41009: टाबृचि¶
Padacheda: टाप् | S | 1 | 1 |
ऋचि | S | 7 | 1 |
Sutrartha¶
‘पाद’ इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण विद्यते, तेन समस्तपदेन वेदस्य ऋचः निर्देशः भवति चेत् तस्मात् समस्तपदात् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः भवति ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु टाप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । येन समस्तपदेन वेदस्य ऋचः निर्देशः क्रियते, तस्य अन्ते “पाद” इति शब्दः विद्यते चेत् तस्मात् स्त्रीत्वं द्योतयितुम् **पादोऽन्यतरस्याम् (4.1.8) इत्यनेन विकल्पेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा टाप्-प्रत्ययः एव भवति** — इति अस्य सूत्रस्य अर्थः । यथा — 1. “द्वौ पादौ अस्याः ऋचः” इत्यत्र अनेकमन्यपदार्थे (2.2.24) इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण टाप्-प्रत्ययः भवति । प्रक्रिया इयम् —
द्वौ पादौ अस्याः ऋचः
→ द्वि + पाद + टाप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः । **पादोऽन्यतरस्याम्** (4.1.8) इति ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा **टाबृचि** (4.1.9) इति टाप्-प्रत्ययः]
→ द्वि + पाद् + आ [**संख्यासुपूर्वस्य** (5.4.140) इति पाद-शब्दस्य अकारस्य लोपः]
→ द्वि + पद् + आ [**पादः पत्** (6.4.130) इति पाद्-शब्दस्य पद्-आदेशः]
→ द्विपदा ऋक्
एवमेव “त्रयः पादाः अस्याः ऋचः = त्रि + पाद + टाप् → त्रिपदा ऋक्” इति शब्दः अपि सिद्ध्यति । 3. “चत्वारः पादाः अस्याः ऋचः” इत्यत्र प्रक्रिया इयम् —
चत्वारः पादाः अस्याः ऋचः
→ चतुर् + पाद + टाप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः ।**पादोऽन्यतरस्याम्** (4.1.8) इति ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा **टाबृचि** (4.1.9) इति टाप्-प्रत्ययः]
→ चतुर् + पाद् + आ [**संख्यासुपूर्वस्य** (5.4.140) इति पाद-शब्दस्य अकारस्य लोपः]
→ चतुर् + पद् + आ [**पादः पत्** (6.4.130) इति पाद्-शब्दस्य पद्-आदेशः]
→ चतुः + पदा [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ चतुष्पदा [**इदुदुपधस्य चाप्रत्ययस्य** (8.3.41) इति षत्वम्]
→ चतुष्पदा ऋक्
बाध्यबाधकभावः
प्रकृतसूत्रं पादोऽन्यतरस्याम् (4.1.8) इति सूत्रेण प्राप्तस्य ङीप्-प्रत्ययस्य अपवादरूपेण प्रवर्तते । तत्र पादोऽन्यतरस्याम् (4.1.8) इत्यनेन यद्यपि वैकल्पिकः ङीप्-प्रत्ययः विधीयते, तर्ह्यपि प्रकृतसूत्रे तादृशं वैकल्पिकविधानं नास्ति । अत्र निर्दिष्टः टाप्-प्रत्ययः नित्यमेव विधीयते, अतः “द्वौ पादौ अस्याः ऋचः” इत्यत्र “द्विपदा ऋक्” इत्येव प्रयोगः भवति ।
पाद-शब्दान्त-समस्तपदेन ऋचः निर्देशे कर्तव्ये स्त्रीत्वं द्योतयितुम् अवश्यं प्रकृतसूत्रस्य प्रयोगः करणीयः ।
Vasu English Summary¶
The affix ङीप् is used in the feminine after a प्रातिपदिक (Nominal Stem) ending with the word पाद् when the word denotes a verse of the ऋग्वेद।
Vasu English Translation¶
The affix ङीप् is used in the feminine after a प्रातिपदिक (Nominal Stem) ending with the word पाद् when the word denotes a verse of the ऋग्वेद। This debars ङीप् ॥ Thus द्विपदा ऋक् ‘a Rik verse consisting of two quarter verses’; similarly त्रिपदा ऋक्, चतुष्पदा ऋक् ॥ Why do we say “when denoting a ‘ Rik’ verse” ? Observe द्विपदी देवदत्ता ‘Devadatta (a woman) having two feet’.
Kashika¶
पाद इत्येव। ऋचीत्यभिधेयनिर्देशः। ऋचि वाच्यायां पादन्तात् प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। ङीपोऽपवादः। द्विपदा ऋक्। त्रिपदा ऋक्। चतुष्पदा ऋक्। ऋचीति किम्? द्विपदी देवदत्ता॥
Siddhanta Kaumudi¶
ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा । न षट्स्वस्रादिभ्यः (SK308) ॥ पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ष्णान्ता षट् (SK369) इति षट्संज्ञां प्रति न लोपः सुप्स्वर (SK353) इति नलोपस्यासिद्धत्वात् न षट्स्वस्रादिभ्यः (SK308) इति न टाप् ॥
Balamanorama¶
टाबृचि - टाबृचि । पादन्तादिति ।प्रातिपदिका॑दिति शेषः ।पादोऽन्यतरस्या॑मित्यतोऽनुवृत्तेन पाच्छब्देन प्रातिपदिकादित्यधिकृतस्य विशेषणादिति भावः ।पादोऽन्यतरस्या॑मिति ङीपोऽपवादोऽयम् । द्विपदा ऋगिति । द्वौ पादौ यस्या इति विग्रहः । एकपदेति । एकः पाटो यस्या इति विग्रहः । उभयत्रापि टापि,पादः पत् ।ङ्याप्प्रातिपदिकात् इति सूत्रभाष्ये तु पादशब्दसमानार्थकं पदशब्दमवष्टभ्य प्रत्याख्यातमेतत् । नच ऋचि वाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्त्ये एतत्सूत्रमिति वाच्यम्, एतद्भाष्यप्रामाण्येन तथाविधप्रयोगस्याऽपीष्टत्वादित्यसम् । न षडिति । इदमजन्ताधिकारे ऋकारान्तनिरूपणे व्याख्यातम् । पञ्चेति । इहान्तरङ्गत्वान्नन्तलक्षणङीपि प्राप्ते षट्त्वान्निषिद्धे ‘षड्भ्यो लुक्’ इति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वसंज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात् । ननुन षट्स्वरुआआदिभ्यः॑ इति न टाबित्यन्वयः ।अदन्तलक्षणष्टा॑बिति शेषः । नान्तलक्षणङीपि प्रतिषिद्दे सति जश्शसोर्लुकि नलोपे कृतेऽदन्तत्वात्प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्याऽसिद्धत्वाट्टापः प्रसक्तिरेव नेति वाच्यं, सुप्स्वस्संज्ञातुग्विधिषु टाब्विधेरनन्तर्भावेन तस्मिन्कर्तव्ये नलोपस्याऽसिद्धत्वाऽभावात् । ननुन षट्स्वरुआआदिभ्यः॑ इत्यत्र सत्यामपि टाबनुवृत्तौ कथमिह षट्संज्ञानिबन्धस्तन्निषेधः, नलोपे कृते षट्संज्ञाविरहात् । नच टाब्निषेधे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं, टाब्निषेधस्य सुप्स्वरसंज्ञातुग्विधिष्वनन्तर्भावादित्यत आह — नलोपे कृतेऽपीत्याद्यसिद्धत्वादित्यन्तम् । टाब्निषेधविधिरयं षट्संज्ञामपि विधत्ते, कार्यकालपक्षाश्रयणात् । ततश्च तस्मिन् कर्तव्ये नवोपस्याऽसिद्धत्वेन षट्संज्ञाया निर्बाधतया षट्संज्ञानिबन्धनष्टाप्प्रतिषेधोऽत्र निर्बाध इति बावः । वस्तुतस्तु नलोपस्याऽसिद्धत्वेऽपि बूतपूर्वषट्संज्ञामाश्रित्य टाब्निषेध उपपद्यते । अत एव षट्संज्ञायां नलोपाऽसिद्धत्वस्य न फलमितिनलोपः सुप्स्वरे॑ति सूत्रभाष्ये उक्तमित्याहुः ।
Tattvabodhini¶
टाबृचि - टाबृचि । पूर्वेण प्राप्तस्य ङीपोऽपवादः । यद्यपिपदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॑इति कोशात्पादसमानार्थकः पदशब्दोऽस्तीति तेनैवद्विपदा॒॑एकपदे॑ति रूपं सिध्यति, तथापि ऋचि वाच्यायांद्विपदी॒॑द्विपा॑दिति प्रयोगनिवृत्तये सूत्रारम्भोऽयमावश्यकः । असिद्धत्वादिति । एतच्चाऽसिद्धत्वेपवर्णनं कार्यकालपक्ष एवोपयुज्यते, न तु यथोद्देशपक्षे, सकृत्कृतायाः संज्ञायाः सर्वार्थत्वेन तस्याः पुनरपक्षाऽभावात् । न च॒पञ्च॑न्निति नान्तस्य कृतायामपि संज्ञायांपञ्चे॑त्यदन्तस्य न कृतेति शङ्क्यम्, एकदेशविकृतस्याऽनन्यत्वादित्याहुः । तदसत् । एकदेशविकृतस्योपसङ्ख्यानं हिस्थानिवदादेशोऽनल्विधा॑वित्यत्र पठते, तच्चाऽल्विधौ न प्रवर्तत एवेति यथोद्देशपक्षेऽप्यसिद्धत्ववर्णनस्य युक्तत्वात् ।
Padamanjari¶
ऋचीत्यभिधेयनिर्देश इति । व्याप्तेः । विषयनिर्देशे हि ऋग्वेदविषय एव प्रयोगे स्यात्, नान्यत्र ॥
Nyaas¶
ऋचीत्यभिधेयनिर्देशः इति। विषयनिर्देशाशङ्कां निराकरोति। यदि हि विषयनिर्देशः स्यात्, तत ऋचि विषय ऋग्ग्रन्थे यः पाच्छब्दस्तदन्तात् प्रातिपदिकाट्टाब्भविष्यतीत्येषोऽर्थः स्यात्, तथा च ऋग्वेद एव स्यात्, नान्यत्र। अभिधेयनिर्देशे तु सर्वत्र भवतीति भावः॥
Praudhamanorama¶
पूर्वेण प्राप्तस्य ङीपोऽपवादः। असिद्धत्वादिति। कार्यकालपक्षेणेदम्। यदि तु यथोद्देशं षट्संज्ञा, यदि वा उपदेशकाले ष्णान्तेति व्याख्यानं तदा असिद्धत्वोपवर्णनं नोपयुज्यत इत्याहुः। वस्तुतस्तु यथोद्देशपक्षेऽपि असिद्धत्वमुपयुक्तमेव एकदेशविकृतस्योपसंख्यानं हि स्थानिवत्सूत्रे पठ्यते। आदेशग्रहणसामर्थ्यात् ‘सर्वे सर्वपदादेशा’ इत्याश्रित्य आनुमानिकोऽप्यादेशः स्थानिवदिति वा व्याख्यायते। उभयथाऽपि अल्विधौ न तत्प्रवृत्तिः। एतच्च आकरे स्पष्टम्।
Prakriyasarvasvam¶
ऋचि वाच्यायां पादान्ताट्टाप् स्यात् । पद्भावः । द्विपदा ।।