52013: अद्यश्वीनाऽवष्टब्धे¶
Padacheda: अद्यश्वीन | S | | | 1
अवष्टब्धे | S | 7 | 1 |
Sutrartha¶
‘अद्य श्वः वा विजायते’ अस्मिन् अर्थे ‘अद्यश्वीन’ शब्दः निपात्यते ।
वर्तमानसूत्रेण ‘अद्यश्वीन’ इति शब्दः निपात्यते । ‘अवष्टब्धे (= समीपकाले, in very near future) विजायते (= गर्भं धारयति / जन्म ददाति , becomes pregnant / gives birth)’ अस्मिन् अर्थे अस्य शब्दस्य प्रयोगः भवति । अत्र ‘अद्य वा श्वो वा विजायते’ इति विग्रहवाक्यं स्वीकृत्य तस्मात् ख-प्रत्ययान्तस्य ‘अद्यश्वीन’शब्दस्य निपातनम् क्रियते । उदाहरणम् - ‘इयम् गौः अद्यश्वीना अस्ति’ । इयम् गौः अद्य वा श्वः वा प्रसविष्यति - इति आशयः । स्मर्तव्यम् - 1. केचन पण्डिताः अस्मिन् सूत्रे ‘विजायते’ इत्यस्य अनुवृत्तिम् न स्वीकुर्वन्ति । अतः तेषाम् मतेन या काऽपि क्रिया ‘अद्य वा श्वः वा’ भविष्यति, तस्याः निर्देशः ‘अद्वश्वीन’ इत्यनेन भवितुमर्हति । यथा, अद्यश्वीनम् मरणम् ; अद्यश्वीना परीक्षा ; अद्यश्वीनः वियोगः - आदयः । 2. अस्मिन् सूत्रे ‘अवष्टब्ध’ इति शब्दः प्रयुज्यते । अयम् शब्दः ‘अव + स्तम्भ्’ इत्यत्र क्त-प्रत्ययान्तरूपमस्ति । ‘निकटम् प्राप्तः / आपन्नः’ अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते ।
Vasu English Summary¶
The word अद्यश्वीन is anomalous meaning ‘a female near delivery’.
Vasu English Translation¶
The word अद्यश्वीन is anomalous meaning ‘a female near delivery’. The word विजायते is understood here. The word अवष्टब्ध means ‘imminent, near’. It is formed by अव + स्तंभ + क्त, the स् being changed to ष् by (8.3.68). Thus अद्य वा श्वो वा विजायते = अद्यश्वीना गौः “a cow likely to give birth to-day or to-morrow”. So also अद्यश्वीना वडवा ॥
Some do not read विजायते into the sutra, which then means “The word adyasvina is irregularly formed meaning imminent”. As अद्यश्वीनं मरणं ‘imminent death’. अद्यश्वीनो वियोगः ‘separation likely to take place to-day or tomorrow’.
Kashika¶
विजायत इति वर्तते। अद्यश्वीन इति निपात्यत अवष्टब्धे विजने, आसन्ने प्रसवे। आविदूर्ये हि मूर्धन्यो विधीयते, अवाच्चालम्बनाविदूर्ययोः (८.३.६८) इति। अद्य वा श्वो वा विजायते अद्यश्वीना गौः। अद्यश्वीना वडवा। केचित् तु विजायत इति नानुवर्तयन्ति, अवष्टब्धमात्रे निपातनमित्याहुः। अद्यश्वीनं मरणम्। अद्यश्वीनो वियोग इति॥
Siddhanta Kaumudi¶
अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥
Balamanorama¶
अद्यश्वीनाऽवष्टब्धे - अद्यआईनाऽवष्टब्धे ।अद्यआईने॑त्यविभक्तको निर्देशः । अवष्टब्धम्ासन्नम् ।अवाच्चालम्बनाविदूर्ययो॑रित्याविदूर्ये स्तन्भेः षत्वविधानात् । अद्य आओ वा विजायत इत्यर्थे अद्य आसिति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः । अद्यआईना वडवेति । अद्य वा आओ वेति वार्थे निपानात्समासः । खे सति ‘अव्ययानां भमात्रे’ इति टिलोपः । सूत्रे अद्यआईनेति टाबन्तनिर्देशे तु अद्यआईनो गोसमूहः, अद्यआईनां गोमण्डलमिति न स्यात् ।
Tattvabodhini¶
अद्यश्वीनाऽवष्टब्धे - अद्य आओ वेति । निपातनाद्वाऽर्थे समासोऽयमिति भावः ।अवाच्चालम्बने॑ति सूत्रेण आविदूर्ये स्तन्भेः षत्वविधानादवष्टब्धशब्द आसन्नपरः ।विजायते॑इति हि वर्तते । स च गर्भविमोचनार्थकः । तदाह -आसन्नप्रसतेत्यर्थ इति ।
Padamanjari¶
अवष्टब्ध, विजन - इत्येतयोर्यथाक्रमं विवरणम् - आसन्ने प्रसव इति। कथं पुनरवष्टब्धशब्दस्यासन्नमर्थः ? इत्याह - आविदूर्ये हीति। यद्यप्यालम्बनेऽपि षत्वं विधीयते; तथापि विजनस्यालम्बनत्वासम्भवादाविदूर्यमेवार्थः। किं पुनरत्र निपात्यते ? अद्य वा विश्वो वेति वार्थे समासः खप्रत्ययः, टिलोपस्त्वव्ययत्वादेव सिद्धः। अद्यश्वीना वडवेति। विजायत इत्यस्यानुकूलतया स्त्रीलिङ्गमुदाहृतम्, न पुनः सूत्रे स्त्रीलिङ्गनिर्द्देशः। अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमित्यत्रापीष्ठत्वात्। ????????? ह्रस्वान्तस्याविभिक्तिको निर्देशः। केचित्विति। तेषां यथाभिधानं क्रियाध्याहारः। अवष्टब्धमात्रे इति। भवत्याद्यर्थेऽपीत्यर्थः। अद्यस्वीनं मरणमिति। अद्य वा श्वो वा भविष्यतीत्यत्रार्थे प्रत्ययः ॥
Nyaas¶
अवष्टब्धे विजन आसन्ने प्रसवे इति। अत्र पूर्वयोः पदयोरुत्तराभ्यां यथाक्रममर्थाख्यानम्॥
Prakriyasarvasvam¶
अवष्टब्धमासन्नम् । आसन्ने विजनने द्योत्ये अद्यश्वीना गौः । आसन्नमात्रेऽपि । अद्यश्वीनः सङ्गमः ॥