52011: अवारपारात्यन्तानुकामं गामी

Padacheda: अवारपार-अत्यन्त-अनुकामम् | S | 2 | 1 |

गामी | S | 1 | 1 |

Sutrartha

‘गामी’ इत्यस्मिन् अर्थे ‘अवारपार’, ‘अत्यन्त’ तथा ‘अनुकाम’ एतेभ्यः द्वितीयासमर्थेभ्यः ‘ख’-प्रत्ययः भवति ।

‘गामी’ इत्युक्ते ‘गमिष्यति सः’ । ‘गम्’ धातोः आवश्यकाधमर्ण्ययोर्णिनिः (3.3.170) इत्यनेन ‘णिनि’ प्रत्ययं कृत्वा ‘गामिन्’ इति प्रातिपदिकम् सिद्ध्यति, तस्य इदम् प्रथमैकवचनम् । अस्मिन् सूत्रे ‘गामी’ इत्यस्मिन् अर्थे त्रिभ्यः शब्देभ्यः ‘ख’प्रत्ययः उच्यते । क्रमेण पश्यामः - 1. ‘अवारपार’ - ‘अवारपार’ इत्युक्ते सागरस्य द्वितीयः तटः (other end of ocean). सागरमपि उल्लङ्घ्य यः गमिष्यते , तस्य निर्देशार्थम् ‘अवारपार’शब्दात् ख-प्रत्ययः क्रियते । अवारपारम् गामी अवारपारीणः । अस्य शब्दस्य विषये वार्त्तिकमेकम् पाठ्यते - <!विगृहीतादपि इष्यते, विपरिताच्च!> । इत्युक्ते, ‘अवार’, ‘पार’, तथा ‘पारावार’ - एतेभ्यः शब्देभ्यः अपि वर्तमानसूत्रेण ख-प्रत्ययः भवति । अवारं गामी अवारीणः । पारं गामी पारीणः । पारावारं गामी पारावारीणः । 2. ‘अत्यन्त’ - ‘बहु’ अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । अत्यन्तम् गामी अत्यन्तीनः । भृशमन्तरम् गच्छति (The one who will travel a huge amount of distance) इत्यर्थः । 3. अनुकाम - ‘काममनुसृत्य’ (यथेच्छम्, based on the will) इति अस्य शब्दस्य अर्थः । अनुकामम् गच्छति अनुकामीनः ।

Vasu English Summary

The affix ख (ईन) comes in the sense of ‘who purposes to go’ after the words 1. अवारपार 2. अत्यन्त and 3. अनुकाम being in the Accusative -2nd case in construction.

Vasu English Translation

The affix ख (ईन) comes in the sense of ‘who purposes to go’ after the words 1. अवारपार 2. अत्यन्त and 3. अनुकाम being in the Accusative -2nd case in construction. The word गामी means ‘गमिष्यति’, see (3.3.3). The genitive case is prohibited by (2.3.70): the word गामी governing the accusative. Thus अवारपारं गामी = अवारपारीणः ॥

Vart:- So also when the words are reversed. As पारावारीणः ॥ So also when the words are taken separately as, अवारीणः and पारीणः ॥

So also अत्यन्तं गामी = अत्यन्तीनः = भृशं गन्ता ॥ As अनुकामीनः = यथेष्टं गन्ता ॥

Kashika

अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यो गामीत्येतस्मिन्नर्थे खः प्रत्ययो भवति। गमिष्यतीति गामी, भविष्यति गम्यादयः (३.३.३) इति। अकेनोर्भविष्यदाधमर्ण्ययोः (२.३.७०) इति षष्ठीप्रतिषेधः। अवारपारं गामी अवारपारीणः॥ विगृहीतादपीष्यते॥ अवारीणः, पारीणः॥ विपरीताच्च॥ पारावारीणः। अत्यन्तं गामी अत्यन्तीनः। भृशं गन्तेत्यर्थः। अनुकामं गामी अनुकामीनः। यथेष्टं गन्तेत्यर्थः॥

Siddhanta Kaumudi

अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥

Balamanorama

अवारपारात्यन्तानुकामं गामी - अवारपार । अवारपार, अत्यन्त, अनुकाम — एभ्यो गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः ।आवश्यकाधमण्र्ययोर्णिनि॑रिति णिनिः । ‘भविष्यति गम्यादयः’ इति भविष्यत्कालता । ‘बहुलमाभीक्ष्ण्ये’ इति वा णिनिः । अवारपारीण इति । अवारपारं गामीति विग्रहः । अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात् । तदाह — अवारीणः पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र भृशवाची । तदाह — भृशं गन्तेति । अनुकाममिति । कामः=इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्यायीभावः ।

Tattvabodhini

अवारपारात्यन्तानुकामं गामी - अवारपार । गामीति ।गमेरिनिः, आङि णिच्चे॑ति बहुलवचनात्केवलादपि णिनिः ।भविष्यति गम्यादयः॑इति भविष्यत्कालता । न्यासकारस्तुआवश्यके णिनिः, सोऽपि भविष्यत्येवे॑त्याह । अवारपारमिति । अकतेनोर्भविष्यदाधमण्र्ययो॑रिति षषाठीप्रतिषेधः । केचित्तुगत्र्थकर्मणी॑ति सूत्रे द्वितीयाग्रहणमपवादविषये विधानार्थम् । तेन कृद्योगषष्ठी न भवतिग्रामं गन्ते॑तिवदिति व्याचख्युः । तदसत् ।अकेनो॑रिति प्रतिषेधे षष्ठीप्रसङ्गस्यैवाऽभावात् । अवारीण इत्यादि ।विगृहीताद्विपरीतादपीष्यते॑इति भावः । अत्यन्तमिति । क्रियाविशेषणम् । अनुकाममिति । काम इच्छा , तस्य सदृशमनुकामम् । कामानुरूपमित्यर्थः ।अव्ययं विभक्ती॑ति यथार्थेऽव्ययीभावः ।

Padamanjari

गामीति।’गमेरिनिः’ , ठाङ् इणिच्चऽ इति बहुलवचनात्केवलादपि णिनिर्भविष्यति। गम्यादय इति। यद्यप्याङ्पूर्वा गमिर्गम्यादिषु पठ।ल्ते, तथापि बहुलवचनादेव णिनिरिव भविष्यत्कालत्मपि भविष्यतीति भावः। अकेर्नोर्भविष्यदाधमर्ण्ययोरिति षष्ठीप्रितिषेध इति।’गत्यर्थकर्मणि’ इत्यत्र यदुक्तम् -‘द्वितीयाग्रहणमपवादविषये विदानार्थं तेन कृत्प्रत्ययप्रयोगे षष्ठी न भवति - ग्रामं गन्ता’ इति, तन्नाश्रितमम्; प्रतिषेधे षष्ठीप्रसङ्गस्यैवाभावात्। अवारपारीण इति। द्वन्द्वात्प्रत्ययः। अवारपारे तीरे आहिताग्नयादिषु पक्षेपादुभयं भवति - अवारपारे, पारावारे इति । अत्न्तमिति । क्रियाविशेषणम्, एवमनुकाममिति। कामःउइच्छा, तस्य सदृशमनुकाममुकामानुरूपम्,’यथार्थे यदव्ययम्’ इति समासः ॥

Nyaas

गामी इति। आवश्यकाधमण्र्ययोर्णिनिः (3.3.170) इत्यावश्यकार्थे णिनिः। भविष्यति चायं काले गामिशब्दो वर्तते, यदाह - गमिष्यतीति गामी। सा च भविष्यति वृत्तिः भविष्यति गम्यादयः (3.3.3) इति वचनाल्लभ्यते; इत्याह - भविष्यति इत्यादि। अकेनोर्भविष्यदाधमण्र्ययोरिति षष्ठीप्रतिषेधः इति। तेन द्वितीयासमर्थतोपपद्यत इत्यभिप्रायः। कृद्योगा हि षष्ठी द्वितीयाया अपवादः, तेन षष्ठीप्रतिषेधे हि सति द्वितीययैव भवितव्यम्। अवारपारम् इति। अवारस्य पारमिति षष्ठीसमासोऽयम्। वा च षष्ठ्याः पूर्वनिपातो वक्तव्यः। तेन पक्षे पारावारमित्यपि भवति। विगृहीतादपि इति। [भवति-मुद्रितः पाठः] विपरीताच्च इति। कथं पुनरधिकारादेव द्वितीयासमर्थविभक्तौ लब्धायामिहाधिकं द्वितीयोपादानं कृतम्? एतेन तदधिकस्य विधिर्भवतीति सूचितम्। तेन विगृहीताद्विपरीताच्च प्रत्यय उपपद्यते। अत्यन्तम् इति। अन्तस्याभावोऽत्ययो वेति। अव्ययं विभक्ति (2.1.6) इत्यादिनाऽव्ययीभावः। अथ वा - अन्तमतिक्रान्तमिति कुगति (2.2.18) इत्यादिना तत्परुषः। क्रियाविशेषणञ्चैतत्। भृशं गन्तेत्यर्थः इति। भृशार्थत्वेन लोकेऽत्यन्तशब्दस्य प्रसिद्धत्वात्। अनुकामम् इति। कामसदृशमनुकामम्। कामनुरूपमित्यर्थः। यथार्थेऽव्ययीभावः। इदमपि क्रियाविशेषणमेव॥

Prakriyasarvasvam

एभ्यस्तद्गामीति खः । अर्वाक् तीरमवारं, परं तीरं पारं तदुभयं गमिष्यन्नवारपारीणः । ‘व्यस्ताद् विपर्यस्तादपि’ । अवारीणः, पारीणः, पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । यथेष्टं गन्ता अनुकामीनः ॥

Sutra Prayogas

  • पारीण (भट्टिकाव्यम्): अवार-पार… इत्यादिना पारशब्दात् खः।

  • आन्त्यन्तीनं (भट्टिकाव्यम्): अवारपार इति अत्यन्तं गामीत्यस्मिन्नर्थे खः।