52018: गोष्ठात् खञ् भूतपूर्वे

Padacheda: गोष्ठात् | S | 5 | 1 |

खञ् | S | 1 | 1 |

भूतपूर्वे | S | 7 | 1 |

Sutrartha

यस्मिन् स्थाने पूर्वकाले गोष्ठम् अविद्यत, तस्य निर्देशार्थम् ‘गोष्ठ’ शब्दात् खञ् प्रत्ययः भवति ।

‘गोष्ठ’ इत्युक्ते गवाम् निवासस्थानम् (A place where cows are kept, E.g. cowshed) । यस्मिन् स्थाने पूर्वकाले गोष्ठमासीत् (परन्तु इदानीम् नास्ति), तस्य स्थानस्य निर्देशं कर्तुम् ‘गोष्ठ’ शब्दात् खञ्-प्रत्ययः भवति । गोष्ठम् भूतपूर्वम् यत्र, तत् गौष्ठीनम् स्थानम् । A place where a cowshed used to exist earlier (but not anymore) is called गौष्ठीनम् । विशेषः - यदि कस्मिंश्चित् स्थले वर्तमानकाले अपि गोष्ठं वर्तते, तर्हि तस्य निर्देशः ‘गौष्ठीनम्’ इत्यनेन न भवति - एतत् स्पष्टीकर्तुम् एव अस्मिन् सूत्रे ‘भूतपूर्व’ इति निर्दिश्यते ।

Vasu English Summary

The affix खञ् comes in the sense of ‘it formerly had been’ after the word गोष्ठ।

Vasu English Translation

The affix खञ् comes in the sense of ‘it formerly had been’ after the word गोष्ठ। The word गोष्ठ is a compound of गो + स्था i.e. a cow-pen, it means the place all around a cow-pen. The word भूतपूर्व qualifies it. Thus गोष्ठो भूतपूर्वः = गौष्ठीनो देशः ‘a place which was formerly a Goshtha’. Otherwise when not meaning formerly, we have गोष्ठो वर्तते ॥

Kashika

गावस्तिष्ठन्त्यस्मिन्निति गोष्ठम्। गोष्ठशब्देन सन्निहितगोसमूहो देश उच्यते। भूतपूर्वग्रहणं तस्यैव विशेषणम्। गोष्ठशब्दाद् भूतपूर्वोपाधिकात् स्वार्थे खञ् प्रत्ययो भवति। गोष्ठो भूतपूर्वो गौष्ठीनो देशः। भूतपूर्वग्रहणं किम्? गोष्ठो वर्तते॥

Siddhanta Kaumudi

गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥

Balamanorama

गोष्ठात् खञ् भूतपूर्वे - गोष्ठात्खञ् । बूतपूर्व इति प्रकृतिविशेषणम् । भूतपूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वार्थे खः स्यादिति वृत्तिकृतः ।

Tattvabodhini

गोष्ठात् खञ् भूतपूर्वे - गोष्ठात्खञ् । गावस्तिष्ठन्त्यस्मिन्निति घोष्ठः ।घञर्थे कविधानं॑मित्यदिकरणे कः ।अम्बाम्बोगोभूमी॑ति षत्वम् । पूर्वं भूतो भूतपूर्वः ।सुप्सुपे॑ति समासः ।

Padamanjari

गावस्तिष्ठन्त्यस्मिन्निति गोष्ठ इति। च्छञर्थे कविधानम्,’स्थास्नायाव्यधिर्हान युध्यर्थम्’ इत्यधिकरणे कः, ठम्बाम्बगोभूमिऽ इति षत्वम्। पूर्व भूतो भूतपूर्वः,’सुप्स,उपा’ इति समासः। गोष्ठशब्दस्यार्थद्वारकंच विशेषणत्वम्, न स्वरुपेण, न हि भूतपूर्वाद् गोष्ठशब्दात्प्रत्ययो विधातुं शक्यते। गोष्ठो वर्तत इति। सम्प्रति गवामवस्तानं दर्शयति ॥

Nyaas

भूतपूर्वं चरट् (5.3.53) इति प्राप्ते खञ्? विधीयते। गावस्तिष्ठन्त्यस्मिन्निति गोष्ठम् इति। सुपिस्थः (3.2.4) इति कः, अम्बाम्बगोभूमि (8.3.97) इत्यादिना मूर्धन्यः। भूतपूर्वे इति। पूर्वं भूत इति भूतपूर्वः। सुप्सुपा (2.1.4) इति समासः। भूतपूर्वग्रहणं तस्यैव विशेषणम् इति। अर्थद्वारकं वेदितव्यम्, यथा - धातोः कर्मणः समान (3.1.7) इत्यादिसूत्रे कर्मत्वम्, समानकर्त्तृकत्वञ्च॥

Prakriyasarvasvam

गोष्ठत्वेन भूतपूर्वो देशो गौष्ठीनः ॥