52009: अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु¶
Padacheda: अनुपद-सर्वान्न-अयानयम् | S | 2 | 1 |
बद्धा-भक्षयति-नेयेषु | S | 7 | 3 |
Sutrartha¶
द्वितीयासमर्थात् ‘अनुपद’ शब्दात् ‘बद्धा’ अस्मिन् अर्थे ; ‘सर्वान्न’ शब्दात् ‘भक्षयति’ अस्मिन् अर्थे ; तथा ‘अयानय’ शब्दात् ‘नेयम्’ अस्मिन् अर्थे ख-प्रत्ययः भवति ।
अस्मिन् सूत्रे त्रीणि प्रातिपदिकानि, त्रयश्च अर्थाः उच्यन्ते । प्रत्येकस्मात् प्रातिपदिकात् यथासङ्ख्ये निर्दिष्टे अर्थे अनेन सूत्रेण ख-प्रत्ययः भवति । क्रमेण पश्यामः - 1. अनुपदम् बद्धा - [अ] ‘अनुपदम्’ इत्युक्ते ‘पदस्य आयामम् यावत् यस्य प्रमाणं विद्यते तत्’ । The one whose dimensions / measurement is same as that of a foot. । [आ] ‘बद्धा’ इति ‘बध्’ धातो’ तृन्-प्रत्ययान्तरूपम् । बद्ध्नाति / बन्धनं करोति सः बद्धा । अतः ‘अनुपदम् बद्धा’ इत्युक्ते तत् बन्धनम् यस्य प्रमाणम् पादम् यावत् विद्यते । एतादृशस्य बन्धनस्य निर्देशार्थम् ‘अनुपद’ शब्दात् ख-प्रत्ययः भवति । अनुपदम् बद्धा तत् अनुपदीनम् पादत्राणम्, अनुपदीना उपानद् (footwear) वा । 2. सर्वान्नम् भक्षयति - सर्वमन्नम् / सर्वप्रकारस्य अन्नम् यः भक्षयति, तस्य निर्देशार्थम् ‘सर्वान्न’ शब्दात् ख-प्रत्ययः भवति । सर्वान्नम् भक्षयति सः सर्वान्नीनः भिक्षुः । 3. अयानयम् नेयः - द्यूतक्रीडायाम् पटे विद्यमानस्य कस्यचन विशिष्टस्थानस्य नाम ‘अयानय’इति वर्तते, यत्र क्रीडकेन स्वस्य शाराः नेयाः - इति नियमः विद्यते । In the game of gambling (द्यूत), a certain place on the gambling-board is termed as ‘अयानय’ and an important ‘goal’ in the game is that the players should try to take their pieces to this location in order to make them safe from the attack of the opponent. एतादृशानाम् शारानाम् (game-pieces) निर्देशार्थम् ‘अयानय’ शब्दात् वर्तमानसूत्रेण ख-प्रत्ययः भवति । अयानयम् नेयाः ते अयानयीनाः शाराः । विशेषः - ‘अय’ तथा ‘अनय’ एतयोः मेलनेन ‘अयानय’ शब्दः सिद्ध्यति । दक्षिणमार्गक्रमणम् (going in the right direction) ‘अय’ नाम्ना ज्ञायते, वाममार्गगमनम् (going in the left direction) ‘अनय’ नाम्ना ज्ञायते । द्यूतक्रीडायाम् एकस्य पक्षस्य शाराः ‘दक्षिण’दिशि तथा अपरस्य पक्षस्य शाराः ‘वाम’दिशि गच्छन्ति, परन्तु सर्वेऽपि शाराः यस्मिन् स्थाने नेतुम् योग्याः, तत् स्थानम् ‘अयानय’ नाम्ना ज्ञायन्ते । The place that can be reached (or the place that is worth reaching) by the pieces that are traversing in the right direction as well the pieces that are traversing in the left direction - इत्यर्थः । स्मर्तव्यम् - अस्मिन् सूत्रे ‘बद्धाभक्षयतिनेयेषु’ इति पदम् कथं जायत् अस्मिन् विषये द्वौ पक्षौ वर्तेते - अ) ‘बद्धा च भक्षयति च नेयम् च तत् बद्धाभक्षयतिनेयम्, तेषु’ - एतादृशम् द्वन्द्वसमासेन ‘बद्धाभक्षयतिनेयेषु’ इति पदम् निर्मितमस्ति । अयम् वस्तुतः आर्षप्रयोगः अस्ति, यतः ‘बद्धा’ तथा ‘भक्षयति’ एतौ द्वौ अपि तिङन्तपदौ स्तः, ययोः द्वन्द्वसमासः नैव भवितुमर्हति । ॠ) ‘बद्धाभक्षयतिनेयेषु’ अत्र ‘बद्धा’, ‘भक्षयति’, तथा ‘नेय’ एतानि त्रीणि भिन्नानि पदानि गृह्यन्ते । अत्रापि ‘नेयेषु’ इति बहुवचनमप्रस्तुतम्, अतः आर्षप्रयोगः एव मन्यते ।
Vasu English Summary¶
The affix ख (ईन) comes in the senses of ‘so bound’, ‘eating that’ and ‘to carry thereto’ after the words 1. अनुपद 2. सर्वान्न and 3. आयन।
Vasu English Translation¶
The affix ख (ईन) comes in the senses of ‘so bound’, ‘eating that’ and ‘to carry thereto’ after the words 1. अनुपद 2. सर्वान्न and 3. आयन। Thus अनुपदं बद्धा = अनुपदीना ‘a kind of shoe’; this word is always feminine. The force of अनु here is that of ‘length’ or ‘likeness’. That is ‘a shoe of the measure of a foot’. So सर्वान्नानि भक्षयति = सर्वान्नानोभिक्षुः ‘a mendicant who eats the whole food’. So also अयानयीनः शारः ‘a chessman or piece that is taken to the position on the chess called ayanaya’. The word अयानय is compounded of two words अय, meaning ‘going from right to left’, and अनय ‘from left to right’, and it means a particular position in which the pieces moving from right to left and left to right cannot move further, and attack the other pieces.
According to some अयानयीन is the name of the front pieces in ones own row of chess-men. A piece which moves only in one side, does not admit of this affix. The piece which is carried from one side to another, admits of this affix. Others move only in one direction अय or अनय, but not both. Kaiyyata: यस्तु शार एक पार्श्य एव संचरति तत्र न भवति प्रत्ययो, यो हि शारः पार्श्वात् पार्श्वान्तरमानीयते, स एव अयानयं नीयते, अन्यास्तु अयमेव नीयते, अनयमेव नीयते वा ॥
Bhashya¶
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु (2027) (अयानयपदार्थबोधकं भाष्यम्) अयानयं नेय इत्युच्यते, तत्र न ज्ञायते कः - अयः, कः - अनय इति॥ अयः प्रदक्षिणम्। अनयः प्रसव्यम्। प्रदक्षिणप्रसव्यगमिनां शाराणां यस्मिन् परैः पदानामसमावेशः सः - अयानयः। अयानयं नेयः - अयानयीनः, शारः॥
Kashika¶
अनुपदादिभ्यः शब्देभ्यस्तदिति द्वितीयासमर्थेभ्यो यथासंख्यं बद्धा भक्षयति नेय इत्येतेष्वर्थेषु खः प्रत्ययो भवति। अनुरायामे सादृश्ये वा। अनुपदं बद्धा उपानत् अनुपदीना। पदप्रमाणेत्यर्थः। सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः। अयः प्रदक्षिणम्, अनयः प्रसव्यम्। प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन् परशारैः पदानामसमावेशः सोऽयानयः। अयानयं नेयः अयानयीनः शारः। फलकशिरसि स्थित इत्यर्थः॥
Siddhanta Kaumudi¶
अनुरायामे सादृश्ये च । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः तं नेय आयानयीनः शारः ॥
Balamanorama¶
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु - अनुपदं बद्धेति । क्रियाविशेषणत्वाद्द्वितीया । अनुपदीना उपानदिति । पदसम्बन्धिदैर्ध्योपलक्षितेत्यर्थः । पदेन सदृशीति वा । तत्तुल्यपरिमाणेति यावत् । यानय इति द्यूते शाराणां प्रदक्षिणपरिवर्तनम् — अयः, प्रसव्यपरिवर्तनम्-अनयः । अयसहितः अनयः-अयानयः । प्रदक्षिणप्रसव्यगामिना यस्मिन्युग्यमादिपदे स्थितानां परकीयैः शारैरनाक्रमणं तत्स्थानमिह अयानयशब्देन लक्षणयोच्यत इत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् ।समहायस्य शारस्य परैर्नाक्रम्यते पदम् । असहायस्तु शारेण परकीयेण बाध्यते । इति द्यूतशास्त्रामर्यादा । विस्तरस्तु कैयटमनोरमादावनुसन्धेयः । तं नेय इति । तं=स्थानविशेषमयानयाख्यं, प्रापणीय इत्यर्थः । णीञ्द्विकर्मकः ।प्रधाने कर्मणि यत्, अप्रधाने द्वितीया॑ इति भावकर्मलकारप्रक्रियायां वक्ष्यते ।
Tattvabodhini¶
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु - अनुपदसर्वान्नायानयं ।बद्धाभक्षयती॑त्यत्र निपातनातिङन्तेन सह द्वन्द्वः । द्वितीयान्तेभ्योऽनुपाददिभ्यो यथासङ्ख्यं बद्धादिष्वर्थेषु खः स्यात् । अनुरायाम इत्यादि ।यस्य चायामः॑इति , यथार्थे — ॒ऽव्यय॑मिति वा अव्ययीभाव इत्यर्थः । सर्वान्नीन इति । प्रकारकार्त्स्न्ये सर्वशब्दः । यान्यन्नानि लभ्यन्ते उष्णानि शीतलामि सरसानि वा सर्वाणि भक्षयतीत्यर्थः ।अयः -प्रदक्षिणगमनम् । अनयः -प्रसव्यगमनम् । प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन्परैरसमावेशः सोऽयमयानः॑इति काशिका । तं नेय इति । नयतेर्द्विकर्मकत्वादप्रधाने कर्मणि द्वितीया । आयानयीनः शारैति ।फलकशिरसि स्थित इत्यर्थः॑इति काशिका ।
Padamanjari¶
अनुरायाम इति।’यस्य चायामः’ इति वा,’यथार्थे यदव्ययम्’ इति वा ऽव्ययीभाव इत्यर्थः। पदप्रमाणेत्यर्थ इति। आयामे तावदयमेवार्थः, सादृश्येऽपि तुल्यपरिमाणतया सादृश्यमित्यमेवार्थो भवति। सर्वान्नीनो भिक्षुरिति। प्रकारकार्त्स्न्ये सर्वशब्दः, यान्यन्नानि लभ्यन्ते उष्णानि शीतानि सरसानि विरसानि तानि सर्वाणि भक्षयतीत्यर्थः। अयनमय इति गमनमात्रमयशब्देनोच्यते, तत्प्रतिषेधस्त्वनयशब्देनेत्याशङ्कामपनयति - अयः प्रदक्षिणमिति। प्रदक्षिणं गमनमित्यर्थः। एवमनयः प्रसव्यम्। वामपर्यायगमनम्। एतच्च रूढिवशाल्लभ्यते। रूढो ह्ययमयानयशब्दः शारणां प्रदक्षिणप्रसव्यगमने - शृणन्त्येभिर्द्ऊतकाराः परस्परमिति शाराः, द्यौउतसाधनविसेषाः, श्वान् इति येषां प्रसिद्धैः,’कृत्यल्युटो बहुलम्’ इति करणे घञ्। तत्राभिमुखयोः क्रीडतोः कितवयोर्यदैवैकं प्रति प्रदक्षिणं गमनं तदेवेतरं प्रति प्रसव्यमित्ययश्चासावनयश्च अयानय इति कर्मधारयः । अथ वा - एकमेव प्रत्ययानयत्वम्, कथम्? वीथीभेदेन। चतस्रो वीथयः, तत्रात्मीयाः शाराः परपार्श्वे स्थिताः प्रथमायां वीथ्यामात्मनः प्रदक्षिणं दच्छन्ति, द्वितीयस्यां प्रकञ्म्, एवमुतरयोः; तत्र समाहारद्वन्द्वे लोकाश्रयत्वेन पुंल्लिङ्गता। अपर आह - एकदेशद्वारेण गमनसमुदायस्यानयव्यपदेशः, कृताकृतदिवत्सामानाधिकरणसमास एवायमिति। प्रदक्षिणप्रसव्यगमनमात्रेऽपि नेष्यते, किन्तु विशेष इत्याह - प्रदक्षिणप्रसव्यगामिनामित्यदि। यस्मिन् गतिविशेषे सति गामिनामित्यादि। बहुवचनमयानयनिमितप्रदर्शनार्थम्। यदि शाराः प्रदक्षिणं प्रसव्यं च गच्छन्त्येवमयानयौ भवतः, नान्यथा। तत्रामीयाः शाराः प्रदक्षिणं गच्छन्ति, परकीयाः प्रसव्यम्। तेषामेवङ्गामिनां यानि स्तानानि तेषां यस्मिन् प्रदक्षिणप्रसव्यगमनात्मके गतिविशेषे सति परैर्विवक्षभूतैः शारैरसमावेशःउअनध्यसनमनाक्रमणं सोऽयानय इत्युच्यते, न तु प्रदक्षिणप्रसव्यगमनमात्रे स एवायम्। एवंरूपोऽथानयो यदा ससहायैः शारेः पदान्यदिष्ठीयन्ते यदा वेदितव्यः । ससहायानामेव हि शाराणां पदानि परैर्न शक्यन्तेऽध्यासितुम्। असहायानां तु भक्तयत् एव। फलकशिरसि स्थित इति। यत्र फलकेऽङ्केऽक्षैर्दीव्यन्ति तस्य शिरोभूतं यत्र स्थानं कितवानां प्रसिद्धं तत्र सिथितः शारः ठयानयीनःऽ इत्यच्यते; तत्रैवायानयीनशब्दस्य रूढत्वात्। अपरे तु-नेयो नेतव्यः, न नीतस्ततः। तत्र’शिरसि स्तितः’ इत्यर्थानुपपातेः’फलकशिरसि स्थाप्यते’ इत्यर्थ इति ग्रन्थेन भवितव्यमित्याहुः। नीतो वा नेयः; तदुपलक्षणत्वात्। भाविन्यावस्थायोक्तः। अयानयसम्बद्धित्वेऽपि सर्वेषां विशेष्यादेव प्रत्ययोत्पतिरुक्तैव। सत्यपि द्वलितीयाधिकारे पुर्द्दितीयोच्चारणं दृष्टाद् द्वितीयान्ताद् यथा स्यादि त्येवमर्थम्। तेन विशिष्टार्थनेयवचनादयानयशब्दाद् द्विदीयान्ताद् प्रत्ययो भवति, न नेयवचनमात्रात्। स एव विशिष्टो यो नयऋः प्रदक्षिणप्रसव्यगामीत्यादिना ग्रन्थेन दर्शैतः। अर्थायानय इति कोऽयं शब्दः, यदि ह्ययं समाहारे द्वन्द्वः, तस्य नपुंसकत्वादयानयमिति भवितव्यम् ? अथेतरेतरयोगे, द्व्यर्थत्वादयानयाविति भवितव्यम् ? नायं द्वन्द्वः, किं तर्हि ? मयूरव्यंसकादित्वात् तत्पुरुषः - अयसहितोऽनयोऽयानय इति। अथ बद्दाभक्षयतिनेयेष्विति कथं तिङ्न्तस्य द्वन्द्वः ? कः पुनराहायं द्वन्द्व इति? यदि न द्वन्द्वः, कथं नेयेष्विति बहुवचनम् ? सौत्रत्वान्निर्देशस्य। सुब्ब्यत्ययेन वा च्छन्दस्येकवचनस्य स्थाने बहुवचनमुपपन्नम्। ननु च्छन्दसि सुब्वयत्यय उक्तः, नेद च्छन्दः ? नयश्च भवति तेनासावयानयं नेयः।’बद्धाभक्षयतिनेयेषु’ इति निपातनातिडन्तस्य द्वन्द्वः असमासपक्षे तु बद्धेत्यत्र प्रथमैकवचनम्, नेयेष्विति सप्तमीबहुवचनमित्यसमञ्जसमापद्येत ॥
Nyaas¶
अनुरायामे इत्तयादि। यदायामे तदा यस्य चायामः (2.1.16) इति समास-। यदा सादृश्ये तदा यतार्ते यदव्ययम् तेन अव्ययं विभक्ति (2.1.6) इत्यादिना। यता पदमायतं तथा च बद्धोपानदनुपदीना। सादृश्ये यथानुपदं तता बद्धाऽनुपदीना। पदप्रमाणेत्यर्थः इति। यदाप्यनु सादृश्ये, तदाप्ययमर्थ वेदितव्यः, तुल्यप्रमाणतयैव सादृश्यम्। अयः प्रदक्षिणम् इति। अयनमयः, गमनमित्यर्थः। प्रदक्षिणं गमनमय इत्युच्येत। अनयः प्रसव्यम् इति। अयविपरीतं प्रसव्यमनय इत्युच्यते। एवमवयवार्थं दर्शयित्वा समुदायार्थं दर्शयितुमाह - प्रदक्षिणप्रसव्यगामिनाम् इत्यादि। बहुवचनमयानयनिमित्तप्रदर्शनार्थम्। यदि शाराः प्रदक्षिणं प्रसव्यं च गच्छन्त्येवमयानयौ भक्तः, नान्यथा। तत्रात्मोयाः शाराः प्रदक्षिणं गच्छन्ति, परकीयाः प्रसव्यम्। तेषामेवङ्गामिनां यानिस्थानानि तेषां यस्मिन्? प्रदक्षिणप्रसव्यगमनात्मके गतिविशेषे सति परैर्विपक्षभूतैः शारैरसमावेशः=अनध्यासनमनाक्रमणं सोऽयानय इत्युच्यते; न तु प्रदक्षिणप्रसव्यगमनमात्रे स एवायम्। एवंरूपोऽयानयो यदा समहायैः शारौः पदान्यधिष्ठीयन्ते तदा वेदितव्यः। ससहायानामेव हि शाराणां पदानि परैर्न शक्यन्त#एऽध्यासितुम्। असहायानां तु शक्यत एव। फलकशिरसि स्थितः इति। यत्र फलकेऽङ्कऽक्षैर्दीव्यन्ति तस्य शिरोभूतं यत्र स्थानं किंतवानां प्रसिद्धं तत्र स्थितः शारः अयानयीनः इत्युच्यते; तत्रैवायानयीनशब्दस्य रूढत्वात्। अपरे तु, नेयो नेतव्यः, न नोतस्ततः। तत्र शिरसि स्थितः इत्यर्थानुपपत्तेः फलकशिरसि स्थाप्यते इत्यर्थ इति ग्रन्थेन भवितव्यमित्याहुः। नीतो वा नेयः; तदुपलक्षणत्वात्। भाविन्यावस्थयोक्तः। अयानयसम्बन्धित्वेऽपि सर्वेषां विशेष्यादेव प्रत्ययोत्पत्तिरुक्तैव। सत्यपि द्वितीयाधिकारे पुनर्द्वितीयोच्चारणं दृष्टाद्द्धितीयान्ताद्यथा स्यादित्येवमर्थम्। तेन विशिष्टार्थनेयवचनादयानयशब्दाद्द्धितीयान्तातद्? प्रत्ययो भवति, न नेयवचनमात्रात्। स एव विशिष्टो यो नयः प्रदक्षिणप्रसव्यगामीत्यादिना ग्रन्थेन दर्शितः। अथायान्य इति कोऽयं शब्दः, यदि ह्रयं समाहारे द्वन्द्वः, तस्य नपुंसकत्वादयानयमिति भवितव्यम्? अथेतरेतरयोगे, द्व्यर्थत्वादयानयाविति भवितव्यम्? नायं द्वन्द्वः, किं तर्हि? मयूरव्यंसकादित्वात्? तत्पुरुषः - अयसहितोऽनयोऽयानय इति। अथ बद्धाभक्षयतिनेयेष्विति कथं तिङन्तस्य द्वन्द्वः? कः पुनराहायं द्वन्द्व इति? यदि न द्वन्द्वः, कथं नेयेष्विति बहुवचनम्? सौत्रत्वान्निर्देशस्य। सुब्व्यत्ययेन वा च्छन्दस्येकवचनस्य स्थाने बहुवचनमुपपन्नम्। ननु च्छन्दसि सुब्व्यत्यय उक्तः, नेदं छन्दः? छन्दोवत्सूत्राणि भवन्ति (म।भा। 1-1-1) इत्यदोषः। अथ वा; द्वन्द्व एवायम्, न तु तिङन्तस्य। न हि भक्षयतिशब्दोऽयं तिङन्तः। किं तर्हि? तिङन्तप्रतिरूपको निपातस्तिङन्तेन समानार्थः, यथा - अस्तिक्षीरा ब्राआहृणीत्यत्रास्तिशब्दः॥
Prakriyasarvasvam¶
अनुपदादेः क्रमाद् बद्धेत्याद्यर्थे खः । अनुपदं बद्धा अनुपदीना उपानत् । पदायामानुगुणं योजितेत्यर्थः सर्वविधमन्नं भक्षयन् सर्वान्नीनोऽतिथिः । अयानयो नाम शाराणां गतिभेदः, तं नेतव्य अयानयीनः शारः । प्रथमसन्निवेशित इत्यर्थः ॥