52012: समांसमां विजायते

Padacheda: समाम् | S | 2 | 1 |

समाम् | S | 2 | 1 |

विजायते | S | 7 | 1 |

Sutrartha

‘विजायते’ इत्यस्मिन् अर्थे द्वितीयासमर्थात् ‘समांसमा’ शब्दात् ‘ख’-प्रत्ययः भवति ।

सूत्रे प्रयुक्तयोः शब्दयोः अर्थमादौ पश्यामः - 1. ‘समा’ इत्युक्ते ‘वर्षम्’ । ‘समांसमाम्’ इत्यत्र ‘वीप्सा’ / पौनःपुन्यम्’ (repeation) इति निर्देशयितुम् नित्यवीप्सयोः (8.1.4) इत्यनेन द्विरूक्तिः / द्विर्वचनम् क्रियते । ‘समांसमाम्’ इत्युक्ते ‘प्रतिवर्षम्’ । 2. ‘विजायते’ इत्युक्ते ‘गर्भं धारयति’ (becomes pregnant) । अतः सम्पूर्णस्य सूत्रस्य अर्थः अयम् - ‘प्रतिवर्षम् गर्भं धारयति’ अस्मिन् अर्थे ‘समांसमा’ शब्दात् ख-प्रत्ययः भवति । यथा - अ) समांसमां विजायते सा = समांसमा + ख + टाप् → समांसमीना गौः । A cow that carries a baby every year - इत्याशयः । आ) समांसमां विजायते सा समांसमीना वडवा (female horse) । अत्र केचन विशेषाः स्मर्तव्याः - 1. ‘समांसमाम् विजायते’ इति अत्र विग्रहवाक्यमस्ति । अस्मिन् विग्रहवाक्ये कालाध्वनोरत्यन्तसंयोगे (2.3.5) इत्यनेन द्वितीया प्रयुज्यते । परन्तु केचन पण्डिताः अत्र ‘समायाम् समायाम् विजायते’ इति सप्तमीनिर्देशम् स्वीकुर्वन्ति । अतः ‘समांसमीन’ इत्यत्र द्वे विग्रहवाक्ये भवतः - ‘समां समां विजायते’ तथा ‘समायां समायां विजायते’ । अस्मिन्नेव विषये वार्त्तिककारः एकं वार्त्तिकं पाठयति - <!खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः!> । इत्युक्ते, मूलरूपेण ‘समायां समायां विजायते’ इति विग्रहवाक्यं स्वीकृत्य तत्र पूर्वपदे तथा उत्तरपदे - उभयत्र विद्यमानस्य यकारस्य समानकाले एव विकल्पेन लोपं कृत्वा ‘समाम् समाम् विजायते’ इति वाक्यमपि साधु ज्ञेयम् । (अत्र ख-प्रत्ययस्य अनुपस्थितौ एव विग्रहवाक्यस्य परिवर्तनं भवति, अतः अत्र वार्त्तिके ‘खप्रत्ययानुत्पत्तौ’ इति शब्दः गृह्यते ।) 2. अत्र प्रक्रियायाम् ‘समाम् समाम्’ / ‘समायाम् समायाम्’ इति ‘सुबन्तसमुदायः’ (The group of two सुबन्तs) इत्येव प्रकृतिः अस्ति । इत्युक्ते, अत्र केवलम् ‘समा’शब्दात् प्रत्ययः न उत्पाद्यते, अपितु समुदायात् एव प्रत्ययः उत्पाद्यते । अस्यां प्रक्रियायाम् पूर्वपदे विद्यमानानां केषाञ्चन वर्णानाम् निपातनेन अलुक् विधीयते । तत् इत्थम् - [प्रथमः पक्षः] - ‘समाम् समाम् विजायते’ इति स्थिते - = समाम् समाम् + ख [वर्तमानसूत्रेण ‘ख’प्रत्ययः] → समा + अम् + समा + अम् + ख [ कृत्तद्धितसमासाश्च (1.2.46) इत्यनेन प्रातिपदिकसंज्ञा । अतः अलौकिकविग्रहः दर्श्यते ] अस्यां स्थितौ प्रातिपदिके विद्यमानस्य सुप्-प्रत्ययस्य सुपो धातुप्रातिपदिकयोः (2.4.71) इत्यनेन लुक् विधीयते । अत्र प्रातिपदिके वस्तुतः द्वौ सुप्-प्रत्ययौ स्तः (द्वावपि ‘अम्’ इत्येव)। परन्तु अत्र केवलमुत्तरपदे विहितस्य ‘अम्’ प्रत्ययस्य एव लुक् भवति ; पूर्वपदे विद्यमानस्य अम्-प्रत्ययस्य लुकि प्राप्ते तस्य ‘अलुक्’ (= लुक्-निषेधः) निपात्यते । अतः - → समा + अम् + समा + ख [उत्तरपदस्य ‘अम्’ प्रत्ययस्य सुपो धातुप्रातिपदिकयोः (2.4.71) इति लुक् ; पूर्वपदस्य अम्-प्रत्ययस्य निपातनात् लुक्-निषेधः] → समांसमा + ख [अमि पूर्वः (6.1.107) इति पूर्वरूपः एकादेशः ] → समांसमा + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन-आदेशः] → समांसम + ईन [<!भस्याढे तद्धिते पुंवद्भावो वक्तव्यः!> इति पुंवद्भावः] → समांसम् + ईन [यस्येति च (6.4.148) इति अकारलोपः] → समांसमीन [ द्वितीयः पक्षः] ‘समायाम् समायाम् विजायते’ इति स्थिते - = समायाम् समायाम् + ख [वर्तमानसूत्रेण ‘ख’प्रत्ययः] → समा + याट् + आम् + समा + याट् + आम् + ख [ कृत्तद्धितसमासाश्च (1.2.46) इत्यनेन प्रातिपदिकसंज्ञा ; अतः अलौकिकविग्रहः दर्श्यते । अत्र मूलरूपेण ‘ङि’प्रत्ययः विद्यते, तस्य ङेराम्नद्याम्नीभ्यः (7.3.116) इत्यनेन आम्-आदेशः भवति, तथा च तस्मात् याडापः (7.3.113) इति याट्-आगमः विधीयते । अतः अत्र ‘याट् + आम्’ इति दर्शितमस्ति । ] अत्र अपि तद्धितान्तस्य कृत्तद्धितसमासाश्च (1.2.46) इत्यनेन प्रातिपदिकसंज्ञा भवति, अतः उभयत्र विद्यमानस्य ‘याट् + आम्’ प्रत्ययस्य लुक् विधीयते । अस्यां स्थितौ पूर्वपदे विद्यमानस्य ‘आम्’ इत्यस्य लुकः निपातनेन निषेधः क्रियते - केवलम् ‘याट्’ इत्यस्यैव लुक् भवति । उत्तरपदस्य तु सम्पूर्णप्रत्ययस्य लुक् भवति । अतः - → समा + आम् + समा + ख [सुपो धातुप्रातिपदिकयोः (2.4.71) इति उत्तरपदस्य ‘याट् + आम्’ इत्यस्य लुक् । अनेनैव सूत्रेण पूर्वपदस्य प्रत्ययस्य लुकि प्राप्ते निपातनात् ‘आम्’ इत्यस्य लुक् न भवति ; केवलम् ‘याट्’ इत्यस्यैव लुक् क्रियते ।] → समांसमा + ख [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → समांसमा + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन-आदेशः] → समांसम + ईन [<!भस्याढे तद्धिते पुंवद्भावो वक्तव्यः!> इति पुंवद्भावः] → समांसम् + ईन [यस्येति च (6.4.148) इति अकारलोपः] → समांसमीन अनेन प्रकारेण द्वाभ्यामपि विग्रहवाक्याभ्यां आरभ्य यथोचितम् पूर्वपदस्थप्रत्ययस्य लुकम् कृत्वा ‘समांसमीन’ इत्येव अन्तिमम् रूपम् सिद्ध्यति ।

Vasu English Summary

The affix ख (ईन) comes in the sense of ‘who bears in the womb’ after the word समांसमाम्।

Vasu English Translation

The affix ख (ईन) comes in the sense of ‘who bears in the womb’ after the word समांसमाम्। The word विजायते means गर्भे धारयति ‘who bears in the womb’. This verb governs the accusative of time समांसमां by (2.1.29). Thus समांसमां विजायते = समांसमीना गौः, समांसमीना वडवा ॥

Vart:- According to others the aphorism means ‘the affix comes in the sense of to give birth to or to get a young’. i.e. विजायते = गर्भमोचनं ॥ According to them, the verb governs the locative: समायां समायां विजायते = समांसमीना, the य् of the first समायां being elided, the rest of the vibhakti (आम्) remaining. The word will mean “an animal that gives birth to a young one every year”.

Vart:- Sometime there is no affixing, but the whole sentence is to be used to express this meaning, or the य् only of both members is to be elided and a sentence formed. As समां समां विजायते or समयां समयां विजायते ॥

Bhashya

समां समां विजायते (2030) (आक्षेपभाष्यम्) इह - समांसमीना गौः सुपो धातुप्रातिपदिकयोः(2.4.71) इति सुब्लुक् प्राप्नोति॥ समां समां विजायते इति यलोपवचनादलुग्विज्ञानम्॥ समां समां विजायते इति यलोपवचनादलुग्विज्ञानं भविष्यति। यदयं यलोपं शास्ति तज्ज्ञापयत्याचार्यः - नात्र लुग्भवतीति। (5706 प्रत्याक्षेपवार्तिकम्॥2॥) - समां समां विजायत इति यलोपवचनादलुग्विज्ञानमिति चेदुत्तरपदस्य लुग्वचनम्॥ समां समां विजायत इति यलोपवचनादलुग्विज्ञानमिति चेदुत्तरपदस्य लुग्वक्तव्यः। (5707 समाधानवार्तिकम्॥3॥) सिद्धं तु पूर्वपदस्य यलोपवचनात् ॥ सिद्धमेतत् । कथम्? पूर्वपदस्य यलोपो वक्तव्यः। (5708) पक्षान्तरेण समाधानवार्तिकम्॥4॥) अनुत्पत्तावुत्तरपदस्य वाचनम्॥ अनुत्पत्तौ पूर्वपदस्य उत्तरपदस्य च यलोपो वा वक्तव्यः। समां समां विजायते, समायां समायां विजायत इति।

Kashika

समांसमामिति वीप्सा। सुबन्तसमुदायः प्रकृतिः। विजायते गर्भं धारयतीति प्रत्ययार्थः। गर्भधारणेन सकलापि समा व्याप्यत इति अत्यन्तसंयोगे द्वितीया (२.१.२९)। समांसमां विजायते समांसमीना गौः। समांसमीना वडवा॥ पूर्वपदे सुपोऽलुग् वक्तव्यः॥ केचित् तु समायांसमायां विजायत इति विगृह्णन्ति, गर्भविमोचने तु विजनिर्वर्तत इत्याहुः॥ तेषां पूर्वपदे यलोपमात्रं निपात्यते, परिशिष्टस्यालुग् वक्तव्यः॥ अनुत्पत्तावुत्तरपदस्य च वा यलोपो वक्तव्यः॥ समांसमां विजायते, समायांसमायां विजायत इति वा॥

Siddhanta Kaumudi

यलोपोऽवशिष्टविभक्तेरलुक् च पूर्वपदे निपात्यते । समांसमीना गौः । समांसमीना ना यैव प्रतिवर्षं प्रनूयते ।<!खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः !> (वार्तिकम्) ॥ समांसमां विजायते । समायां समायां वा ॥

Balamanorama

समांसमां विजायते - समां समाम् । विपूर्वो जनिर्गर्भविमोचने वर्तते । विजायते=गर्भं विमुञ्चतीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकः । अतो न कर्मणि द्वितीया । गर्भविमोचनेन कृत्स्नायाः समाया अव्यापनादत्यन्तसंयोगलक्षणा द्वितीयापि न भवति । किंतु सप्तम्येव । तत्र सप्तम्यन्तस्य समाया॑मित्यस्यनित्यवीप्सयो॑रिति द्विर्वचने समायां — समायामिति भवितव्यम् । तत्र पदद्वयमपि यकारलोपसहितं निर्दिश्यते — समां समामिति । समायां समायामित्यर्थः । एवं च समायां समायां विजायत इत्यर्थे सप्तम्यन्तद्वयसमुदायाद्विजायत इत्यर्थः । खः स्यादिति फलितम् । ननु सप्तम्यन्तद्वयसमुदायात्खप्रत्ययोत्पत्तौ तदन्तस्य समुदायस्य प्रातिपदिकत्वात्तदवयवयोः सप्तम्योर्लुकि ‘समासमीन’ इति स्यात्, इष्यते तुसमांसमीने॑ति । तदा — यलोप इति । पूर्वपदे विभक्ते तदवयवस्य यकारस्य लोपः अवशिष्यस्य विभक्त्यंशस्य अलुक्च निपात्यत इत्यर्थः । भाष्ये तुयलोपनिपातनादवशिष्टविभक्त्यंशस्य न लु॑गित्युक्तम् । ननु समां समामिति निर्देशादुत्तरपदेऽपि यकारलोपः, अवशिष्टविभक्त्यंशस्य अलुक्च स्यादित्यत आह — पूर्वपदे इति ।पूर्वपदस्य यलोपवचन॑मिति वार्तिकादिति भावः । खप्रत्ययानुत्पत्ताविति ।पदतद्वयेऽपी॑ति शेषः । इह विभाषया कदाचित्खप्रत्ययाऽभावे सतिसमायां समायं विजायते॑ इति वाक्यदशायां सप्तम्यन्तद्वये यकारलोपो वा वक्तव्य इत्यर्थः । तत्र पदद्वयेऽपि निपातनादेव यकारलोपः सिद्धः, सूत्रे उभयत्रापि तथोच्चारणात् । विकल्प एव तु यलोपस्य वाक्यदसायां वाचनिक इति बोध्यम् । एतत्सर्वं भाष्ये स्पष्टम् ।

Tattvabodhini

समांसमां विजायते - समांसमाम् । यलोप इति ।समाया॑मित्यत्र यकारलोप इत्यर्थः । पूर्वपदे निपात्यत इति । अन्यथा तद्धिते उत्पन्ने यथोत्तरपदे सुपो लुग्भवतिसुपो धातुप्रातिपदिकयो॑रिति, तथा पूर्वपदेऽपि स्यादिति भावः । समांसमीनेचि । वीप्सायां द्विर्वचनम् । सुबन्तसमुदायः प्रकृतिः । विजायत इत्येतद्व्याचष्टे -प्रसूयत इति । विपूर्वको जनिर्गर्भविमोचने वर्तत इति भावः । गर्भविमोचने कृत्स्नायाः समाया व्याप्त्यभावात्अत्यन्तसंयोगे चे॑ति द्वितीया नभवतीत्याशयेनाह -समायामित्यादि ।खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः ।खप्रत्ययानुत्पत्ता॑विति । वार्तिकेन समांसमामिति सौत्रप्रयोगस्तूपपन्न इति भावः । अद्यआईना । अविभक्तिको निर्देशो न तु स्त्रीलिह्गनिर्देशोऽयम्,अद्यआईनो गोसमूहः ॑अद्यआईनं गोमण्डल॑मित्यादावपीष्टत्वात् ।

Padamanjari

समांसमाभिति वीप्सेति। प्रष्टव्येति शेषः। अत्र निर्देशे वीप्सा द्रष्टव्या, तेन द्विचनमित्यर्थः। अथ वा - वीप्सावाची समुदायो वीप्सा, वीप्प्तावाचीत्यर्थः। सुबन्दमुदायः प्रकृतिरिति। प्रातिपदिकाधिकारेऽपि वचनसामर्थात्। गर्भ धारयतीत्यर्थ इति। दृश्यते च विजनिर्र्भधारणे,’स विजायमानो गर्भणाताम्यत्’ इति। पूर्वपदे सुपोऽलुग्वक्तव्य इति। अन्यथा तद्धिते उत्पन्ने यथोतरपदे लुग्भवति’सुपो दातुप्रातिपदिकयोः’ इति, तथा पूर्वपदेऽपि स्यात्। केचित्विवत्यादि। नन्वत्यन्तसंयोगे द्वितीयया भवितव्यम् ? तत्राह - गर्भविमोचने त्विति। तत्र वमोचनेन यकारमात्रलोपो न सर्वस्या विभक्तेरिति मात्रशब्दस्यार्थः। परिशिष्टस्येति। आम्शब्दस्यालुग्वक्तव्यः। ननु याटः सुब्भक्तत्वात्सुब्लुकैव लोपः सिद्धः तत्र यलोपवचनं नियमार्थं भविष्यति - यकारस्यैव लोपो न तु सर्वस्य प्रत्ययस्येति, तत्किमुच्यते ठलुग्वक्तव्यःऽ इति ? एवं मन्यते - यथैव निपातनात्पूर्वपदपरिशिष्टिस्य लोपो न भवति एवमुतरपदेऽपि न स्यादिति। अनुत्पताविति। वाक्ये पूर्वोतरपदयोरपि पक्षे यलोपो वक्तव्यः, तेन द्वैरूप्यं सिद्धं भवति ॥

Nyaas

समां समास इति। नित्यवीप्सयोः (8.1.4) इति वीप्सायां द्विर्वचनम्। अत आह - समांसमामिति वीप्सा इति। सुबन्तसमुदायः प्रकृतिः इति। प्रातिपदिकाधिकारे वचनसामर्थ्यात्। गर्भं धारयतीत्यर्थः इति। अनेकार्थत्वाद्धातूनाम्। पूर्वपदे सुपोऽलुग्वक्तव्यः इति। तद्धित उत्पन्ने कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञायां सत्यां सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुब्लुक्? प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः। गर्भविमोचनेऽपि विजनिर्वर्तत इत्याहुः इति। तदेवं मन्यते - यदा गर्भधारणे वर्तते तदत्यन्तसंयोगे द्विकतीयैवात्र, न सप्तमी। गर्भविमोचने विजनावुपपद्यते सप्तमी। यलोपमात्रम् इति। न हि गर्भविमोचनेन सकला समा व्याप्यत इति मात्रशब्देन सर्वस्या विभक्तेर्लोपो न भवतीति दर्शयति। परिशिष्टस्य इति। आम्शब्दस्य।अनुत्पत्तौ इति। तद्धितस्य। उत्तरपदस्य च इति। चकारात्? पूर्वपदस्य लोपो वक्तव्य इति यकारस्य प्रत्ययसन्नियोगेन विधीयमानो लोपस्तदभावे न प्राप्नोतीति पक्ष उपसंख्यायते॥

Prakriyasarvasvam

समायां समायामिति शब्दस्य यलोपो निपात्यः । तस्मात् प्रसूते इत्यर्थे खः । समांसमीना गौः । अत्र पूर्वपदस्यालुग्वाच्यः । तेन समामिति विभक्त्यंशश्रुतिः ॥

Vartika

खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः ।

Sutra Prayogas

  • क्षेत्रियो (भट्टिकाव्यम्): क्षेत्रियच् परक्षेत्रे चिकित्स्यः इति निपातनम्।