22018: कुगतिप्रादयः¶
Padacheda: कु-गति-प्र-आदयः | S | 1 | 3 |
Sutrartha¶
Vasu English Summary¶
The indeclinable word कु ‘bad’ , the particles called गति and the prepositions प्र etc. are invariably compounded with other words with which they are in construction and the resulting compound is तत्-पुरुष।
Vasu English Translation¶
The indeclinable word कु ‘bad’ , the particles called गति and the prepositions प्र etc. are invariably compounded with other words with which they are in construction and the resulting compound is तत्-पुरुष। The word ku means ‘badness or sin’ ; as, कुपुरुषः ‘a sinful man’ ; (2) Gati (1.4.60) as, उररीकृतं ‘having asserted’; (1.4.61) यदूरीकरोति ॥
So also with the words प्र &c., when they are mere particles and not used as ‘upasargas,’ or ‘gati’; as दूर् meaning ‘bad,’ in दुष्पुरुषः ‘a bad man’; so also सु and अति meaning ‘respect’ in सुपुरुषः ‘honorable man’; अतिपुरुषः ‘excellent man’ ; आ means ‘a little’ as आपिङ्कत्नः ‘brownish.’
Generally these are attributive words but they are found elsewhere also, as कोष्यं or कदुष्णम् or कवोष्णन् ‘tepid.’ So also दुष्कृतम्, अतिस्तुतम् and आबद्धम् ॥
Bhashya¶
कुगतिप्रादयः (438) (278 तत्पुरुसंज्ञासूत्रम् ॥ 2.2.1 आ.12 सू.) (अनिष्टपरिहाराधिकरणम्) (1356 समासप्रतिषेधवार्तिकम् ॥ 1 ॥) ॥ प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः ॥ (भाष्यम्) प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः। वृक्षं प्रति विद्योतते विद्युत्। साधुर्देवदत्तो मातरं प्रति ॥ (1357 समासप्रतिषेधवार्तिकम् ॥ 2 ॥ ॥ व्यवेतप्रतिषेधश्च ॥ (भाष्यम्) व्यवेतानां प्रतिषेधो वक्तव्यः। आ मन्द्रैरिन्द्र हरिभिर्याहि ॥ (1358 उक्तवार्तिकप्रत्याख्यानवार्तिकम् ॥ 3 ॥) ॥ सिद्धं तु क्वाङ्स्वतिदुर्गतिवचनात् ॥ (भाष्यम्) सिद्धमेतत् ॥ कथम्? क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम्। कु - कुब्राह्मणः कुवृषलः। कु ॥ आङ् - आकडारः, आपिङ्गलः। आङ् ॥ सु - सुब्राह्मणः, सुवृषलः। सु ॥ अति - अतिब्राह्मणः, अतिवृषलः। अति ॥ दुर् - दुर्ब्राह्मणः, दुर्वृषलः। दुर् ॥ गति - प्रकारकः, प्रणायकः, प्रसेवकः,ऊरीकृत्य, उररीकृत्य। गति ॥ (1359 समासवार्तिकम् ॥ 4 ॥) ॥ प्रादयः क्तार्थे ॥ (व्याख्याभाष्यम्) प्रादयः क्तार्थे समस्यन्त इति वक्तव्यम्। प्रगत आचार्यः प्राचार्यः, प्रान्तेवासी, प्रपितामहः ॥ (संवादभाष्यम्) एतदेव च सौनागैर्विस्तरतरकेण पठितम् - (1360 सौनागवार्तिकम् ॥ 1 ॥ ॥ स्वती पूजायाम् ॥ (व्याख्याभाष्यम्) स्वती पूजायामिति वक्तव्यम्। सुराजा, अतिराजा ॥ (1361 सौनागवार्तिकम् ॥ 2 ॥) ॥ दुर्निन्दायाम् ॥ (व्याख्याभाष्यम्) दुर्निन्दायामिति वक्तव्यम्। दुष्कुलम्, दुर्गवः ॥ (1362 सौनागवार्तिकम् ॥ 3 ॥) ॥ आङीषदर्थे ॥ (व्याख्याभाष्यम्) आङीषदर्थ इति वक्तव्यम्। आकडारः, आपिङ्गलः ॥ (1363 सौनागवार्तिकम् ॥ 4 ॥) ॥ कुः पापार्थे ॥ (व्याख्याभाष्यम्) कुः पापार्थ इति वक्तव्यम् ॥ कुब्राह्मणः, कुवृषलः ॥ (1364 सौनागवार्तिकम् ॥ 5 ॥) ॥ प्रादयो गताद्यर्थे प्रथमया ॥ (व्याख्याभाष्यम्) प्रादयो गताद्यर्थे प्रथमया समस्यन्त इति वक्तव्यम्। प्रगत आचार्यः-प्राचार्यः प्रान्तेवासी प्रपितामहः ॥ (1365 सौनागवार्तिकम् ॥ 6 ॥) ॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ॥ (व्याख्याभाष्यम्) अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्त इति वक्तव्यम्। अतिक्रान्तः खट्वाम्-अतिखट्वः अतिमालः ॥ (1366 सौनागवार्तिकम् ॥ 7 ॥) ॥ अवादयः क्रुष्टाद्यर्थे तृतीयया ॥ (व्याख्याभाष्यम्) अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्त इति वक्तव्यम्। अवक्रुष्टः कोकिलया-अवकोकिलः ॥ (1367 सौनागवार्तिकम् ॥ 8 ॥) ॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ॥ (व्याख्याभाष्यम्) पर्यादयो ग्लानाद्यर्थे चतुर्थ्या समस्यन्त इति वक्तव्यम्। परिग्लानोऽध्ययनाय पर्यध्ययनः ॥ (1368 सौनागवार्तिकम् ॥ 9 ॥) ॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या ॥ (व्याख्याभाष्यम्) निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्त इति वक्तव्यम्। निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः ॥ (1369 वार्तिकम् ॥ 5 ॥) ॥ अव्ययं प्रवृद्धादिभिः ॥ (व्याख्याभाष्यम्) अव्ययं प्रवृद्धादिभिः समस्यत इति वक्तव्यम्। पुनःप्रवृद्धं बहिर्भवति, पुनर्गवः, पुनःसुखम् ॥ (1370 वार्तिकम् ॥ 6 ॥) ॥ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ॥ (व्याख्याभाष्यम्) इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। वाससीःइव कन्येःइव ॥ (1371 वार्तिकम् ॥ 7 ॥) ॥ अव्ययमव्ययेन ॥ (व्याख्याभाष्यम्) अव्ययमव्ययेन समस्यत इति वक्तव्यम्। प्रप्रयज्ञपतिम् ॥ (1372 वार्तिकम् ॥ 8 ॥) ॥ उदात्तगतिमता च तिङा ॥ (भाष्यम्) उदात्तवता तिङा गतिमता च तिङाऽव्ययं समस्यत इति वक्तव्यम्। अनुव्यचलत्, अनुव्याकरोति, यत्परियन्ति ॥ कुगति ॥ 18 ॥
Kashika¶
नित्यमिति वर्तते। कुशब्दोऽव्ययं परिगृह्यते, गत्यादिभिः साहचर्यात्, न द्रव्यवचनः। कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति। कुः पापार्थे — कुपुरुषः। गति — उररीकृतम्। प्रादयः — दुर्निन्दायाम् — दुष्पुरुषः। स्वती पूजायाम् — सुपुरुषः। अतिपुरुषः। आङीषदर्थे — आपिङ्गलः। प्रायिकं चैतदुपाधिवचनम्। अन्यत्रापि हि समासो दृश्यते। कोष्णम्। कदुष्णम्। कवोष्णम्। दुष्कृतम्। सुष्टुतम्। अतिस्तुतम्। आबद्धमिति॥ प्रादयो गताद्यर्थे प्रथमया॥ प्रगत आचार्यः, प्राचार्यः। प्रान्तेवासी॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया॥ अतिक्रान्तः खट्वाम्, अतिखट्वः। अतिमालः॥ अवादयः क्रुष्टाद्यर्थे तृतीयया॥ अवक्रुष्टः कोकिलया, अवकोकिलः॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या॥ परिग्लानोऽध्ययनाय, पर्यध्ययनः। अलं कुमार्यै, अलंकुमारिः॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या॥ निष्क्रान्तः कौशाम्ब्याः, निष्कौशाम्बिः। निर्वाराणसिः॥ इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्॥ वास॑सीइव। वस्त्रे॑इव॥ प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः॥ वृक्षं प्रति विद्योतते विद्युत्। साधुर्देवदत्तो मातरं प्रति॥
Siddhanta Kaumudi¶
एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । गतिश्च (SK23) इत्यनुवर्तमाने ॥
Laghu Siddhanta Kaumudi¶
एते समर्थेन नित्यं समस्यन्ते। कुत्सितः पुरुषः कुपुरुषः॥
Balamanorama¶
कुगतिप्रादयः - कुगतिप्रादयः । समस्यन्त इति । स तत्पुरुष इत्यपिज्ञेयम् । कुत्सितः पुरुष इति । नित्यसमासत्वादस्वपदविग्रहः । कुत्सितार्थकस्य ‘कु’ इत्यव्ययस्यैवात्र ग्रहणं, न तु पृथ्वी पर्यायस्य, गत्वादिसाहचर्यात् । गतिश्चेत्यनुवर्तमान इति । क्रियायोग इति चेति बोध्यम् ।
Tattvabodhini¶
कुगतिप्रादयः - कुगति ।कु॑शब्दोऽत्राव्ययं गृह्रते, न तु पृथिवीवाचको, गत्यादिसाहचर्यात् ।
Padamanjari¶
कुगतिप्रादयः॥ कुशब्दोऽव्ययं गृह्यत इति। स्वरादिष्वपठितोऽप्ययं पठितव्य इति भावः। नित्यसमासविषयस्यास्य पूर्वपदप्रकृतिस्वराणामव्ययत्वम्, यथा वक्ष्यति - अव्यये नञ्कुनिपातानामिति वक्तव्यमिति। न द्रव्यवचन इति। पृथिव्यादिद्रव्ये यो वर्तते स न गृह्यत इत्यर्थः। दुर्निन्दायामिति। प्रशप्ते द्वेषान्निन्दा भवति, पापं तु वस्तुस्थित्या गर्हितमिति द्वयोरप्युपादानम्। प्रायिकमिति। अन्यथेषदर्थे चेति कोः कादेशविधानमनुपपन्नं स्यात्। दुष्कृतमिति। दुर्निन्दायामिति विषयनिर्देशो गतित्वेन प्राप्तस्यापि समासस्य नियामकः स्यादिति मन्यते। यदा तु प्रादिग्रहणप्राप्तस्यैव नियामकस्तदा गतित्वादेवात्र सिद्धः समासः। दुरत्र कृच्छ्रार्थोऽनभिधानात्कृतेः खल् न भवति, दुष्कर इत्यादावुपपदसमासः, आमन्द्रैरिन्द्र हरिभिरित्याङे मन्द्रं प्रत्यगतित्वादनीषदर्थत्वाच्च समासाभाव इत्यैकस्वर्थं न भवति। सुष्टुअतमिति। सुशब्दोऽतिशये, न पूजायाम्। अत एवोपसर्गनिबन्धनं षत्वम्। अतिस्तुतमिति। ठतिरतिक्रमणे चऽ इति कर्मप्रवचनीयत्वात्षत्वाभावः॥ प्रादयो गताद्यर्थ इति। वृत्तिविषये गताद्यर्थवृतयः प्रादयो गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्त इति। पर्यध्ययन इति। परिश्रान्तोऽध्ययनार्थमित्यर्थः। वाससी इवेति।’वसेर्णिच्च’ इत्यसुन्प्रत्ययान्तो वासः शब्दः, वस्त्रशब्दः ष्ट्रन्प्रत्ययान्तः, द्वावपि नित्याद्यौदातौ। प्रादिप्रसङ्ग इति। सूत्रे प्रादिग्रहणमगत्यर्थमिति कर्मप्रवचनीयानां प्रतिषेध उच्यते, प्रत्यादिविषयश्चायं निषेधः। स्वत्योस्तु समासो भवत्येव। वृक्षं प्रतीति। कर्मप्रवचनीयेन योगाद् द्वितीयावत्समासस्यापि प्रसङ्गः, उदातवता सिङ गतेः समासवचनम् - यो जात एव पर्यभूषत्, यः शम्बरमन्वविन्दत्, योऽन्तरिक्षं विममे, यौ वै प्रजवं याताम्, अपथेन प्रतिपद्यते॥
Nyaas¶
कुशब्दोऽव्ययं परिगृह्रते इति। अलिङ्गसंख्यत्वादव्ययत्वम्, न तु निपातेषु पाठात्। न ह्रयं तत्र पठते। न द्रव्यवचनः इति। पृथिव्यादौ यो द्रव्ये वर्तते तस्यात्र ग्रहणं न भवति। कुत एतदित्याह - गत्यादिभिः साहचर्यात् इति। गतार्थम्।कोष्णम् इति। ईषदर्थे (6.3.105) इति कोः कादेशः। कवोष्णम् इति। कव?चोष्णे (6.3.106) इति कवादेशः। कदुष्णम् इति। कोः कत् तत्पुरुषेऽचि (6.3.101) इति कत्। कुपुरुषः इति पापार्थे। दुष्कृतम् इति। दुस् कृच्छ्रार्थे वर्तते। इदुदुपधस्य चाप्रत्ययस्य (8.3.41) इति षत्वम्। {नास्ति काशिकायाम्; पदमञ्जर्यां दृश्यते - सुष्टुतम् इति।}सुस्तुतम् इति। सुशब्दोऽतिशये वर्तते। अतिस्तुतम् इति। अतिरक्रमणे। {आबद्धम्- काशिका}आविद्धम् इति। आङ क्रियायोगे, मर्यादायां वा।पर्यायदयो ग्लानाद्यर्थे इति। पर्यादिराकृतिगणः। पर्यध्ययनः इति। परिग्लानोऽध्ययनायेत्यर्थः। वापसी इव इत्यादि। सर्वधातुभ्योऽसुन् (द।उ।9।49) इत्यनुवर्तमाने वसेर्णिच्च (द।उ।9।77) इत्यसुन्प्रत्ययान्तो वासःशब्दो व्युत्पादितः, वस्त्रशब्दोऽप्यौगणादिकष्ट्रन्प्रत्ययान्तः, तेन द्वावप्येतौ ञ्नित्यादिर्नित्यम् (6.1.197) इत्याद्युदात्तौ।प्रादिप्रसङ्गे इत्यादि। प्रादिग्रहणे यः प्रसङ्गः समासशास्त्रस्य तत्र कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - लक्षणादिष्वर्थेषु कर्मप्रवचनीयसंज्ञा भवति। न च तेऽर्थाः समासेन गम्यन्त इत्यनभिधानात् कर्मप्रवचनीयानां समासो न भवति। यत्र तेऽर्था गम्यन्ते तत्र भवत्येव समासः - अतिस्तुतमिति॥
Prakriyasarvasvam¶
कुशब्दो गतिसंज्ञाः प्रादयश्च समर्थेन सह समस्यन्ते स च समासस्तत्पुरुषसंज्ञः । इति समासे सुलुक् । प्रनेयः । तत्र, ‘कुः पापेषदर्थयोः’ (स० ३-२-१४८) । पापा स्त्री कुस्त्री ॥
Vartika¶
कर्मप्रवचनीयानां प्रतिषेधः ।
Sutra Prayogas¶
पयोधरीभूतचतुःसमुद्रां (रघुवंशम्): कुगतिप्रादयः इति समासः।
अतीन्द्रियेषु (रघुवंशम्): अत्यादयः क्रान्ताद्यर्थे द्वितीयया (वा.1336) इति वार्त्तिकेन समासः।
स्वाराध्यस्य (किरातार्जुनीयम्): कुगतिप्रादयः इति प्रादिसमासः।
महेन्द्र-लोक-प्रतिमां (भट्टिकाव्यम्): कुगतिप्रा - इति प्रादिसमासः ।
श्रेणी-भूतानि (भट्टिकाव्यम्): कुगतिप्रादयः इति सः।