41006: उगितश्च

Padacheda: उगितः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha

उगिदन्तात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।

स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य प्रातिपदिकस्य अन्ते उक्-प्रत्याहारस्य वर्णः विद्यते, तस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । <pt>उक् = उ, ऊ, ऋ, ॠ, ऌ </pt> उदाहरणानि एतानि — <listsp> 1. “पठ्”-धातोः “क्तवतुँ”-प्रत्यये कृते “पठितवत्” इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । पठितवत् + ङीप् → पठितवती । 2. “भवत्” इति सर्वनामसंज्ञकः शब्दः सर्वादिगणे “भवतुँ” इति इत्संज्ञक-उकारेण सह निर्दिष्टः अस्ति । अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । भवत् + ङीप् → भवती । 3. “कृ”-धातोः “शतृँ”-प्रत्यये कृते “कुर्वत्” इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । कुर्वत् + ङीप् → कुर्वती । 4. “भू”-धातोः “शतृँ”-प्रत्यये कृते “भवत्” इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते; ततश्च प्रक्रियायाम् शप्श्यनोर्नित्यम् (7.1.81) इत्यनेन नुमागमः अपि भवति, येन “भवन्ती” इति प्रातिपदिकं सिद्ध्यति । </listsp>

तदन्तविधि

येन विधिस्तदन्तस्य (1.1.72) इत्यत्र विद्यमानेन <!समासप्रत्ययविधौ प्रतिषेधः!> इति वार्त्तिकेन प्रत्ययविधौ तदन्तविधिः प्रतिषिध्यते । तथापि तत्रैव पाठितेन <!उगिद्वर्णग्रहणवर्जम्!> इति वार्त्तिकेन उगिद्ग्रहणस्य विषये तदन्तविधेः पुनर्विधानम् कृतम् अस्ति । किञ्च, अजाद्यतष्टाप् (4.1.4) इत्यत्रापि स्त्रीप्रत्ययप्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधिः भवति इति निर्णयः भाष्यकारेण दत्तः अस्ति । अतः प्रकृतसूत्रस्य विषये तदन्तविधिः अवश्यमेव प्रवर्तते । अतएव “भवन्तम् अतिक्रान्ता” इत्यस्मिन् अर्थे <! अत्यादयः क्रान्ताद्यर्थे द्वितीयया !> इति वार्त्तिकेन तत्पुरुषसमासे कृते तत्र भवत्-शब्दस्य उगित्त्वं स्वीकृत्य तस्मात् प्रकृतसूत्रेण अवश्यं ङीप् प्रत्ययः भवति — “अति + भवत् + ङीप् → अतिभवती” ।

वार्त्तिकम् — <!धातोः उगितः प्रतिषेधः वक्तव्यः; अञ्चतेश्च उपसङ्ख्यानम् !>

प्रकृतसूत्रे काशिकाकारेण <!धातोः उगितः प्रतिषेधः वक्तव्यः!> तथा च <!अञ्चतेश्च उपसङ्ख्यानम् !> इति द्वे वार्त्तिके पाठिते स्तः । अष्टाध्याय्याः सूत्रेषु “उगित्”-शब्देन कृतः निर्देशः “अञ्चुँ”-धातुं विहाय अन्येषाम् धातूनां ग्रहणं न करोति ** — इति अस्य वार्त्तिकस्य अर्थः । अतएव, “उखायां स्रंसते सा” इत्यत्र **अन्येभ्योऽपि दृश्यन्ते (3.2.75) इति सूत्रेण स्रंसुँ-धातोः क्विप्-प्रत्यये कृते, “उखास्रत्” इति प्रातिपदिके जाते, तस्मात् स्त्रीत्वे विवक्षिते, यद्यपि स्रंसुँ-धातुः उगित् अस्ति, तर्ह्यपि प्रकृतसूत्रम् नैव प्रयुज्यते; अतश्च ङीप्-प्रत्ययः नैव भवति अपितु “उखास्रत् ब्राह्मणी” इत्येव प्रयोगः दृश्यते । एवमेव, “पर्णानि ध्वंसते सा = पर्ण + ध्वंसुँ + क्वि्प → पर्णध्वत् ब्राह्मणी” इत्यत्रापि प्रकृतसूत्रस्य प्रयोगः न भवति । “अञ्चुँ”-धातोः विषये तु इदं सूत्रम् अवश्यमेव प्रयुज्यते, अतएव “प्राञ्चति सा” इत्यत्र “प्र + अञ्च् + क्विन्” इति स्थिते, क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपे जाते “प्र + अञ्च्” इत्यस्याम् अवस्थायाम् अञ्च्-धातोः उगित्त्वात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः अवश्यं भवति, येन “प्र + अञ्च् + ङीप् → प्राची” इति शब्दः सिद्ध्यति । एवमेव “प्रति + अञ्च् + ङीप् → प्रतीची” इत्यत्रापि स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः प्रयुज्यते । एते एव द्वे वार्तिके सिद्धान्तकौमुद्याम् धातोश्चेद् उगित्कार्यं तर्हि अञ्चतेः एव इति वाक्येन निर्दिष्टे स्तः । पाणिनिना उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति सूत्रे “उगित्” शब्देन सह “अचाम्” इति कृतः निर्देशः एव अस्य ज्ञापकम् अस्ति इति अत्र दीक्षितः स्पष्टी करोति । अयमेव विषयः भाष्ये अपि निर्दिष्टः दृश्यते — <source> धातोः उगितः प्रतिषेधः वक्तव्यः । उखास्रद् ब्राह्मणी, पर्णध्वद् ब्राह्मणी । अञ्ञ्चतेश्चोपसंख्यानं कर्तव्यम् । प्राची, प्रतीची ॥ उगिति अञ्ञ्चतिग्रहणाद् अधातोः सिद्धम् । अञ्ञ्चतिग्रहणं नियमार्थं भविष्यति। अञ्ञ्चतेः एव उगितः धातोः, नान्यस्य उगितः धातोः, इति ॥ <light>—महाभाष्यम्</light> </source>

Sutrartha (English)

प्रातिपदिकानि which end with इत्संज्ञक उक् letter get the ङीप्-प्रत्यय to indicate the feminine property.

Vasu English Summary

And after what has an indicatory उक् (उ , ऋ or ऌ) the affix ङीप् is used denoting a feminine.

Vasu English Translation

And after what has an indicatory उक् (उ , ऋ or ऌ) the affix ङीप् is used denoting a feminine. The उक् is a pratyahara meaning उ, ऋ and ऌ । Wherever it is possible to make these letters indicatory, in whatever way it may be, that word-form is called उगित् । That which ends with such a word is meant here. A pratipadika pure and simple, not formed by an affix, may be उगित्, thus the pronoun भवतु among the sarvanamas: an affix may be उगित् as the affixes क्तवतु and शतृ, and therefore, the words formed by these affixes will be उगित्; similarly a letter may be उगित् as तृ meaning त् in (6.4.127), (“तु is the substitute of the final of an inflective base ending in अर्वन् &c”)

Thus, भवत् ‘honored’ sir.—f. भवती ‘madam’. Applying the rule of tadantavidhi, we have अतिभवत्-अतिभवती ‘most exalted lady’. Similarly पचत् (formed by adding शतृ (3.2.124)), forms the feminine पचन्ती, the नुम् comes by (7.1.82). So also यजनी ‘a female sacrificing’; अर्वत् अर्वती ‘a mare’.

Vart:- Prohibition must be stated in the case of verbal roots having an indicatory ‘uk’. Thus the roots स्रंसु ‘to fall down’, ध्वंसु ‘to fall down’ have indicatory उ; and we get from these roots, the pratipadikas like उखास्रत् and पर्णध्वत्,(3.2.76). The उखास्रत् ब्राह्मणी, पर्णध्वत् ब्राह्मणी ॥ Here, the feminine is not formed by adding ङीप् ।

Vart:- The pratipadikas ending with the verb ‘anchu’, however, take the affix ङीप् । As, प्राची, प्रती़ही, उदीची ॥

Bhashya

उगितश्च (1280) (तदन्तविध्यभावे दोषप्रतिपादकं भाष्यम्) कथमिदं विज्ञायते - उगितः प्रातिपदिकादिति, आहो स्विदुगिदन्तात्प्रातिपदिकादिति? किं चातः? यदि विज्ञायते उगितः प्रातिपदिकादिति, सिद्धम् -भवती, महतीति। अतिभवती, अतिमहतीति न सिध्यति॥ तदन्तविधिना भविष्यति। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते॥ (तदन्तविधौ दोषाधायकभाष्यम्) अथ विज्ञायते उगिदन्तात्प्रातिपदिकादिति, सिद्धम् -अतिभवती, अतिमहतीति॥ भवती, महतीति न सिध्यति। व्यपदेशिवद्भावेनेह भविष्यति। व्यपदेशिवद्भावोऽप्रातिपदिकेन॥ (पक्षद्वये दोषप्रतिपादकभाष्यम्) उभयथा चं निर्गोमती, निर्यवमतीति न सिध्यति॥ किं कारणम्? प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति॥ (प्रथमपक्षे दोषाभावोपपादकभाष्यम्) यथेच्छसि तथास्तु॥ अस्तु तावदुगितः प्रातिपदिकादिति॥ कथम् -अतिभवती, अतिमहतीति? तदन्तविधिना भविष्यति॥ ननु चोक्तं ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यत इति। नैतत्प्रातिपदिकग्रहणम्। प्रातिपदिकाप्रातिपदिकयोरेतद् ग्रहणम्॥ (द्वितीयपक्षे दोषाभावोपपादकभाष्यम्) अथ वा पुनरस्तु -उगिदन्तात्प्रातिपदिकादिति॥ कथं -भवती, महतीति? व्यपदेशिवद्भावेन भविष्यति॥ ननु चोक्तं व्यपदेशिवद्भावोऽप्रातिपदिकेनेति। नैतत्प्रातिपदिकग्रहणम्। प्रातिपदिकाप्रातिपदिकयोरेतद् ग्रहणम्॥ (पक्षद्वये दोषाभावोपपादकभाष्यम्) यदप्युच्यते -उभयथा निर्गौमती, निर्यवमतीति न सिध्यतीति। किं कारणम्? प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति॥ नैतत्प्रत्ययग्रहणम्। प्रत्ययाप्रत्यययोरेतद् ग्रहणम्॥ कथम्? वर्णोप्युगित्, प्रत्ययोप्युगित्, प्रातिपदिकमप्युगित्॥ (5127 पूर्वपक्षवार्तिकम्॥ 1 ॥) - धातोरुगितः प्रतिषेधः - (भाष्यम्) धातोरुगितः प्रतिषेधो वक्तव्यः। उखास्रद् ब्राह्मणी, पर्णध्वद् ब्राह्मणी॥ (5128 पूर्वपक्षवार्तिकम्॥ 2 ॥) - अञ्ञ्चतेश्चोपसंख्यानम् - (भाष्यम्) अञ्ञ्चतेश्चोपसंख्यानं कर्तव्यम्। प्राची, प्रतीची॥ (5129 सिद्धान्तवार्तिकम्॥ 3 ॥) - उगित्यञ्ञ्चतिग्रहणात्सिद्धमधातोः - (भाष्यम्) उगिति अञ्ञ्चतिग्रहणादधातोः सिद्धम्॥ अञ्ञ्चतिग्रहणं नियमार्थं भविष्यति। अञ्ञ्चतेरेवोगितो धातोर्नान्यस्योगितो धातोरिति॥

Kashika

उग् इद् यत्र संभवति यथाकथंचित् तदुगिच्छब्दरूपम्, तदन्तात् स्त्रियां ङीप् प्रत्ययो भवति। भवती। अतिभवती। पचन्ती। यजन्ती॥ धातोरुगितः प्रतिषेधो वक्त व्यः॥ उखास्रत्। पर्णध्वत् ब्राह्मणी॥ अञ्चतेश्चोपसंख्यानम्॥ प्राची। प्रतीची। उदीची॥

Siddhanta Kaumudi

उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । भवन्ती । दीव्यन्ती । शप्श्यनोः (SK446) इति नुम् । उगिदचाम् (SK361) इति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । अनिदिताम् (SK415) इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची । प्रतीची ॥

Laghu Siddhanta Kaumudi

उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात्। भवती। भवन्ती। पचन्ती। दीव्यन्ती॥

Balamanorama

उगितश्च - उगितश्च । उक् प्रत्याहारः । उक् इद्यस्य स उगित् ।॒उगित॑ इति पञ्चम्यन्तम्, ते प्रातिपदिकादित्येतद्विशेष्यते, तदन्तविधिः ।उगिद्वर्णग्रहणवर्ज॑मित्युक्तेः ‘समासप्रत्ययविधौ’ इति प्रतिषेधो न । पूर्वसूत्रान्ङीबित्यनुवर्तते । तदाह-उगिदन्तादिति । उगिद्द्विविधं, प्रातिपदिकं प्रत्ययश्च । तत्र प्रातिपदिकमुदाहरति — भवतीति । सर्वादिगणे ‘भवतु’ इत्यव्युत्पन्नं प्रातिपदिकं पठितं, तस्य व्यपदेशिवत्त्वे उगदन्तत्वान्ङीप् । ङपावितौ ।आच्छीनद्योर्नुम्॒शप्श्यनोर्नित्य॑मिति नुम्न, शत्रन्तत्वाऽभावात् ।उगिदचा॑मित्यपि न सर्वनामस्थानत्वाऽभावात् । अथ द्वितीयमुगितमुदाहरति-पचन्तीति । पचेर्लटः शतरि शषि पररूपे पचच्छब्दः । तत्र शतृप्रत्यय उगित्, तदन्तं पचदिति प्रातिपदिकमिति तस्मान्ङीपिशप्श्यनोर्नि॑मिति नुमिति भावः । यदि तु सर्वादिगणे पठितं भवतु इत्येतत्भातेर्डवतुः॑इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम् । भूधातोः शतरि शपि ऊकारस्य गुणेऽवादेशे भवच्छब्दान्ङीपि तु,शप्श्यनोर्नित्य॑मिति नुमि भवन्तीति रूपम् । नच भवच्छब्दस्याऽप्युत्पन्नत्वे तस्य कथं व्यपदेशिवत्त्वेनोगिदन्तत्वं,व्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति वचनादिति वाच्यं, प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्तेः । ‘उगिदचामिति सूत्र’ इत्यादिग्रन्थो हलन्ताधिकारे गोमच्छब्दनिरूपणे व्याख्यातः । तेनेति । अञ्चुव्यतिरिक्तधातोरुगित्कार्याऽभावलाभेनेत्यर्थः । उखेति । उखा=कुण्डी । उखायाः रुआंसते, पर्णाद्ध्वंसतेइति विग्रहः ।पिठरं स्थाल्युखा कुण्ड॑मित्यमरः ।रुआंसु ध्वंसु अवरुआंसने॑ । सुपीत्यनुवृत्तौक्विप्चे॑ति क्विप्, उपपदसमासः, सुब्लुक्,अनिदिता॑मिति न लोपः, हल्ङ्यादिना सोर्लोपः,वसुरुआंसु॑इति दत्वमिति भावः । स्यादेवेति ।ङी॑बिति शेषः । प्राचीति । प्रपूर्वादञ्चतेः ‘ऋत्विक’ इत्यादिना क्विन्,अनिदिता॑मिति नलोपः । उगित्त्वान्ङीप्,अचः॑इत्यकारलोपेचौ॑इति दीर्घः ।

Tattvabodhini

उगितश्च - उगिच्छब्देन प्रातिपदिकं विशेष्यते, विशेषणेन तदन्तविधिः ।न च प्रत्ययविधौ प्रतिषेधः शङ्क्यः,अनुपसर्जना॑दित्यनेन स्त्रीप्रत्ययेषु तदन्तविधिरस्तीति ज्ञापनात्,उगिद्वर्णग्रहणवर्ज॑मितियेन विधि॑रिति सूत्र एवोक्तत्वाच्चेत्याशयेनाह — उगिदन्तादिति । अत्रोगित्प्रतिपदिकं, प्रत्ययश्चेति द्विविधं संभवति । आद्ये उगिदन्ते — भवन्तं महान्तं चातिक्रान्तै अतिभवती अतिमहतीत्थदाहरणम् । सर्वादिगणेभवतु॑इति पाठाद्भवच्छब्दस्योगित्त्वव्यपदेशः । महच्छशब्दस्य तु शतृवद्भावात् । न चैवंप्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधात्केवलाभ्यां भवन्महच्छब्दाभ्यां ङीम्न स्यादिति वाच्यम् । प्रातिपदिकाऽप्रातिपदिकसाधरण्येन शब्दमात्रमुगित्पदाभिधेयमुत्युक्तनिषेधाऽप्रवृत्तेरित्याशयेनोदाहरति -भवन्तीति । द्वितीयमुगिदन्तमुदाहरति — पचन्तीति । पचेर्लटः शतरिकर्तरि शप् । यदि तु सर्वादिगणेभवतु॑इति य उगित्पठितः सःभातेर्डवतु॑रिति व्युत्पाद्यते, तदाभवती॑ति द्वितीयोगिदन्तस्याप्युदाहरणं भवत्येव । शत्रन्तात्तु भवतेर्ङीपिशप्शयनो॑रिति नित्यो नुम् । भवन्ती । उखारुआदित्यादि । उखायाः रुआंसते, पर्णेभ्यो ध्वंसते ।रुआंसु ध्वंसु अव रुआंसने॑वस#उरुआंसु॑इति दत्वम् ।वनो न हश इति वक्तव्यम् । वनोर च ।व॑न्निति प्रत्ययेन तदन्तं प्रातिपदिकं गृह्रते । वन्नन्तेन त्वधिकृत प्रातिपदिकविशेषणात्तदन्तविधिरित्याह — वन्नन्तात्तदन्ताच्चेति ।येन विधिस्तदन्तस्ये॑त्यत्रस्वं रूप॑मिति सूत्रात्स्वमित्यनुवर्त्त्य स्वस्य चेति व्याख्यानादुभयं लभ्यत इथि भावः । यदि तु वन्नन्तमेव व्यपदेशिवद्भावेन वन्नन्तान्तमित्युच्यते, तर्हियेन विधि॑रित्यत्रस्व॑मित्यनुवर्त्त्यस्वस्य चे॑ति न व्याख्येयम् । न चात्रव्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधः शङ्क्यः, तस्य प्रातिपदिकत्वाऽभावाच्चेत्याहुः । सामान्यग्रहममिति । सूत्रेवन॑ इत्यनुबन्धरहितस्य ग्रहणात्तदनुबन्धपरिभाषा नोपतिष्ठत इति भावः । वन्ग्रहणे वन्नन्तं वन्नन्तान्तं च कथं लभ्यत इत्याशङ्कायामाह — प्रत्ययग्रहणे इत्यादि । तेनेति । वन्नन्तेनेत्यर्थः । तदन्तान्तमपिलभ्यत इति ।स्त्रिया॑मित्यधिकारेग्रहण वता प्रातिपदिकेने॑ति निषेधो न पर्वर्तते,अमहत्पूर्वे॑त्यादिज्ञापकागिति भावः । अन्ये त्वाहुः — वन्नन्तस्य वस्तुतः प्रातिपदकत्वेऽपि सूत्रे गृहीतस्य वन इत्यस्य प्रातिपदिकत्वं नास्तीत्युक्तत्वाद्ग्रहणवतेति निषेधशङ्कैव नास्तीति । सुत्वानमिति ।सुजयोर्ङ्वनिप् ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अतिधीवरीति । दधातेःअन्येभ्योऽपि दृश्यते॑इति क्वनिप् ।घुमास्थे॑तीत्त्वम् । भाष्ये तु ध्यायतेः क्वनपि संप्रसारणमिति स्थितम् । नस्य रेफादेशे कृतेऽप्येकदेशविकृतस्यानन्यत्वात्अल्लोपरोऽनः॑इति प्राप्नोति, अनो नकारान्तत्वविशेषणात्तु न भवतीतिआयुवमघोना॑मित्यत्रैव व्युत्पादितम् । शर्वरिति । शृधातोःअन्येभ्योऽपी॑त्यनेनैव वनिप् । गुणे कृते रपरत्वे च हशन्तात्परत्वेऽपि हशन्ताद्विहितत्वाभावान्ङीब्रायोरत्र निषेधो न । बहुव्रीहौ वा॥ बहुव्रीहौ वेति ।अन्यतरस्या॑मिति योगविभागदिदं लभ्यते, नत्वपूर्वं वचनमिति वक्ष्यते । बहुधीवरीति ।बहवो धीवानो यस्या नगर्या॑मिति विग्रहः । पक्षे डाविति ।डाबुभाभ्या॑मिति सूत्रेण । तथाच द्विवचनेबहुधीवर्यौ॒॑बहुधीवानौ॒॑बहुधीवेइति रूपत्रयं भवतीति भावः ।

Padamanjari

यथाकथञ्चिदिति । यदि वर्ण उगित् संभवति, यदि वा प्रत्ययः, अथापि प्रातिपदिकम् - सर्वथा यत्रैषामन्यतमः प्रकारः संभवतीत्येष यथाकथञ्चिदित्यस्यार्थः । एतदेव स्पष्टयति - तदुगिच्छब्दरूपमिति । प्रत्ययाप्रत्ययोः प्रातिपदिकाप्रातिपदिकयोः शब्दरूपमन्यपदार्थः, न प्रातिपदिकमेव, नापि प्रत्यय एवेत्यर्थः । तत्रोगिता प्रातिपदिकस्य विशेषणतदन्तविधिर्भवतीत्याह - तदन्तादिति । पचन्तीति । अत्र शतृप्रत्यय उगित् तदन्तं प्रातिपदिकम् - अतिभवती अतिमहतीत्यत्रापि भवति ।’ग्रहणवता प्रातिपदिकेन’ इत्ययं तु प्रतिषेधो यत्र सूत्रोपातं प्रातिपदिकस्यासाधारणं रूपं तत्रैव भवतीत्यत्रापि व्यपदेशिवद्भावेन भवति ।’व्यपदेशिवद्भावो’ प्रातिपदिकेनऽ इत्ययं तु निषेधः प्रातिपदिकस्यैवा साधारणरूपग्रहणे अतिगोमतीत्यत्रापि भवति । प्रत्ययग्रहणपरिभाषा तु प्रत्ययस्यैवासाधारणरूपग्रहणे भवति । घातोस्तूगितः प्रतिषेध इति । वक्तव्य इति शेषः । स तर्हि वक्तव्यः ? न वक्तव्यः, ठुगिदचाम्ऽ इत्यत्रोगित्वादेव सिद्धेऽञ्चतिग्रहणं नियमार्थम् - इह शास्त्रे उगितो यत्कार्यं विधीयते तद्धातोर्यदि भवति अञ्चतेरेवेति कार्यमात्रं नियम्यते, न नुमागम एव । अधातुग्रहणं चाधातुपूर्वस्यापि नुमर्थमिति तत्रैव वक्ष्यते । अपर आह - ठुगितश्चऽ इति योऽयं चशब्दः सोऽञ्चतेर्लुप्तनकारस्याकरणम्, विभक्तेश्च’सुपां सुलुक्’ इति लुक्, भाविनं चाकारलोपमाश्रित्य चेति निर्देशः कृतः, ततश्चाञ्चतिग्रहणं नियमार्थम् - ‘अकारनकारलोपयोश्चातन्त्रत्वात्’नाञ्चेः पूजायाम्’ इति लोपनिषेधविषयेऽपि ङीब् भवति, प्राञ्ची प्रत्यञ्ची ब्राह्मणी’ इति । उखास्रत्, पर्णध्वदिति ।’क्विप् च’ इत्यत्रानयोर्व्युत्पत्तिः कृता ॥

Nyaas

यथाकथञ्चित् इति। येन केनचित् प्रकारेण। यदि वर्ण उगित् सम्भवति, यदि प्रत्ययः, अथापि प्रातिपदिकम्, सर्वर्था यत्रैषामन्यतमः सम्भवति तत् उगिच्छब्दरुपम् इति। अनेनोगिच्छब्दरूपस्य विशेषणं न प्रातिपदिकस्येति दर्शयति। यदि प्रातिपदिकस्यैव विशेषमं स्यादिहैव स्यात् - भवती, महतीति; अर्वतीत्यत्र तु न स्यात्, अर्वणस्त्रसावनञः (6.4.127) इति नकारस्य त्रादेशः कृत इति वर्ण एव तकार उगित्, न प्रातिपदिकम्; गोमतीत्यत्र च न स्यात्, अत्रापि हि मतुप्प्रत्यय एवोगित्, न प्रातिपदिकम्; तस्मादुगिच्छब्दस्यैव विशेषणं युक्तमित्यभिप्रायः। तच्चोगिच्छब्दरूपं प्रातिपदिकस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह - तदन्तात् इत्यादि। यदि तर्ह्रुगिच्छब्दरूपान्तात् प्रातिपदिकान्ङीब्भवत्येवं सति भवतीति न सिध्यति, न ह्यत्रोगिच्छब्दरूपान्तं प्रातिपदिकं भवति, भवच्छब्दान्तादुगितः प्रातिपदिकादन्यस्य तदन्तस्याभावात्? नैष दोषः; व्यपदेशिवद्भावात् तदन्ताद्भविष्यति। ननु च व्यपदेशिवद्भावोऽप्रातिपदिकेन (शाक।प।65) इति व्यपदेशिद्भावेन नात्र भवितव्यम्? नैतदस्ति; न ह्रुगिदिति प्रातिपदिकग्रहणम्, किं तर्हि? प्रातिपदिकाप्रातिपद#इकग्रहणम्; वर्णप्रत्ययोरप्युगितोग्र्रहणात्। पचन्ती, यजन्ती इति। शत्रन्तान्ङीप्।धातोरुगितः प्रतिषेधः इति। प्रतिपाद्यत इति शेषः।अञ्चतेश्चोपसंख्यानम् इति। अञ्चतेर्ङीप्प्रत्ययस्य प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदमुभयत्र प्रतिपादनम् - पादोऽन्यतरस्याम् (4.1.8) इति सूत्रे अन्यतरस्याम् इति योगविभागः करिष्यते, स च उगितश्च (6.3.45) वनो र च (4.1.7) पादोऽन्यतरस्याम् (4.1.8) इत्येषां त्रयाणामपि योगानां शेषः। व्यवस्थितविभाषा च सा। तेन प्रातिपदिकादुगितच्छब्दरूपान्ताद्धातूगिच्चब्दान्तादञ्चतेरेव नित्यं ङीब्भवति, ततोऽन्येभ्यस्तु न भवत्येवेति।अन्ये त्वन्यथा प्रतिपादनं कुर्वन्ति - उखारुआत्, पर्णध्वदिति। क्रियाकारकसम्बन्धमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न भवति। स्त्रीशब्दसामानाधिकरण्यात्तु स्त्रीत्वप्रतीतिरापद्यते। न च स्त्रीयाम् (4.1.3) इत्यत्र स्त्रीसामानाधिकरण्यपक्षः स्थितः। प्राचीत्यादिषु तु स्त्रीत्वं विवक्षितम्, तेनेह भवतीकार इति। उखारुआत्, पर्णध्वत् इति। उखेन रुआंसते, पर्णानि ध्वंसत इति अन्येभ्योऽपि दृश्यन्ते (3.2.75) इति क्विप्, अन्येषामपि दृश्यते (6.3.137) इत्युखस्य दीर्घत्वम्। प्राचीति प्रपूर्वादञ्चतेः क्विन्, अचः (6.4.138) इत्यकारलोप), चौ (6.3.137) इत्युपसर्गस्य दीर्घत्वम्॥

Praudhamanorama

भवन्तीति। सर्वादिषु भवतु इत्युदित्पठितो ‘भातेर्डवतुः’ इति व्युत्पादितश्च। शत्रन्तात्तु ङीपि ‘शप्श्यनोः’ इति नित्यो नुम्।

Prakriyasarvasvam

यथाकथंचिदुगितः शब्दात् स्त्रियां ङीप् स्यात् । सर्वादिषु भवतु इत्युदित् पठ्यते । भवती ‘मघवा बहुलम्’ (६-४-१२८) इति तृत्वे उगित्त्वान्मघवती । श्वयुवेति प्रसारणन् त्वन्नन्तत्व एवेष्टम् । मतुप उगित्त्वात् श्रीमती । ईयसुनः श्रेयसी । एवं प्राप्तः श्रीमाननयेति प्राप्तश्रीमती । प्राप्तप्रेयसी । पुंसो डुंसुन्नन्तत्वेनोगित्त्वात् वीरपुंसी सभा । क्वसुः सेदिवस् ई । ‘वसोः सम्प्रसारणम्’ (६-४-१३१) इति वस्योत्त्वे वलादिनाशादिणनिवृत्तिः । सेदुस् ई । आदेशसत्वात् षः । सेदुषी । एवं विद्वस् ई । प्रसारणे विदुषी । शतृ—तन्वती ।

Vartika

धातोरुगितः प्रतिषेधः ।

Sutra Prayogas

  • निषेदुषीम् (रघुवंशम्): उगितश्च इति ङीप्।

  • सुदतीं (रघुवंशम्): उगितश्च इति ङीप्।

  • पेतुषी (रघुवंशम्): उगितश्च इति ङीप्।

  • निपेतुषी (रघुवंशम्): उगितश्च इति ङीप्।

  • वृषस्यन्तीं (रघुवंशम्): उगितश्च इति ङीप्।

  • सुदती (कुमारसम्भवम्): उगितश्च इति ङीप्।

  • निषेदुषी (कुमारसम्भवम्): उगितश्च इति ङीप्।

  • जरतीम् (किरातार्जुनीयम्): उगितश्च इति ङीप् प्रत्ययः।

  • गरीयसीर् (शिशुपालवधम्): उगितश्च इति ङीप्।

  • पटीयसीर् (शिशुपालवधम्): उगितश्च इति ङीप् ।

  • तदवयती (शिशुपालवधम्): उगितच इति ङीप्।

  • रसितवत्यपि (शिशुपालवधम्): उगितश्च इति ङीप्।

  • यती (शिशुपालवधम्): उगितश्च इति ङीप् ।

  • विष्वद्रीचीर् (शिशुपालवधम्): उगितश्च इति ङीप्।

  • यती (शिशुपालवधम्): उगितश्च इति ङीप्।