52002: व्रीहिशाल्योर्ढक्

Padacheda: व्रीहि-शाल्योः | S | 6 | 2 |

ढक् | S | 1 | 1 |

Sutrartha

षष्ठीसमर्थात् ‘व्रीहि’ तथा ‘शालि’ शब्दात् उत्पत्तेः क्षेत्रस्य निर्देशार्थम् ढक् प्रत्ययः भवति ।

धान्यानां भवने क्षेत्रे खञ् (5.2.1) इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । अस्य अपवादरूपेण ‘व्रीहि’ तथा ‘शालि’ (द्वयोः अर्थः तण्डुलम् - rice - इत्येव) एताभ्याम् शब्दाभ्याम् ढक्-प्रत्ययः भवति । यथा - 1. व्रीहीणाम् भवनम् क्षेत्रम् = व्रीहि + ढक् → व्रीहि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति एय-आदेशः] → व्रैहि + एय [किति च (7.2.118) इति आदिवृद्धिः] → व्रैह् + एय [यस्येति च (6.4.148) इति इकारलोपः] → व्रैहेय व्रीहीणाम् भवनम् क्षेत्रम् व्रैहेयम् । 2. तथैव, शालिनाम् भवनम् क्षेत्रम् शालेयम् ।

Vasu English Summary

The affix ढक् comes in the sense of ‘a place of growing, when it is a field’ after the words 1. व्रीहि and 2. शालि।

Vasu English Translation

The affix ढक् comes in the sense of ‘a place of growing, when it is a field’ after the words 1. व्रीहि and 2. शालि। Thus व्रीहीनां भवने क्षेत्रे = व्रहेयम्, शालेयम् ‘a field fit for growing rice’.

Kashika

व्रीहिशालिशब्दाभ्यां ढक् प्रत्ययो भवति भवने क्षेत्रेऽभिधेये। खञोऽपवादः। व्रीहीणां भवनं क्षेत्रं वै्रहेयम्। शालेयम्॥

Siddhanta Kaumudi

व्रैहेयम् । शालेयम् ॥

Laghu Siddhanta Kaumudi

व्रैहेयम्। शालेयम्॥

Balamanorama

व्रीहिशाल्योर्ढक् - व्रीहिशाल्योर्ढक् । व्रीहिशब्दाच्छालिशब्दाच्च षष्ठन्ताद्भवने क्षेत्रे ।ञर्थे ढगित्यर्थः । खञोऽपवादः ।

Tattvabodhini

व्रीहिशाल्योर्ढक् - व्रीहिशाल्योः । अत्रापि निर्देशादेव षष्ठी समर्थविभक्तिः । सा च भवनापेक्षया कर्तरीत्यादि पूर्ववत् ।

Padamanjari

अत्रापि निर्द्देशादेव पष्ठी समर्थविभक्तिः, वृत्तिकारेण तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् ॥

Prakriyasarvasvam

व्रैहेयं क्षेत्रम् । शालेयम् ॥