52017: अभ्यमित्राच्छ च

Padacheda: अभ्यमित्रात् | S | 5 | 1 |

छ | S | | | 1

च | S | 0 | 0 |

Sutrartha

‘पर्याप्तम् गच्छति’ अस्मिन् अर्थे द्वितीयासमर्थात् ‘अभ्यमित्र’ शब्दात् यत्, खः, छः - एते प्रत्ययाः भवति ।

‘अभ्यमित्रम्’ इति किञ्चन अव्ययम् ।’अमित्रस्य सम्मुखम्’ (facing an enemy) अस्मिन् अर्थे ‘अभि’ अव्ययेन सह ‘अमित्र’ शब्दस्य अव्ययीभावसमासं कृत्वा ‘अभ्यमित्रम्’ इति शब्दः सिद्ध्यति । अस्मात् शब्दात् ‘अलम् गच्छति’ अस्मिन् अर्थे यत्,खः, छः - एते प्रत्ययाः विधीयन्ते । ‘अभ्यमित्रमलम् गच्छति’ इत्युक्ते ‘अमित्रस्य (= शत्रोः) सम्मुखम् पर्याप्तरूपेण गच्छति’ । appropriately faces an enemy - इति आशयः । रूपाणि एतादृशानि - 1. अभ्यमित्र + यत् → अभ्यमित्र्य । 2. अभ्यमित्र + ख → अभ्यमित्रीण । 3. अभ्यमित्र + छ → अभ्यमित्रीय । अभ्यमित्रमलङ्गामी सः अभ्यमित्र्यः, अभ्यमित्रीणः, अभ्यमित्रीयः वा । विशेषः - वस्तुतः ‘अभ्यमित्रम्’ इति अव्ययमस्ति । परन्तु अस्मिन् सूत्रे क्रियाविशेषणरूपेण अस्य प्रयोगः भवति, अतः अत्र ‘द्वितीयासमर्थात्’ इति निर्देशः क्रियते । मूलरूपेण अत्र ‘अभ्यमित्र’ इति प्रातिपदिकम् । अस्मात् शब्दात् द्वितीया-एकवचनस्य अम्-प्रत्यये कृते अव्ययादाप्सुपः (2.4.82) इत्यनेन तस्य लोपे प्राप्ते तं बाधित्वा नाव्ययीभावादतोऽम्त्वपञ्चम्याः (2.4.83) इत्यनेन अम्-प्रत्ययस्य ‘अम्’ इत्येव आदेशं कृत्वा ‘अभ्यमित्रम्’ इति रूपम् सिद्ध्यति ।

Vasu English Summary

The affixes छ (ईय), यत् (यं) and ख (ईन) come in the sense of ‘who is able to go’ after the word अभ्यमित्र।

Vasu English Translation

The affixes छ (ईय), यत् (यं) and ख (ईन) come in the sense of ‘who is able to go’ after the word अभ्यमित्र। The च् draws in यत् and ख. Thus अभ्यमित्रं अलंगामा = अभ्यमित्रीयः, अभ्यमित्र्यः, अभ्यमित्रीणः ‘an warrior who valiantly encounters his enemy’ = अमित्राभिमुखं सुष्ठु गच्छति ॥

Kashika

अभ्यमित्रशब्दाद् द्वितीयासमर्थादलंगामीत्यस्मिन्नर्थे छः प्रत्ययो भवति, चकाराद् यत्खौ च। अभ्यमित्रमलंगामी अभ्यमित्रीयः, अभ्यमित्र्यः, अभ्यमित्रीणः। अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः॥

Siddhanta Kaumudi

चाद्यत्खौ । अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥

Balamanorama

अभ्यमित्राच्छ च - अब्यमित्राच्छ च । अमित्रः=शत्रुः । तमभिमुखो भूत्वेत्यर्थेलक्षणेनाभिप्रती आभिमुख्ये॑ इत्यव्ययीभावे अभ्यमित्रशब्दः । तस्मादलङ्गामीत्यर्थे छप्रत्ययः स्यादित्यर्थः ।

Tattvabodhini

अभ्यमित्राच्छ च - अभ्यमित्रात् । अभ्यमित्रशब्दोलक्षणेनाभिप्रती आभिमुख्ये॑इत्यव्ययीबावः । क्रियाविशेषणत्वाद्द्वितीया समर्थविभक्तिः ।

Padamanjari

अब्यचामित्रामिति।’लक्षणेनाभिप्रती आभिमुख्ये’ इत्यव्ययीभावः, क्रियाविशेषणत्वात्कर्मणि द्वितीया ॥

Nyaas

अभ्यमित्रात् इति। अमित्रस्याभिमुखमभ्यमित्रम्। लक्षणेनाभिप्रती आभिमुख्ये (2.1.14) इत्यव्ययीभावः। क्रियाविशेषणञ्चैतत्। तेन द्वितीयैव समर्थविभक्तर्भवति॥

Prakriyasarvasvam

<karika>अभ्यमित्रमलं गामीत्यर्थे यत्खौ छ च स्मृताः । अभ्यमित्र्योऽभ्यमित्रीणोऽप्यभ्यमित्रीय इत्यपि ॥ ३१३ ॥</karika>

Sutra Prayogas

  • गौष्ठीने (भट्टिकाव्यम्): गोष्ठात् खन् भूतपूर्वे इति खन्।

  • अभ्यमित्र्यो (भट्टिकाव्यम्): अभ्यमित्राच्छ च इति चकाराद्यरखो चेति यत्।

  • अभ्यमित्रीणो (भट्टिकाव्यम्): अभ्यमित्राच्छ च इति चकाराद्यत्खौ चेति खः।