Sutras 1 - 20¶
- 41001: ङ्याप्प्रातिपदिकात्
- 41002: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप्
- 41003: स्त्रियाम्
- 41004: अजाद्यतष्टाप्
- 41005: ऋन्नेभ्यो ङीप्
- 41006: उगितश्च
- 41007: वनो र च
- 41008: पादोऽन्यतरस्याम्
- 41009: टाबृचि
- 41010: न षट्स्वस्रादिभ्यः
- 41011: मनः
- 41012: अनो बहुव्रीहेः
- 41013: डाबुभाभ्यामन्यतरस्याम्
- 41014: अनुपसर्जनात्
- 41015: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः
- 41016: यञश्च
- 41017: प्राचां ष्फ तद्धितः
- 41018: सर्वत्र लोहितादिकतन्तेभ्यः
- 41019: कौरव्यमाण्डूकाभ्यां च
- 41020: वयसि प्रथमे