41008: पादोऽन्यतरस्याम्¶
Padacheda: पादः | S | 5 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
‘पाद’ इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः भवति ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । “पाद” इति शब्दः यस्य समासस्य उत्तरपदरूपेण विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । यथा — 1. “द्वौ पादौ अस्याः” इत्यत्र अनेकमन्यपदार्थे (2.2.24) इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । प्रक्रिया इयम् —
द्वौ पादौ अस्याः
→ द्वि + पाद + ङीप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः । **पादोऽन्यतरस्याम्** (4.1.8) इति ङीप्]
→ द्वि + पाद् + ई [**संख्यासुपूर्वस्य** (5.4.140) इति पाद-शब्दस्य अकारस्य लोपः]
→ द्वि + पद् + ई [**पादः पत्** (6.4.130) इति पाद्-शब्दस्य पद्-आदेशः]
→ द्विपदी
एवमेव “त्रयः पादाः अस्याः = त्रि + पाद + ङीप् → त्रिपदी” इति शब्दः अपि सिद्ध्यति । 3. “चत्वारः पादाः अस्याः” इत्यत्र प्रक्रिया इयम् —
चत्वारः पादाः अस्याः
→ चतुर् + पाद + ङीप् [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः । **पादोऽन्यतरस्याम्** (4.1.8) इति ङीप्]
→ चतुर् + पाद् + ई [**संख्यासुपूर्वस्य** (5.4.140) इति पाद-शब्दस्य अकारस्य लोपः]
→ चतुर् + पद् + ई [**पादः पत्** (6.4.130) इति पाद्-शब्दस्य पद्-आदेशः]
→ चतुः + पदी [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ चतुष्पदी [**इदुदुपधस्य चाप्रत्ययस्य** (8.3.41) इति षत्वम्]
प्रकृतसूत्रेण उक्तः ङीप्-प्रत्ययः विकल्पेनैव भवति, अतः ङीप्-प्रत्ययस्य अभावे “द्वि + पाद” इत्यत्र संख्यासुपूर्वस्य (5.4.140) इत्यनेन पाद-शब्दस्य अकारस्य लोपे कृते सिद्धः “द्विपाद्” इति शब्दः अपि स्त्रीलिङ्गे प्रयोक्तुं शक्यते । एवमेव “त्रिपाद्”, “चतुष्पाद्” इति शब्दौ अपि स्त्रीलिङ्गे साधु एव ज्ञेयौ ।
बाध्यबाधकभावः
टाबृचि (4.1.9) इति अग्रिमं सूत्रम् प्रकृतसूत्रस्य अपवादरूपेण विशिष्टे सन्दर्भे टाप्-प्रत्ययस्य विधानं करोति ।
Vasu English Summary¶
The affix ङीप् is optionally used in the feminine after a प्रातिपदिक (Nominal Stem) ending with the word पाद्।
Vasu English Translation¶
The affix ङीप् is optionally used in the feminine after a प्रातिपदिक (Nominal Stem) ending with the word पाद्। The word पाद becomes पाद् when final in certain Bahuvrihi compounds (5.4.140). Thus द्विपात् is both masculine and feminine, or it may optionally form its feminine by long ई (ङीप्). In the latter alternative, the form will be द्विपदी, the word पाद् being replaced by पद् by (6.4.130), (as read with (1.4.18)). Similarly त्रिपात् or त्रिपदी; चतुष्पाद् or चतुष्पदी ॥
Kashika¶
पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यते। पादन्तात् प्रातिपदिकादन्यतरस्यां स्त्रियां ङीप् प्रत्ययो भवति। द्विपात्। द्विपदी। त्रिपात्। त्रिपदी। चतुष्पाद्। चतुष्पदी॥
Siddhanta Kaumudi¶
पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रतिपदिकात् ङीब्वा स्यात् । द्विपदी । द्विपात् ॥
Balamanorama¶
पादोऽन्यतरस्याम् - पादो । कृतसमासान्त इति । अन्तलोपात्मके समासान्ते कृते परिशिष्टः पाच्छशब्द इह गृह्रत इत्यर्थः । तदन्तादिति । पाच्छब्दान्तादित्यर्थः । ‘पाद’ इति पञ्चम्यन्तेनप्रातिपदिका॑दित्यधिकृतस्य विशेषणादिति भावः । ङीब्वा स्यादिति । ‘ऋन्नेभ्यः’ इत्यतस्तदनुवृत्तेरिति भावः । द्विपदीति । द्वौ पादौ यस्या इति बहुव्रीहिः ।सङ्ख्यासुपूर्वस्ये॑ति पादशब्दान्तस्याऽकारस्य लोपः । ङीपि भत्वात्पादः पत् । द्विपदिति रूपम् । ङीबभावे तुद्विपादिति ।
Tattvabodhini¶
पादोऽन्यतरस्याम् - द्विपादिति । द्वौ पादौ यस्या इति बहुव्रीहौबहुधीवरीति । ॑बहवो धीवानो यस्यां नगर्या॒मिति विग्रहः । पक्षे डाबिति ।डाबुभाभ्या॑मिति सूत्रेण । तथाच द्विवचनेबहुधीवर्यौ॒॑बहुधीवानौ॒॑बहुधीवे॑इति रुपत्रयं भवतीति भावः ।
Padamanjari¶
पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यत इति । उतरसूत्रे ऋच्यभिधेयायां तस्यैव सम्भवात्, तेन पादयते क्विबन्तस्य ग्रहणं न भवति । द्विपदीति । द्वौ पादावस्य इति’बहुव्रीहौ संख्यासुपूर्वस्य’ इत्यकारलोपे’पादः पत्’ इति पद्भावः ॥
Nyaas¶
पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यते इति। अथ पद गतौ (धातुपाठः-1169) इत्यस्माण्ण्यन्तात् अन्येभ्योऽपि दृश्यते (3.3.130) इति क्विपि कृते यत् पादिति रूपं निष्पद्यते रूपं निष्पद्यते तस्य ग्रहणं कस्मान्न विज्ञायते? विज्ञायते यदि पादयतेः क्विब् दृश्येत्, स तु न दृश्यते; अनभिधानात्। द्विपात्, द्विपदी इति। द्वौ पादादस्या इति बहुव्रीहिः। पादस्य लोपः (5.4.138) इत्यनुवर्तमाने संख्यासुपूर्वस्य (5.4.140) इत्यकारलोपः, पादः पत् (6.4.130) इति पद्भावः॥
Sutra Prayogas¶
सु-पाद् (भट्टिकाव्यम्): पादोऽन्यतरस्यां इति यदा ङीप् नास्ति तदेत्थं रूपम्।