41012: अनो बहुव्रीहेः¶
Padacheda: अनः | S | 5 | 1 |
बहुव्रीहेः | S | 5 | 1 |
Sutrartha¶
‘अन्’ यस्य अन्ते विद्यते तादृशात् बहुव्रीहिसमस्तप्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य निषेधः प्रकृतसूत्रेण पाठितः अस्ति</b> । बहुव्रीहिसमासेन निर्मितस्य प्रातिपदिकस्य अन्ते “अन्” इति शब्दः विद्यते चेत् तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति — इति अस्य सूत्रस्य अर्थः । नकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन ङीप्-प्रत्यये प्राप्ते अन्नन्त-बहुव्रीहिसमस्तप्रातिपदिकानां विषये तस्य निषेधं कर्तुम् विरचितम् अस्ति । यथा — 1. “शोभनं चर्म अस्याः” इत्यत्र अनेकमन्यपदार्थे (2.2.24) इत्यनेन बहुव्रीहिसमासे कृते “सु + चर्मन्” इति स्थिते स्त्रीत्वं द्योतयितुम् ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते । अतः स्त्रीलिङ्गे अपि “सुचर्मा, सुचर्माणौ, सुचर्माणः” इत्येव रूपाणि प्रयुज्यन्ते । यथा, “सुचर्माणः स्त्रियः” । 2. “बहवः यज्वानः अस्याः सा” इत्यत्र अनेकमन्यपदार्थे (2.2.24) इत्यनेन बहुव्रीहिसमासे कृते “बहु + यज्वन्” इति स्थिते स्त्रीत्वं द्योतयितुम् ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते । अतः “बहुयज्वानः स्त्रियः” इत्यादिषु ङीप्-प्रत्ययं विना एव रूपं सिद्ध्यति ।
बाध्यबाधकभावः
ऋन्नेभ्यो ङीप् (4.1.5) इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य निषेधरूपेण प्रकृतसूत्रं प्रवर्तते । ङीप्-प्रत्ययस्य एतादृशे निषेधे कृते, ततः डाबुभाभ्यामन्यतरस्याम् (4.1.13) इत्यनेन विकल्पेन डाप्-प्रत्ययः अपि भवति, येन “सुचर्मन् + डाप् → सुचर्मा” इति आकारान्तस्त्रीलिङ्गशब्दः अपि सिद्ध्यति ।
2. यदि अन्नन्तात् बहुव्रीहिसमस्तपदात् कथञ्चित् ङीप्-प्रत्यये कृते प्रक्रियायाम् उत्तरपदस्य उपधा-अकारस्य लोपः सम्भवति, तर्हि तादृशस्य बहुव्रीहिसमासस्य विषये प्रकृतसूत्रैण दत्तः ङीप्-प्रत्ययस्य निषेधः अन उपधालोपिनोन्यतरस्याम् (4.1.28) इत्यनेन विकल्प्यते, अतः ङीप्-प्रत्ययं, तदनुषङ्गेन च उपधा-अकारलोपं कृत्वा अपि रूपं अवश्यं सिद्ध्यति । यथा, “बहवः राजानः अस्या सा” इत्यत्र “बहु + राजन्” इति स्थिते अन उपधालोपिनोन्यतरस्याम् (4.1.28) इत्यनेन वैकल्पिकं ङीप्-प्रत्ययं कृत्वा “बहु + राजन् + ङीप्” इत्यत्र अल्लोपोऽनः (6.4.134) इत्यनेन जकारोत्तर-अकारस्य लोपे कृते “बहुराज्ञी” इति शब्दः अपि सिद्ध्यति । पक्षे ङीप्-प्रत्ययं विना “बहुराजन्”, तथा च पक्षे डाबुभाभ्यामन्यतरस्याम् (4.1.13) इत्यनेन डाप्-प्रत्यये कृते “बहुराजा” इत्येते प्रातिपदिके अपि अवश्यं सिद्ध्यतः । <note>”शोभनं चर्म अस्याः”, “बहवः यज्वानः अस्याः” इत्यादिषु स्थलेषु अल्लोपोऽनः (6.4.134) इत्यनेन प्राप्तः अकारलोपः न संयोगाद्वमन्तात् (6.4.137) इत्यनेन निषिध्यते, अतः एतयोः समासयोः विषये ङीप्-प्रत्ययस्य निषेधः नित्यमेव प्रवर्तते, तत्र अन उपधालोपिनोन्यतरस्याम् (4.1.28) इत्यस्य प्रसक्तिः एव नास्ति ।
Vasu English Summary¶
The affix ङीप् is not used to denote the feminine after a बहुव्रीहि समास ending in अन्।
Vasu English Translation¶
The affix ङीप् is not used to denote the feminine after a बहुव्रीहि समास ending in अन्। This refers to those Bahuvrihi compounds in which the penultimate is not elided. Of the Bahuvrihi compounds which lose their penultimate letter, it is optional to employ this affix or not; as it will be taught in (4.1.28). Thus सुपर्वन् ‘possessed of beautiful joints’ is both masculine and feminine. As सुपर्वा, सुपर्वाणौ, सुपर्वाणः; so also सुशर्मा, सुशर्माणौ and सुशर्माणः ॥ In these cases the penultimate अ of वन् or मन् is not elided. See (6.4.137).
Why do we say “after Bahuvrihi compounds” ? Because after any other compouds, this rule will not apply. As अतिराजन् is an Avyayibhava compound, its feminine will be अतिराजी ॥
Kashika¶
अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति। अनुपधालोपी बहुव्रीहिरिहोदाहरणम्। उपधालोपिनो हि विकल्पं वक्ष्यति। सुपर्वा, सुपर्वाणौ, सुपर्वाणः। सुचर्मा, सुचर्माणौ, सुचर्माणः। बहुव्रीहेरिति किम्? अतिक्रान्ता राजानम् अतिराज्ञी॥
Siddhanta Kaumudi¶
अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥
Balamanorama¶
अनो बहुव्रीहेः - अनो बहुव्रीहेः । ‘अन’ इतिबहुव्रीहे॑रित्यस्य विशेषणम्, तदन्तविधिः । नेति ङीविति च पूर्ववदनुवर्तते । तदाह — अन्नन्तादिति । बहुयज्वेति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षणङीप प्रतिषेधे राजवद्रूपाणि ।न संयोगा॑दिति निषेधान्नायमुपधालोपी । अतोऽत्र ‘अन उपधालोपिनः’ इति विकल्पो न प्रवर्तितुमर्हति ।
Tattvabodhini¶
अनो बहुव्रीहेः - अनो बहुव्रीहेः । ननुराजयुध्वे॑त्यादिसिद्धयेऽवश्यं वक्तव्येनवनो न हशः॑इत्यनेनैबेष्टलसिद्धेः किमनेन सूत्रेण । मैवम् । अन्नन्ताद्बहुव्रीहेःडाबुभाभ्या॑मिति ङाब्विधानार्थमेतत्सूत्रस्याऽवश्यारब्धव्यत्वात् । तथा चाऽनेन ङीपि निषिद्धे तत्संनियोगेन प्राप्तोवनो र चे॑ति यो रेफः सोऽपि दुर्लभ एवेतिवनो न हशः॑इति वार्तिकमबहुव्रीह्रर्थमिति फलितम् । बहुयज्वानाविति ।न संयोगो॑दिति निषेधान्नायमुपधालोपि । तेनाऽत्रअन उपधालोपिन॑इति वक्ष्यमाणविकल्पो न प्रवर्तते ।
Nyaas¶
अनुपधालोपो बहुव्रीहिरिहोदाहरणम् इति। कथं पुनरेतत्लभ्यते, यावता नात्र विशेष उपात इत्याह - उपधालोपिनो हि इत्यादि। यस्मात् अन उपधालोपिनोऽन्यतरस्याम् (4.1.28) इत्युपधालोपिनो विकल्पं वक्ष्यति, तस्मात् पारिशेष्यादनुपधालोपो बहुव्रीहिरस्यावकाश इति। तस्य चोदाहरणम् - सुपर्वा इत्यादि। शोभनमस्याः पर्वं शोभनं चर्मास्या इति बहुव्रीहिः। अयञ्च न संयोगाद्वमन्तात् इत्यल्लोपो न भवति।अतिराजी इति। अत्यादयः क्रान्ताद्यर्थे द्वितीयया (वा।91) इति कुगतिप्रादयः (2.2.18) इति तत्पुरुषोऽयम्॥
Praudhamanorama¶
बहुयज्वानाविति। ‘न संयोगात्’ इति निषेधान्नायमुपधालोपी तेन ‘अन उपधालोपिनः’ इति न प्रवर्तते।
Prakriyasarvasvam¶
अन्नन्ताद् बहुव्रीहेर्ङीब् न । बहुयज्वा । बहुयज्वानौ ॥