41010: न षट्स्वस्रादिभ्यः¶
Padacheda: न | S | 0 | 0 |
षट्-स्वसृ-आदिभ्यः | S | 5 | 3 |
Sutrartha¶
षट्संज्ञकेभ्यः शब्देभ्यः स्वस्रादिभ्यः च शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप् प्रत्ययः न भवति ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य निषेधः प्रकृतसूत्रेण पाठितः अस्ति</b> । षट्-संज्ञकेभ्यः शब्देभ्यः, तथा च स्वस्रादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति — इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणानि एतानि — <hlb>1. षट्-संज्ञा — </hlb> व्याकरणशास्त्रे ष्णान्ता षट् (1.1.24) तथा च डति च (1.1.25) इत्येताभ्यां सूत्राभ्यां षकारान्तसङ्ख्यावाचकशब्दानाम्, नकारान्तसङ्ख्यावाचकशब्दानाम्, तथा च डतिप्रत्ययान्तशब्दानात् षट् इति संज्ञा भवति । एतेषां सर्वेषाम् आवली इयम् — <gana> पञ्चन्, षष, सप्तन्, अष्टन्, नवन्, दशन्, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडशन्, सप्तदशन्, अष्टादशन्, नवदशन्, कति । इति षट्संज्ञकाः । </gana> अस्मिन् गणे विद्यमानाः ये नकारान्तशब्दाः, तेभ्यः स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् (4.1.5) इति सूत्रेण ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते । तत्र अन्य कोऽपि प्रत्ययः नैव भवति, अतः एते शब्दाः तादृशाः (नकारान्ताः) एव स्त्रीलिङ्गे अपि प्रयुज्यन्ते । यथा, “ पञ्च ब्राह्मण्यः” । षट्संज्ञकेषु विद्यमानौ “षष्” तथा “कति” एतौ द्वौ नकारान्तभिन्नौ शब्दौ । एताभ्याम् मूलतः एव न कश्चन स्त्रीप्रत्ययः विधीयते, अतः तस्य निषेधः अपि न आवश्यकः । एतौ द्वौ अपि शब्दौ तादृशौ एव स्त्रीलिङ्गे प्रयुज्यन्ते । यथा — “ कति ब्राह्मण्यः ? षट् ब्राह्मण्यः” । <hlb>2. स्वस्रादिगणः — </hlb> स्वस्रादिगणे आहत्य सप्त शब्दाः विद्यन्ते । कौमुदीकारेण एतेषाम् परिगणनम् एकया कारिकया कृतम् अस्ति — <karika> स्वसा तिस्रश्च चतस्रश्च, ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ </karika> “स्वसृ, तिसृ, चतसृ, ननान्दृ, दुहितृ, यातृ, मातृ” — एते सप्त शब्दाः स्वस्रादिषु परिगण्यन्ते । एते सर्वेऽपि ऋकारान्ताः शब्दाः, अतः एतेभ्यः स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् (4.1.5) इति सूत्रेण ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते । एतादृशे निषेधे जाते न कश्चन अन्यः प्रत्ययः भवति, अतः एते शब्दाः ऋकारान्तरूपेण एव स्त्रीलिङ्गे प्रयुज्यन्ते । यथा, “माता इयम्, स्वसा इयम्” इत्यादयः । एतेषाम् सर्वेषाम् रूपाणि “पितृ”-शब्दसदृशानि भवन्ति ।
नकारलोपे टाबुत्पत्तिः, तस्यापि निषेधः
पञ्चन्-शब्दस्य प्रथमाबहुचनस्य रूपे “पञ्चन् + जस्” इत्यत्र षड्भ्यो लुक् (7.1.22) इत्यनेन जस्-प्रत्ययस्य लुकि कृते, ततः पञ्चन्-शब्दस्य नकारस्य नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन नकारलोपे कृते “पञ्च” इति पदम् सिद्ध्यति । अस्य पदस्य प्रातिपदिकसंज्ञा अपि अस्ति, अतः ङ्याप्प्रातिपदिकात् (4.1.1) अस्मिन् अधिकारे विद्यमानेन अजाद्यतष्टाप् (4.1.4) इति सूत्रेण अदन्तलक्षणः टाप्-प्रत्ययः तु “पञ्च” इति शब्दात् अवश्यमेव सम्भवति ! यद्यपि नलोपः प्रातिपदिकान्तस्य (8.2.7) इति सूत्रम् त्रिपाद्यां वर्तते, तर्ह्यपि तेन उक्तः नकारलोपः नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (8.2.2) इत्यनेन केवलं सुब्विधि-स्वरविधि-संज्ञाविधि-तुग्विधिषु एव असिद्धः अस्ति, स्त्रीप्रत्ययविधानसमये तु सिद्धः एव अस्ति इति अत्र विशेषः । अतः “पञ्च”-शब्दात् अत्र स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः कथं न स्यात्, इति प्रश्नः अवश्यम् उदेति । भाष्ये अपि अस्मिन् सन्दर्भे चिन्तनं कृतं विद्यते । तत्र भाष्यकारेण आदौ नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (8.2.2) इति सूत्रस्य विषये काचित् चर्चा कृता अस्ति, तदनन्तरम् अन्ते तु — उभयोः (इत्युक्ते, टाप्-प्रत्ययस्य, ङीप्-प्रत्ययस्य च) अपि प्रतिषेधः वक्तव्यः — इति निर्णयः दत्तः अस्ति । अतः षट्संज्ञकेभ्यः शब्देभ्यः कोऽपि स्त्रीप्रत्ययः नैव विधीयते इत्येव अत्र न्याय्यम् । अस्मिन् विषये अधिकं ज्ञातुं जिज्ञासवः अस्य सूत्रस्य भाष्यम् एव पश्येयुः ।
Sutrartha (English)¶
The words that get the term ‘षट्’, and the words स्वसृ, तिसृ, चतसृ, ननान्दृ, दुहितृ, यातृ, मातृ do not get the ङीप्-प्रत्यय to indicate the feminine property.
Vasu English Summary¶
The feminine affixes are not used after the stems called षद् – ष्णान्ता षट् (1.1.24) and after स्वस्र etc.
Vasu English Translation¶
The feminine affixes are not used after the stems called षद् – ष्णान्ता षट् (1.1.24) and after स्वस्र etc. This prohibits all feminine affixes that would otherwise have presented themselves. Thus पञ्च ब्राह्मण्यः ‘the five Brahmani ladies’. So also सप्त, नव, दश &c are feminine as well as masculine. The following words belong to the Svasradi class:- स्वसा ‘a sister’, दुहिता ‘a daughter’; ननान्दा ‘a husband’s sister’, याता ‘a husband’s brother’s wife’, माता ‘a mother’, तिस्रः ‘three’. चतस्रः ‘four’.
Bhashya¶
न षटूस्वस्रादिभ्यः(1284) (निषेधाधिकरणम्) (विषयोपन्यासभाष्यम्) कस्यायं प्रतिषेधः? ङीबनन्तरस्य प्रतिषेधः॥ (टाबांपत्तिवारकभाष्यम्) अथेदानीं ङीपि प्रतिषिद्धे - षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात्? अत इति प्राप्नोति। असिद्धो नलोपस्तस्यासिद्धत्वान्न भविष्यति। परिगणितेषु कार्येषु नलोपोऽसिद्धः। न चेदं तत्र परिगण्यते॥ इदमपि तत्र परिगण्यते। कथं? प्रत्याहाराच्चापा सिद्धम् सुबिति नेदं प्रत्ययग्रहणम्। किं तर्हि? प्रत्याहारग्रहणम्। क्व संनिविष्टानां प्रत्याहारः? प्रथमैकवचनात्प्रभृत्या चापः पकारात्। (आपत्त्युद्भावकभाष्यम्) यदि प्रत्याहारग्रहणम् - दोषस्त्वित्वे इत्त्वे दोषो भवति -बहुचर्मिका, बहुवर्मिका। प्रत्ययस्थात्कात्पूर्वस्यात (7.3.44) इति -ःइत्वं न प्राप्नोति॥ (सिद्धान्तभाष्यम्) तस्मान्नोभौ॥ तस्मात् षड्संज्ञकेभ्य उभौ न भवत इति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। स्त्रियाम् (4.1.3) इति वर्तते, स्त्रियां यत्प्राप्नोति तस्य प्रतिषेधः॥ षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात्। प्रत्याहाराच्चापा सिद्धं दोषस्त्वित्वे तस्मान्नोभौ॥
Kashika¶
षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति। यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते। पञ्च ब्राह्मण्यः। सप्त। नव। दश। स्वस्रादिभ्यः — स्वसा। दुहिता। ननान्दा। याता। माता। तिस्रः। चतस्रः।
षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात्।
प्रत्याहाराच्चापा सिद्धं दोषस्त्वित्त्वे तस्मान्नोभौ॥
Siddhanta Kaumudi¶
षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः ॥ स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ अप्तृन् (SK277) इति दीर्घः । स्वसा । स्वसारौ । स्वसारः । माता पितृवत् । शसि मातॄः । द्यौर्गोवत् । राः पुंवत् । नौर्ग्लौवत् ॥ इत्यौदन्ताः ॥
Laghu Siddhanta Kaumudi¶
ङीप्टापौ न स्तः ॥ स्वसा तिस्रश्चतस्त्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ स्वसा । स्वसारौ ॥ माता पितृवत् । शसि मातॄ: ॥ द्यौर्गोवत् ॥ राः पुंवत् ॥ नौर्ग्लौवत् ॥
Balamanorama¶
न षट्स्वस्रादिभ्यः - ॒ऋन्नेभ्यः॑ इति ङीपि प्राप्ते — न षट् । षट् इत्यनेन षट्संज्ञका गृह्रन्त इत्याह — षट्संज्ञकेभ्य इति । ङीप्टापाविति । ‘ऋन्नेभ्यः’ इत्यतोङी॑विति, ‘टावृचि’ इत्यतष्टावित्यस्य चानुवृत्तेरिति भावः । स्वरुआआदीन् पठतिस्वसा तिरुआ इत्यादिना । अथ ‘तिसृचतसृ’ इत्यनयोः पाठो न कर्तव्यः, ‘न तिसृचतसृ’ इति नामि दीर्घनिषेधादेव लिङ्गान्ङीबभावसिद्धेरिति ‘कृन्मेजन्तः’ इति सूत्रे कैयटः । न नन्दतीनि ननान्दा । ‘नञि च नन्देः’ इति ऋन्, वृद्धिश्च ।ननान्दा तु स्वसा पत्युः॑ इत्यमरः । दोग्धीति दुहिता ।नप्तृनेष्टृत्वहोतृपोतृभ्रातृजामातृपितृदुहितृ॑ इति दुहेस्तृच् । इट् गुणाऽभावश्च निपातितः । मान्यते पूज्यते इति माता । मान पूजायाम् । तृचि नलोपश्च । यतते इति याता । ‘यतेर्वृद्धिश्च’ इति ऋन्, उपधावृद्धिश्च ।भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् इत्यमरः । अतृन्नितीति । स्वसृशब्दात् सुः, ‘ऋदुशनस्’ इत्यनङ्, तृप्रत्ययान्तत्वाऽभावेऽपि ‘अप्तृन्’ इति सूत्रे स्वसृग्रहणाद्दीर्घ इति भावः । माता पितृवदिति । ‘अप्तृन्’ इति सूत्रे औणादिकतृन्तृजन्तेषु नप्त्रादीनामेव दीर्घनियमनादिति भावा । इत्यृदन्ताः । अथ ओदन्ताः । द्यौर्गोवदिति । ओतो णित् इति णिद्वत्त्वाऽतिदेशात् । ‘अचो ञ्णिति’ इति वृद्धिः ।द्योदिवौ द्वे स्त्रियामभ्र॑मित्यमरः । इत्योदन्ताः । अथ ऐदन्ताः । राः पुंवदिति ।रायो हली॑त्यात्वम् । ‘राः स्त्रीत्येके’ इति क्षीरस्वाम्युक्तेः स्त्रीलिङ्गोऽप्ययमिति भावः । इत्यैदन्ताः । अथ ओदन्ताः नौर्ग्लौवदिति । स्त्रियां नौस्तरणिस्तरिः॑ इत्यमरः । इत्यौदन्ताः ।***इति बालमनोरमायामजन्ताः स्त्रीलिङ्गा**********अथाजन्तनपुंसकलिङ्गप्रकरणम् ।***
Tattvabodhini¶
न षट्स्वस्रादिभ्यः - न षट्स्वस्त्रादिभ्यः ।स्त्रियां यदुक्तं तन्न भवती॑ति व्याख्यानादनन्तरो ङीबिव व्यवहितष्टबपि निषिध्यत इत्याशयेनाह — — ङीष्टापौ नेति । स्वस्त्रादीनां ङीप्प्राप्तः । षट्संज्ञकानां तूभौ । स्वसा तिरुआ इति ।न तिसृचतसृ॑इति नामि दीर्घत्वप्रतिषेधाज्ज्ञापकादेव ङीबभावे सिद्धे स्वस्त्रादिषु तिसृचतसृशब्दपाठो न कर्तव्य इतिकृन्मेजन्तः॑इति सूत्रे कैयटः । स्वसेति ।सावसेरृन् ।ऋदुशन॑इत्यनङ् ।ननान्दा तु स्वसा पतच्युः॑ ।भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । द्यौर्गोवदिति ।गमेर्डोः॑बाहुलकाद्दयुतेरपि । डित्त्वाट्टिलोपः ।ओतो णि॑दिति णिद्व द्भावाद्वृद्धिः । राः पुंवदिति । यद्यपि पुंलिङ्गः एवायम्, अर्थरैविभवा अपि॒इत्यमरोक्तेः । भिन्नलिङ्गानां न द्व॑न्द्व इति तेन परिभाषितत्वात्, तथापिरात्येनं राः । स्त्रीत्येके॑इति क्षीरस्वामिनास्त्रीलिङ्गताया अप्यभ्युपगमादेवमुक्तम् । नौर्ग्लौवदिति ।ग्लानुदिभ्यां ङौः॑ । डित्वाट्टिलोपः ।स्त्रियां नौस्तरणिस्तरि॑रित्यमरः ।
Padamanjari¶
‘टाबृचि’ इति पादन्ताद्विहितस्य टापोऽत्राप्रसङ्गातदनन्तरस्य ङीपोऽयं प्रतिषेध इत्याशङ्कामपनयति - यो यत इति । तत्र सर्वेभ्य एव ङीप्प्राप्नोति, टाप्तु नलोपे सत्यकारान्ततायामुपजातायां षड्भ्य एव । यो यः प्राप्त इति तु युक्तः पाठः, अन्यथा स ततो न भवतीति वाच्यं स्यात्, व्याप्तिश्च न गम्येत । पञ्च ब्राह्मण्य इति । ननु चात्र ब्राह्मणीशब्दसामानाधिकरण्यात् स्त्रीत्वावगतिः, संख्याशब्दस्तु स्वमहिम्ना भेदगणनमाह । तथा हि - पञ्चेत्युक्ते नानात्वमात्रं द्रव्यस्य गम्यते, न लिङ्गविशेषः ; तथा च लिङ्गानुशासनेषु’ष्णान्ता संख्या’ इत्यलिङ्गत्वमुक्तम् । यद्येवम्, एका, द्वे, बह्व्य इत्यत्रापि प्रत्ययो न स्यात् ? संख्याशब्दत्वेन भेदगणनामात्रस्य शब्दार्थत्वात् । अथ तत्र स्त्रीत्वमपि शब्दार्थः ? पञ्चादिष्वपि स्यात् । वक्तव्यो वा विशेषः - सति तस्मिन् प्रतिषेधे नान्तरेणानुप्रयोगं पञ्चेत्यादौ स्त्रीत्वाद्यभिव्यक्तिरिति लिङ्गानुशासनेष्वलिङ्गत्वमुक्तम् ; असति तु प्रतिषेधे पञ्चादिभ्यः स्त्रीप्रत्ययो न भवति, एकादिभ्यस्तु भवतीति न शास्त्रैकशरणः प्रतिपतुमर्हति । ननु विभक्तौ परतः’त्रिचतुरोः स्त्रियाम्’ तिसृचतसृभावः, तत्रं संनिपातपरिभाषयैव ङीबभावः सिद्धः, तत्किं तिसृचतसृशब्दयोः स्वस्रादिपाठेन ? ज्ञापनार्थ तु । एतज्ज्ञापयति - अनित्या संनिपातपरिभाषेति, तेन त्यदाद्यत्वे कृते टाब् भवति - या, सा, इमे, द्वे इति । ङीपोऽनन्तरस्यायं प्रतिषेधो युक्त इत्याश्रित्य चोदयति - षट्संज्ञानामिति । कस्मान्न स्यादिति । अत इति हि प्राप्नोति, असिद्धो नलोपः, तस्यासिद्धत्वान्नैतददन्तम् । परिगणितेषु कार्येषु नलोपोऽसिद्धो भवति,’नलोपः सुप्स्वर’ इत्यस्य नियमार्थत्वात् । नेदं तत्र परिगण्यते ? इदमपि तत्र पिगण्यते, कथम् ? सुबिति न सप्तमीबहुवचनेन प्रत्याहारः, किं तर्हि ? यङ्श्चाबिति चापः पकारेण, ततश्च टापोऽपि प्रत्याहारेऽन्तर्भावातद्विधिरपि सुब्विधिरेवेति । तदेतदाह - प्रत्याहाराच्चापेति । न स्यादित्यनुषङ्गः, कस्मान्न स्यादिति प्रश्नः । चापा प्रत्याहारान्न स्यादिति परिहारः । इदं चाचार्यदेशीयस्य वचनम् । आचार्यसिद्धान्तं दर्शयितुमेतद् दूषयति - सिद्धं दोषस्त्वित्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्वे तु दोषो भवति - सिद्धं दोषस्त्वित्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्वे तु दोषो भवति - बहूनि चर्माण्यस्याः बहुचर्मिकेति, कथम् ? तत्र सुब्विधिरित सर्वविभक्यन्तावयवः समास आश्रितः - सुपो विधिः, सुपि विधिरिति; ततश्च यथा राजभ्यामित्यत्र’सुपि च’ इति दीर्घत्वं न भवति, तथा टापि सुपि विधीयमानमित्वमपि सुब्विधिरिति तत्र वर्तव्ये नलोपस्यासिद्धत्वात्कात् पूर्वोऽकारो न भवतीतीत्वं न स्यादित्यर्थः । सिद्धान्तमाह - तस्मान्नोभाविति ।’स्त्रियाम्’ इत्यर्थमात्रमपेक्ष्य तत्र यदुक्तं तन्न भवति, इत्येवं ङीप्टापावुभावपि प्रतिषेध्यावित्यर्थः । ननु च सकृत्प्रतिषेधस्य प्रवृत्तिः, स च स्वप्रवृत्तिसमये यस्य प्रसङ्गस्तमेव प्रतिषेधति, ततश्च पूर्वं ङीपि प्रतिषिद्धे नलोपे च कृते पश्चात्प्राप्नुवतष्टापः कथं प्रतिषेधः ? आत्माश्रयो हि स्यात् - स्वप्रवृत्तिमपेक्ष्य स्वप्रवृत्तिरिति । तस्मातन्त्रावृत्येकशेषाणामन्यतमाश्रयणेन द्विरस्य प्रवृत्तिः, तत्र द्वितीयया प्रवृत्या टापः प्रतिषेधः ॥
Nyaas¶
यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते` इति। ङीपोऽनन्तरत्वात् तस्यैवायं प्रतिषेध इत्याशङ्काया निरासार्थमिदमुक्तम्। ननु चात्र टाबृचि (4.1.9) इति टाबेवानन्तरः, तत् कुतो ङीपोऽनन्तरत्वम्? अस्वरितत्वात्। अस्य टापो ङीप एवानन्तर्यं युक्तम्। ननु च षट्संज्ञाः संख्याशब्दाः, संख्याश्च भेदमात्रं द्रव्यस्य प्रत्ययायन्ति, न स्त्रीत्वम्, या तु तस्य स्त्रीत्वप्रतीतिः सा शब्दान्तरेण सामानाधिकरण्याद्भवति, न च स्त्रीसमानाधिकरणपक्षः स्त्रियाम् (4.1.3) इति सूत्रे स्थितः, तथा च तेभ्यः स्त्रीप्रत्ययस्य प्राप्तिरेव नास्तीत्यपार्थकः प्रतिषेधः? नैतदस्ति; संख्या हि गुणः, संख्या परिमाणानि पृथक्त्वं संयोगविभागौ इति वैशेषिकाणां (1.1.6) गुणसूत्रे पाठात्। गुणवचनानां चाश्रयतो लिङ्गवचनानि भवन्ति, यथा -शुक्ला शाटी, शुक्लः कम्बलः, शुक्लं वस्त्रम्; शुक्लः शुक्लौ शुक्लाः इति। तथा सति प्रतिषेधे यथा शुक्लादिशब्देभ्यः स्त्रीप्रत्ययो भवति तथा षट्संज्ञकेभ्योऽपीति स्यात्, यथा - पञ्च ब्राआहृण्य इति। षड्भ्यो लुक् (7.1.22) इति जसो लुक्। स्वसा इति। अनङ सौ (7.1.93) पूर्ववत् नोपधायाः (6.4.7) इति दीर्घः। तिसृचतसृशब्दावपि स्वरुआआदिषु पठएते, तयोः किमर्थः पाठः? यावता विभक्तौ परतः त्रिचतुरोः स्त्रियां तिसृचतसृ (7.2.99) इति तिसृचतसृभ्यां भवितव्यम्, तत्र यदि तावृकारान्तलक्षमं ङीपं प्रति निमित्तभावं प्रतिपद्येयातां विभक्तेरानन्तर्यं ताभ्यां विहन्येत, एतच्च सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य (व्या।प।12) इत्युक्तम्। तस्मात् सन्निपातलक्षणपरिभाषयैव ङीब्न भविष्यतीति किं प्रतिषेधेन? एवं तह्र्रेतज्ज्ञापयति - अनित्यैषा परिभाषेति। तेन या, सेति सिद्धं भवति। अत्रापि हि विभक्तौ त्यदाद्यत्वमित्यकारष्टापो निमित्तं न स्यात्, टापि हि सति विभक्तेरानन्तर्यं विहन्यते। परिभाषायस्त्वनित्यत्वेनैव टाब्भवति।षट्संज्ञानाम् इत्यादि। पञ्च ब्राआहृण्य इत्यादौ अवन्तरस्य विधिर्भवति प्रतिषेधो वा (व्या।प।19) इति ङीपोऽनन्तरस्य प्रतिषेधे कृते नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारे लुप्ते सत्याकारान्ततायामुपजातायां टाबुत्पत्तिः कस्मान्न स्यात्?स्यादेव, निमित्तस्य सविधानात्। नलोपस्यासिद्धत्वान्न स्यादिति चेत्? नैतदस्ति; नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (8.2.2) इति परिगणितेष्वेव विधिषु नलोपस्यासिद्धत्वमुच्यते। न च टाब्विधिस्तत्र परिगण्यते, तत् कुतस्तत्र नलोपस्यासिद्धत्वम्? टाब्विधिरपि तत्र परिगण्यत एवेति दर्शयन्नाह - प्रत्याहारात् इत्यादि। चाबिति चाप्सम्बन्धिनं पकारमुपलक्षयति। तदेतदुक्तं भवति - सुबिति। तत्र न सप्तमीबहुवचनसम्बन्धिना सुपः पकारेण प्रत्याहारो गृह्रते,किं तर्हि? यङश्चाप् (4.1.74) इति चाप्सम्बन्धिना। तस्माट्टापो विधिरपि सुब्विधिरेव; टापोऽपि प्रत्याहारान्तर्भावात्। ततश्च टाब्विधावपि नलोपस्यासिद्धत्वेन भवितव्यमिति सिद्धं सर्वमिष्टम्। सिध्यत्येव। दोषस्त्वित्त्ववे इति। बहूनि चर्माण्यस्यां नगर्यामिति बहुव्रीहिः। शेषाद्विभाषा (5.4.154) इति कप्, टाप्, नलोपः। अत्रेदानीं प्रत्ययस्थात्कात् (7.3.44) इत्यनेनेत्त्वमिष्यते बहुचर्मिकेति यथा स्यात्, तच्च न प्राप्नोति, न ह्यत्र कात् पूर्वोऽकारः; सिद्धत्वार्थं सर्वविभक्त्यन्तः समास आश्रितः। सुपो विधिः सुब्विधिः, सुपिवा विधिः सुब्विधिरिति। यदि च टाबपि सुप् स्यात्, ततस्त्रत्रापि परत्रावस्थित इत्त्वमुच्यत इति तदपि सुब्विधिः स्यात् - सुपि विधिरिति कृत्वा। ततस्तस्मिन्नपि कर्त्त्व्ये नलोपस्यासिद्धत्वं स्यात्, तवयुक्तश्चापा प्रत्याहारः। तस्मान्नोभौ इति। यस्मादेवं चापा सह प्रत्याहारे दोषस्तमादुभावपि टाब्ङीपौ न भवत इति प्रतिषिद्धौ। कथमिह हि स्त्रियामित्यर्थोऽपेक्षते? अस्मिन्नर्थे यदुक्तं भवतीति स्त्र्यर्थे चोभौ ङीप्टापावुक्तावित्युभावपि भवतः॥
Praudhamanorama¶
स्त्रियां यदुक्तं तन्न भवतीति व्याख्यानाद् अनन्तरो ङीबिव व्यवहितष्टाबपि निषिध्यत इत्याशयेनाह— राः पुंवदिति। रै शब्दस्य स्त्रीलिङ्गतया स्मरणादिति भावः। तथा च क्षीरस्वामी— रात्येनं राः स्त्रीत्येके इति। स्त्रियां नौस्तरणिस्तरिरित्यमरः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामजन्ताः स्त्रीलिङ्गाः॥
Prakriyasarvasvam¶
षट्संज्ञेभ्यः स्वसा माता ननान्दा दुहिता तिसृ । याता चतसृ चेत्येभ्यश्चापि स्त्रीप्रत्ययो न हि ।। ४७६ ।। नान्तसंख्यानां षट्संज्ञत्वान्ङीबभावः । पञ्च स्त्रियः । अत्र प्रातिपदिकान्तत्वान्न- लोपे कृते त्वदन्तत्वाट्टापि प्राप्ते न षट्स्वस्रादिभ्य इत्येव सोऽपि प्रतिषेध्यः । तत्र नान्तत्वनाशेन षट्त्वाभावादप्रतिषेधे प्राप्ते—
Sarala¶
(षट्सञ्ज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः) । स्वसा = भगिनी । ननान्दा = पत्युःस्वसा (ननन्द) । ननान्दा तु स्वसा पत्युः इत्यमरः । दुहिता = पुत्री । याता = देवरभार्या, पतिज्येष्ठभार्या च (देवरानी, जिठानी) भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् इत्यमरः । द्यौः = आकाशः । राः = धनम् । पुँल्लिङ्गस्यापि रैशब्दस्य स्त्रीत्वं क्षीरस्वाम्यादिभिरभ्युपेतमिति ध्येयम् ॥
Sudha¶
न षडिति । षट्इत्यनेन षट्संज्ञका गृह्यन्ते । ङीप्टापाविति । ऋन्नेभ्यो ङीप्**(4.1.5) इत्यतो ङीविति, **टाबृचि**(4.1.9) इत्यतष्टावित्यस्य चानुवृत्तेरिति भावः । स्वस्त्रादीन् पठति - स्वसा तिस्र इत्यादिना । स्वसेति । ‘स्वसृ+ सु’ अत्र **ऋन्नेभ्यो ङीप्**(4.1.5) इति ङीपि प्राप्ते **न षट्स्वस्रादिभ्यः**(4.1.10) इति ङीपो निषेधे **ऋदुशनस्पुरुदंसोऽनेहसां च**(7.1.94) इत्यनङि डित्त्वादन्त्यावयवे जाते अनुबन्धलोपे ‘स्वसन् + स्’ इति स्थिते **अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्**(6.4.11) इति दीर्घे **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सलोपे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नस्य लोपे च कृते ‘स्वसा’ इति रूपम् । **स्वसाराविति । ‘स्वसृ + औ’ अत्र ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणे अकारे **उरण् रपरः**(1.1.51) इति रपरे च जाते **अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्**(6.4.11) इत्युपधाया दीर्घत्वे ‘स्वसारौ’ इति रूपम् । जसि - स्वसारः । सम्बोधने **ह्रस्वस्य गुणः**(7.3.108) इति गुणे रपरे च हल्ङ्यादिना लोपे रस्य विसर्गे च - हे स्वसः, स्वसारौ, स्वसारः । स्वसारम्, स्वसारौ । शसि - पूर्वसवर्णदीर्घादेशे सस्य रुत्वे रस्य विसर्गत्वे च ‘स्वसृः’ इति । टा — स्वस्त्रा । ङे — स्वस्त्रे । ङसिङसोः - ‘स्वसृ + अस्’ इति स्थिते **ऋत उत्**(6.1.111) इति पूर्वपरयोः स्थाने उकारादेशे रपरत्वे च **रात्सस्य**(8.2.24) इति सलोपे रेफस्य विसर्गे च कृते स्वसुः । आमि - स्वसॄणाम् । ङौ - **ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणे रपरे च ‘स्वसरि’ इति ॥ **द्यौर्गोवदिति । गोतो णित्**(7.1.90) इति णिद्वत्वातिदेशात् **अचो ञ्णिति**(7.2.115) इति वृद्धिः । **राः पुंवदिति । रायो हलि**(7.2.85) इत्यात्वम् । **नौर्ग्लौवदिति । सर्वत्राजादौ विभक्तौ परे आवादेश इति भावः । इत्यजन्ताः स्त्रीलिङ्गाः |