ययविषयकनियम एव इति चेतर्हि अम्न्तविषयक एव किं न स्यात्अमन्तेन यः समासः सोऽमैव तुल्यविधानस्ये॑ति । तथा चाग्रेभोजमित्यत्र समासो मा भूत्, अग्रे भुक्त्वा कालो भोक्तुमित्यत्र तु स्यादेवेति भावः । तदेवेति किम् । कालो भोक्तुम् समयोभोक्तुम् ।अमैवे॑त्येवकारेणाऽमा चान्येन च तुल्यविधानस्योपपदस्य समासनिवारणेऽपि तुमुना तुल्यविधानस्य स्यादेवातस्तन्निवरणाय तदेवेत्युक्तम् ।
Padamanjari¶
अमैवाव्ययेन॥ स्वादुङ्कारमिति। स्वादुमि णमुल्, स्वादुमीत्यत एव निपातनात्पूर्वपदस्य मान्तत्वम्। स्वादुमीत्यर्थग्रहणम्, तेन संपन्नकारमित्यत्रापि भवति। ननु सिद्धे विधिरारभ्यमाणो नियमाय भवति, एवकारः किमर्थः? इष्टतोऽवधारणार्थः, एवं यथा विज्ञायेत - अमैवाव्ययेनेति, मैवं विज्ञायि - अमाव्ययेनैवेति। अनव्ययस्यासम्भवादेवायं नियमो न भविष्यति। ननु चायमस्ति स्वशयं ब्राह्मणकुलमिति - ठधिकरणे शेतेःऽ इत्यच्, ठतोऽम्ऽ इति सोरम्भावः, अनेनानव्यवेन समासो मा भूदित्येवमर्थो नियमः स्यात्, न; अत्र ह्यन्तरङ्गत्वादनुत्पन्न एव सावुपपदसमासेन भाव्यम्, पश्चात्सुपेति विधानवेलायामनव्ययस्यामोऽसम्भवान्नियमान्तरेण वचनस्य चरितार्थत्वाद्विपरीतनियमो न भविष्यतीत्यत आह - एवकारकरणमिति। अमैव यदुपपदं तत्समस्यते, तदेव समस्यत इत्यक्षरार्थः, न पुनरमैव समस्यत इति। तत्रामैव यदुपपदमित्यत्र तुल्यविधानमिति वाक्यशेषः। किं चामैव तुल्यविधानं येन वाक्येनामेव केवलो विधीयते, न प्रत्ययान्तरसहितस्तेन वाक्येन यदुपपदं विधीयते तत्र सप्तमीनिर्देशातदमैव तुल्यविधानम्। नियमाङ्गभूतस्त्वेवकारो नियमस्वभावादेव लभ्यते - अमैव यतुल्यविधानं न तु प्रत्ययान्तरोत्पतौ निमितमिति तदपेक्षयाऽनुपपदत्वाद् अव्ययान्तरेण समासो नाशङ्कनीयः। अग्रे भोजमिति।’विभाषाग्रेप्रथमपूर्वेषु’ इति क्त्वाणमुलौ। अव्ययग्रहणं किम्? असत्यव्ययग्रहणे ठमैव तुल्यविधानं तदेवोपपदं समस्यतेऽ इत्युच्यमाने कुम्भकारादाविपि न स्यात्। अथ पूर्वसूत्रस्यानवकाशत्वादमैव तुल्यविधानस्योपपदस्याव्ययविषयत्वातद्विषय एव नियमो विज्ञास्यत इत्युच्यते? एवं त्वमैव नियमः स्याद् - अमन्तेनोपपदस्य यः समासः सोऽमैव तुल्यविधानस्येति, तत्र को दोषः? अग्रेभोजमित्यत्रैव न स्यात्, अग्रे भुक्त्वा, कालो भोक्तुमित्यत्र तु स्यादेव; अव्ययग्रहणे तु सति अव्ययेनोपपदस्य यः सोऽमैव तुल्यविधानस्येति विज्ञानान्न कश्चिदोषः॥
Nyaas¶
स्वादुङ्कारं भुङ्क्ते इति। स्वादुभि (3.4.26) इति णमुल्। स्वादुमीत्यतस्मादेव मान्तनिर्देशादुपपदस्य मकारान्तत्वं निपात्यते। यदि पूर्वेणैव समासे सिद्धे नियमार्थम् वचनम्; एवञ्च सति सद्धे विधिरारभ्यमाणोऽन्तेरणाप्येवकारकरणं नियमार्थो भविष्यति, तत्किमर्थमेवकारकरणमित्याह - एवकारककरणम् इत्यादि किमर्थं पुनस्तदुपपदविशेषणार्थं क्रियत इत्यत आह - अमैव तुल्यविधानम् इत्यादि। येन वाक्येनायमेव प्रत्ययो विधीयते न तु प्रत्ययान्तरम्; तेन यदुपपदं निर्दिश्यते तदमैव तुल्यविधानम्, तस्यैव समासो यथा स्यादित्येवमर्थमेवकारकरणमुपपदविशेषणार्थं क्रियते। स च समासः प्रत्यासत्तेरमैव भवति, न प्रत्ययान्तरेणेति विज्ञायते। अग्रे भुक्त्वा, अग्रे भोजम् इति। अत्राग्रेशब्द उपपदम् विभाषाऽग्रेप्रथमपूर्वेषु (3.4.24) इत्यमा क्त्वाप्रत्ययेन च तुल्यविधानमिति न समस्यते। अव्ययग्रहणं स्पष्टार्थम्। न ह्रनव्यवममन्तमस्ति यन्निवृत्त्यर्थमव्ययग्रहणमर्थवद्भवति॥
Praudhamanorama¶
अमैवाव्ययेन ॥ तुल्यविधानमिति । एतच्चाऽध्याहारेण लभ्यम् । तदेवेति । नियमस्वभावलब्धाऽर्थकथनपरोऽयमेवकारः, न तु सूत्रस्थः । अव्ययेनेति किम् ? कुम्भकारः । असति ह्यव्ययग्रहणेऽमैव यत्तुल्यविधानं तदेव समस्येत । पूर्वसूत्राऽऽरम्भसामर्थ्यादव्ययविषयक एव नियम इति चेत् । तर्हि अमन्तविषयक एव किं न स्यात् ? ‘अमन्तेन यः समासः सोऽमैव तुल्यविधानस्ये’ति । तथाच ‘अग्रेभोजमि’त्यत्र मा भूत् । ‘अग्रे भुक्त्त्वा’ ‘कालो भोक्तुमि’त्यत्र तु स्यादेवेति भावः ।
Prakriyasarvasvam¶
अव्ययेन चेदमन्तेनैवाव्ययेन सह विहितमुपपदं समस्यते । नान्याव्ययेन इत्यलंखल्वोरसमासः । प्राचामित्युक्तेरन्यमते करणेनालम् ।।
Sutra Prayogas¶
स्व-पोषम् (भट्टिकाव्यम्): अमैवाव्ययेन इति समासः।