41014: अनुपसर्जनात्¶
Padacheda: अनुपसर्जनात् | S | 5 | 1 |
Sutrartha¶
इतः परम् **यूनस्तिः (4.1.77) इति सूत्रं यावत् निर्दिष्टाः प्रत्ययाः उपसर्जनसंज्ञकेभ्यः प्रातिपदिकेभ्यः नैव विधीयन्ते ।**
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे उपस्थितम् इदम् अपरम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः यूनस्तिः (4.1.77) इति सूत्रपर्यन्तं वर्तते । अस्मिन् अधिकारे पाठिताः स्त्रीप्रत्ययाः उपसर्जनसंज्ञकेभ्यः शब्देभ्यः नैव भवन्ति — इति अस्य सूत्रस्य अर्थः । “उपसर्जनम्” इत्यस्य मूलः अर्थः अप्रधानः इति अस्ति । प्रकृतसूत्रस्य सन्दर्भे तु “उपसर्जनम्” इति शब्देन बहुव्रीहिसमासस्य उत्तरपदस्य निर्देशः क्रियते । अतः इतः परम् पाठिताः स्त्रीप्रत्ययाः बहुव्रीहिसमासेन निर्मितेभ्यः शब्देभ्यः नैव भवन्ति— इति अस्य सूत्रस्य सरलः अर्थः । त्रीणि उदाहरणानि एतादृशानि — <listsp> 1. जातेरस्त्रीविषयादयोपधात् (4.1.63) इति सूत्रेण जातिवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । अतः “कुक्कुट” इत्यस्मात् जातिवाचकशब्दात् स्त्रीत्वे ङीष्-प्रत्यये कृते “कुक्कुटी” इति शब्दः सिद्ध्यति । परन्तु अयं ङीष्-प्रत्ययः “बहवः कुक्कुटाः अस्याः” अत्र न भवति, यतः अत्र ‘कुक्कुट’ शब्दः उपसर्जनसंज्ञकः (बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानः) अस्ति । अतः “बहवः कुक्कुटाः अस्याः” इत्यत्र अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “बहुकुक्कुटा” इति शब्दः सिद्ध्यति । 2. यूनस्तिः (4.1.77) इत्यनेन “युवन्”-शब्दात् “ति”-प्रत्यये कृते “युवति” इति शब्दः सिद्ध्यति । इदं सूत्रम् अपि अनुपसर्जनात् (4.1.14) इत्यस्य अधिकारे विद्यते, अतः अस्य सूत्रस्य विषये अपि तदन्तविधिः न प्रवर्तते । अतएव “बहवः युवानः यस्यां (पाठशालायाम्)” इत्यत्र यूनस्तिः (4.177) इत्यनेन ति-प्रत्ययः न भवति; अपितु, अत्र डाबुभाभ्यामन्यतरस्याम् (4.1.13) इत्यनेन डाप्-प्रत्यये कृते “बहुयुवा (शाला)” इति शब्दः सिद्ध्यति । 3. टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इति सूत्रेण अण्-प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते । अत्र निर्दिष्टः अण्-प्रत्ययः कर्मण्यण् (3.2.1) इति सूत्रेण कर्मणि-उपपदस्य उपस्थितौ भिन्नेभ्यः धातुभ्यः सम्भवति । यथा, “कुम्भम् करोति” इत्यस्मिन् अर्थे “कुम्भम्” इति उपपदस्य उपस्थितौ “कृ”-धातोः अण्-प्रत्यये कृते “कुम्भकार” इति शब्दः उपपदमतिङ् (2.2.19) इति सूत्रेण उपपदसमासं कृत्वा सिद्ध्यति । उपपदसमासः उत्तरपदार्थप्रधानः, अतः “कुम्भकार” इत्यत्र “कार” इति अण्-प्रत्ययान्तम् उत्तरपदम् प्रधानम् अस्ति , न हि उपसर्जनसंज्ञकम् । अस्यां स्थितौ अत्र प्रकृतसूत्रं नैव प्रवर्तते, अतश्च “कुम्भकार” इति समस्तपदस्य विषये अपि “ङीप्” इति स्त्रीप्रत्ययः भवितुम् अर्हति, येन “कुम्भकारी” इति शब्दः सिद्ध्यति । परन्तु, अग्रे “बहवः कुम्भकाराः अस्याः” इति बहुव्रीहिसमासे कर्तव्ये तत्र विद्यमानः अण्-प्रत्ययान्तः “कुम्भकार” शब्दः बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानः, अतश्च उपसर्जनसंज्ञकः अस्ति अतः अत्र टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इति सूत्रं नैव प्रवर्तते, अपि तु अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्यये कृते “बहुकुम्भकारा” इति शब्दः सिद्ध्यति । </listsp>
तदन्तविधिः
वस्तुतस्तु, येन विधिस्तदन्तस्य (1.1.72) इत्यत्र पाठितेन <!समासप्रत्ययविधौ प्रतिषेधः!> इति प्रातिपदिकेन प्रत्ययविधानस्य समये तदन्तविधेः प्रतिषेधः कृतः अस्ति । अपि च, ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इत्यनया परिभाषया अपि प्रत्ययविधानसमये प्रातिपदिकस्य तदन्तविधिः प्रतिषिध्यते । अतः, “कुक्कुट” इत्यस्मात् शब्दात् जातेरस्त्रीविषयादयोपधात् (4.1.63) इति सूत्रेण प्राप्तः ङीप्-प्रत्ययः “बहवः कुक्कुटाः अस्याः” इत्यत्र मूलरूपेणैव न सम्भवति । अस्यां स्थितौ, प्रकृतसूत्रेण बहुव्रीहिसमासस्य विषये उक्तः स्त्रीप्रत्ययस्य निषेधः सम्पूर्णरूपेण व्यर्थः भवति । अयमेव निषेधः व्यर्थः सन् ज्ञापयति, यत् स्त्रीप्रत्ययप्रकरणे तदन्तविधिः अवश्यं प्रयुज्यते इति । किञ्च, अजाद्यतष्टाप् (4.1.4) इत्यस्मिन् सूत्रे पाठिते अजादिगणे विद्यमानम् क्षुद्रा चामहत्पूर्वा जातिः इति गणसूत्रम् अपि अनेनैव प्रकारेण स्त्रीप्रत्ययप्रकरणे तदन्तविधेः उपस्थितिं स्पष्टीकरोति । अतएव “बहवः कुक्कुटाः अस्याः” इत्यत्रापि तदन्तविधिना जातेरस्त्रीविषयादयोपधात् (4.1.63) इत्यनेन कुक्कुट-शब्दात् ङीष्-प्रत्ययः अवश्यं सम्भवति । अस्य बाधनार्थम् प्रकृतसूत्रम् इदानीं चारितार्थ्यं प्राप्नोति ।
‘उपसर्जनम्’ शब्दस्य अर्थः
अष्टाध्याय्याम् “उपसर्जनम्” इति शब्दः द्वयोः अर्थयोः प्रयुज्यते —
(अ) प्रथमानिर्दिष्टं समास उपसर्जनम् (1.2.43) इत्यनेन सूत्रेण “उपसर्जनम्” इति काचित् व्याकरणविशिष्टा संज्ञा पाठ्यते । अस्याः संज्ञायाः प्रयोगः समासप्रकरणे उपसर्जनं पूर्वम् (2.2.30) इत्यस्मिन् सूत्रे कृतः अस्ति । (आ) समासे विद्यमानयोः द्वयोः पदयोः यत् गौणं पदम्, तस्य निर्देशः अपि “उपसर्जनम्” इति शब्देन भवति । गोस्त्रियोरुपसर्जनस्य (1.2.48), स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (4.1.54), वोपसर्जनस्य (6.3.82) इत्यादिषु सूत्रेषु अस्मिन् अर्थे उपसर्जनशब्दस्य प्रयोगः कृतः दृश्यते ।
प्रकृतसूत्रे विद्यमानः उपसर्जनशब्दः द्वितीये अर्थे (गौणपदस्य निर्देशार्थम्) प्रयुक्तः अस्ति । बहुव्रीहिसमासः अन्यपदार्थप्रधानः, अतः तत्र द्वे अपि पदे गौणपदे एव स्तः । अतः तत्र गौणसंज्ञकात् उत्तरपदात् तदन्तविधिना स्त्रीप्रत्ययस्य प्राप्तौ सत्याम्, तस्याः निषेधार्थम् प्रकृतसूत्रं निर्मितम् अस्ति । तत्पुरुषसमासे द्वन्द्वसमासे च प्रायेण उत्तरपदं गौणं नास्ति (प्रधानमेव वर्तते), अतः तयोः विषये उपसर्जनसंज्ञकात् स्त्रीप्रत्ययः नैव सम्भवति । अव्ययीभावसमासेन तु अव्ययसंज्ञकशब्दाः सिद्ध्यन्ति अतः तस्य विषये अपि प्रकृतसूत्रं नैव प्रवर्तते । अनेन प्रकारेण प्रामुख्येण बहुव्रीहिसमासस्य विषये एव प्रकृतसूत्रस्य उदाहरणानि वर्तन्ते । कुत्रचित् तत्पुरुषसमासः अपि पूर्वपदार्थप्रधानः अस्ति, परन्तु प्रकृतसूत्रस्य व्याख्यानेषु तादृशानि उदाहरणानि न दत्तानि सन्ति ।
Vasu English Summary¶
The following rules apply to a प्रातिपदिक (Nominal Stem) which is not a subordinate term in a compound.
Vasu English Translation¶
The following rules apply to a प्रातिपदिक (Nominal Stem) which is not a subordinate term in a compound. This is an adhikara aphorism pure and simple, and has governing force upto (4.1.77): and prohibits the application of affixes to ‘upasarjanas’. That is to say, whatever we shall treat of hereafter, is to be understood to apply to such terms only, which are not upasarjana or a subordinate term in a compound. (1.2. 43). Thus the next sutra declares “the affix nip is added in forming the feminine after what ends in short अ, if the affix with which it ends has an indicatory ट्, &c.” Thus the word कुरुचर is formed by the affix ट (111.) 2.16), and ends in अ. The feminine of this word will be formed by ङीप् as कुरुचरी, similarly मद्रचर—f मद्रचरी । But if these words being the last members of a compound, are treated as upasarjana (1.2. 43), then they will not take the affix ङीप् in the feminine. Now in a Bahuvrihi compound, all the component members are upasarjana, (2.2.35); therefore, the feminine of such compounds will not take ङीप् ॥ Thus, बहुकुरुचरा or बहुमद्रचरा मधुरा ॥ Similarly (4.1.63) says, “the affix ङीप् is added after words denoting jati” as, कुक्कुठी, शुकरी ॥ But where these words are upasarjana, ‘nish’ will not be added : as, बहुकुक्कुटा बहुशूकरा मधुरा ॥
As a general rule, tadanta-vidhi (1.1.7) does not apply to compounds; but the present sutra indicates by implication that the tadanta-vidhi applies to compounds for the purposes of the application of feminine affixes. For had it not been so, there would have been no necessity of making the present sutra ; for a rule applicable to a simple word as such, would not have applied to it when it was part of a compound– whether subordinate (upasarjana), or principal (pradhana). But the present sutra indicates that the tadanta-vidhi does apply, if the word does not become a subordinate member, but is regarded as the principal member, of a compound.
The feminine of कुम्भकार or नगरकार will be कुम्भकारी or नगरकारी, in as much as the second member here is pradhana : the word ‘kumbha-kara’ being formed by अण् (III, 2.1), and thus making it possible to apply ङीप् by (4.1.15). The affix अण् referred to in the next sutra refers to the krit-affix अण् (3.2.1), as well as to the Taddhita affix अण् ॥
Bhashya¶
अनुपसर्जनात् (1288) (तदन्तविधिज्ञापनाधिकरणम्) (आक्षेपभाष्यम्) अनुपसर्जनादिति किमर्थम्? (प्रयोजनभाष्यम्) बहुकुरुचरा मथुरा, प्रियकुरुचरा मथुरा। (प्रत्याक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। कुरुचरशब्दात्प्रत्ययो विधीयते। तत्र कः प्रसङ्गो यद्वहुकुरुचरशब्दात्स्यात्? नैव प्राप्नोति -नार्थः प्रतिषेधेन॥ (समाधानभाष्यम्) तदन्तविधिना प्राप्नोति॥ अत उत्तरं पठति - (5133 पूर्वपक्षवार्तिकम्॥ 1 ॥) - अनुपसर्जनग्रहणमनर्थकं प्रातिपदिकेन तदन्तविधिप्रतिषेधात् - (भाष्यम्) अनुपसर्जनग्रहणमनर्थकम्॥ किं कारणम्? प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते॥ (5134 सिद्धान्तवार्तिकम्॥ 2 ॥) - ज्ञापकं तु पूर्वत्र तदन्ताप्रतिषेधस्य - (भाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः -पूर्वत्र तदन्तविधिप्रतिषेधो न भवतीति॥ (ज्ञापनप्रयोजनभाष्यम्) किमेतस्य ज्ञापने प्रयोजनम्? भवती, अतिभवती, महती, अतिमहतीत्यत्र तदन्तविधिः सिद्धो भवति॥ नैतदस्ति प्रयोजनम्। उक्तमेतत् -वर्णोप्युगित्, प्रत्ययोऽप्युगित्, प्रातिपदिकमप्युगिदिति॥ (ज्ञापनप्रयोजनभाष्यम्) इदं तर्हि -बहुधीवरी, बहुपीवरीति॥ एतदपि नास्ति प्रयोजनम्। अत्राप्युक्तम् -रविधाने बहुव्रीहेरुपसंख्यानं प्रतिषिद्धत्वात् इति॥ (ज्ञापनप्रयोजनभाष्यम्) इदं तर्हि -अतिधीवरी, अति पीवरी॥ (5135 उपसर्जनपदार्थबोधकवार्तिकम्॥ 3 ॥) - पूर्वसूत्रनिर्देशो वाऽऽपिशलमधीत इति - (भाष्यम्) पूर्वसूत्रनिर्देशो वा पुनरयं द्रष्टव्यः। पूर्वसूत्रेऽप्रधानस्योपसर्जनमिति संज्ञा क्रियते। यावद् ब्रूयात्प्रधानादुत्पत्तव्यमप्रधानान्नेति, तावदनुपसर्जनादिति॥ किं प्रयोजनम्? आपिशलमधीते ब्राह्मणी -आपिशला ब्राह्मणी। अणन्तादितीकारो मा भूदिति॥ (अन्वयबोधकभाष्यम्) अथानुपसर्जनादित्युच्यमाने कस्मादेवात्र न भवति? अणन्तं ह्येतदनुपसर्जनम्। नानुपसर्जग्रहणेनाणन्तं विशेष्यते -अणन्तादनुपसर्जनादिति॥ किं तर्हि? अणेव विशेष्यते। अण्योऽनुपसर्जनमिति॥ (5136 अनुपसर्जनस्य गृह्यमाणविशेषणत्वे दोषवार्तिकम्॥ 4 ॥) - जातिशब्देभ्यस्त्वतिप्रसङ्गः - (भाष्यम्) जातिशब्देभ्यस्त्वतिप्रसङ्गो भवति -अवन्ती, कुन्ती, गान्धारी॥ (5137 दोषाभावोपपादकवार्तिकम्॥ 5 ॥) - सिद्धं तु जातेरनुपसर्जनत्वात् - (भाष्यम्) सिद्धमेतत्। कथम्? अनुपसर्जनादित्युच्यते। न च जातिरुपसर्जनम्॥ (वार्तिकान्यथासिद्धिभाष्यम्) एतदपि नास्ति प्रयोजनम्। स्त्रियामिति वर्तते। तेनाणं विशेषयिष्यामः -स्त्रियां योऽण्विहित इति॥ (अभ्युपेत्यवादेन दोषभाष्यम्) एवमपि काशकृत्स्निना प्रोक्ता मीमांसा -काशकृत्स्नी, काशकृत्स्नीमधीते -काशकृत्स्ना ब्राह्मणी, अत्र प्राप्नोति॥ (दोषाभावोपपादकभाष्यम्) नैष दोषः। अध्येत्र्यामभिधेयायामण ईकारेण भवितव्यम्। यश्चात्राध्येत्र्यामभिधेयायामणुक्तः, लुप्तः सः। यश्च श्रूयते, उत्पन्नस्तस्मादीकार इति कृत्वा पुनर्न भविष्यति॥ (सूत्रप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - प्रधानेन तदन्तविधिर्यथा स्यात् -कुम्भकारी, नगरकारी। अत्र हि प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति -अवयवादुत्पत्तिः प्राप्नोति। (प्रयोजनाक्षेपभाष्यम्) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति -संघातादुत्पत्तिर्भविष्यति। (प्रत्याक्षेपभाष्यम्) कृद्ग्रहण इत्युच्यते, न चैतत्कृद्ग्रहणम्। कृदकृद्ग्रहणमेतत् -कृदप्ययमण्, तद्धितोऽपि॥ (सूत्रानुपयोगप्रदर्शकभाष्यम्) एवं तर्हि -ःईकारान्तेन समासो भविष्यति। (सूत्रोपयोगप्रदर्शकभाष्यम्) यद्येवं लभ्येत, कृतं स्यात्। तत्तु न लभ्यते। किं कारणम्? अत्र हि गतिकारकोपपदानां कृदि्भः सह समासो भवतीति समास एव तावद्भवति। समासे च कृते, अवयवादुत्पत्तिः प्राप्नोति॥ अवयवादुत्पत्तौ सत्यां को दोषः? कौम्भकारेयो न सिद्धयति -अवयवस्य वृद्धिस्वरौ स्याताम्। तस्मादनुपसर्जनाधिकारः॥ (5138 पूर्वपक्षवार्तिकम्॥ 6 ॥) - अनुपसर्जनाधिकारे जातेर्ङीष्विधाने सुर्पण्या उपसंख्यानम् - (भाष्यम्) अनुपसर्जनाधिकारे जातेर्ङीष्विधाने सुर्पण्या उपसंख्यानं कर्तव्यम् -सुपर्णी॥ (5139 सिद्धान्तवार्तिकम्॥ 7 ॥) - न वा समासस्यानुपसर्जनत्वाज्जातिवाचकत्वाच्च शब्दस्य सामान्येन ङीष्विधानम् - (भाष्यम्) न वा एष दोषः। किं कारणम्? समासस्यानुपसर्जनत्वात्। समासोऽत्रानुपसर्जनम्। स च जातिवाचकः। समासस्यानुपसर्जनत्वात्तस्य च जातिवाचकत्वाच्छब्दस्य सामान्येन ङीष् भविष्यति -जातेरस्त्रीविषयादयोपधात् (4.1.63) इति॥ (वार्तिकोपसंहारभाष्यम्) कथं कृत्वा चोदितम्? कथं कृत्वा परिहारः? बहुव्रीहिरिति कृत्वा चोदितम्। तत्पुरुष इति कृत्वा परिहारः॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थाध्यायस्य प्रथमे पादे प्रथममाह्निकम्॥
Kashika¶
अधिकारोऽयम्। उत्तरसूत्रेषूपसर्जनप्रतिषेधं करोति। यदित ऊर्ध्वमनुक्रमिष्यामोऽनुप — सर्जनादित्येवं तद् वेदितव्यम्। वक्ष्यति — टिड्ढाणञ्० (४.१.१५) इति ङीप्। कुरुचरी। मद्रचरी। अनुपसर्जनादिति किम्? बहुकुरुचरा, बहुमद्रचरा मधुरा। जातेः० (४.१.६३) इति ङीष्। कुक्कुटी। शूकरी। अनुपसर्जनादिति किम्? बहुकुक्कुटा, बहुशूकरा चैतद् — अस्त्यत्र प्रकरणे तदन्तविधिरिति। तथा च प्रधानेन तदन्तविधिर्भवति। कुम्भकारी। नगरकारी। न चाणिति कृद्ग्रहणम् तद्धितोऽप्यणस्ति ॥
Siddhanta Kaumudi¶
अधिकारोऽयं यूनस्तिः (SK531) इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ॥
Tattvabodhini¶
अनुपसर्जनात् - टिड्ढाण्ञ् । टिड्ढादयः प्रत्ययास्तैः तदन्तं गृह्रते, तच्चाऽनुवर्तमानस्यप्रातिपदिकस्य विशेषणम् ।अजाद्यतः॑इतिसूत्रादनुवर्तमानमप्यत इत्येतत् प्रातिपदिकविशेषणम् । अतएव तदन्तविधिरतो व्याचष्टेटुदन्तं प्रातिपदिक॑मिति व्याख्यानं सङ्गच्छत एव ।स्तनन्धयी॑त्यत्र तु प्रत्ययस्य टित्त्वाभावेऽपि धातोष्टित्त्वस्याऽचरितार्थत्वात्समुदायात्स्यादेव ङीबिति वक्ष्यति । अन्ये तु — ढादय एव प्रत्ययाःस टिदिति तु प्रत्ययाऽप्रत्ययसाधारणं, तेन टिद्यात्प्रतिपदिकं ढाद्यन्तं च यत्प्रातिपदिकमित्यर्थः । टित्त्वं तु प्रातिपदिकस्य क्वचित्स्वतः, क्वचित्प्रतिकृतं भवति, अवयवधर्मस्य समुदाये उपचारात् । तत्र आद्यस्योदाहरणम् -कुरुचरीति । द्वितीयस्योदहारणं — नदडिति । पचादिषुटितोऽस्य पाठात्स्वत एव टित्त्वम् । तृतीयन्तुधेटष्टित्त्वात्स्तनन्धयी॑ति कृदन्ते उदाहरिष्यतीत्याहुः । कुरुचरीति । कुरुषु चरतीत्यधिकरणोपपदेचरेष्टः॑इति कर्तरि टः । उपसर्जनत्वान्नेहेति । बहवः कुरुचरा सा यास्यां सा बहुकुरुचरेति बहुब्राईहिरिन्यपदार्थप्रधानास्तथा च टुजन्तस्योपसर्जनत्वान्ङीन्बेत्यर्थः । वक्ष्यमाणेति । ब्राऊञो लृटिलृटः सद्वे॑ति शनच् ।ब्राउवो वचि॑रिति वच्यादेशः ।वच परिभाषणे॑इत्यस्मात्कर्मणि वा लृटः शानच् ।स्यतासी॑इति स्यः । कुत्वषत्वे ।आने मुक्इति मुक् । टित्त्वादुगित्त्वाच्चेति । स्थानिवद्भावेनेत्यर्थः । न चाऽल्विधित्वात्कथमिह स्थानिवद्भाव इति शङ्क्यम्,न ल्यपि॑इति ज्ञापकादनुबन्धकार्येषुअनल्विधौ॑इति निषेधस्याऽप्रवृत्तेः । अतएवरमया॑मित्यादौ परत्वान्ङेरामि कृते स्थानिवद्भावेनाऽऽमो ङित्वात्याडापः॑इति याडागमः सिध्यति । ज्ञापनान्न भवतीति । लिङादेशपरस्मैपदानां स्थानिवद्भावेनैव ङित्त्वालाभात्तदागमस्य यासुटो ङित्त्वं व्यर्थं सत्लाश्रयानुबन्धकार्यमादेशानां ने॑ति सामान्यतो ज्ञापयतीति भावः ।पिच्च ङिन्ने॑त्यदादिगणे वक्ष्यमाणत्वात्तिबादिष्वौपदेशिकेन पित्त्वेनातिदेशिकं ङित्त्वं बाध्यत इति यासुटो ङित्त्वास्य वैयथ्र्याऽभावान्न तज्ज्ञापयतीति शङ्कमानं प्रत्याह — श्नः शानच शित्त्वेनेत्यादि । सौपर्णेयीति ।कद्रूश्च वै सुपर्णी॑ति श्रुतिः । सुपर्णीशब्दादपत्येऽर्थेसमाया यः॑ढश्छन्दसी॑ति विहितस्तयोरेव ढयोग्र्रहणेन भवितव्यं न तु ढकः । सत्यम् । शिलाया ढस्य स्वभावान्नपुंसक एव पर्वृत्तेः स्त्रियामसंभवात् । सभाया ढस्य चसभेयी॑ति स्त्रियां छन्दसि प्रयोगाऽदर्शमनादन्यस्य हि निरनुन्धस्याऽसम्भवादगत्या सानुबन्धको गृह्रते । ऐन्द्रीति । इन्द्रो देवता अस्याः ।साऽस्य देवते॑त्यण् ।इन्द्रस्येयमिति वा विग्रहः ।तस्येद॑मित्यण् । अत्र व्याचक्षते -॒कृद्धहणे गतिकारकपूर्वस्ये॑त्यस्य प्रवृत्त्यभाषेऽपि अण्णन्तस्य प्रातिपदिकविशेषणातदन्तान्तमपि गृह्रत इति कुम्भकारशब्दान्ङीप्स्यादेव । अस्तु वा कारशब्दादेव ङीप्, तथापिकुम्भकारी॑ति रूपं सिध्यत्येव । न च कारशब्दादेव ङीप्, तथापिकुम्भकारी॑ति रूपं सिध्यत्येव । न च कारशब्दान्ङीपि तदन्तात्स्त्रीभ्यो ढक्इति ढक्प्रत्यये कौम्भकारेयो न सिध्येदिति वाच्यम्, अनुपसर्जनस्त्रीप्रत्यये तदादिनियमाऽभावात्तत्सिद्धेः । नापि नियमाऽभावेकारी॑शब्दात्कदाचिड्ढकिकुम्भकारेय॑इति रूपं स्यादिति शङ्क्यम् ।समर्थः पदविधि ॑रिति वक्ष्यमाणत्वेनाऽसमर्थधात्तद्धितानुत्पत्तेरिति मनोरमायान्तु इह सूत्रेऽनेकं वाक्यं, तत्राऽनुपसर्जनमण्, तस्य योऽकारस्तदन्तादिति व्याख्यानान्नेह — आपिशलमधीते आपिशला ब्राआहृणीति । अत्र हि प्रोक्तर्थे योऽण्श्रीयमाणः, स उपसर्जनम् । यस्तु प्रधानोऽध्येत्रण्प्रोक्ताल्लुक्इति स लुप्तः । वर्णप्राधान्यान्न प्रत्ययलक्षणमतष्टाबेव भवतीति स्थितम् । नन्वेवमापिशलेति रूपसिद्द्यर्थमनुपसर्जनग्रहणस्यावश्यकत्वेन सामर्थ्योपक्षयात्कथमेतस्य तदन्तविधिज्ञापकेति चेत्; अत्राहुः — स्वरितत्वप्रतिज्ञयी अधिकारोऽयमित्यधिकारत्वाश्रयणादनुपसर्जनग्रहणं व्यर्थम् । अञन्तस्याद्युदात्तत्वेन ङीम्ङीनो स्वरे विशेषाऽभावात् । मैवम् । उत्सस्यापत्यं स्त्री ओत्सीत्यत्राऽञन्तलक्षणं ङीपं बाधित्वा परत्वाज्जातिलक्षणे ङीषि प्राप्ते तद्बाधनार्थं तस्यावश्यकत्वात् । न चैवंशाङ्र्गरवाद्यञः॑इति ङीनास सिद्धमिदं रूपमित्यञ्ग्रहमिह न कर्तव्यमिति वाच्यं, तत्रजाते॑रित्यनुवृत्तेः । अन्यथा शाङ्र्गरवस्य स्त्री शाङ्र्गरवी, औत्सस्य स्त्री औत्सीत्यादौ पुंयोगेऽपि परत्वान्ङीन्स्यान्न तु ङीष् । इष्यते तु पुंयोगे ङीषेव । तस्माद्भवाद्यर्थस्य जातित्वेनाऽपरिभाषणाद्भावाद्यर्थे ङीबर्थमिहाप्यञ्ग्रहणमावश्यकमेवेति दिक् । ऊरुद्वयसीत्यादि । ऊरू प्रमाणमस्याः सा ।प्रमाणे द्वयसज्दन्घञ्मात्रचः॑ । यद्यत्रन लोके॑ति सूत्रे तृन्नितिवद्द्वयसजिति मात्रचश्चकारेण प्रत्याहारो गृह्रते, तदा दन्घञ्माक्पज्ग्रहणमिहाऽकर्तुं शक्यम् । पञ्चतयीति । पञ्चावयवा अस्याः ।सङ्ख्याया अवयवे तयप् । आक्षिकीति ।तेन दीव्यती॑ति ठक् । लावणिकीति । लवणं पण्यमस्याः ।लवणाट्ठञ् । ठक्ठञोर्मेदेनोपादानं ठन्निवृत्त्यर्थम्, तेनेह न, — दण्डोऽस्त्यस्याः सा दण्डिका ।अत इनी॑ति ठन् । अतएव ञिठन्तेऽपि न ङीप् । काशिषु भवा काशिका ।काश्यादिभ्यष्ठञ्ञिठौ॑ । यादृशीति ।त्यदादिषु दृश॑इति कञ् ।आ सर्वनाम्नः॑इत्याकारः । इत्वारीति । एति तच्छीला ।इण्नशजिसर्तिभ्यः क्वरप् ।ह्रस्वस्य पिति कृति तुक् । क्वरपोऽन्यतरानुबन्धोपादानं स्पष्टार्थम् । एकेनैव वरचो व्यावृत्तिसिद्धेः ।विन्यस्तमङ्गलमहौषधिरीश्वरायाः॑इति भारविः । तत्रस्थेशमासे॑ति वरच् ।ईआरी॑ति तु त्रेधा । पुंयोगलक्षणे ङीष्यन्तोदात्त मेकम्,ईच्चोपधायाः॑इत्यनुवृत्तौअश्नोतेराशुकर्मणि वर॑ङित्यौणादिके वरटि टित्त्वान्ङीपि मध्योदात्तमपरम्, ईशेः क्वनपि वनिपि वा ङीब्राआयोराद्युदात्तदमन्यत् । ताच्छीलिकेति । अयं भावः -॒शीलं॒॑छात्रादिभ्यो णः॑इति विहितो यो णस्तस्मिन्नण्कार्यं भवति,कार्मस्ताच्छील्ये॑इति ज्ञापकात् । तत्र हिअ॑न्नित्यणि विहितं प्रकृतिभावं बाधितुं टिलोपो निपात्यते, यदि तु णप्रत्यये अण्कार्यं न स्यात्तर्हि किं तेन । ताच्छीलिके एवाऽण्कार्यज्ञापनान्नेह, -दण्डः प्रहरणमस्यां क्रीडायां दाण्डा ।तदस्यां प्रहरण॑मिति णः ।छत्रादिभ्योऽ॑णित्येव सूत्रमस्तु किमनया कुसृष्टएति तु बहवः । चौरीति । चुरा शीलमस्याः ।नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसख्यानम् । नञ्स्नञ् । वृत्तिकृता त्वत्रात्यख्युन्ग्रहणं सूत्रे प्रक्षिप्यक्वरप्ख्युना॑मिति पठितम्, तच्च भाष्यविरुद्धमित्युत्तरत्र स्फुटीभविष्यति । स्त्रैणी पौंस्नीति ।स्त्रीपुंसाभ्या॑मिति नञ्स्नञौ । शाक्तीकीति । शक्तिः प्रहरणमस्याः ।शक्तियष्टओरिकक् । आढङ्करणीति । अनाढ आढ्यः क्रियते अनयेत्यर्थेआढसुभगे॑त्यादिना कृञः ख्युन् ।युवो॑रित्यनादेशः ।अरुर्द्विष॑दिति मुम् । तरुणी । तलुनीति । तरुणतलिनयोरुनन्प्रत्ययान्तत्वेन नित्त्वादाद्युदात्तता । सैव ङीपि । ङीषि त्वन्तोदात्ततेति ।
Padamanjari¶
प्रसज्यप्रतिषेधोऽयमित्याह - उतरसूत्रेषूपसर्जनप्रतिषेधं करोतीति । पर्युदासे को दोषः ? कुक्कुटीपाद इत्यत्र न स्यात् पूर्वपदस्योपसर्जनत्वात्, न; अन्तरङ्गत्वात्प्रागेव ङीषि कृते तदन्तस्य समासः । न चेदानीमुपसर्जनत्वे ङीषः पर्युदासः, पूर्वमेवाभिनिर्वृतत्वात् । किञ्च प्रसज्यप्रतिषेधेऽप्येष दोषः समानः । कुक्कुटीत्यत्रैव तर्हि न प्राप्नोति, किं कारणम् ? अन्वर्थमुपसर्जनम्, अप्रधानमुपसर्जनमिति ? अस्त्वेवम् ; अनुपसर्जनं तूपसर्जनादन्यत्सर्वम्, न तु प्रधानमेव, तेनापेक्षणीयस्याभावेऽप्यप्रधानादन्यत्वाद्भविष्यति । यदा तर्ह्यधर्मानृतादिवद्विरोधिवचनोऽनुपसर्जशब्दस्तदा न प्राप्नोति, तस्मात्प्रसज्यप्रतिषेधः । अनुपसर्जनादित्येवं तदिति । उपसर्जनान्न भवतीत्येवमित्यर्थः । वक्ष्यति - टिड्ढाणञिति ङीबिति । कथं प्रथमान्तस्य वक्ष्यतीत्यनेन सम्बन्धः ? अत्राहुः - वक्ष्यति टिड्ढाणञित्येतावान् ग्रन्थः । टिड्ढाणञिति वक्ष्यतीत्यर्थः । कः पुनरत्र प्रत्यय इत्यत्राह - ङीबिति । एवं जातेरिति ङीष् इत्यत्रापि ग्रन्थच्छेदः, तत्र च पूर्वस्मिन्’वक्ष्यति’ इत्यनुषङ्गः । कुरुचरीति ।’चरेष्टः’ बहुकुरुचरेति । बहुव्रीहिः सर्वोपसर्जनः । कथं पुनरित्यादिः । प्रत्युदाहरणे यदुपसर्जनं न तत् स्त्रियां वर्तते, यदा च स्त्रियां वर्तते तदा भवत्येव प्रत्ययः - बह्व्यः कुरुचर्योऽस्यां बहुकुरुचरीका, बहुकुक्कुटीका मदुरेति, यः स्त्रियां वर्तते बहुव्रीहिस्ततोऽटित्वादजातित्वाच्चाप्रसङ्गः । तथा हि - टित्प्रातिपदिकं गृह्यते, तच्च किञ्चित्साक्षाट्टिद्भवति, यथा - नदट्, चोरडिति; किञ्चित्ववयवटित्वद्वारेण । यत्र ह्यवयवटित्वमकिञ्चित्करं तत्र समुदायार्थं तद्विज्ञायते । स चावयवः क्वचिद्धातुः - स्तनन्धयीति, क्वचित्कृल्ल्युडादिः, क्वचितद्धितष्ट।लुट।लुलादिः । तत्र यं समुदायं योऽवयवो न व्यभिचरति तदर्थं तस्य टित्वमिति कुरुचरशब्द एव टित्, तत्कुतो बहुकुरुचरशब्दात्प्रसङ्ग इति प्रश्नः । परिहरति - तदन्तविधिनेति । ननु ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, ग्रहणं चोपादानमात्रम्, न तु स्वरूपेणोच्चारणमेव, तत्कथं तदन्तविधिः ? स्यादेतत् -यत्र गृह्यमाणं रूपं प्रातिपदिकस्यैवासाधारणं तत्र तदन्तविधिप्रतिषेधः, इह चोरडित्यादि प्रातिपदिकमपि टित्, ल्युडादिप्रत्ययोऽपि, धेडिति धातुरपि, ततश्च यथा ठुगितश्चऽ इत्यत्र वर्णोऽप्युगित्प्रत्ययोऽपि प्रातिपदिकमपीति तदन्तविधिर्भवति, तथेहापि प्रसङ्ग इति ? स्यादयं प्रसङ्गो यदि टिता प्रातिपदिकं विश्ष्येत, टिति च प्रातिपदिकेन विशेष्यमाणे नानेन विशेष्येण तदन्तविधिः, प्रातिपदिकेन चासम्भवादिति नैव बहुकुरुचरशब्दात्प्रसङ्ग इत्यत आह - ज्ञापितं चैतदिति ।’शूद्रा चामहत्पूर्वा’ इत्यत्र ज्ञापितमेतत् । अवश्यञ्चैतज् ज्ञापितमुतरत्रापि परिपालनीयमित्याह - तथा चेति । अनाश्रीयमाणे ज्ञापकेऽणन्ताद्विधीयमानो ङीप् प्रत्ययग्रहणपरिभाषया कारशब्दादेव स्याद्, न त्वणन्तात्कुम्भकारशब्दात् । ज्ञापकातु ततोऽपि भवतीत्यर्थः । ननु च कृद्ग्रहणपरिभाषया कुम्भकारशब्दस्याणन्तत्वम् ? नेत्याह - न चाणिति । कृद्ग्रहणमिति । किं कारणमित्यत्राह - तद्धितोऽप्यणस्तीति । यत्र तु गृह्यमाणं रूपं कृत एवासाधारणं तत्रैषा परिभाषा । इह त्वौपगवीति तद्धितस्यापि ग्रहणमिति नायमस्या विषय इत्यर्थः । अथ कारशब्दादुत्पतौ सत्यां को दोषः ? कौम्भकारेयो न सिध्यति, प्रत्ययग्रहणपरिभाषया कारीशब्दात्स्त्रीभ्यो ढकि तस्यैव वृद्धिस्वरौ स्याताम् । ष्यङः सम्प्रसारणवद्भविष्यति, तद्यथा - ष्यङ्न्तस्योच्यमानं सम्प्रसारणं परमकारीषगन्धीपुत्र इत्यत्रापि भवति, स्त्रीप्रत्यये तदादिनियमाभावात्; तथा कारशब्दादप्युत्पतौ कुम्भकारीशब्दस्यापि स्त्रीप्रत्ययान्तत्वाद्भविष्यति, एवमपि कारीशब्दादपि कदाचित्स्यात् । अथ ब्रूयाः - कारीशब्देन कुम्भशब्दः समसिष्यते,’स्त्रीभ्यो ढक्’ इत्यत्र च’ङ्याप्प्रातिपदिकात्’ इति त्रितयाधिकारसामर्थ्यात्स्त्रीप्रत्ययान्तात्प्रातिपदिकादिति प्रत्ययो विधास्यते, स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नमिति कुम्भकारीशब्दादेव ढगुत्पत्स्यते, ढ्यब्ग्रहणामुवृत्या च सौपर्णेय इत्यत्रापि भविष्यतीति ? एवमपिङ्याबनुवृतेः सौपर्णेय इतिवत् कारीशब्दादपि स्यात् ।’गतिकारकोपदानाम्’ इतिवचनाच्चङ्यन्ते समासो दुर्लभः, ततः कुम्भकारशब्दादेवङीब्यथा स्यादित्युतरत्रापि तदन्तविधिरभ्युपगन्तव्यः । न च कुम्भकारशब्दादप्युत्पतौ तदादिनियमाभावात्कारीशब्दादपि ढक्प्रत्ययप्रसङ्गः, किं कारणम् ?’स्त्रीप्रत्यये चानुपसर्जने न’ इत्यनेन, प्रत्यग्रहणे यस्मात्स तदादेरधिकस्य ग्रहणमभ्यनुज्ञायते, न न्यूनस्यापि । ननु च सत्यप्युतरत्र तदन्तविधौ कुम्भकारीत्यत्र समुदायादपि भवतु, केवलात्कारशब्दादपि प्रसङ्गः, यथा - औपगवीत्यादौ, ततश्च कौम्भकारेयः पक्षे दुष्यत्येव ? एवं तर्हि कारशब्दादप्युत्पतौ कुम्भेनैकार्थीभूतस्य तावतो निष्कृष्यापत्येनायोगातदादिनियमाभावाच्च समुदायादेव ढगभविष्यति । यद्वा - कुम्भेनैकार्थीभूतस्य कारस्य स्त्रीत्वेनायोगात्स्त्रीप्रत्यय एव न भविष्यति, असति पुनरुतरत्र तदन्तविधौ स्त्रीप्रत्ययस्यात्राप्रसङ्गः, किं कारणम् ? यदणन्तं न तस्य निष्कृष्य स्त्रीत्वेन योगः, यस्य च स्त्रीत्वेन योगो न तदणन्तम्, अत उतरत्राप्यवश्यं प्रधानेन तदन्तविधिरभ्युपगन्तव्यः, तत्र यथा प्रधानेन भवति तथोपसर्जनेनापि स्यादिति प्रतिषेधोऽयमारभ्यते । तथा च पूर्वत्रोपसर्जनेनापि तदन्तविधिर्भवति,’न षट्स्वस्रादिभ्यः’ - प्रियपञ्चा द्रौपदीति, अतिक्रान्ता भवन्तमतिभवतीति । स्यादेतत् - पूर्वत्रोपातं तदन्तं वा’स्त्रियाम्’ इत्यनेन विशेष्यते,’टिड्ढाणञ्’ इत्यादिषूपातेमेव टिदादिकम्, तेन ज्ञापितेऽपि तदन्तविधौ बहुकुरुचरेत्यादौ टिदादेरस्त्रीत्वान्न भविष्यति, कुम्भकारीत्यत्र त्वणन्तस्य स्त्रियां वृतेस्तदन्तादपि भविष्यति, नार्थ एतेनेति ? तन्न; त्वदुक्तस्य विषयविभागस्य दुर्ज्ञानत्वात्, अतो विषयविभागज्ञापनार्थमदमारभ्यते । नन्वारब्देऽप्यस्मिन्नैष विषयविभागः शक्य आस्थातुम्, पञ्चाजीत्यत्राजानामस्त्रीत्वेन तदन्तस्य स्त्रियां वृतेः ठजाद्यतष्टाप्ऽ इति टाप्प्रसङ्गात् । अतो विशेषणविशे,यभावं प्रति कामचारात् ठजाद्यतष्टप्ऽ इत्यत्र’टिड्ढाणञ्’ इत्यादौ चोपातं स्त्रीत्वेन विशेष्यते,’वनो र च’ इत्यादावुपातं तदन्तस्य चेति नार्थ एतेन ? एवं तर्हि तदन्तविधिज्ञापनार्थमिदमारभ्यते । अमहपूर्वेत्येततु शक्यमकर्तुम्, न हि महाशूद्रेत्यत्र समुदाये जातिवचने शूद्रशब्दः स्त्रियां वर्तते । अपर आह - लौकिकस्याप्रधानस्योपसर्जनस्येह ग्रहणम्, तेनापिशिलिना प्रोक्तम्, ठिञश्चऽ इत्यण्, ततोऽध्येत्र्याम्’तदधीते’ इत्यण्, तस्य’प्रोक्ताल्लुक्’ इति लुक् आपिशिला ब्राह्मणी, अत्र ठिञश्चऽ इति विहितस्य प्रोक्तप्रत्ययस्याणोऽप्रधानत्वातदन्तान्ङीब् न भवति । नन्विदानीमध्येतृप्रत्यये लुप्ते प्रकृतिरेव तदर्थमाहेति प्रधानस्त्रियामध्येत्र्यामणन्तस्य वृतेः स्यादेव ङीप् प्रत्ययः ? स्यादेतदेवम्, यद्यणन्तादनुपसर्जनादित्युच्येत । वयं त्वणमेवानुपर्सजनत्वेन विशेषयिष्यामः - अम्योऽनुपर्जन इति, अर्थद्वारकं चाणः प्राधान्यम्, अप्राधान्यं च । तदेतदुक्तं भवति - यस्मिन्नर्थेऽणुत्पन्नः स यदा प्राधान्येनोच्यते तदा तदन्तान्ङीब् भवति; यदा तु गुणभावेने, तदा नेति । इह चाध्येत्र्यां सङ्क्रान्तत्वात्प्रथमस्याणोऽर्थो गुणभूत इति तदाश्रयस्तावन्ङीब् न भवति । यस्त्वध्येत्र्यामुत्पन्नस्तदाश्रयोऽपि न भवति; तस्य लुप्तत्वात् । प्रत्ययलक्षणेनापि न भवति, अणाअकारस्य विशेषणात् ।’टिड्ठाणञ्’ इत्यत्र ह्यत इति वर्तते । तत्राणन्तादकारान्तादिति । विज्ञायमाने स्यात् प्रत्ययलक्षणम्, अणा त्वकारे विशेष्यमाणे वर्णनिमितए ङीप्प्रत्ययः कथं प्रत्ययलक्षणेन स्यात् ! ननु स्त्रियामित्यनुवृतेनाणं विशेषयिष्यामः - योऽण् स्त्रियां विहित इति ? एवमपि काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणीति द्वितीयेऽणि’प्रोक्ताल्लुक्’ इति लुप्तेऽपि प्रथमोऽप्यण्स्त्रियामेवोत्पन्नः,तदन्ताद् ब्राह्मण्यां वतमानान्ङीप्प्रसङ्गः । तस्मात्प्रधानाद्यथा स्यादप्रधानान्मा भूदित्येतत्प्रयोजनं सूत्रस्येति ॥
Praudhamanorama¶
अभिव्याप्येति। अत एव बहुयुवा शालेत्यत्र ‘यूनस्तिः’ उपसर्जनत्वान्नेति प्राञ्च आहुः।
Prakriyasarvasvam¶
इतः परमनुपसर्जनभूतेभ्य एव प्रत्यय उच्यते ।
Sutra Prayogas¶
यथावृद्धपुरस्सरा (कुमारसम्भवम्): अनुपसर्जनात् इत्यधिकारान्न ङीप्।
दुःशासनपुरःसराम् (किरातार्जुनीयम्): अनुपसर्जनात् इति न ङीप्।