Sutras 1 - 20¶
- 52001: धान्यानां भवने क्षेत्रे खञ्
- 52002: व्रीहिशाल्योर्ढक्
- 52003: यवयवकषष्टिकाद्यत्
- 52004: विभाषा तिलमाषोमाभङ्गाऽणुभ्यः
- 52005: सर्वचर्मणः कृतः खखञौ
- 52006: यथामुखसंमुखस्य दर्शनः खः
- 52007: तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति
- 52008: आप्रपदं प्राप्नोति
- 52009: अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु
- 52010: परोवरपरम्परपुत्रपौत्रमनुभवति
- 52011: अवारपारात्यन्तानुकामं गामी
- 52012: समांसमां विजायते
- 52013: अद्यश्वीनाऽवष्टब्धे
- 52014: आगवीनः
- 52015: अनुग्वलंगामी
- 52016: अध्वनो यत्खौ
- 52017: अभ्यमित्राच्छ च
- 52018: गोष्ठात् खञ् भूतपूर्वे
- 52019: अश्वस्यैकाहगमः
- 52020: शालीनकौपीने अधृष्टाकार्ययोः