41007: वनो र च

Padacheda: वनः | S | 6 | 1 |

र | S | | | 1

च | S | 0 | 0 |

Sutrartha

वन्-प्रत्ययः यस्य अन्ते अस्ति तादृशात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति, तथा च प्रक्रियायाम् वन्-प्रत्ययस्य नकारस्य रेफादेशः भवति ।

स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । अस्मिन् सूत्रे विद्यमान: “वन्” इति शब्दः “ङ्वनिप्, क्वनिप् तथा वनिप्” इति त्रयाणाम् कृत्-प्रत्ययानाम् ग्रहणं करोति । ङ्वनिप्, क्वनिप्, वनिप्-प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति, तथा च प्रक्रियायाम् प्रत्ययान्त-नकारस्य रेफादेशः भवति — इति अस्य सूत्रस्य अर्थः । वस्तुतः एते त्रयः अपि प्रत्ययाः नकारान्ताः सन्ति, अतः ङीप्-प्रत्ययः तु ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेनैव भवितुम् अर्हति; परन्तु तत्सन्नियोगेन रेफादेशस्य विधानार्थम् इदं पृथक् सूत्रं रचितं वर्तते । अपि च, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् इत्यनया परिभाषया अत्र तदन्तविधिः अपि अवश्यं प्रवर्तते । क्रमेण उदाहरणानि एतानि — <hlb>1. ङ्वनिप्-प्रत्ययः</hlb> — सुयजोर्ङ्वनिप् (3.2.103) इति सूत्रेण सु-धातोः, यज्-धातोः च भूते कर्त्रर्थे ङ्वनिप्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः अपि भवति । प्रक्रिया इयम् —

सु + ङ्वनिप् [**सुयजोर्ङ्वनिप्** (3.2.103) इति ङ्वनिप्]
→ सु + वर् + ङीप् [**वनो र च** (4.1.7) इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः]
→ सु तुक्  + वर्+ ई [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः]
→ सुत्वरी

<hlb>2. क्वनिप्-प्रत्ययः</hlb> — अन्येभ्योऽपि दृश्यन्ते (3.2.75) इत्यनेन धा-धातोः क्वनिप्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः भवति । प्रक्रिया इयम् —

डुधाञ् (धारणपोषणयोः, (3.11))
→ धा + क्वनिप् [**अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति ङ्वनिप्]
→ धा + वर् + ङीप् [**वनो र च** (4.1.7) इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः]
→ धी + वर् + ई [**घुमास्थागापाजहातिसां हलि** (6.4.66) इति ईकारादेशः]
→ धीवरी

<hlb>3. वनिप्-प्रत्ययः</hlb> — अन्येभ्योऽपि दृश्यन्ते (3.2.75) इत्यनेन शॄ-धातोः वनिप्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः भवति । प्रक्रिया इयम् —

शॄ (हिंसायाम्, (9.21))
→ शॄ + वनिप् [**अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति वनिप्]
→ शॄ + वर् + ङीप् [**वनो र च** (4.1.7) इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः]
→ शर् + वर् + ई [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ शर्वरी

वार्त्तिकम् — <!वनो न हश इति वक्तव्यम्!>

हश्-प्रत्याहारस्य वर्णः (इत्युक्ते, मृदुव्यञ्जनम्) यस्य धातोः अन्ते विद्यते, तस्मात् धातोः वन्-प्रत्यये कृते प्रकृतसूत्रं नैव प्रवर्तते (इत्युक्ते, ङीप्-प्रत्ययः, रेफादेशश्च नैव भवतः) — इति अस्य वार्त्तिकस्य अर्थः । यथा — 1. “ओण्”-धातोः अन्येभ्योऽपि दृश्यन्ते (3.2.75) इत्यनेन वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं नैव प्रवर्तते, यतः अस्य धातोः अन्ते णकारः (हश्-व्यञ्जनम्) अस्ति । प्रक्रिया इयम् —

ओणितवती इति
= ओणृ (अपनयने, (1.523))
→ ओण् +  वनिप् [**अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति वनिप्]
→ ओ आ + वन् [**विड्वनोरनुनासिकस्यात्** (6.4.41) इति आकारादेशः]
→ अवावन् [**एचोऽयवायावः** (6.1.78) इति अवादेशः]

अनेन प्रकारेण सिद्धः “अवावन्”-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव “अवावा ब्राह्मणी” इति प्रयोगः साधुत्वं प्राप्नोति । </pr> 2. “युध्”-धातोः राजनि युधिकृञः (3.2.95) इत्यनेन क्वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं नैव प्रवर्तते, यतः अस्य धातोः अन्ते धकारः (हश्-व्यञ्जनम्) अस्ति। प्रक्रिया इयम् —

राजानम् योधितवती इति
= युधँ (सम्प्रहारे, (4.69))
→ राजन् + युध् + क्वनिप् [**राजनि युधिकृञः** (3.2.95)  इति क्वनिप्-प्रत्ययः, **उपपदमतिङ्** (2.2.19) इति उपपदसमासः, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ राज + युध् + वन् [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः]
→ राजयुध्वन्

अनेन प्रकारेण सिद्धः “राजयुध्वन्”-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव “राजयुध्वा ब्राह्मणी” इति प्रयोगः साधुत्वं प्राप्नोति ।

  1. “यज्”-धातोः सुयजोर्ङ्वनिप् (3.2.103) इत्यनेन ङ्वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः न भवति, यतः अस्य धातोः अन्ते जकारः (हश्-व्यञ्जनम्) अस्ति । प्रक्रिया इयम् —

इष्टवती सा
= यज् (देवपूजासङ्गतिकरणदानेषु, (1.1157))
→ यज् + ङ्वनिप् [**सुयजोर्ङ्वनिप्** (3.2.103) ]
→ यज्वन्

अनेन प्रकारेण सिद्धः “यज्वन्”-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव “यज्वा ब्राह्मणी” इति प्रयोगः साधुत्वं प्राप्नोति ।

वार्त्तिकम् — <!बहुव्रीहौ वा!>

बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानस्य वन्-प्रत्ययान्तशब्दस्य विषये स्त्रीत्वं द्योतयितुम् विकल्पनैव प्रकृतसूत्रस्य प्रयोगः भवति — इति अस्य वार्त्तिकस्य आशयः । अनो बहुव्रीहेः (4.1.12) इति सूत्रेण अन्नन्त-बहुव्रीहिसमस्तपदस्य विषये ङीप्-प्रत्ययस्य निषेधे कृते, वन्नन्त-बहुव्रीहिसमस्तपदस्य विषये तस्य विकल्पेन पुनर्विधानं कर्तुम् इदं वार्त्तिकम् पाठितम् अस्ति । यथा, “बहवः धीवानः यस्याः सा” इत्यत्र “बहु + धीवन्” इत्यस्मात् अनेन वार्त्तिकेन विकल्पेन ङीप्-प्रत्ययः, तदनुषङ्गेन च नकारस्य रेफे कृते “बहुधीवरी” इति शब्दः सिद्ध्यति । पक्षे डाबुभाभ्यामन्यतरस्याम् (4.1.13) इत्यनेन विकल्पेन डाप्-प्रत्यये कृते “बहुधीवा” इति शब्दः अपि साधुत्वम् प्राप्नोति, तथा च पक्षे स्त्रीप्रत्ययं विना “बहुधीवन्” इत्येव स्त्रीलिङ्गवाचीशब्दः अपि सिद्ध्यति । <note><!बहुव्रीहौ वा!> इति वार्त्तिकं तदा एव प्रयुज्यते तदा अनो बहुव्रीहेः (4.1.12) इति सूत्रेण अन्नन्त-बहुव्रीहिसमस्तपदस्य विषये ङीप्-प्रत्ययस्य निषेधः कृतः वर्तते । यदि <!वनो न हश इति वक्तव्यम्!> इति वार्त्तिकेन ङीप्-प्रत्ययस्य निषेधः भवति, तर्हि तत्र <!बहुव्रीहौ वा!> इति वार्त्तिकं नैव प्रवर्तते । अतएव “बहवः यज्वानः यस्याः सा” इत्यत्र <!बहुव्रीहौ वा!> इति वार्त्तिकं नैव प्रयुज्यते ।</note>

** तदन्तविधिः**

प्रकृतसूत्रे “वन्” इत्यनेन प्रत्ययस्य निर्देशः क्रियते, अतः प्रत्ययग्रहणे यस्मात् स विहितः तदादेः तदन्तस्य च ग्रहणम् इति परिभाषया अत्र तदन्तविधिः अवश्यं प्रवर्तते । परन्तु; “वनः” इति शब्दः अत्र “प्रातिपदिकात्” इत्यस्य विशेषणरूपेण अपि प्रयुक्तः अस्ति, अतः ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इत्यनेन (अथवा, अस्याः परिभाषायाः मूले विद्यमानेन समासप्रत्ययविधौ प्रतिषेधः इति वार्त्तिकेन) अत्र तदन्तविधेः निषेधः अपि सम्भवति । अतः अत्र तदन्तविधिः भवेद् उत न भवेद् - इति प्रश्ने जाते; अजाद्यतष्टाप् (4.1.4) इत्यत्र भाष्यकारेण दत्तः निर्णयः अत्र उपयुज्यते । अजाद्यतष्टाप् (4.1.4) इत्यत्र निर्दिष्टे अजादिगणे विद्यमाने <!शूद्रा चामहत्पूर्वा जातिः!> इति वार्त्तिके / गणसूत्रे उपस्थितम् “अमहत्पूर्वा” इति पदम् आश्रित्य भाष्यकारः तत्र स्त्रीप्रत्ययप्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधिः अवश्यम् भवति इति निर्णयति । एनं निर्णयम् अनुसृत्य प्रकृतसूत्रस्य विषये अपि **प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् इत्यनया परिभाषया तदन्तविधिः अवश्यम् प्रवर्तते**। अतएव, यथा ङ्वनिप्-प्रत्ययान्तस्य “सुत्वन्”-शब्दस्य स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं उपयुज्य “सुत्वरी” इति शब्दः सिद्ध्यति, तथैव “सुत्वानम् अतिक्रान्ता” इत्यत्र <! अत्यादयः क्रान्ताद्यर्थे द्वितीयया !> इति वार्त्तिकेन तत्पुरुषसमासे कृते “अति + सु + ङ्वनिप्” इत्यस्याम् अवस्थायाम् अपि प्रकृतसूत्रेणैव ङीप्-प्रत्ययः, तदनुषङ्गेन नकारस्य रेफादेशः भवति, येन “अतिसुत्वरी” इति शब्दः सिद्ध्यति । अनेनैव प्रकारेण “धीवानम् अतिक्रान्ता = अति + धा + क्वनिप् + ङीप् → अतिधीवरी” इत्यत्र, तथा च “परलोकं दृष्टवती = परलोक + दृश् +क्वनिप् + ङीप् → परलोकदृश्वरी” इत्यत्रापि ङीप्-प्रत्ययेनैव रूपं सिद्ध्यति ।

Vasu English Summary

The affix ङीप् is added, in forming the feminine to the stems that end in the syllable वन् , and र् is the substitute of the final such syllable.

Vasu English Translation

The affix ङीप् is added, in forming the feminine to the stems that end in the syllable वन् , and र् is the substitute of the final such syllable. Thus धीवन् (Unadi IV. 115) f. धीवरी ‘a female artisan’; पीवन् f. पीवरी ‘a young woman, a stout woman’, शर्वन् f. शर्वरी ‘night’ (शृ + वनिप् (3.2.75)) lit. that which destroys light. So also परलोकदृश्वरी ॥

Words ending in वन् are formed by the affixes ङ्वनिप्, (3.2.103) क्वनिप् and वनिप् (3.2.74) These words end in न् and consequently would have taken ङीप् even by (4.1.5); the necessity of the present sutra arose in order to teach the change of न् into र् in case of words ending in वन् ॥

Vart:- If the affix वन् is ordained to be added to a word ending in हश्, (a letter of हश् pratyahara), and is thus immediately preceded by a soft consonant then this rule does not apply, that is to say, there is neither the application of the affix ङीप् nor the change of म् into र् ॥ Thus सहयुध्वन् is both masculine and feminine as, सहयुध्वा ब्राह्मणः or ब्राह्मणी ‘a Brahman brother or sister in arms’. In शर्वन् the वन् is preceded by र् which is a letter of हश् class, but as वन् is not ordained to be applied to शर् but to शृ, and we get the र् indirectly by guna, the vartika does not apply to such a case. Hence शर्वरी ॥

Bhashya

वनो र च (1281) (अतिव्याप्तिपरिहारभाष्यम्) इह कस्मान्न भवति -निःशुनी, अतियूनीति? अर्थवद्ग्रहणे नानर्थकस्येति। एवमपि मघोनी -अत्र प्राप्नोति। मघवन्शब्दोऽव्युत्पन्नं प्रातिपदिकम्॥ (5130 सिद्धान्तपूरकवार्तिकम्॥ 1 ॥) - वनो न हशः - (भाष्यम्) वनो र चेत्यत्र हशन्तान्न भवतीति वक्तव्यम्। इह मा भूत् -सहयुध्वा ब्राह्मणीति॥ यदि न हश इत्युच्यते -शर्वरीति न सिध्यति। विहितविशेषणं हश्ग्रहणम् -हशन्ताद्यो विहित इति। एवमपि प्रेर्त्वरीति न सिध्यति। कथं चात्र तुगागमः? छान्दसत्वात्। ङीब्रावपि तर्हि छान्दसत्वादेव भविष्यतः॥ बहुलं छन्दसि ङीब्रौ वक्तव्यौ -यज्वरीरिषः। यज्वनीरिषः॥ (5131 पूर्वपक्षवार्तिकम्॥ 2 ॥) - रविधाने बहुव्रीहेरुपसंख्यानं प्रतिषिद्धत्वात् - (भाष्यम्) रविधाने बहुव्रीहेरुपसंख्यानं कर्तव्यम् -बहुधीवरी, बहुपीवरी॥ किं पुनः कारणं न सिध्यति? प्रतिषिद्धत्वात्। अनो बहुव्रीहेः (4.1.12) इति प्रतिषेधः प्राप्नोति॥ (5232 पूर्वपक्षायसमाधानवार्तिकम्॥ 3 ॥) - अनो बहुव्रीहिप्रतिषेधे वोपधालोपिनो वावचनम् - (भाष्यम्) अनो बहुव्रीहिप्रतिषेधे वोपधालोपिनो वेति वक्तव्यम्॥ (समाधानाक्षेपभाष्यम्) अन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहारः। यथोपसंख्यानं चोदितं तथा नित्याभ्यां ङीब्राभ्यां भवितव्यम्। यथा परिहारः, तथा विभाषया भवितव्यम्॥ (सिद्धान्तभाष्यम्) यथोपसंख्यानं चोदितमेवमपि विभाषया भवितव्यम्, न ह्यत्र ङीब् दुर्लभः। सिद्धोऽत्र ङीप् -अन उपधालोपिनोन्यतरस्याम् (4.1.28) इति। ङीप्संनियोगेन र उच्यमानोऽन्येन सति न स्यादित्येवमर्थमुपसंख्यानं चोद्यते॥ (सिद्धान्ताक्षेपभाष्यम्) किं पुनः कारणं ङीप्संनियोगेन र उच्यते? इह मा भूत् -सुपर्वा, चारुपर्वेति। तत्तर्ह्युपसंख्यानं कर्तव्यम्? न कर्तव्यम्॥ (सिद्धान्तभाष्यम्) वक्ष्यति -डाबुभाभ्यामन्यतरस्यामित्यत्रान्यतरस्यां ग्रहणस्य प्रयोजनं डाप्प्रतिषेधाभ्यां मुक्ते ङीब्रावपियथा स्यातामिति॥

Kashika

वन्नन्तात् प्रातिपदिकाद् स्त्रियां ङीप् प्रत्ययो भवति, रेफश्चान्तादेशः। धीवरी। पीवरी। शर्वरी। परलोकदृश्वरी। ऋन्नेभ्यः० (४.१.५) इत्येव ङीपि सिद्धे तत्सन्नियोगेन रेफविधानार्थं वचनम्॥ वाने न हशः॥ प्राप्तौ ङीब्रावुभावपि प्रतिषिध्येते। सहयुध्वा ब्राह्मणी॥

Siddhanta Kaumudi

वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिप्वनिपां सामान्यग्रहणम् । [(परिभाषा - ) प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्] । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी ।<!वनो न हश इति वक्तव्यम् !> (वार्तिकम्) ॥ हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओणृ अपनयने । वनिप् । विड्वनोः (SK2982) इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा ॥<!बहुव्रीहौ वा !> (वार्तिकम्) ॥ बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥

Balamanorama

वनो र च - वनोर च । वनः र चेति च्छेदः ।र॑इति लुप्तप्रथमाकम्, अकार उच्चारणार्थः । चकारात्ङीप्समुच्चीयते ।वन॑इति पञ्चम्यन्तम् । तेन वन्प्रत्ययान्तं तदन्तं च विवक्षितम् ।प्रातिपदिका॑दित्यधिकृतम् । तदाह-वन्नन्तादित्यादिना । अन्तादेश इति ।प्रकृते॑रिति शेषः । नान्तत्वादेव ङीप्प्राप्तः, तत्संनियोगेन रेफमात्रमिह विधेयम् । सामान्येति । अनुबन्धविनिर्मुक्तवन॑ग्रहणस्य त्रिष्वपि साधारणत्वादिति भावः ।ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह-प्रत्ययग्रहणे इति । यस्मात्प्रकृतिभूताच्छब्दाद्यः प्रत्ययो विहितः तदादेः=स प्रकृतिभूतः शब्द आदिर्यस्य तस्य , तदन्तस्य=स प्रत्ययोऽन्तो यस्य समुदायस्य, तस्य च ग्रहणम् । प्रकृतिप्रत्ययसमुदायस्य तन्मध्यवर्तिनश्च ग्रहणमित्यर्थः ।तिड्डतिङ॑इत्यत्र तिङ्ग्रहणेन शबादिविकरणस्यापि ग्रहणार्थं तदादिग्रहणम् ।यस्मात्प्रत्ययविधि॑रिति सूत्रे इयं परिभाषा भाष्ये स्थिता । तेनेति । वन्नन्तेन प्रातिपदिकादित्यधिकृतस्य विशेषणात्पुनस्तदन्तविधिलाभावादिति भावः । नचैवं सति वन्नन्तस्य कथं लाभ इति वाच्यं,यनविधिस्तदन्तस्ये॑त्यत्रस्वं रूप॑मित्यतः॒स्व॑मित्यनुवर्त्त्य विभक्तिविपरिणामेन स्वस्य चेति व्याख्यानादिति भानः । तदेतदपिशब्देन सूचितम् । वन्नन्तमेव व्यपदेशिवत्त्वेन वन्नन्तान्तमिति केचित् ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तुस्त्रिया॑मित्यस्मिन्नधिकारे न प्रवर्तते,शूद्रा चामहत्पूर्वा जातिः॑इत्यत्र अमहत्पूर्वेति लिङ्गात् । अथ वन्नान्तान्तमुदाहरति-सुत्वानमिति । ‘षुञ् अभिषवे’ ‘सुजयोङ्र्वनिप्’ह्रस्वस्य पिति कृती॑ति तुक् । सुत्वन्शब्दः । सुत्वानमतिक्रान्ता इति विग्रहेअत्यादयः॑इति समासः । सुब्लुकि, ङीप्, नकारस्य रत्वम्, इतिसुत्वरीति रूपम् । अतिधीवरीति ।डुधाञ्धारणपोषणयोः॑,अन्येभ्योऽपि दृश्यते॑इति भाषायामपि क्वनिप् ।घुमास्था॑इति ईत्त्वम् । धीवानमतिक्रान्ता इति विग्रहे ‘अत्यादयः’ इति समासः । ङीब्राश्च, अतिधीवरीति रूपम् । भाष्ये तुध्यायतेः क्वनिपि संप्रसारणे ‘हलः॑इति दीर्घ’ इति स्थितम् । शर्वरीति ।शृ हिंसायाम्,आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यते॑ इति भाषायामपि वनिप्,सार्वधातुकार्धधातुकयोः॑ इति गुणः,वनो र चे॑ति ङीब्राश्च । वन्नन्तस्योदाहरणमेतत् ।अतिशर्वरी॑ति पाठे तु इदमपि वन्नन्तातन्तस्योदाहरणम् । सुत्वरी, धीवरी, शर्वरीति वन्नन्तस्योदाहरणानि । वनो नेति । पूर्ववद्वन्नन्तं वन्नन्तान्तं च गृह्रते । ‘हश’ इति पञ्चमी, तेन च धातोरित्यधिकृत्य विहितेवनाऽऽक्षिप्तं धातोरित्येतद्विशेष्यते, तदन्तविधिः । ङीबिति रश्चेति चानुवर्तते । तदाह — हशन्तादित्यादिना । विहितविशेषणस्य प्रयोजनं दर्शयन्वन्नन्तोदाहरणं दर्शयितुमाह — ओणृ इत्यादिना । वनिबिति ।अन्येभ्योऽपि दृश्यते इत्यनेने॑ति शेषः । आवावेति । ओण् इत्यस्मद्वनिपिविड्वनोरनुनासिकस्या॑दिति णकारस्य आत्त्वे ओकारस्यावादेशे ‘अवावन्’ शब्दः । स्त्रीत्वस्फोरणायब्राआहृणी॑ति विशेष्यम् । अत्र ओण् इति धातोर्हशन्ताद्वन् विहितः, तदन्तत्वान्न ङीब्रात्वे, किंतु राजवद्रूपम् ।हशन्ताद्धातोः परो यो व॑न्निति व्याख्याने तु आत्वे सति वनो हशः परत्वाऽभावान्निषेधो न स्यादिति भावः । वन्नन्तान्तमुदाहरति-राजयुध्वेति । राजानं योधितवतीत्यर्थः । भूते कर्मणि क्विबित्यनुवर्तमाने ‘राजनि युधिकृञः’ इति क्वनिप् । कर्मीभूते राजनि उपपदे युधेः कृञ्श्च क्वनिबिति तदर्थः । उपपदसमासे सुब्लुकि राजयुध्वन्शब्दः । अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदन्तो राजयुध्वन्शब्दः, अतो न ङीब्राआदेशावित्यर्थः । बहुव्रीहौ वा । इदं वार्तिकम् ।वनो र चे॑ति विधिर्वहुव्रीहौ वा स्यादित्यर्थः ।अनो बहुव्रीहे॑रिति निषेधस्यापवादः । बहुधीवरीति । बहवो धीवानो यस्या इति विग्रहः । बहुधीवेति । ङीब्रात्वयोरभावे राजवद्रूपम् । नच बहूनि पर्वाणि यस्याः सा बहुपर्वेत्यत्रापि हीब्रात्वविकल्पः स्यादिति वाच्यम्, ‘अल्लोपोऽनः’ इति उपधालोपयोग्यस्थल एवैतद्वार्तिकस्य प्रवृत्तेर्भाष्ये उक्तत्वात् । बहुपर्वन्शब्दे चन संयोगाद्वनमन्ता॑दित्यचल्लोपनिषेधात् । पक्षे इति । ङीब्रात्वाऽभावपक्षेडाबुभाभ्या॑मिति डाब्वक्ष्यत इत्यर्थः । डपावितौ । बहुधीवन्-आ इति स्थिते ‘टेः’ इति टिलोपे बहुधीवाशब्दात्सोर्हल्ङ्यादिलोपेबहुधीवे॑ति रमावद्रूपम् । ङीब्रात्वयोर्डापश्चऽभावेसौ बहुधीवेत्येव रूपम् । ङीब्रात्वयोर्बहुधीवरीति । औजसादिषु तु बहुधीवर्यौ-बहुधीवे बहूधीवानौ इत्यादि रूपत्रयमिति भावः ।

Padamanjari

‘वनः’ इति क्वनिब्वनिब्ङ्वनिपां प्रत्ययानां सामान्येन ग्रहणम्, न’वन षण संभक्तौ’ ,’वनु याचेन’ इति धात्वोर्विजन्तयोः, कुतः ?’प्रत्ययाप्रत्ययोः प्रत्ययस्यैव ग्रहणम्’ इति । अत एव शुनो निष्क्रान्ता युवानमतिक्रान्ता निः शुनी अतियूनीत्यत्रापि न भवति, अनर्थकत्वाद्वा । शर्वरीति ।’शृ हिंसायाम्’ , ठन्येभ्योऽपि दृश्यन्तेऽ इति वनिप् । परलोकदृश्वरीति ।’दृशेः क्वनिप्’ । वनो न हश इति । विहितविशेषणं हश्ग्रहणम्, हशन्ताद्धातोर्यो वन्विहितस्तदन्तात्प्रातिपदिकान् ङीब्रौ न भवत इत्यर्थः, तेन ‘सर्वरीत्यत्र प्रतिषेधाभावः । तथा ठोणृ अपनयेनऽ वनिपि’विड्वनोरनुनासिकस्यात्’ इत्यात्वे अवादेशेअवावन्नित्यत्र संप्रति हशः । परत्वाभावेऽपि हशन्ताद्विहितत्वात् प्रतिषेधो भवत्येव - अवावा ब्राह्मणीति । तष एव स्थितः सिद्धान्तः । बहुलं च्छन्दसि ङीब्रौ वक्तव्यौ - यज्वरीरिषः । प्रैइरिशवोस्तुट् च - प्रेर्त्वरी ॥

Nyaas

वनः इति क्वनिब्वनिपोः प्रत्ययोग्र्रहणम्। अथ बन षण सम्भवक्तौ (धातुपाठः-463,464) वनु याचने (धातुपाठः-1470) इत्याभ्यां अन्येभ्योऽपि दृश्यन्ते (3.2.75) इति विचि कृते यद्रूपं वन्निति निष्पद्यते तत्कस्मान्न गृह्रते यदि ताभ्यां विज् दृश्येत स तु न दृश्यते; अनभिधानात्। शर्वरी इति। शृ? हंसायाम् (धातुपाठः-1488), अन्येभ्योऽपि दृश्यन्ते (3.2.75) इति वनिप्,गुणः रपरत्वम्। परलोकदृआरी इति। दृशस्तेनैव सूत्रेण (3.2.75) क्वनिप्।वनोन हशः इति। क्वचिदिति शेषः। हशः परो यो वनिप् हशन्ताद्धातोर्विहितस्तदन्तात् प्रातिपदिकात् क्वचिन्ङीब्रोफश्चान्तादेशो न भवति। सहयुध्वा इति। युध सम्प्रहारे (धातुपाठः-1173), दृशेः क्वनिप् (3.2.94) , राजनि युधिकृञः (3.2.95) , सहे च (3.2.96) इति क्वनिप्, नोपधायाः (6.4.7) , सर्वनामस्थाने (6.4.8) इति दीर्घः, नलोपः प्रातिपदिकान्तस्य (8.2.7) । क्वचित्तु प्रतिषेधो न भवत्येव - शर्वरीति, अतर् रेफाद्धशः परो वनिप्; अवावरीति, अत्रापि हशन्ताद्धातोर्वनिब्विहितः, तथापि प्रतिषेधो न भवति। ओणृ अपनयने (धातुपाठः-454), अन्येभ्योऽपि दृश्यन्ते (3.2.75) इति वनिप्, विड्वनोरनुनासिकस्यात् (6.4.41) इत्यात्त्वम्, अवादेशः। न च वनो न हश इत्येव {वक्तव्यं कर्तव्यम्` इति मुद्रितः पाठः। } वक्तव्यम्; यस्मात् पादोऽन्यतरस्याम् (4.1.8) इत्यन्तरस्यांग्रहणमस्यापि योगस्य शेषः। सा च व्यवस्थितविभाषा विज्ञायते। तेन यत्र ङीब्रोफौ नेष्येते तत्र न भविष्यतः॥

Praudhamanorama

सुत्वानमिति। शृ़धातोर्वनिप्। गुणे कृते हशन्तात्परत्वेऽपि हशन्ताद्विहितत्वाभावाद् ङीब्रयोर्निषेधो न। अवावेति। न्यासकारस्तु प्रायिकोऽयं निषेधस्तेन अवावरीत्याह। न त्वेतद्भाष्यादौ दृष्टम्। पक्षे डाबिति। तथा च द्विवचने बहुधीवर्यौ, बहुधीवानौ, बहुधीवे इति रूपत्रयम्भवतीति भावः।

Prakriyasarvasvam

वन्नन्तात् स्त्रियां ङीप् स्याद्, रश्चान्तादेशः । क्वनिपि धीवरी । पारदृश्वरी । बहुव्रीहेर्वेष्यते । बहुधीवा । बहुधीवरी । <karika> न हशन्ताद् वनो ङीब्रौ सहयुध्वा चमूरिति । इष्टौ णान्तात्तु कौमुद्यामोणेर्वनिबवावरी ॥ ४७५ ॥ </karika>

Vartika

वनो न हश इति वक्तव्यम् ।

Sutra Prayogas

  • यमाऽऽस्य-दृश्वरी (भट्टिकाव्यम्): वनो र च इति ङीफौ।