41016: यञश्च¶
Padacheda: यञः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते ।
स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य आशयः । **गर्गादिभ्यो यञ् (4.1.105) इत्यनेन सूत्रेण गर्गादिगणस्य शब्देभ्यः यः यञ्-प्रत्ययः पाठ्यते, तस्य विषये इदं सूत्रं प्रवर्तते** । यथा, गर्गादिभ्यो यञ् (4.1.105) इत्यनेन “गर्ग”-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । प्रक्रिया इयम् —
गर्गस्य गोत्रापत्यं स्त्री
→ गर्ग + यञ् + ङीप् [**गर्गादिभ्यो यञ्** (4.1.105) इति यञ् । ततः स्त्रीत्वं द्योतयितुम् **यञश्च** (4.1.16) इति ङीप्]
→ गार्ग + य + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ गार्ग् + य + ई [**यस्येति च** (6.4.148) इति गकारोत्तस्य अकारस्य लोपः]
→ गार्ग् + य् + ई [**यस्येति च** (6.4.148) इति यकारोत्तस्य अकारस्य लोपः]
→ गार्ग + ० + ई [**हलस्तद्धितस्य** (6.4.150) इति यकारलोपः]
→ गार्गी
एवमेव “वत्सस्य गोत्रापत्यं स्त्री = वात्सी” इत्यपि सिद्ध्यति ।
वार्त्तिकम् — <!अनपत्याधिकारस्थान्न ङीप् !>
<hl>प्रकृतसूत्रेण उक्तः ङीप्-प्रत्ययः केवलम् तस्यापत्यम् (4.1.92) इत्यस्य अधिकारे पाठितस्य यञ्-प्रत्ययस्य विषये एव भवति</qt> — इति अस्य वार्त्तिकस्य अर्थः । यथा —
द्वीपादनुसमुद्रं यञ् (4.3.10) इत्यनेन उक्तस्य यञ्-प्रत्ययस्य विषये इसं सूत्रं नैव प्रयुज्यते । अतएव “द्वीपे भवा” इत्यस्मिन् अर्थे “द्वीप”-शब्दात् द्वीपादनुसमुद्रं यञ् (4.3.10) इत्यनेन यञ्-प्रत्यये कृते ततः अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्ययः एव भवति । “द्वीपे भवा सा द्वैप्या” ।
“देवस्य अपत्यम् स्त्री” इत्यस्मिन् अर्थे “देव”-शब्दात् <!देवाद्यञञौ!> इति वार्त्तिकेन यञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रम् नैव प्रयुज्यते, यतः <!देवाद्यञञौ!> इति वार्तिकम् दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः (4.1.85) इत्यस्मिन् सूत्रे पाठितम् अस्ति, तत् सूत्रम् च अपत्याधिकारे नैव विद्यते । अतएव “देवस्य अपत्यम् स्त्री” इत्यत्र यञ्-प्रत्ययान्तात् अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “दैव्या” इत्येव शब्दः सिद्ध्यति ।
योगविभागः उत्तरार्थः
वस्तुतः प्रकृतसूत्रेण पृथग् रूपेण पाठितस्य यञ्-प्रत्ययस्य टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इति पूर्वस्मिन् सूत्रे एव निर्देशः भवितुम् अर्हतु । परन्तु अग्रिमसूत्रे प्राचां ष्फ तद्धितः (4.1.17) इत्यत्र केवलम् “यञ्” इत्यस्यैव अनुवृत्तिः इष्यते, अतः यञ्-प्रत्ययः प्रकृतसूत्रे पृथग् रीत्या निर्दिष्टः दृश्यते । यञ्-प्रत्ययस्य भिन्नसूत्रेण निर्देशः उत्तरसूत्रे अनुवर्तनार्थम् — इति आशयः ।
बाध्यबाधकभावः
<listsp> 1. गर्गादिभ्यो यञ् (4.1.105) इत्यस्मिन् सूत्रे निर्दिष्टे गर्गादिगणे विद्यमानानाम् “लोहित” इत्यस्मात् आरभ्य “कत” इति (प्रायेण उपत्रिंशत्) शब्दानां विषये यञन्तात् प्रातिपदिकात् प्रकृतसूत्रेण उक्तं ङीप्-प्रत्ययं बाधित्वा सर्वत्र लोहितादिकतन्तेभ्यः (4.1.18) इत्यनेन ष्फ-प्रत्ययः भवति । प्राचाम् आचार्याणां मतेन तु गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ङीप्-प्रत्ययं बाधित्वा यञन्तात् “ष्फ” इत्येव प्रत्ययः विधीयते, इति प्राचां ष्फ तद्धितः (4.1.17) इत्यनेन सूत्रेण उच्यते । 2. आवट्याच्च (4.1.75) इत्यनेन “आवट्य” इति यञन्तशब्दात् प्रकृतसूत्रेण उक्तं ङीप्-प्रत्ययं बाधित्वा चाप्-प्रत्ययः भवति । </listsp>
Vasu English Summary¶
The affix ङीप् is used in denoting the feminine after a प्रातिपदिक (Nominal Stem) ending in यञ् – गर्गादिभ्यो यञ् (4.1.105).
Vasu English Translation¶
The affix ङीप् is used in denoting the feminine after a प्रातिपदिक (Nominal Stem) ending in यञ् – गर्गादिभ्यो यञ् (4.1.105). Thus गार्ग्य + ङीप् = गार्ग्य + ई (6.4.148) = गार्ग् + ई (6.4.150) = गार्गी ‘a female descendant of Garga’; so also वात्सी ॥
Vart:- This rule applies when the affix यञ् denotes a descendant, and not otherwise. Therefore ई will not be applied to form the feminine of द्वैप्य of द्वीप् + यञ् (4.3.10). Its feminine will be द्वैप्या ‘a living on or relating to an island’.
The separation of this sutra from the last, (for the affix यञ् could well have been included in the same), is for the sake of the subsequent aphorisms; in which the anuvritti of यञ् only runs and not of others.
Bhashya¶
यञ्ञश्च (1290) (ङीबधिकरणम्) (5146 आक्षेपवार्तिकम् ॥ 1 ॥) - आपत्यग्रहणं द्वीपाद्यञ्ञः प्रतिषेधार्थम् - (भाष्यम्) आपत्यग्रहणं कर्तव्यम्, द्वीपाद्यञ्ञः प्रतिषेधार्थम्। इह मा भूत् -द्वैप्येति। तत्तर्हि वक्तव्यम्॥ (समाधानभाष्यम्) न वक्तव्यम्। नैवं विज्ञायते -कञ्ञ्व्करपो यञ्ञश्चेति। कथं तर्हि? कञ्ञ्व्करपोऽयञ्ञश्चेति॥
Kashika¶
ङीबित्येव। यञन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। गार्गी। वात्सी॥ आपत्यग्रहणं कर्तव्यम्॥ इह मा भूत् — द्वीपादनुसमुद्रं यञ् (४.३.१०) — द्वैप्या। योगविभाग उत्तरार्थः॥
Siddhanta Kaumudi¶
यञन्तात्स्त्रियां ङीप्स्यात् । आकारलोपे कृते ॥
Laghu Siddhanta Kaumudi¶
यञन्तात् स्त्रियां ङीप्स्यात्। अकारलोपे कृते -
Balamanorama¶
यञश्च - यञश्च । यञ इति प्रत्ययत्वात्तदन्तग्रहणम् । ‘ऋन्नेभ्यः’ इत्यतो ङीबित्यनुवर्तते । स्त्रियामित्यधिकृतम् । तदाह — यञन्तादिति । यद्यपिटिड्ढाणञि॑ति पूर्वसूत्र एव यञ्ग्रहणं कर्तुमुचितं ‘तथापि ष्फ तद्धितः’ इत्युत्तरसूत्रे यञ एवानुवृत्तये पृथक् सूत्रमिति भावः । अकारलोपे कृते इति । गार्गीत्युदाहरणं वक्ष्यति । गर्गस्यापत्यं स्त्री इत्यर्थेगर्गादिभ्यो यञि॑ति यञ्, आदिवृद्धिः,यस्येति चे॑ति गकारादकारस्य लोपः । गाग्र्यशब्दान्भीपिहलस्तद्धितस्ये॑ति यकारलोपात्परत्वात्यस्येति चे॑ति यकारादकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः ।
Tattvabodhini¶
यञश्च - यञश्च । योगविभाग उत्तरार्थः ।प्राचां ष्फ तद्धितः॑इत्यत्र यञ एवानुवृत्तिर्यथा स्यात् ।
Padamanjari¶
आपत्यग्रहणमिति । अपत्ये भव आपत्यः, यञ्, आपत्यादिति सूत्रं कर्तव्यमित्यर्थः । द्वैप्येति । भवादावर्थे यञ् । योगविभाग उतरार्थ इति । उतरत्र यञ एवानुवृत्तिर्यथा स्यात्, टिदादीनां मा भूदिति ॥
Nyaas¶
गार्गी। वात्सी इति। गर्गवत्सशब्दाभ्यां स्त्रियामपत्ये गर्गादिभ्यो यञ् (4.1.105) इति यञ्, ङीप्, यस्येति च (6.4.148) इत्यकारस्य लोपः, हलस्तद्धितस्य (6.4.150) इति यकारस्य च।अपत्यग्रहणं कर्तव्यम् इति। अपत्यं गृह्रते येन तदपत्यग्रहमम्। व्याख्यानमेतदुक्तं भवति - तथा व्याख्यानं कर्तव्यं यथा यञो विशेषणमपत्यं गृह्रेत्। तत्रेदं व्याख्यानम् - उत्तरसूत्रे विकल्पार्थं प्राचामिति वचनमनेनापि योगेन सम्बध्यते,व्यवस्थितविभाषा च सा विज्ञायते, तेनापत्येऽर्थे यो यञ् विहितस्तदन्तान्नित्यं भवति, यस्तु द्वीपशब्दाज्जातादावर्थे विहितदन्तान्न भवतीति। अथ योगविभागः किमर्थः? न पूर्वसूत्र एव अञ्ग्रहणं क्रियेतेत्यत आह - योगविभाग उत्तरार्थः इति। उत्तरसूत्रे यञन्तादेव ष्फो यथा स्यात्, टिदादिभ्यो माभूदिति॥
Prakriyasarvasvam¶
यञन्ताद् ङीप् स्यात् । ‘यस्य—’ (६-४-१४८) इति लोपे ‘हलस्तद्धितस्य’ (६-४-१५०) इति यलोपः । गार्गी । अनपत्याद् यञो न ङीप् । द्वीपे भवा द्वैप्या ॥
Vartika¶
आपत्यग्रहणं कर्तव्यम् ।