52008: आप्रपदं प्राप्नोति¶
Padacheda: आप्रपदम् | S | 0 | 0 |
प्राप्नोति | T | | |
Sutrartha¶
‘प्राप्नोति’ अस्मिन् अर्थे ‘आप्रपद’ शब्दात् ख-प्रत्ययः भवति ।
‘प्राप्नोति’ इति ‘प्र + आप्’ इत्यस्य लट्-लकारस्य प्रथमपुरुषैकचनस्य रूपम् । ‘समीपम् गच्छति’ (reaches there) अस्मिन् अर्थे अयम् शब्दः अत्र प्रयुज्यते । ‘प्रपद’ इत्युक्ते पदस्य अग्रभागः (tip of the tow) । ‘आप्रपद’ अयम् शब्दः ‘प्रपद’ शब्दात् ‘आङ्’ इत्यस्य योजनं कृत्वा सिद्ध्यति । अत्र ‘आङ्’ इत्यस्य अर्थः ‘मर्यादा’ इति स्वीक्रियते । अतः ‘आप्रपद’ शब्दस्य अर्थः अत्र ‘पदस्य अग्रभागम् यावत्, परन्तु तत् विहाय’ - इति गृह्यते । Till the tip of the toe, with without including it - इति आशयः । एतादृशात् ‘आप्रपद’ शब्दात् द्वितीयासमर्थात् ‘प्राप्नोति’ अस्मिन् अर्थे ख-प्रत्ययः भवति । आप्रपद + ख → आप्रपदीन । आप्रपदम् प्राप्नोति तत् आप्रपदीनम् वस्त्रम् । यत् वस्त्रम् पदस्य अग्रभागम् यावत् गच्छति, परन्तु तमग्रभागम् पूरयितुमसमर्थः वर्तते, तस्य निर्देशः ‘आप्रपदीनम् वस्त्रम् ‘ इति क्रियते । A piece of clothing that reaches till the tip of the toe but fails to cover the tip of the toe completely is called आप्रपदीन । विशेषः - 1. वर्तमानसूत्रे ‘प्राप्नोति’ इति क्रियापदमुच्यते । पूर्वस्मिन् सूत्रे तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति (5.2.7) इत्यत्र ‘व्याप्नोति’ इति क्रियापदम् प्रयुक्तमस्ति । द्वयोः शब्दयोः सूक्ष्मः भेदः विद्यते यः न्यासकारेण स्पष्टीक्रियते - ‘सम्बन्धमात्रं प्राप्तिः, सम्बन्ध एव साकल्येन व्याप्तिरित्येव विशेषः’ । इत्युक्ते, ‘प्राप्नोति’ इति शब्दः केवल-सम्बन्धस्य (mere contact) निर्देशार्थम् प्रयुज्यते , तथा च ‘व्याप्नोति’ अयम् शब्दः ‘सम्पूर्णरूपेण आच्छादयति’ (filling up completely) अस्मिन् अर्थे प्रयुज्यते । 2. ‘आप्रपदम्’ अयम् शब्दः अव्ययीभावसमासेन निर्मितः अस्ति, अतः अस्मात् शब्दात् विहितस्य सुप्-प्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः (2.4.83) इत्यनेन ‘अम्’-आदेशः भवति । अतएव विग्रहवाक्ये ‘आप्रपदम्’ इति शब्दः प्रयुज्यते ।
Vasu English Summary¶
The affix ख (ईन) comes in the sense of ‘reaching thereto’ after the word आप्रपद।
Vasu English Translation¶
The affix ख (ईन) comes in the sense of ‘reaching thereto’ after the word आप्रपद। The word प्रपद means ‘the top of the foot’. आ means “upto”. आप्रपद is an Avyayibhava compound meaning ‘to the top of the foot’. Thus आप्रपदं प्राप्नोति = आप्रपदीनः पटः ‘cloth reaching to the end of the feet’, i.e. showing the width of the cloth by comparison with the body.
Kashika¶
प्रपदमिति पादस्याग्रमुच्यते। आङ् मर्यादायाम्। तयोरव्ययीभावः। आप्रपदशब्दात् तदिति द्वितीयासमर्थात् प्राप्नोतीत्यस्मिन्नर्थे खः प्रत्ययो भवति। आप्रपदं प्राप्नोति आप्रपदीनः पटः। शरीरेणासंबद्धस्यापि पटस्य प्रमाणमाख्यायते॥
Siddhanta Kaumudi¶
पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥
Balamanorama¶
आप्रपदं प्राप्नोति - आप्रपदमिति ।आङ्मर्यादाभिविध्यो॑रित्यव्ययीबावः । अनुपद । अनुपद, सर्वान्न, अयानय-एषां समाहारद्वन्द्वाद्द्वितीया । बद्धा, भक्षयति, नेय-एषां द्वन्द्वात्सप्तमी । तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्बद्धादिष्वर्थेषु खः स्यादित्यर्थः । अनुरायामे सादृश्ये वेति । आद्ये ‘यस्य चायामः’ इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः ।
Padamanjari¶
प्रापदमिति पादस्याग्रमुच्यत इति। प्रारम्भः पदस्येति कृत्वा। तयोरव्ययीभाव इति। ???????????????????? इत्यनेन। द्वितीयासमर्थादिति। क्रियाविशेषणे’कर्मणि द्वितीया’ । आप्रपदं यथा तथा सर्वशरीरं प्राप्नोतीत्यर्थः। शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यायत इति। योग्यत्वात्, योग्यो ह्यसावाप्रपदं शरीरं प्राप्तुम्। व्याप्नोतीति प्रकृते प्राप्तनोतीति वचनमर्थभेदात् - सम्बन्धमात्रमुप्राप्तिः, सम्बन्धः साकल्योपाधिकःउव्याप्तिः। ठाप्रपदम्ऽ इत्यत्र त्वभिविधौ व्याप्त्रिगम्यते, न गर्यादायाम् ॥
Nyaas¶
तयोरव्ययीभावः इति। आङ् मर्यादाभिविध्योः (2.1.13) इत्यनन। शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यातम् इति। प्राप्तियोग्यतामुपादाय हि योग्योऽसावाप्रपदाच्छरीरं प्राप्तुम्। अथ व्याप्तिप्राप्त्योः को विशेषः, येन व्याप्नोतीति कृते प्राप्नोतीत्युक्तम्? सम्बन्धमात्रं प्राप्तिः, सम्बन्ध एव साकल्येन व्याप्तिरित्येव विशेषः॥
Prakriyasarvasvam¶
अत्रार्थे खः । अभिविधावाङ् । आप्रपदीनं वासः । सर्वाङ्गाच्छादनक्षम- मात्रमप्युच्यते ॥