52007: तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति¶
Padacheda: तत् | S | 2 | 1 |
सर्वादेः | S | 5 | 1 |
पथि-अङ्ग-कर्म-पत्र-पात्रम् | S | 2 | 1 |
व्याप्नोति | T | | |
Sutrartha¶
‘व्याप्नोति’ अस्मिन् अर्थे द्वितीयासमर्थेभ्यः ‘सर्वपथ’, ‘सर्वाङ्ग’, ‘सर्वकर्म’, ‘सर्वपत्र’ तथा ‘सर्वपात्र’ एतेभ्यः शब्देभ्यः ख-प्रत्ययः भवति ।
‘व्याप्नोति’ इति ‘वि + आप्’ इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । आच्छादयति / बिभर्ति (occupy / covers up / fills up) इति अस्य अर्थः । ‘सर्व’ इति शब्दः यस्य पूर्वपदमस्ति तादृशात् द्वितीयासमर्थात् ‘पथिन्’, ‘अङ्ग’, ‘कर्मन्’, पत्र’ तथा ‘पात्र’ शब्दात् ‘व्याप्नोति’ इत्यस्मिन् अर्थे अनेन सूत्रेण ख-प्रत्ययः भवति । क्रमेण पश्यामः - 1. सर्वपथम् (complete road) व्याप्नोति सः सर्वपथीनः रथः । प्रक्रिया इयम् - सर्वपथ + ख → सर्वपथ + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इत्यनेन ख-इत्यस्य ईन-आदेशः] → सर्वपथ् + ईन [यस्येति च इति अकारलोपः] → सर्वपथीन विशेषः - ‘सर्वपथ’ इति शब्दः ‘सर्वः च अयम् पन्थाः’ इति कर्मधारय-समासं कृत्वा सिद्ध्यति । प्रक्रिया इयम् - सर्वः च अयम् पन्थाः = सर्व + सुँ + पथिन् + सुँ [पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (2.1.49) इति कर्मधारयसमासः । समस्तपदस्य कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा] → सर्व + पथिन् [सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुँ-प्रत्यययोः लोपः] → सर्व + पथिन् + अ [ ऋक्पूरब्धूःपथामानक्षे (5.4.74) इति समासान्ते ‘अ’ प्रत्ययः] → सर्व + पथ् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → सर्वपथ । 2. सर्वाङ्गम् व्याप्नोति सः सर्वाङ्गीणः ज्वरः । सर्वाङ्गम् व्याप्नोति तत् सर्वाङगीणम् कवचम् । सर्वाङ्गम् व्याप्नोति सा सर्वाङ्गीणा माला । अत्र अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः भवति । 3. सर्वकर्म व्याप्नोति सः सर्वकर्मीणः पुरुषः । यः पुरुषः सर्वम् कर्म करोति सः ‘सर्वकर्मीणः’ अस्ति इत्युच्यते । 4. सर्वपत्रम् (all chariots) व्याप्नोति सः सर्वपत्त्रीणः सारथी । A driver who can drive all types of chariots - इत्यर्थः । 5. सर्वपात्रम् व्याप्नोति सः सर्वपात्रीणः ओदनः । अधिकया मात्रया विद्यमानः ओदनः सर्वेषु पात्रेषु स्थापयितुम् शक्यते (Rice being ample in quantity, can occupy all vessels) इति आशयः ।
Vasu English Summary¶
After the words 1. पथि 2. अङ्ग 3. कर्मन् 4. पत्र or 5. पात्र , preceded by सर्व being in the Accusative -2nd case in construction, the affix ख (ईन) comes in the sense of ‘what pervades or fills the whole of that’.
Vasu English Translation¶
After the words 1. पथि 2. अङ्ग 3. कर्मन् 4. पत्र or 5. पात्र , preceded by सर्व being in the Accusative -2nd case in construction, the affix ख (ईन) comes in the sense of ‘what pervades or fills the whole of that’. Thus सर्वपथं व्याप्नोति = सर्वपथीनोरथः, सर्वाङ्गीणस्तापः, सर्वकर्मीणः पुरुषः, सर्वपत्रीणः सारथिः, सर्वपात्रीण ओदनः ॥
Kashika¶
तदिति द्वितीया समर्थविभक्तिः। व्याप्नोतीति प्रत्ययार्थः। परिशिष्टं प्रकृतिविशेषणम्। सर्वादेः प्रातिपदिकात् पथिन् अङ्ग कर्मन् पत्र पात्र इत्येवमन्ताद् द्वितीयासमर्थाद् व्याप्नोतीत्यस्मिन्नर्थे खः प्रत्ययो भवति। सर्वपथं व्याप्नोति सर्वपथीनो रथः। सर्वाङ्गीणस्तापः। सर्वकर्मीणः पुरुषः। सर्वपत्रीणः सारथिः। सर्वपात्रीण ओदनः॥
Siddhanta Kaumudi¶
सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः ॥
Balamanorama¶
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति - तत्सर्वादेः । पथिन्, अङ्ग, कर्मन्, पत्र, पात्र-एषां समाहारद्वन्दावात्पञ्चम्यर्थे द्वितीया । प्रातिपदिकविशेषणत्वात्तदन्तविधिः ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति निषेधस्तु न, केवलानामेषां सर्वादित्वस्याऽसंभवात् ।त॑दिति तु द्वितीयान्तं व्याप्नोतीत्यत्रान्वेति । ततश्च तद्व्याप्नोतीत्यर्थे सर्वशब्दपूर्वपदकेभ्यः प्रातिपदिकेभ्यो द्वितायान्तेभ्यः पथ्यङ्गकर्मपत्रपात्रान्तेभ्यः खः स्यादित्यर्थः फलति । तदाह — सर्वादेरित्यादिना । सर्वपथानिति ।ऋक्पू॑रिति समासान्ताः । आप्रपदम् ।आप्रपद॑मित्यव्ययीभावाद्द्वितीयान्तात्प्राप्नोतीत्यर्थे खः स्यादित्यर्थः । पदस्याग्रं प्रपदमिति ।पादाग्रं प्रपद॑मित्यमरः ।
Tattvabodhini¶
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति - तत्सर्वादेः ।त॑दिति द्वितीया समर्थविभक्तिः । व्याप्नोतीति प्रत्ययार्थः । परिशिष्टं प्रकृतिविशेषणम् । तत्र केवलानां पथ्यादीनां सर्वादित्वाऽसंभवात्प्रातिपदिकैरपि तैस्तदन्तविधिः । तदाह — — पथ्याद्यन्तादिति । पथ्यङ्गकर्मपत्रपात्रान्तात्प्रातिपदिकादित्यर्थः । सर्वपथीनि इति ।पूर्वकालैके॑ति समासः ।ऋक्पी॑रिति समासान्तः । तस्य पथ्यन्तसमासग्रहणेन ग्रहणाद्भवति खप्रत्यय ।
Padamanjari¶
परिशिष्ट्ंअ प्रकृतिविशेषणमिति। तत्र केवलानां पथ्यादीनां सर्वादित्वासम्भवात्प्रातिपदिकैरपि तैस्तदन्तविधिः, पञ्चम्यर्थे च प्रथमा द्वितीया वेत्याह - पत्यङ्गकर्मपत्रपात्रान्तादिति। सर्वपथीन इति।’पूर्वकाल’ इत्यादिना समासः, ठृक्पूरब्धूःऽ इत्यकारः समासान्तः, तस्य पथ्यन्तसमासग्रहणेन ग्रहणात्पथ्यन्तमेव प्रातिपदिकमिति खप्रत्ययः ॥
Nyaas¶
अथ सूत्र द्वितीयान्तप्रकृत्युच्चारणं किमर्थम्? तदिति द्वितीयासामर्थ्यात्? प्रत्ययो यथा स्यात्। अथ वा - पथ्यङ्गकर्मपत्त्रपात्रमिति नैवेयं द्वितीया, न हि व्याप्नोतिक्रियया पथ्यादयः सम्बध्यन्ते, किं तर्हि? सर्वादि। तस्मात्? तस्यैव कर्मत्वम्, न पथ्यादीनां तदवयवानाम्। तत्? कुतः? न सा द्वितीया, सुब्व्यत्ययेन पञ्चम्याः स्थाने प्रथमा त्वेषा। तस्मात्? समाहारद्वन्द्वस्य नपुंसकलिङ्गत्वात्? अतोऽम् (2.4.83) इत्यभ्भावः कृतः। परिशिष्टम् इति। सर्वादेः पथ्यङ्गकर्मपत्त्रपात्रम् इत्येतच्च। सर्वादेः प्रातिपदिकस्य पथ्यादयश्चादौ न भवन्ति। ततः सामर्थ्यात्? तदन्तविधिर्विज्ञायत इत्याह - पथ्यङ्गकर्मपत्त्रपात्रान्तात् इति। सर्वपथीनः इति। सर्वश्चासौ पन्थाश्चेति पूर्वकाल (2.1.48) इत्यादिना समासः, ऋक्पूरब्धूःपथामानक्षे (5.4.74) इत्यकारः समासान्तस्तदतः। ननु च समासान्ते कृते पथ्यन्तमेव न भवति? यदत्र पथ्यन्तं तदाश्रयो विधरिर्भवतीत्यदोषः। ननु च व्यवधानान्न प्राप्नोति? अन्तग्रहणात्? समासान्ताः समासग्रहणेन गृह्रन्त इति नास्ति व्यवधानम्॥
Prakriyasarvasvam¶
सर्वादिभ्य एभ्यस्तद्व्याप्नोतीत्यर्थे खः । सर्वपथं व्याप्नोतीति सर्वपथीना सेना । सर्वाङ्गीणस्तापः । सर्वकर्मीणा शिक्षा । सर्वपत्रीणः सारथिः, शरः अन्नं वा । सर्वपात्रीणम् अन्नं दानं वा ।
Sutra Prayogas¶
सर्वाङ्गीणम् (रघुवंशम्): तत्सर्वादेः पथ्यङ्कर्मपत्रपात्रव्याप्नोतिषु इत्यादिना खप्रत्ययः।
सर्वपथीनया (शिशुपालवधम्): तत्सर्वादेः पथ्यङ्कर्मपत्रपात्रव्याप्तानि इत्यादिना खप्रत्ययः।
सर्व-कर्मीणौ (भट्टिकाव्यम्): तत्स- र्वादेः इति खः।
सर्वाङ्गीणे (भट्टिकाव्यम्): तत्सर्व इत्यादिना खः।
सर्व-पथीनं (भट्टिकाव्यम्): तत्सर्वा दे: इत्यादिना खः।