41015: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः

Padacheda: टित्-ढ-अण्-अञ्-द्वयसच्-दघ्नच्-मात्रच्-तयप्-ठक्-ठञ्-कञ्-क्वरपः | S | 5 | 1 |

Sutrartha

टित्-शब्दाः, ढकारादिप्रत्ययान्तशब्दाः, तथा च ‘अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्’ — एतेषु कश्चन प्रत्ययः यस्य शब्दस्य अन्ते विद्यन्ते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।

स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । टित्-शब्दाः, ढकारादिप्रत्ययान्तशब्दाः, तथा च “अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्” — एतेषु कश्चन प्रत्ययः यस्य शब्दस्य अन्ते विद्यन्ते, तस्मात् स्त्रीत्वं द्योतयितुम् **अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्यये प्राप्ते; तद्बाधित्वा ङीप्-प्रत्ययः भवति** — इति अस्य सूत्रस्य आशयः ।

1. ह्रस्व-अकारान्ताः टित्-शब्दाः

“ल्युट्”, “ण्युट्”, “ट” एतादृशैः टित्-प्रत्ययैः निर्मितेभ्यः ह्रस्व-अकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । अपि च, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134) इत्यस्मिन् सूत्रे पाठिते पचादिगणे विद्यमानेभ्यः “देवट्”, “नदट्” आदिभ्यः टित्-प्रातिपदिकेभ्यः अपि स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । यथा — (i) करणाधिकरणयोश्च (3.3.117) इत्यनेन करणे अर्थे “लिख्”-धातोः ल्युट्-प्रत्ययेन “लेखन” इति शब्दे सिद्धे, तत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । प्रक्रिया इयम् —

लिख्यते अनया
= लिखँ (अक्षरविन्यासे, (6.92))
→ लिख् + ल्युट् + ङीप्  [**करणाधिकरणयोश्च** (3.3.117) इति ल्युट् । स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ लिख् + अन + ई [टकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । **युवोरनाकौ** (7.1.1) इति यु-प्रत्ययस्य अन-आदेशः]
→ लेख् + अन + ई [**पुगन्तलघूपधस्य च** (7.3.86) इति उपधागुणः]
→ लेख् + अन् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ लेखनी
लिख्यते अनया सा "लेखनी"
  1. चरेष्टः (3.2.16) इति सूत्रेण “चर्”-धातोः सुबन्ते उपपदे ट-प्रत्ययः भवति । प्रत्ययस्य टित्त्वात् तत्र स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः विधीयते । यथा —

कुरुषु चरति सा
= चरँ (गतौ भक्षणे च, (1.640))
→ कुरुषु + चर् + ट + ङीप् [**चरेष्टः** (3.2.16) इति सप्तम्यन्ते  उपपदे ट-प्रत्ययः । ततः स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ कुरु + चर् + अ + ई [टकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । **उपपदमतिङ्** (2.2.19) इति उपपदसमासः, **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ कुरु + चर् + ० + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ कुरुचरी
कुरुषु चरति सा "कुरुचरी"
  1. सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च (4.3.23) इति सूत्रेण “अद्य” इत्यस्मात् कालवाचिनःअव्ययात् “ट्यु” इति प्रत्यये कृते “अद्यतन” इति शब्दः सिद्ध्यति । अत्रापि प्रत्ययस्य टित्त्वात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः एव विधीयते । प्रक्रिया इयम् —

अद्य भवा
= अद्य + तुट् +  ट्यु + ङीप् [**सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च** (4.3.23) इति सूत्रेण ट्यु-प्रत्ययः, तस्य तुट्-आगमः । तः स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ अद्य + त् + अन [प्रत्ययटकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । यु-इत्यस्य **युवोरनाकौ** (7.1.1) इति अन-आदेशः]
→ अद्यतन् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ अद्यतनी
अद्य भवा सा "अद्यतनी"
  1. तस्य पूरणे डट् (5.2.48) इत्यनेन सङ्ख्यावाचिभ्यः शब्देभ्यः पूरणार्थे डट्-प्रत्ययः भवति । अयम् टित्-प्रत्ययः, अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —

एकादशानां पूरणी
→ एकादशानाम् + डट् + ङीप् [**तस्य पूरणे डट्** (5.2.48) इति डट् । ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→‌ एकादशन् + अ + ई [**कृत्तद्धितसमासाश्च** (1.2.46) इति तद्धितान्तस्य प्रातिपदिकसंज्ञा, ततः **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ एकादश् + अ + ई [**टेः** (6.4.143) इति टिलोपः]
→ एकादश् + ० + ई [**यस्येति च** (6.4.148) इति  अकारलोपः]
→ एकादशी
  1. नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134) इत्यस्मिन् सूत्रे विद्यमाने पचादिगणे “चरट्”, “मोदट्”, “देवट्” इत्यादीनि अनेकानि प्रातिपदिकानि इत्संज्ञकटकारेण सह पाठितानि सन्ति । एतेषु प्रातिपदिकेषु विद्यमानस्य इत्संज्ञक-टकारस्य प्रयोजनम् अपि प्रकृतसूत्रेण ङीप्-प्रत्ययविधानम् इत्येव ज्ञेयम् । यथा —

दीव्यति सा
= दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, (4.1))
→ दिव् + अच्  [**नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इत्यनेन पचादिगणत्वात् अच्-प्रत्ययः ]
→ देवट् + ई [दिव्-धातोः अच्-प्रत्ययान्तम् "देवट्" इति रूपम् पचादिगणे निर्दिष्टम् अस्ति, तदेव स्वीक्रियते ।तत्र टित्-निर्देशसामर्थ्यात् स्त्रीत्वे **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्-प्रत्ययः]
→ देव् + ० + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→‌ देवी

एवमेव “मोदते सा = मोदट् + ङीप् → मोदी”, “चरति सा = चरट् + ङीप् → चरी” आदीनि प्रातिपदिकानि सिद्ध्यन्ति । (vi) धातुपाठे “धेट्” (पाने, (1.1050)) इति धातुः इत्संज्ञक-टकारेण सह पाठितः अस्ति । अत्रापि इत्संज्ञकटकारस्य प्रयोजनम् प्रकृतसूत्रेण ङीप्-प्रत्ययविधानम् इत्येव वर्तते । नासिकास्तनयोर्ध्माधेटोः (3.2.29) इति सूत्रेण धेट्-धातोः खश्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् तस्मात् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —

स्तनम् धयति सा
→ धेट् (पाने, (1.1050))
→ स्तनम् + धे + खश् + ङीप् [**नासिकास्तनयोर्ध्माधेटोः** (3.2.29) इति खश्-प्रत्ययः । ततः स्त्रीत्वे धेट्-धातोः टित्त्वसामर्थ्यात् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इत्यनेन ङीप् एव भवति ]
→ स्तन + धे + अ + ई [**उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति उपपदस्य सुप्-प्रत्ययस्य लुक्]
→ स्तन + धे + शप् + अ + ई [सार्वधातुकप्रत्यये परे **कर्तरि शप्** (3.1.68) इति शप्]
→ स्तन + मुम् + धे + अ + अ + ई [**अरुर्द्विषदजन्तस्य मुम्** (6.3.67) इति मुमागमः]
→ स्तनम् + धय् + अ + अ + ई [**एचोऽयवायावः** (6.1.78) इति अयादेशः ]
→ स्तनम् + धय् + अ + ई [**अतो गुणे** (6.1.97) इति द्वयोः अकारयोः पररूपैकादेशः]
→ स्तनम् + धय् + ० + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ स्तनंधयी [**मोऽनुस्वारः** (8.3.23) इति मकारस्य अनुस्वारः]
→ स्तनंधयी, स्तनन्धयी [**वा पदान्तस्य** (8.4.59) इति अनुस्वारस्य विकल्पेन परसवर्णः]

<note> 1. “लट्”, “लोट्” इत्यादयः लकारप्रत्ययाः यद्यपि टितः सन्ति तथापि तेषां प्रयोगेण प्रातिपदिकानि नैव सिद्ध्यन्ति; अतः तेषां विषये इदं सूत्रं नैव प्रवर्तते । 2. लट्-लकारस्य टित्त्वम् लकारस्य स्थाने जायमानयोः “शतृ”, “शानच्” इति प्रत्यययोः विषये स्थानिवद्भावेन नैव अतिदिश्यते, यतः तत्र ** लाश्रयमनुबन्धकार्यं नादेशानाम्** इति परिभाषया तस्य निषेधः कृतः अस्ति । अतः शतृ/शानच्-प्रत्ययौ टितौ नैव स्वीकर्तव्यौ । अनेनैव कारणेन “लिट्”-लकारस्य टित्त्वम् “क्वसु”, “कानच्” इत्येतयोः विषये, तथा च “लृट्”-लकारस्य टित्त्वम् “शतृ”, “शानच्” इत्येतयोः विषये नैव अतिदिश्यते । 3. आगमेषु विद्यमानः इत्संज्ञकः टकारः आद्यन्तौ टकितौ (1.1.46) इत्यनेन आद्यवयावर्थः अस्ति, न हि प्रकृतसूत्रेण ङीप्-संज्ञाविधानार्थः । अस्य ज्ञापकरूपेण सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च (4.3.23) इत्येव सूत्रं दीयते । अस्मिन् सूत्रे यद्यपि “तुट्” इति आगमे टकारः इत्संज्ञकरूपेण विद्यते, तथापि “ट्युल्”-प्रत्यये पुनः इत्संज्ञकः टित्कार्यार्थम् (इत्युक्ते, प्रकृतसूत्रेण ङीप्-प्रत्ययस्य विधानार्थम्) टकारः स्थापितः अस्ति । अनेन इदं स्पष्टी भवति यत् आगमेषु विद्यमानः टकारः केवलम् आद्यवयवविधानार्थः अस्ति, न हि स्त्रीप्रत्ययविधानार्थः । </note>

2. ढकारादिप्रत्ययः

प्रकृतसूत्रे विद्यमानः इति शब्दः ढकारादिप्रत्ययानाम् (इत्युक्ते, ढक्, ढञ् इत्यादीनां) निर्देशं करोति । कानिचन उदाहरणानि एतानि — (i) “विनतायाः अपत्यं स्त्री” इत्यत्र “विनता”-शब्दात् अपत्यार्थे स्त्रीभ्यो ढक् (4.1.120) इत्यनेन ढक्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रत्ययस्य ढित्त्वात् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति —

विनतायाः + ढक् + ङीप् [**स्त्रीभ्यो ढक्** (4.1.120) इति ढक्, **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ विनता + ढ + ई [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ विनता + एय + ई [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इत्यनेन ढकारस्य एय्-आदेशः]
→ वैनता + एय + ई [**किति च** (7.2.118) इति आदिवृद्धिः]
→ वैनत् + एय + ई [**यस्येति च** (6.4.148) इति आकारलोपः]
→ वैयतेय् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ वैनतेयी
  1. “वस्ति” (A type of garment worn below the waistline) इत्यस्मात् शब्दात् इवार्थे (to indicate similarity) वस्तेर्ढञ् (5.3.101) इति सूत्रेण ढञ्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —

वस्तिः इव इयं शाटिका
→ वस्ति + ढञ् + ङीप् [**स्त्रीभ्यो ढक्** (4.1.120) इति ढक्, **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ वस्ति + एय + ई [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इत्यनेन ढकारस्य एय्-आदेशः]
→ वास्ति + एय + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ वास्त् + एय + ई [**यस्येति च** (6.4.148) इति इकारलोपः]
→ वास्तेय् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→‌ वास्तेयी
  1. “ग्रीवायां भवा” इत्यस्मिन् अर्थे मालायाः (अलङ्कारस्य) निर्देशं कर्तुम् “ग्रीवा” शब्दात् कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु (4.2.96) इत्यनेन ढकञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति —

ग्रीवायां भवा
= ग्रीवायां + ढकञ् + ङीप् [**तत्र भवः** (4.3.53) इति शैषिके अर्थे **कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु** (4.2.96) इत्यनेन ढकञ्, ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इत्यनेन ङीप्]
→ ग्रीवा + ढक + ङीप् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ ग्रीवा + एयक + ई [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ढकारस्य एयादेशः]
→ ग्रैवा + एयक + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ ग्रैव् + एयक + ई [**यस्येति च** (6.4.148) इति आकारलोपः]
→ ग्रैवेयक् + ई [**यस्येति च** (6.4.148) इति आकारलोपः]
→ ग्रैवेयकी

<note> 1. प्रत्ययानाम् आदौ विद्यमानस्य ढकारस्य प्रयोजनाभावात् न हि कुत्रचित् इत्संज्ञा भवति; अपि तु तस्य आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इत्यनेन एय्-आदेशः भवति । 2. वस्तुतः अष्टाध्याय्यां “ढ” इत्याख्यः कश्चन प्रत्ययः शिलायाः ढः (5.3.102) इत्यनेन दीयते । परन्तु अस्य प्रत्ययस्य विषये प्रकृतसूत्रं नैव प्रयुज्यते, यतः शिलायाः ढः (5.3.102) इत्यनेन “शिलेय” इत्येव शब्दः सिद्ध्यति, सः च केवलं नपुंसकलिङ्गे एव प्रयुज्यते । अतः, प्रकृतसूत्रे विद्यमानः ‘ढ’ इति शब्दः ढकारादिप्रत्ययानाम् निर्देशवाचकरूपेण एव स्वीक्रियते । </note>

3. अण्-प्रत्ययः

तद्धितसंज्ञकः कृत्संज्ञकः वा अण्-प्रत्ययः यस्य अन्ते अस्ति तस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । यथा — (i) “ इन्द्रः अस्याः देवता” इत्यस्मिन् अर्थे “इन्द्र”-शब्दात् सास्य देवता (4.2.24) इत्यनेन अण्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति —

इन्द्रः अस्य देवता
= इन्द्रः + अण् + ङीप् [**सास्य देवता** (4.2.24) इत्यस्मिन् अर्थे **प्राग्दीव्यतोऽण्** (4.1.83) इत्यनेन अण् । ततः स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ इन्द्र + अ + ई [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ ऐन्द्र + अ + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ ऐन्द्र् + अ  + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ ऐन्द्र् + ० + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ ऐन्द्री
  1. “कुम्भम् करोति सा” इत्यस्मिन् अर्थे “कुम्भम्” इति उपपदस्य उपस्थितौ कृ-धातोः कर्मण्यण् (3.2.1) इत्यनेन अण्-प्रत्ययः विधीयते, ततः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति —

कुम्भम् करोति सा
डुकृञ् (करणे, (8.10))
→ कुम्भम् + कृ + अण् + ई [**कर्मण्यण्** (3.2.1) इत्यण् । ततः स्त्रीत्वे **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ कुम्भ + कृ + अ + ई [**उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ कुम्भ + कार् + अ + ई [**अचो ञ्णिति** (7.2.115) इति ऋकारस्य वृद्धिः आकारः । **उरण् रपरः** (1.1.51) इति सः रपरः]
→ कुम्भ + कार् + ० + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ कुम्भकारी

अस्मिन् सन्दर्भे परिभाषेन्दुशेखरे ताच्छीलिके णेऽण्कृतानि भवन्ति इति काचित् परिभाषा विद्यते । अण्-प्रत्ययविशिष्टं कार्यं कुत्रचित् ताच्छीलिके अर्थे प्रयुक्तस्य ण-प्रत्ययस्य विषये अपि भवति — इति अस्याः परिभाषायाः आशयः । यथा, “चुरा शीलम् अस्याः” इत्यत्र “चुरा”-शब्दात् छत्रादिभ्यो णः (4.4.62) इत्यनेन ताच्छीलिके अर्थे ण-प्रत्यये कृते; यद्यपि ण-प्रत्ययस्य प्रकृतसूत्रे ग्रहणं न क्रियते तथापि ताच्छीलिके णेऽण्कृतानि भवन्ति इत्यनया परिभाषया अत्रापि स्त्रीत्वे विवक्षिते अण्-प्रत्ययसदृशः ङीप्-प्रत्ययः एव विधीयते, येन “चौरी” इति रूपं सिद्ध्यति । एवमेव, “छत्रम् शीलम् अस्याः सा = छत्र + ण + ङीप् → छात्री”, “तपः शीलम् अस्याः सा = तपस् + अण् + ङीप् → तापसी” इत्यादयः शब्दाः अपि सिद्ध्यन्ति । <note> 1. ताच्छीलिके णेऽण्कृतानि भवन्ति इत्यनया परिभाषया केवलम् ताच्छीलिकेषु अर्थेषु विहितः ण-प्रत्ययः एव अण्-प्रत्ययसदृशं कार्यं करोति । अतः तदस्यां प्रहरणमिति क्रीडायाम् णः (4.2.57) इत्यादिभिः सूत्रैः विहितस्य ण-प्रत्ययस्य विषये इयं परिभाषा न प्रवर्तते यतः तत्र ण-प्रत्ययस्य विधानं ताच्छीलिके अर्थे नैव कृतम् अस्ति । 2. “छात्र”-शब्दस्य स्त्रीत्वे “छात्री” इति ङीप्-प्रत्ययान्तशब्दः नैव साधु अपि तु “छात्रा” इति टाबन्तः शब्दः एव साधु इति अपि केचन वैयाकरणाः मन्यन्ते । ताच्छीलिके णेऽण्कृतानि भवन्ति इति परिभाषा अनित्या अस्ति, अतः सा सर्वत्र नैव उपयुज्यते — इति तेषाम् आशयः अस्ति । </note>

4. अञ्-प्रत्ययः

तद्धितसंज्ञकः अञ्-प्रत्ययः यस्य शब्दस्य अन्ते विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा — (i) “पृथिव्याः इयम्” इत्यस्मिन् अर्थे “पृथिवी”-शब्दात् उत्सादिभ्योऽञ् (4.1.86) इत्यनेन अञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —

पृथिव्याः + अञ् + ङीप् [**उत्सादिभ्योऽञ्** (4.1.86) इति अञ्, ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ पृथिवी + अ + ई [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ पार्थिवी + अ + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः, **उरण् रपरः** (1.1.51) इति सः रपरः]
→ पार्थिव् + अ + ई [**यस्येति च** (6.4.148) इति ईकारलोपः]
→ पार्थिव् + ०‌ + ई [**यस्येति च** (6.4.148) इति ईकारलोपः]
→ पार्थिवी
  1. “व्यावक्रुश्यति” इत्यस्मिन् अर्थे कर्मव्यतिहारे गम्यमाने “वि + आ + अव + क्रुश्”-धातोः कर्मव्यतिहारे णच् स्त्रियाम् (3.3.43) इत्यनेन कृत्संज्ञके णच्-प्रत्यये कृते ततः णचः स्त्रियामञ् (5.4.14) इत्यनेन तद्धितसंज्ञकः अण्-प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —

व्यावक्रुश्यति इति
क्रुश (आह्वाने, रोदने च, (1.992))
→ वि + आ + अव + क्रुश् + णच् + अञ् + ङीप् [ **कर्मव्यतिहारे णच् स्त्रियाम्** (3.3.43) इति णच्, ततः नित्यम् **णचः स्त्रियामञ्** (5.4.14) इति अञ्; ततः स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ वि + आ + अव + क्रोश् + अ + अ + ई [**पुगन्तलघूपधस्य च** (7.3.86) इति उपधागुणः]
→ वि + आ + अव + क्रोश् + ० + अ + ई [**यस्येति च** (6.4.148) इति णच्-प्रत्ययस्य अकारस्य लोपः]
→ वि + आ + अव + क्रोश् + ० + ० + ई [**यस्येति च** (6.4.148) इति अञ्-प्रत्ययस्य अकारस्य लोपः]
→ व्यावक्रोशी [यणादेशः, सवर्णदीर्घादेशः]

5. द्वयसच्-दघ्नच्-मात्रच्-प्रत्ययाः

तद्धितसंज्ञकाः द्वयसच्-दघ्नच्-मात्रच्-प्रत्ययाः प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इति सूत्रेण पाठ्यन्ते । एते प्रत्ययाः येषाम् अन्ते सन्ति तेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा, “ऊरुः प्रमाणम् अस्याः नद्याः” इत्यस्मिन् अर्थे “ऊरु” शब्दात् प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इत्यनेन एते त्रयः अपि प्रत्ययाः, ततश्च ङीप्-प्रत्ययः विधीयते —

ऊरुः प्रमाणम् अस्याः नद्याः
= ऊरुः + द्वयसच् / दघ्नच् / मात्रच् + ङीप् [**प्रमाणे द्वयसज्दघ्नञ्मात्रचः** (5.2.37) इत्यनेन द्वयसच् / दघ्नच् / मात्रच् एते त्रयः प्रत्ययाः (पृथग् रीत्या) विधीयन्ते । अग्रे स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्-प्रत्ययः भवति ]
→ ऊरु + द्वयस / दघ्न / मात्र + ई [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक् ]
→ ऊरु + द्वयस् / दघ्न् / मात्र् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ ऊरुद्वयसी / ऊरुदघ्नी / ऊरुमात्री
उरुः प्रमाणम् अस्याः इति "ऊरुद्वयसी, ऊरुदघ्नी, ऊरुमात्री वा नदी ।"

6. तयप्-प्रत्ययः

सङ्ख्यावाचिशब्देभ्यः संख्याया अवयवे तयप् (5.3.42) इत्यनेन तद्धितसंज्ञकः तयप्-प्रत्ययः विधीयते । अयं प्रत्ययः यस्य अन्ते अस्ति तस्मात् शब्दात् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा, “द्वौ अवयवौ अस्याः” इत्यस्मिन् अर्थे “द्वि” शब्दात् संख्याया अवयवे तयप् (5.3.42) इत्यनेन तयप्-प्रत्यये कृते ततः प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —

द्वौ अवयवौ अस्याः
= द्वौ + तयप् + ङीप् [**संख्याया अवयवे तयप्** (5.3.42) इत्यनेन तयप्-प्रत्ययः, ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्-प्रत्ययः]
→ द्वि + तय + ई [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ द्वि + तय् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ द्वितयी

अननैव प्रकारेण “त्रयः अवयवाः अस्याः = त्रि + तयप् + ङीप् → त्रितयी”, “चत्वारः अवयवाः अस्याः = चतुर् + तयप् + ङीप् → चतुष्टयी” इत्येताः शब्दाः अपि सिद्ध्यन्ति । </pr>

7. ठक्-प्रत्ययः

तद्धितसंज्ञकः ठक्-प्रत्ययः यस्य शब्दस्य अन्ते विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा — (i) “अक्षेण दीव्यति सा” इत्यस्मिन् अर्थे तेन दीव्यति खनति जयति जितम् (4.4.2) इत्यनेन सूत्रेण “अक्ष”-शब्दात् ठक्-प्रत्यये कृते तत्र स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —

अक्षैः दीव्यति सा
= अक्षैः + ठक् + ङीप् [**तेन दीव्यति खनति जयति जितम्** (4.4.2) इति ठक्, ततः स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ अक्ष + ठ + ई [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ अक्ष + इक + ई  [**ठस्येकः** (7.3.50) इति ठकारस्य इक्-आदेशः । ]
→ आक्ष + इक + ई [**किति च** (7.2.118) इति आदिवृद्धिः]
→ आक्ष् + इक + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ आक्ष् + इक् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ आक्षिकी
  1. अङ्गुलि-शब्दात् अङ्गुल्यादिभ्यष्ठक् (5.3.108) इत्यनेन इवार्थे ठक्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति —

अङ्गुलिः इव इयम्
→ अङ्गुलि + ठक् + ङीप् [ **अङ्गुल्यादिभ्यष्ठक्** (5.3.108) इति ठक्, ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ अङ्गुलि + इक + ई [ठक्-प्रत्ययस्य ककारस्य इत्संज्ञा, लोपः । **ठस्येकः** (7.3.50) इति ठकारस्य इक-आदेशः]
→ अङ्गुल् + इक + ई [**यस्येति च** (6.4.148) इति इकारलोपः]
→ अङ्गुल् + इक् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ अङ्गुलिकी

8. ठञ्-प्रत्ययः

तद्धितसंज्ञकः ठञ्-प्रत्ययः यस्य शब्दस्य अन्ते विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा — (i) “लवणम् अस्याः पण्यम्” अस्मिन् अर्थे “लवण”शब्दात् लवणाट्ठञ् (4.4.52) इत्यनेन ठञ्-प्रत्ययः भवति; ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति ।

लवणम् अस्य पण्यम्
= लवणम् + ठञ् + ङीप् [**तदस्य पण्यम्** (4.4.51) इत्यस्मिन् अर्थे **लवणाट्ठञ्** (4.4.52) इत्यनेन ठञ्-प्रत्ययः । स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ लवण + ठ + ई **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ लवण + इक + ई  [**ठस्येकः** (7.3.50) इति ठकारस्य इक्-आदेशः । ]
→ लावण + इक + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ लावण् + इक + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ लावण् + इक् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ लावणिकी
  1. “लोके विदिता” इत्यस्मिन् अर्थे “लोक” शब्दात् लोकसर्वलोकाट्ठञ् (5.1.44) इत्यनेन ठञ्-प्रत्ययः भवति, ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति ।

लोके विदिता
= लोके + ठञ् + ङीप् [**तत्र विदित इति च** (5.1.43) इत्यस्मिन् अर्थे **लोकसर्वलोकाट्ठञ्** (5.1.44) इत्यनेन ठञ्-प्रत्ययः । स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ लोक + ठ + ई **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ लोक + इक + ई  [**ठस्येकः** (7.3.50) इति ठकारस्य इक्-आदेशः । ]
→ लौक + इक + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ लौक् + इक + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ लौक् + इक् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ लौकिकी

9. कञ्-प्रत्ययः

त्यदादिषु दृशोऽनालोचने कञ् च (3.2.60) इत्यनेन दृश्-धातोः कञ्-प्रत्यये कृते अग्रे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा —

सः इव दृश्यते या
= तद् + दृश् + कञ् + ङीप् [**त्यदादिषु दृशोऽनालोचने कञ् च** (3.2.60) इति कञ्-प्रत्ययः । ततः स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ तआ + दृश् + अ + ई [**आ सर्वनाम्नः** (6.3.91) इति आकारः]
→ तादृश् + अ + ई [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः]
→ तादृश् ० + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ तादृशी

एवमेव, “एषः इव दृश्यते या = एतादृशी”, “ कः इव दृश्यते या = कीदृशी” इति शब्दाः सिद्ध्यन्ति ।

10. क्वरप्-प्रत्ययः

इण्नश्जिसर्त्तिभ्यः क्वरप् (3.2.163) तथा गत्वरश्छ (3.2.164) इति द्वयोः सूत्रयोः कृत्-संज्ञकः क्वरप्-प्रत्ययः विधीयते । अयं प्रत्ययः यस्य अन्ते अस्ति, तस्मात् स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः भवति । यथा — (i). “नश्यति इति शीलम् अस्य” अस्मिन् अर्थे नश्-धातोः क्वरप्-प्रत्यये कृते ततः स्त्रीत्वे विवक्षिते प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति ।

नश्यति इति शीलम् अस्य
= णशँ (अदर्शने, (4.91))
→ नश् + क्वरप् + ङीप् [**इण्नश्जिसर्त्तिभ्यः क्वरप्** (3.2.163) इति क्वरप् । ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ नश् + वर + ई [इत्संज्ञालोपः]
→ नश् + वर् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ नश्वरी

(ii). “जयति इति शीलम् अस्य” अस्मिन् अर्थे जि-धातोः क्वरप्-प्रत्यये कृते ततः स्त्रीत्वे विवक्षिते प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति ।

जयति इति शीलम् अस्य
= जि (अभिभवे, (1.1096))
→ जि + क्वरप् + ङीप् [**इण्नश्जिसर्त्तिभ्यः क्वरप्** (3.2.163) इति क्वरप् । ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ जि + वर + ई [इत्संज्ञालोपः]
→ जि तुक् + वर + ई [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः]
→ जित्वर् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ जित्वरी

वार्त्तिकम् - नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसङ्ख्यानम्

प्रकृतसूत्रेण पाठितः ङीप्-प्रत्ययः अन्येषाम् केषाञ्चन प्रत्ययानां विषये अपि नञ्-स्नञ्-ईकक्-ख्युन्-तरुण-तलुनानाम् उपसङ्ख्यानम् अनेन वार्त्तिकेन पाठितः अस्ति ।</hl> क्रमेण उदाहरणानि एतानि — <hlb>1. नञ्, स्नञ् प्रत्ययौ</hlb> — स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् (4.1.87) इति सूत्रेण भिन्नेषु अर्थेषु “स्त्री”-शब्दात् नञ्-प्रत्यते कृते “स्त्रैण</कट तथा च <qt>पुम्स्”-शब्दात् स्नञ्-प्रत्यये कृते “पौंस्न” इति शब्दः सिद्ध्यति । एतयोः द्वयोः अपि शब्दयोः स्त्रीत्वं द्योतयिुम् अनेन वार्त्तिकेन “ङीप्”-प्रत्ययः विधीयते —

**स्त्रियः इयम्**
= स्त्रियः + नञ् + ङीप्  [**स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्** (4.1.87) इति नञ्, ततः स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ स्त्री + न + ई [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ स्त्रै + न + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ स्त्रै + न् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ स्त्रैणी [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्]
<br/>
**पुम्सः इयम्**
= पुम्सः + स्नञ् + ङीप् [**स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्** (4.1.87) इति स्नञ्, ततः स्त्रीत्वं द्योतयितुम् **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ पुम्स् + स्न + ई  [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ पौम्स् + स्न + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ पौम्स् + स्न् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→‌पौम् + स्न् + ई [**संयोगान्तस्य लोपः** (8.2.23) इति सकारलोपः]
→ पौंस्नी [**मोऽनुस्वारः** (8.3.23) इति पदान्तमकारस्य अनुस्वारः]

<hlb>2. ईकक्-प्रत्ययः</hlb> — शक्तियष्ट्योरीकक् (4.4.59) इति सूत्रेण “शक्ति”-शब्दात् तथा च “यष्टि”-शब्दात् तदस्य प्रहरणम् (4.4.51) इत्यनेन ईकक्-प्रत्ययः विधीयते । अनेन सिद्धाभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति —

शक्तिः प्रहरणम् अस्याः
= शक्तिः + ईकक् + ङीप् [ **शक्तियष्ट्योरीकक्** (4.4.59) इति ईकक् । ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ शक्ति + ईक + ई [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक्]
→ शाक्ति + ईक + ई [**किति च** (7.2.118) इति आदिवृद्धिः]
→ शाक्त् + ईक + ई [**यस्येति च** (6.4.148) इति इकारलोपः]
→ शाक्त् + ईक् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ शाक्तीकी

एवमेव, “यष्टिः प्रहरणम् अस्याः = याष्टीकी” इत्यपि सिद्ध्यति । <hlb>3. ख्युन्-प्रत्ययः</hlb> — आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् (3.2.56) इति सूत्रेण आढ्यादिषु कर्मोपपदेषु कृ-धातोः करणे कारके ख्युन्-प्रत्ययः भवति । एतादृशे ख्युन्-प्रत्यये कृते ततः अग्रे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते —

अनाढ्यम् आढ्यम् करोति अनया
→ आढ्यम् + कृ + ख्युन् + ङीप् [**आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्** (3.2.56) इति ख्युन्-प्रत्ययः । ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ आढ्य + कृ + अन + ई [**उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुब्लुक् । ततः **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति ङीप्]
→ आढ्य + मुम् + कृ  + अन  +ई [**अरुर्द्विषदजन्तस्य मुम्** (6.3.67) इति मुमागमः]
→ आढ्यम् + कर् + अन + ई [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः । **उरण् रपरः** (1.1.51) इति सः रपरः]
→ आढ्यम् + कर् + अन् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ आढ्यं + कर् + अन् + ई [**मोऽनुस्वारः** (8.3.23) इति अनुस्वारः]
→ आढ्यंकरणी [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम् ]
→ आढ्यङ्करणी, आढ्यङ्करणी [**वा पदान्तस्य** (8.4.59) इति विकल्पेन परसवर्णः]

एवमेव, “असुभगं सुभगं करोति अनया = सुभगङ्करणी”, “अस्थूलं स्थूलं करोति अनया = स्थूलङ्करणी” आदयः शब्दाः सिद्ध्यन्ति । <hlb>6. ‘तरुण’, ‘तलुन’ इति शब्दौ</hlb> —‌ “तरुण” तथा च “तलुन” इति द्वौ अपि समानार्थकौ शब्दौ । एतयोः शब्दयोः शरीरस्य अवस्थायाः (stage of aging) निर्देशः भवति, अतः एताभ्यां शब्दाभ्याम् स्त्रीत्वं द्योतयितुम् वयसि प्रथमे (4.1.20) इत्यनेन ङीप्-प्रत्यये प्राप्ते; षिद्गौरादिभ्यश्च (4.1.41) इत्यत्र पाठिते गौरादिगणे एतयोः निर्देशात् एताभ्याम् ङीप्-प्रत्ययं बाधित्वा ङीष्-प्रत्ययः विधीयते । अस्यां स्थितौ, एताभ्याम् शब्दाभ्याम् ङीप्-प्रत्ययान्तं रूपम् अपि इष्यते, अतः वार्त्तिककारेण तयोः निर्देशः अत्र पुनः कृतः अस्ति —

तरुण / तलुन + ङीप्
→ तरुण् / तलुन् + ई [**यस्येति च** (6.4.148) इति अकारलोपः]
→ तरुणी / तलुनी

पक्षे षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन ङीष्-प्रत्यये कृते “तरुणी” तथा च “तलुनी” इति ङीष्-प्रत्ययाान्तशब्दौ अपि सिद्ध्यतः ।

<note>ङीप्-ङीष्-प्रत्यययोः प्रयोगेण समाने एव रूपे भवतः; परन्तु तत्र स्वरे कश्चन विशेषः वर्तते । ङीप्-प्रत्यये विद्यमानः स्वरः अनुदात्तौ सुप्पितौ (3.1.4) इत्यनेन अनुदात्तः अस्ति । ङीष्-प्रत्यये विद्यमानः स्वरः तु आद्युदात्तश्च (3.1.3) इत्यनेन उदात्तसंज्ञां प्राप्नोति ।</note>

अनुपसर्जनात् एव ङीप्-प्रत्ययः

प्रकृतसूत्रम् अनुपसर्जनात् (4.1.14) इत्यस्मिन् अधिकारे वर्तते । अतः, अनेन सूत्रेण उक्तः ङीप्-प्रत्ययः समासे उत्तरपदम् उपसर्जनसंज्ञकम् अस्ति चेत् न हि प्रवर्तते । यथा, “कुम्भकार”-शब्दात् प्रकृतसूत्रेण अण्-प्रत्यये कृते यद्यपि “कुम्भकारी” इति शब्दः सिद्ध्यति, तथापि “बहवः कुम्भकाराः यस्यां (शालायाम्)” इत्यस्मिन् अर्थे सिद्धात् “बहुकुम्भकार” इत्यस्मात् शब्दात् प्रकृतसूत्रेण ङीप्-प्रत्ययः न भवति यतः अत्र अण्-प्रत्ययान्तः “कुम्भकार”शब्दः अप्रधानः (उपसर्जनः) अस्ति । अतः “बहुकुम्भकार” इत्यत्र अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्यये कृते “बहुकुम्भकारा” इत्येव सिद्ध्यति ।

प्रकृतसूत्रे “अतः” इत्यस्य अनुवृत्तिः

प्रकृतसूत्रे काशिकाकारेण, कौमुदीकारेण च अपि अजाद्यतष्टाप् (4.1.4) इत्यस्मात् सूत्रात् “अतः” इति पदस्य अनुवृत्तिः स्वीकृता अस्ति । इयम् अनुवृत्तिः वस्तुतः उत्तरार्थम् आवश्यकी, न हि प्रकृतसूत्रार्थम् । अतएव अत्र काशिकाकारः केवलम् — <source>अतः इति सर्वत्र अनुवर्तते । तत् सति सम्भवे विशेषणं भवति ।</source> — इत्येव ब्रूते । स्त्रीप्रत्ययप्रकरणे यत्र यत्र शक्यं तत्र तत्र “अतः” इति शब्दस्य अनुवृत्तिः भवति — इति अस्य आशयः । वस्तुतस्तु प्रकृतसूत्रे निर्दिष्टैः सर्वैः अपि प्रत्ययैः ह्रस्व-अकारान्तशब्दस्यैव सिद्धिः भवति, अतः अस्याः अनुवृत्तेः अस्मिन् सूत्रे न किमपि विशेषं प्रयोजनम् । परन्तु अनया अनुवृत्त्या अत्र कश्चन दोषः अपि नैव उद्भवति, अतः अग्रिमसूत्रेषु मण्डूकप्लुतेः प्रयोगस्य अपेक्षया सर्वेः व्याख्यातृभिः अस्य शब्दस्य सर्वेषु अपि सूत्रेषु अनुवृत्तिरूपेणैव ग्रहणं कृतम् अस्ति ।

Vasu English Summary

The affix ङीप् is added in the feminine after the प्रातिपदिक (Nominal Stems) ending in short अ , if the affix with which it ends has an indicatory ट् or if the affix be ढ or अण् or अञ् or द्वयसच् or दघ्नच् or मात्रच् or तयप् or ठक् or ठञ् or कञ् or क्वरप्।

Vasu English Translation

The affix ङीप् is added in the feminine after the प्रातिपदिक (Nominal Stems) ending in short अ , if the affix with which it ends has an indicatory ट् or if the affix be ढ or अण् or अञ् or द्वयसच् or दघ्नच् or मात्रच् or तयप् or ठक् or ठञ् or कञ् or क्वरप्। The word अतः ‘ending in short अ’ is understood here by anuvritti from (4.1.4); and qualifies the affixes above-mentioned, wherever necessary. This debars the affix टाप् of (4.1.4). We shall give example of each seriatim (1) Thus, m., कुरुचर f., कुरुचरी m., मद्रचर f, मद्रचरी (चर + ई = चर् + ई; the final अ is elided by (6.4.148).) The word kuru-chara is formed by ट (3.2.16). of which ट् is indicatory.

  1. It might be objected, “why is not the affix ङीप् added after the words पचमान, formed by the affix शानच् (3.2.124) in as much as this affix is a substitute of लट्; and because लट् has an indicatory ट्, therefore, its substitute will also be supposed to have an indicatory ट् (1.1.57).”

  1. To this we reply, ‘the affix लट् is not टित् as it has two indicatory letters, ल् and ट्’.

  1. If that be so, affixes like ल्युट् should also be called no टित् affixes, as they have also two indicatory letters.

  1. To this we reply, that if ल्युट् be not regarded टित्, then the indicatory ट् of ल्युट् finds no scope any where: as the indicatory ट् of लट् has its scope in sutra (3.4.79). Therefore, the feminine of पचमान will be पचमाना ॥ Similarly, the indicatory ट् of augments will not cause the application of the affix ङीप्; thus पठिता विद्या ॥ Here the feminine of पठिता is formed by आ and not इ. This is indicated by sutra (4.3.23), which says “augment तुट् is added to the affixes ट्यु and ट्युल्”. If the ट् of तुट् could have made the affix टित् for the purposes of this present sutra; the anubandha ट् had been unnecessarily added to the affixes यु and युल् in the above.

  1. Of words ending in ढ we have, m, सौपर्णेय f. सौपर्णेयी so also f. वैनतेयी. The ढ stands for the affix ढक्; and it is replaced by एय् (7.1.2) . Thus सुपर्णा + ढक् (4.1.120)= सुपर्णा + एय = सौपर्णेय (7.2.118). There is no affix which is merely ढ without any indicatory letters; and denoting the feminine; the only affix, as said above, is ढक् ॥ Therefore, the following maxim does not apply here :- “When a term void of anubandhas (indicatory letters) is imployed in grammar, it does not denote that which has an anubandha attached to it”, and we cannot say that the ड of this sutra refers to the anubandha-less ढ of (5.3.102) which is always Neuter.

  2. Of words in अण्, we have already said that the affix अण् here refers to both the Krit and the Taddhita affix ‘an’. Thus with the krit affix ‘an’ we have कुम्भकार and नगरकार (3.2.1), the feminine of which is कुम्भकारी and नगरकारी ॥ With the Taddhita affix ‘an’ we have औपगव (4.1.92), the feminine of which is औपगवी ॥ Sometimes words formed by the addition of the affix ण are operated upon as if they were formed by अण् ॥ Thus चौरी, तापसी are the feminine of चौर and तापस (4.4.62), sometimes words formed by ण are not so treated, as दाण्डा, मौष्टा (4.2.57).

  3. Words formed by अञ् as औत्स f. औत्सी, औदपान, f. औदपानी, (4.1.86). Though by (4.1.73) the affix ङीन् would have come after the words ending in अञ्, the re-employment of this affix in the present sutra is for the purpose of preventing the application of the affix ङीष् which would have presented itself by (4.1.63); that is even when ‘jati’ is indicated, ‘nish’ is not to be employed here.

  4. The three affixes द्वयसच्, दघ्नच् and मात्रच् are added by (5.2.37); as, ऊरुद्वयसी, ऊरुदघ्नी, ऊरुमात्री ‘reaching to the thigh’. Similarly जानुद्वयसी, जानुदघ्नी, जानुमात्री ।

  5. So also with words formed by तयप् (5.2.42). As पञ्चतयी ‘of which the parts are five’ so also दशतयी ॥

  6. So also with words ending in ठञ् (4.4.1) as, आक्षिकी ‘a female dicer’, शालाकिकी. The ठ is replaced by इक (7.3.50).

  7. Similarly with words ending in ठञ् (5.1.18): as, लावणिकी ‘elegant’. The affixes ठक् and ठञ् are separately enumerated in this sutra, in order to exclude the affix ठन् &c. For had the word ठ merely been used, then it would have meant all the three affixes ठक्, ठन् and ठञ्, which is not desired.

  8. Similarly with words ending in कञ् (3.2.60) as, यादृशी, तादृशी ॥

  9. So also with words ending in क्वरप् (3.2.163) as इत्वरी ‘swift’, नश्वरी ॥

Vart:- In addition to the foregoing, there should have been the enumeration of the affixes नञ् and स्नञ् (4.1.87) and ईकक् (4.4.59) and ख्युन् (3.2.56) and of the words तरुण and तलुन ‘a youth’. Thus स्त्रैणी ‘a female’, पौंस्नी ‘a male’, शाक्तीकी ‘a female spear bearer’, आढ्यंकरणी ‘enriching’; तरुणी or तलुनी ‘a young woman’.

Bhashya

टिड्ढाणञ्ञ्द्वयसज्दघ्नञ्ञ्मात्रच्तयप्ठक्ठञ्ञ्कञ्ञ्क्वरपः (1289) (ङीबधिकरणम्) (5140 पूर्वपक्षवार्तिकम्॥ 1 ॥) - ढग्रहणे सानुबन्धकस्योपसंख्यानम् - (भाष्यम्) ढग्रहणे सानुबन्धकस्योपसंख्यानं कर्तव्यम् -कारिकेयी, हारिकेयी॥ किं पुनः कारणं न सिद्ध्यति? (5141 पूर्वपक्षसाधकवार्तिकम्॥ 2 ॥) - अननुबन्धकग्रहणे हि न सानुबन्धकस्य - (भाष्यम्) अननुबन्धकग्रहणे हि न सानुबन्धकस्य ग्रहणं भवति इत्येषा परिभाषा कर्तव्या। कान्येतस्याः परिभाषायाः प्रयोजनानि? तव्यग्रहणे तव्यद्ग्रहणं मा भूत्। दिव्ग्रहणे दिवुग्रहणं मा भूत्॥ (परिभाषाक्षेपभाष्यम्) ननु चेयमपि कर्तव्या -तदनुबन्धकग्रहणेऽतदनुबन्धकग्रहणं न इति। कान्येतस्याः परिभाषायाः प्रयोजनानि? यत् ग्रहणे ण्यत् ग्रहणं मा भूत्। अङ् ग्रहणे चङ् ग्रहणं मा भूत् अच् ग्रहणे णच् ग्रहणं मा भूत्॥ (परिभाषाज्ञापकभाष्यम्) ते द्वे एते परिभाषे कर्तव्ये? न कर्तव्ये। आचार्यप्रवृत्तिर्ज्ञापयति भवत एते परिभाषे इति यदयं वामदेवाद् ङ्यड्ड्यौ (4.2.9) इति ययतौ डितौ करोति॥ (प्रथमवार्तिकप्रत्याख्यानभाष्यम्) तत्तर्ह्युपसंख्यानं कर्तव्यम्? न कर्तव्यम्। अननुबन्धको ढशब्दः स्त्रियां नास्तीति कृत्वा सानुबन्धकस्य ग्रहणं विज्ञास्यते। ननु चायमस्ति शिलाया ढः (5.3.102) इति। नैष स्त्रियां वर्तते। अयं तर्हि सभाया यः (4.4.105) ढश्छन्दसि (4.4.106) इति। एषोऽपि न स्त्रियां वर्तते॥ किं कारणम्? तत्र साधुरिति वर्तते। कथं च स्त्री नाम सभायां साध्वी स्यात्? (5142 पूर्वपक्षवार्तिकम्॥ 3 ॥) - अञ्ञ्ग्रहणमनर्थकं तदन्ताद्धि ङीन्विधानम् - (भाष्यम्) अञ्ञ्ग्रहणमनर्थकम्। किं कारणम्? तदन्ताद्धि ङीन्विधानम् -तदन्ताद्ध्यञ्ञन्ताद् ङीन् विधीयते -शार्ङ्गरवाद्यञ्ञो ङीन् (4.1.73) इति॥ न चास्ति विशेषः -अञ्ञन्ताद् ङीपो वा ङीनो वा, तदेव रूपं स एव स्वरः॥ (5143 समाधानवार्तिकम्॥ 4 ॥) - न वा जात्यधिकारात् - (भाष्यम्) न वाऽनर्थकम्। किं कारणम्? जात्यधिकारात्। जातेरिति तत्रानुवर्तते। अजात्यर्थोऽयमारम्भः -औदपानी, औत्सी॥ तच्चावश्यं जातिग्रहणमनुर्वत्यम्॥ (5144 सिद्धान्तसाधकवार्तिकम्॥ 5 ॥) - अनधिकारे हि पुंयोगादाख्यायां ङीन्प्रसङ्गः - (भाष्यम्) अननुवर्तमाने हि जातिग्रहणे पुंयोगादाख्यायां ङीन्प्रसज्येत -बैदस्य स्त्री बैदीति॥ (अञ्ञ्ग्रहणद्वयस्य साफल्यबोधकभाष्यम्) यदि तर्ह्यस्य निबन्धनमस्ति, इदमेव वक्तव्यम्। तन्न वक्तव्यम्। तदप्यवश्यं वक्तव्यम्। अक्रियमाणे हि तस्मिन् बैदस्य भगिनी -बैदी, परत्वाज्जातिलक्षणो ङीष् ङीपं बाधेत। ङीनि पुनः सति परत्वाद् ङीन् ङीषं बाधते॥ (5145 सूत्रांशपूरकवार्तिकम्॥ 6 ॥) - ख्युन उपसंख्यानम् - (भाष्यम्) ख्युन उपसंख्यानं कर्तव्यम् -आढ्यङ्करणी, सुभगङ्करणी। (सूत्रांशपूरकभाष्यम्) अल्पमिदमुच्यते ख्युनः इति - नञ्ञ्स्नञ्ञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्। नञ्ञ्स्नञ्ञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानं कर्तव्यम्। नञ्ञ् -स्त्रैणी। स्नञ्ञ् -पौंस्नी। इर्कक् -शाक्तीकी, याष्टीकी। ख्युन् -आढ्यङ्करणी, सुभयङ्करणी। तरुण, तलुन -तरुणी, तलुनी॥

Kashika

अत इति सर्वत्रानुवर्तते। तत् सति संभवे विशेषणं भवति। टिदादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति। टापोऽपवादः। टितस्तावत् — कुरुचरी। मद्रचरी। इह कस्माद् न भवति — पचमाना यजमाना? द्व्यनुबन्धकत्वाल् लटः। ल्युडादिषु कथम्? टित्करणसामर्थ्यात्। इतरत्र तु टेरेत्वं फलम्। पठिता विद्येति? आगमटित्त्वमनिमित्तम्, ट्युट्युलौ तुट् च (४.३.२३) इति लिङ्गात्। ढ — सौपर्णेयी। वैनतेयी। निरनुबन्धको ढशब्दः स्त्रियां नास्तीति निरनुबन्धकपरिभाषा (परि०८१) न प्रवर्तते। अण् — कुम्भकारी। नगरकारी। औपगवी। णेऽपि क्वचिदण्कृतं कार्यं भवति (परि० ८७)। चौरी, तापसी। दाण्डा, मौष्टेत्यत्र न भवति। अञ् — औत्सी। औदपानी। शार्ङ्गरवाद्यञः० (४.१.७३) इति पुनरञो ग्रहणं जातिलक्षणं ङीषं बाधितुम्। द्वयसच् — ऊरुद्वयसी। जानुद्वयसी। दघ्नच् — ऊरुदघ्नी। जानुदघ्नी। मात्रच् — ऊरुमात्री। जानुमात्री। तयप् — पञ्चतयी। दशतयी। ठक् — आक्षिकी। शालाकिकी। ठञ् — लावणिकी। ठक्ठञोर्भेदेन ग्रहणं ठनादिनिवृत्त्यर्थम्। कञ् — यादृशी। तादृशी। क्वरप् — इत्वरी। नश्वरी। ख्युन् — आढ्यंकरणी। सुभगंकरणी॥ नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम्॥ स्त्रैणी। पौंस्नी। शाक्तीकी। याष्टीकी। तरुणी। तलुनी॥

Siddhanta Kaumudi

अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनात्वान्नेह बहुकुरूचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन [(परिभाषा - ) लाश्रयमनुबन्धकार्यं नादेशानाम्] इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ [(परिभाषा - ) ताच्छीलिके णेऽपि] ॥ चौरी ।<!नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंङ्ख्यानम् !> (वार्तिकम्) ॥ स्त्रैणी । पौंस्नी । शाक्तीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥

Laghu Siddhanta Kaumudi

अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप्स्यात् । कुरुचरी । नदट् नदी । देवट् देवी । सौपर्णेयी । ऐन्द्री । औत्सी , ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चमयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी । नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् (वार्त्तिकम्) । स्त्रैणी । पौंस्री । आक्तीकी । याष्टीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥

Balamanorama

टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (टिद्॰क्वरप्ख्युनाम्) - टिड्ढाणञ् । टित्, ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्,-एषां द्वादशानां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । ढादय एकादश प्रत्ययाः । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । टित्तु प्रत्ययोऽप्रत्ययश्च । टिदादिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात्तदन्तविधिः । ततश्च टिदन्ताड्ढाणादिप्रत्ययान्तान्ताच्च प्रातिपदिकादिति लभ्यते । ‘अजाद्यतष्टाप्’ इत्यस्मादत इत्यनुवृत्तं, तेनापि प्रातिपदिकं विशेष्यते । तदन्तविधिः ।अनुपसर्जना॑रित्येतच्छतेषु टिदादिष्वेवान्वेति, नतु तदन्तेषु । स्त्रियामित्यधिकृतं । तदाह — अनुपसर्जनं यट्टिदादीत्यादिना । तदन्तमिति । टिदन्तं, ढादिप्रत्ययान्तं चेत्यर्थः । टित्रिविधिः । प्रत्ययः, प्रातिपदिकं, धातुश्च । तत्राद्यमुदाहरति — कुरुचरीति । कुरुषु चरतीत्यधिकरणे उपपदे ‘चरेष्टः’ इति कर्तरि टः । टकार इत् । उपपदसमासः । नच प्रत्ययस्यैवाऽत्र टित्त्वात्प्रत्ययग्रहणुपरिभाषया चरेत्येव टिदन्तं, नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यं, नदट् देवडित्यादेरप्रत्ययस्यापि टितः सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषाया अप्रवृत्तौ ‘येन विधिः’ इति टिदन्तत्वस्य कुरुचरशब्दे सत्त्वात् । अथ द्वितीयं टितमुदाहरति-नदडिति । पचादिगणे पठितं प्रातिपदिकमेतत् । तृतीयं तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते । अनुपसप्जनत्वविशेषणस्य प्रयोजनमाह — बहुकुरुचरेति । बहवः कुरुचरा यस्यामिति विग्रहः । बहुव्रीहिरयमन्यपदार्थप्रधानः । ततश्च टितष्टप्रत्ययस्य उपसर्जनत्वान्न ङीप् । अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे तु ङीबत्र दुर्वारः । अतएव च आपिशालिना प्रोक्तमधीते आपिशला ब्राआहृणीत्यत्रापि न ङीप् । तत्र हि आपिशलिना प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणि आपिशलशब्दः । आपिशलमधीते इत्यर्थे ‘तदधीते तद्वेदे’ त्यणिप्रोक्ताल्लुगि॑ति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम् । अनुपसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात्स्त्रियां वर्तमानत्वाच्च अणन्तत्वनिबन्धनो ङीब्दुर्वारः स्यात् । तस्य च श्रुतटिदाद्यन्वये तु प्रोक्ताऽण उपसर्जनत्वान्न दोषः । अध्येत्रण्तु लुप्तः, अणोयोऽकार इति व्याख्यानेन वर्णाश्रयतया प्रत्ययलक्षणाऽभावात् । नच स्त्रिया॑मित्यस्य श्रुतटिदादिविशेषणत्वात्प्रोक्ताऽणश्चस्त्रियामवर्तनादेव न ङीपः प्रसक्तिरिति वाच्यं, ज्ञापिते तदन्तविधौ प्राधान्यात्स्त्रिया॑मित्यस्य ङीप्प्रकृतिविशेषणताया एव उचितत्वात्, अन्यथा अनुपसर्जनाधिकारवैयथ्र्याच्च । अतएव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम् । स्यादेतत्-॒वच परिभाषणे॑ । अस्मात्कर्मणि, लृट्, ‘लृटः सद्वा’ इति तस्य शानजादेशः, ‘स्यतासी लृलुटोः’ इति स्यः कुत्वषत्वे, आने मुक्, णत्वम्, टाप्, वक्ष्यमाणेति रूपम् । अत्र लृडादेशस्य स्थानिवत्त्वेन टित्त्वादुगित्वाच्चटिड्ढाणञि॑तिउगितश्चे॑ति च ङीप् प्राप्नोति । नच स्थानिनो लृटष्टकारस्य ऋकारस्य च इत्त्वाश्रयणान्ङीब्विधेरल्विधित्वादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्त्वस्यन ल्यपी॑ति निषेधेन लिङ्गेन अनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनात् । अनुबन्धकार्येऽप्यनल्विधाविति निषेधप्रवृत्तौ हि क्त्वादेशस्य ल्यपः कित्त्वाऽप्रसक्तेस्तस्मिन्परत ईत्वस्याऽप्रसक्त्या तन्निषेधवैयर्थ्यां स्पष्टमेव । अतो वक्ष्यमाणेत्यत्र स्थानिवत्त्वेन शानचष्टित्त्वादुगित्वाच्च ङीब्दुर्वार इत्याशङ्क्य परिहरति — वक्ष्यमाणेत्यादिना । वक्ष्यमाणेत्यत्र टित्त्वादुगित्वाच्च ङीप् प्राप्तो न भवतीत्यन्वयः । कुतो नेत्यत आह — यासुट इत्यादि, ज्ञापनादित्यन्तम् ।यासुट् परस्मैपदेषूदात्तो ङिच्चे॑ति लिङादेशानां-तिप्तस्झीत्यादिपरस्मैपदानां यासुडागमस्य ङित्त्वं विहितम् । ‘यदागमाः’ इति न्यायेन यासुडागमो लिङादेशावयवः । ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटस्तद्विधिवैयथ्र्यं स्यादतोलाश्रयमनुबन्धकार्यमादेशाना ने॑ति विज्ञायते । ततश्च वक्ष्यमाणेत्यत्र लृडादेशस्य शानचष्टिदुगित्कार्ये ङीपि कर्तव्ये स्तानित्त्वाऽभावान्न ङीबित्यर्थः । ननुलाश्रयमनुबन्धकार्यमादेशानां ने॑ति ज्ञापनेऽपि ब्राऊतादित्यत्र ‘ब्राउव ईट्’ इति पितो विधीयमान ईडागमो दुर्वारः । तस्य तिबाश्रयत्वे ।ञपि लाश्रयत्वाऽभावेन तस्मिन्कर्तव्ये तातङः स्थानिवत्त्वेन पित्त्वस्य निर्बाधत्वादित्यस्वरसादाह — श्नः शानचेति । श्ना इत्यस्मात्षष्ठएकवचने आल्लोपे ‘श्न’ इति रूपम्, ‘आतो धातोः’ इत्यत्र ‘आत’ इति योगविभागमाश्रित्य अधातोरपि क्वचिदाल्लोपाभ्युपगमात् । ‘हलः श्नः शानज्झौ’ इति स्नाप्रत्ययस्य शानजादेशो विधीयते । तत्र स्थानिवत्त्वेनैव सिद्धत्वाच्छानचः शित्त्वं व्यर्थम् । नचानल्विधाविति निषेधः शङ्क्यः,न ल्यपी॑ति लिङ्गेनाऽनुबन्धकार्येऽनल्विधाविति निषेधाऽभावस्यानुपदमेवोक्तत्वात् । एवं च क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधप्रवृत्तिर्विज्ञायते । तथाच वक्ष्यमाणेत्यत्र टिदुगित्कार्ये ङीपिअनल्विधा॑विति निषेधप्रवृत्त्या स्थानिवत्त्वाऽभावेन टित्त्वोगित्त्वयोरबावान्न ङीबित्यर्थः । वस्तुतस्तुलाश्रयमनुबन्धकार्यं नादेशाना॑मित्यत्र यासुटो ङित्त्वं न ज्ञापकं, तस्य तिप्सिब्मिवर्थत्वात् । नहि लिङादेशत्वेऽपि तिप्सिब्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् , ‘हलः श्नः शानज्झौ’ इति सूत्रे भाष्येङिच्च पिन्न, पिच्च ङिन्ने॑ति प्रपञ्चितत्वात् । तथा श्नश्शानचः शित्त्वमपि न लिङ्गं, तत्र शित्त्वस्य भाष्ये प्रत्याख्यातत्वात् । प्रत्युत शित्त्वस्य ज्ञापकत्वेसेह्र्रपिच्चे॑ति हेरपित्त्वस्य तातङो ङित्त्वस्य च वैयथ्र्यमिति भाष्ये दूषणाभिधानाच्च । तस्माद्वक्ष्यमाणेत्यत्र ङीबेव युक्तः, टाप् त्वसाधुरेव । अजादित्वाट्टाबिति वा कथञ्चित्समाधेयमित्यास्तां तावत् ।सौपर्णेयीति । सुपण्र्या अपत्यं स्त्रीत्यर्थेस्त्रीभ्यो ढ॑गिति ढकिआयने॑यित्येयादेशः ।यस्येति चे॑तीकारलोपः,किति चे॑त्यादिवृद्धिः । सौपर्णेयशब्दान्ङीप्,यस्येति चे॑त्कारलोपः, सौपर्णेयीति रूपम् । न चनिरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषाया ‘शिलाया ढः’ ढश्छन्दसि॑ इत्यनयोरेव ग्रहणमिति वाच्यं, तयोः स्त्रियामप्रवृत्तेरगत्या सानुबन्धकस्य ढस्य ग्रृहणादिति भाष्ये स्पष्टम् । ऐन्द्रीति । इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, ‘सास्य देवता’ इत्यमि,यस्येति चे॑त्यकारलोपः, आदिवृद्धिः । ऐन्द्रशपब्दान्ङीप्,यस्येति चे॑त्यकारलोपः । इन्द्रस्येयमिति वा विग्रहः,तस्येद॑मित्यण् । औत्सीति ।उत्सः प्रस्नवणं वारि॑ इत्यमरः । ऋषिविशेषो वा उत्सः । उत्सस्येयमिति विग्रहः ।उत्सादिभ्योऽञ् ।यस्येति ट॑ । ङीप् । उत्सस्यापत्यं स्त्री औत्सीति तु नोदाहरणम्, जातेरित्यनुवृत्तौशाङ्र्गरवाद्यञो ङी॑नित्येव सिद्धेः,गोत्रं च चरणैः सहे॑त्यपत्यप्रत्ययान्तस्य जातित्वादित्यलम् । ऊरुद्वयसी ऊरुदघ्नी ऊरुमात्रीति । ऊरू प्रमाणमस्या इति विग्रहः ।प्रमाणे द्वयसच्दघ्नञ्मात्रचः॑ । ङीप् । पञ्चतयीति । पञ्च अवयवा यस्या इति विग्रहः ।सङ्ख्याया अवयवे तयप् । ङीप् । आक्षिकीति । अक्षैर्दीव्यतीति विग्रहः ।तेन दीव्यति खनति जयति जित॑मिति ठक्, आदिवृद्धिः, ‘ठस्येकः’यस्येति चे॑त्यकारलोपः । आक्षिकशब्दान्ङीप्,यस्येति च॑ । लावणिकीति । लवणं पण्यमस्या इति विग्रहः । ‘लवणाट्ठञ्’ ठस्येकः॑, आदिवृद्धिः,यस्येति च॑, लावणिकशब्दान्ङीप्, ‘यस्येति च’ ठेत्येव सिद्धे ठक्ठञोः पृथग्ग्रहणं तु ठनो ञिठस्य च व्यावृत्त्यर्थम् । दण्डोऽस्त्यस्याः दण्डिका ।अत इनिंठनौ॑ । काश्यां भवा काशिका ।काश्यादिभ्यष्ठञ्ञिठौ॑ इति ञिठः । यादृशीति । ‘त्यदादिषु दृशः’ इति यच्छब्दे उपपदे कञ्, ‘आ सर्वनाम्नः’ इति यच्छब्दस्याकारः । ङीप्,यस्येति च॑ । इत्वरीति । ‘इण् गतौ’इण्नशजिसर्तिभ्यः क्वरप् ॑ ।ह्रस्वस्य पिति कृति॑ इति तुक् । इत्वरशब्दान्ङीप् ।यस्येति च॑ ।स्थेशभासे॑ति वरचो व्यावृत्तये ककारानुबन्धग्रहणम् ।विन्यस्तमङ्गलमहौषधिरीश्वरायाः॑ इति भारविः । ‘सैनमीआराप्रदह’ इति वेदे । क्वरपि अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेरनुबन्धद्वयोपादानं स्पष्टार्थम् । ईआरी तु ईआरशब्दादीआरस्य स्त्रीति पुंयोग ङीष् । अथवाअस्नोतेराशुकर्मणि वरट् चे॑ति वरडन्ताट्ठित्त्वान्ङीप् । यद्वाआतो मनिन्क्वनिब्वनिपश्च॑ अन्येभ्योऽपि ‘दृश्यते’ इति क्वानिपि वनिपि चवनो र चे॑ति ङीब्राऔ ।ताच्छीलिके णेऽपीति । तच्छीले भवस्तच्छीलिकः । तच्छीलार्थक इति यावत् । तस्मिन् णप्रत्यये सति तदन्तादपि ङीब्भवतीत्यर्थः । ज्ञेपकसिद्धमेतत् । तथाहि — ॒शील॑मित्यनुवृत्तौ ‘छत्रादिभ्यो णः’ इति विहिते णप्रत्ययेऽण्कार्यं भवति, ‘कार्मस्ताच्छील्ये’ इति ज्ञापकात् । कर्म शीवमस्येति विग्रहे छत्रादित्वाण्णप्रत्यये ‘नस्तद्धिते’ इति टिलोपे, ‘कार्म’ इति भवति, नतु ‘अन्’ इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः । अत्र अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात्ताच्छीलिके णुप्रत्ययेऽण्कार्यं विज्ञायते । अतस्ताच्छीलिकणप्रत्ययान्तादण्कार्यं ङीब् भवतीति भावः । चौरीति । चुरा शीलमस्या इति विग्रहः । छत्रादित्वाण्णः । आदिवृद्धिः ।यस्येति च॑ । चौरशब्दान्ङीपि,यस्येति च॑ ।नञ्सन्ञ् । नञ्, स्नञ्, ईकक्, ख्युन्, तरुण, तलुन — एतेषामपि ङीब्विधिवचनं कर्तव्यमित्यर्थः । नञादयश्चत्वारः । प्रत्ययाः, अतस्तदन्तविधिः । स्त्रौणी पौंस्नीति । ‘स्त्रीपुंसाभ्याम्’ इति नञ्स्नञौ । तत्र स्त्रीशब्दान्नञि, आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । पुंस्शब्दात्स्नञि, आदिवृद्धिः, ङीप्,यस्येति च॑ । शाक्तीकीति । शक्तिः-आयुधविशेषः प्रहरणमस्या इति विग्रहः ।शकिंतयष्ठओरीकक् । आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । आढङ्करणीति । अनाढ आढ्यः क्रियते अनयेति विग्रहः ।आढसुभगे॑त्यादिना ख्युन् । ‘युवोः’ इत्यनादेशः । ‘अरुर्द्विषत्’ इति मुम्, णत्वम्, ङीप्,यस्येति च॑ । तरुणी तलुनीति । यद्यप्यनयोः ‘वयसि प्रथमे’ इत्येव ङीप्सिद्धः, तथापि गौरादिषु पाठान्ङीषि प्राप्ते इदं वचनम् । गौरादिपाठान्ङीषि स्वरे विशेष इति भावः ।

Padamanjari

इह कस्मादिति । लडादेशस्य स्थानिद्भावेन टित्वमस्तीति प्रश्नः । पवामाना, यजमानेति । ननु शानन्नादिषु लट इत्यस्य निवृतत्वाद् अनादेशपक्षः स्थापितः, पवमानेत्यादिषु शानजुदाहर्तव्यः । द्व्यनुबन्धकत्वाल्लट इति । लडादिष्वकारादयोऽप्यनुबन्धा इति भावः । एतेन लिड्लृटौ व्याख्यातौ - अनूचाना, यक्ष्यमाणेति । ल्युडादिषु कथमिति । द्व्यनुबन्धकत्वातेषामपि ग्रहणे न भाव्यमिति प्रश्नः । टित्करणसामर्थ्यादिति । न च लडादिष्वपि टित्करणसामर्थ्यमित्याह - इतरत्रेति । पठिता विद्येति । कथमित्यनुषङ्गः । इटष्टित्वमुभयार्थं स्यादिति प्रश्नः । आगमटित्वमनिमितमिति । आगमानां टित्वं ङीपो निमितं न भवतीत्यर्थः । कुत इत्यत आह - ट।लुट।लुलौ तुट् चेति लिङ्गादिति । यद्यागमटित्वं ङीपो निमितं स्याततः सायन्तनीत्यादौ तुट आगमस्य टित्वान्ङीप् सिद्ध इति ट।लुट।लुलोष्टित्करणमनर्थकं स्यादिति भावः । ननु च’पुराणप्रोक्तेषु’ इति निर्देशेन यदा तुड् न भवति तदा ङीबर्थं तयोष्टित्वं स्यात् ? तन्न; पुराणशब्दाद्वह्वादिषु पाठान्ङीषा भवितव्यम्, अन्तोदातो हि पुराणीशब्दः - पुनः पुनर्जायमाना पुराणीति यथा । एवमपि न ज्ञापकम्,’बह्वादिभ्यश्च’ इत्यत्र वेति वर्तते, ततश्च ङीषा मुक्ते ङीब् यथा स्यादिति ट।लुट।लुलोष्टित्वं स्यादिति चिन्त्यमेतत् । सौपर्णेयीति । सुपर्णशब्दात्पाककर्णादिङीषन्तात्स्त्रीभ्यो ढक् । ननु च सानुबन्धकत्वादस्य ग्रहणेन भवितव्यमत आह - निर नुबन्धक इति । यद्यपि’शिलायाढः’ इति निरनुबन्धको ढशब्दोऽस्ति, स इह स्वभावान्नपुंसकलिङ्ग इति स्त्रियां नास्तीत्युक्तम् । योऽपि’सभाया यः’ ,’ढश्च्छन्दसि’ इति ढः, सोऽपि स्त्रियां न वर्तते, कथम् ? तत्र’तत्र साधुः’ इति वर्तते, कथं च स्त्री नाम सभायां साध्वी स्याद्यज्ञसभायां हि विदुषामधिकारः ! ननु मा नाम भूद्यज्ञसभायां साध्वी, शालायां स्त्रीसभे च साध्वी भविष्यति, तत्र यज्ञसभायां साध्वी ब्राह्मणपरिषदित्यत्रापि प्रसङ्गः ? एवं तर्ह्येवंविधे विषये च्छन्दसि सभेयीशब्दस्य प्रयोगाभावोऽत्र हेतुः । णेऽपि क्वचिदण्कृतं कार्यं भवतीति । शीलम्’च्छत्रादिभ्यो णः’ इति यो णस्तत्राण्कृतं कार्यं भवतीति । कथम् ? ज्ञापकात्, यदंयम्’कार्मस्ताच्छील्ये’ इति टिलोपार्थं निपातनं करोति । यदि हि ताच्छीलिके णेऽण्कृतं कार्यं न स्यान्निपातनमनर्थकं न स्यात्, कर्मशब्दाच्छत्रादिलक्षणे णे कृते’नस्तद्धिते’ इत्येव टिलोपस्य सिद्धत्वात् । न च ठन्ऽ इति प्रकृतिभावः, अणि हि स प्रकृतिभावः । चौरी, तापसीति । चुरातपः शब्दौ च्छत्रादिषु पठितव्यौ । क्वचिदित्यस्य व्यावर्त्यं दर्शयति - दाण्डा, मौष्टेति । द्रण्डमुष्टिशब्दाभ्यां’तदस्यां प्रहरणम्’ इति णः । औत्सी, औदपानीति । उत्सोदपानशब्दाभ्यां भवार्थे ठुत्सादिभ्योऽञ्ऽ । अथ सार्ङ्गरवादिसूत्रे पुनरञ्ग्रहणं किमर्थम्, यावताऽनेनैव सिद्धम्, न रूपभेदो न स्वरभेदः ? तत्राह - शार्ङ्गरवाद्यञ इत्यादि । बिदस्यापत्यं बैदी, ठनुष्यानन्तर्ये बिदादिभ्योऽञ्ऽ गोत्रं च चरणैः सहऽ इति जातिः, तत्रौत्सीत्यादौ चरितार्थमिमं ङीपं बाधित्वा जातिलक्षणो ङीष् प्राप्नोति । यदि तर्हि तस्य निबन्धनमस्ति तदेवाञ्ग्रहणमस्तु, किमत्राञ्ग्रहणेन ? न वा जात्यधिकारात्,’जातेः’ इति हि तत्र वर्तते, अनधिकारे हि पुंयोगादाख्यायां ङीप्प्रसङ्गः - बैदस्य स्त्री बैदी । उरुद्वयसीत्यादौ’प्रमाणे द्वयसच्दघ्नञ्मात्रचः’ । पञ्चतयीति ।’सख्याया अवयवे तयप्’ । द्वयसजादिषु अनुबन्धोच्चारणं प्रातिपदिकानां ग्रहणं मा भूत् - किमस्य द्वयसम्, किसमस्य मात्रमिति । तयशब्दोऽपि तयतेः पचाद्यजन्तः सम्भवति । ठनादिनिवृत्यर्थमिति । दण्डोऽस्या अस्ति ठत इनिठनौऽ इण्डिका,’काश्यादिभ्यष्ठ ञ्ञिठौ’ काशिकेत्यादौ मा भूदित्येवमर्थम् । तादृशीति ।’त्यदादिषु दृशो’ नालोचने कञ्चऽ, ठा सर्वनाम्नःऽ । कञो ञकारोच्चारणम् ठातोऽनुपसर्गे कःऽ गोदेत्यादौ मा भूत् । इत्वरीति । ठिण्नश्जिसर्तिभ्यः क्वरप्ऽ । आढ।ल्ङ्कारणीति । ठाढ।ल्सुभगऽ इत्यादिना ख्युन् । नञ्स्नञीकक्तरुणतलुनानामिति । भाष्ये तु’कञ्क्वरपः’ इत्येतावत्सूत्रम्, ख्युनः पाठोऽनार्ष इति तस्याप्युपसंख्यानमेव कृतम् । स्त्रैणी, पाéस्नीति ।’स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्’ । शक्तीकी, याष्टीकीति । प्रहरणाधिकारे’शक्तियष्ट।लेरीकक्’ । तरुणी, तलुनीति । एतयोरवयोऽर्थं ग्रहणम् - तरुणी सुरति, वयसि तु’वयसि प्रथमे’ इत्येव सिद्धम् ? न सिध्यति; गौरादिपाठान्ङीष प्राप्नोति । तस्माद्वयस्यवयसि च ङीब्ङीषोविकल्पः । क्वचिद् गौरादिपाठात्सिद्धमिति पठ।ल्ते, तद्रूपमात्रसिद्ध्यभिप्रायं द्रष्टव्यम्, स्वरार्थं तूपसंख्यानं कर्तव्यमेव ॥

Nyaas

सर्वत्र इति। स्त्रीप्रकरणे। ननु च पत्युर्नो यज्ञसंयोगे (4.1.33) इतो मनुष्यजातेः (4.1.65) इत्यादौ नानुवर्तते, तस्यात इत्यस्यासम्भवाद्विशेषणं नोपपद्यत इत्याह - तत् सति इत्यादि। यत्र सम्भवति तत्र विशेषणं भवति, यत्र तु न सम्भवति तत्रोत्तरार्थमेवानुवर्तते। इह कस्मान्न भवति - पचमाना इति। स्थानिवद्भावेन शानचष्टित्त्वमस्ति, अतस्तदन्तादपि ङीपा भवितव्यमित्यभिप्रायः। द्वयनुबन्धकत्वाल्लटः इति। तेन एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य (व्या।प।52) इत्येतया परिभाषया लटोऽत्र ग्रहणं नास्तीति दर्शयति, तस्य ह्रकारो द्वितीयोऽनुबन्धोऽस्ति।ल्युडादिषु कथम् इति। ईकारो भवतीति शेषः। आदिशब्देन गापोष्टक् (3.2.8) इत्येवमादयो गृह्यन्ते। ल्युडादीनामपि द्व्यनुबन्धकत्वाट्टिद्ग्रहणेन भवितव्यम्, अतस्तदन्तेभ्यो ङीब्न स्यात्, ततश्चक करणी, सामगीत्यादि न सिध्येत्। टित्करणसामर्थ्यात् इति। यदि तेषामपि टिद्ग्रहणेन ग्रहणं न स्याट्टित्करणमनर्थकं स्यात्; प्रयोजनान्तरासम्भवात्। तस्मात् सत्यपि द्व्यनुबन्धकत्वे टित्करणसामर्थ्याल्ल्युडादयो गृह्रन्त इत्यदोषः। लटोऽपि तर्हि टित्करणसामर्थ्यादेव ग्रहणेन भवितव्यमित्यत आह -इतरत्र इति। लटि हि टित्करमस्य टित आत्मनेपदानां टेरे (3.4.79) इति टेरेत्वं फलम्। अतो यद्यपि ग्रहणं न भवति, तथापि नैव टित्करणस्य वैयथ्र्यं प्रसज्येत। तस्मात् टित्करणसामर्थ्याल्ल्युडादयो गृह्रन्त इत्यदोषः। लटोऽपि तर्हि टित्करणसामर्थ्यादेव ग्रहणेन भवितव्यमित्यत आह -इतरत्र इति। लटि हि टित्करणस्य टित आत्मनेपदानां टेरे (3.4.79) इति टेरेत्वं फलम्। अतो यद्यपि तस्येदं ग्रहणं न भवति, तथापि नैव टित्करणस्य वैयथ्र्यं प्रसज्येत। तस्मात् टित्करणस्य चरितार्थत्वादयुक्तं तस्येदं ग्रहणम्।पठिता विद्या इति। अत्रापि कथमिति सम्बध्यते। इडागमस्य हि प्रत्ययभक्तत्वात् प्रत्ययस्य टित्त्वमस्ति, ततस्च ङीपा भवितव्यम्, तत्कथं पठितेत्येतद्रूपं भवतीति?`आगमटित्त्वमनिमित्तम्` इति। प्रकृतत्वात् ङीप इति विज्ञायते। कथं ज्ञायतेऽयमनिमित्तमित्याह -टउटउलौ इत्यादि। तुड् वेत्यागमटित्त्वेनैव सिद्धे ङीपि सायंचिरं प्राह्ण (4.3.23) इत्यादिसूत्रे टउटउलौ इति पुनः प्रत्ययोष्टत्करणं ज्ञापकम् - आगमटित्त्वमनिमित्त्वं ङीप इति।सोपर्णेयी,वैनतेयी इति। सुपर्णीशब्दाज्जातिलक्षमङीषन्ताद्विनताशब्दाच्च टाबन्तात् स्त्रीभ्यो ढक् (4.1.120) इति ढक्। आयमन्नादि (7.1.2) सूत्रेणैयादेशः। ननु च निरनुबन्धकग्रहणे न सानुबन्धकस्य (व्या।प।53) इति ढको ग्रहणेन न भवितव्यमित्यत आह - निरनुबन्धको ढशब्दः इत्यादि। ननु चायं निरनुबन्धकोऽस्ति शिलायाः ढः (5.3.102) इति? नैतदस्ति; स्वभावत एव ह्रयं नपुसंके वर्तते। अयं तह्र्रस्ति स्वाभाव्यात् - {सभाया ढश्छन्दसि इति मुद्रितः पाठः} सभाया यः (4.4.104) ढश्छन्दसि (4.4.106) इति? अयमपि नैव स्त्रियां वर्तते, छन्दसि सभेयीशब्दस्य प्रयोगादर्शनात्। तस्मान्नरनुबन्धको ढशब्द स्त्रियां नास्तीति नेह निरनुबन्धकपरिभाषोपतिष्ठते; अन्यथा हि ढग्रहममनर्थकं स्यात्।णेऽपि इति। अणि यत् कार्यं कृतं तण्णेऽपि क्वचिदिति क्वचिन्न भवतीत्युक्तं भवति। क्व पुनर्णेऽप्यण्कृतं कार्यं भवतीति? ताच्छीलिके। तथा हि कार्मस्ताच्छील्ये (6.4.172) इत्यत्र ज्ञापितमेतत्- णेऽप्यण्कृतं कार्यं भवतीति, कथम्? कार्मशब्दो हि ताच्छील्ये टिलोपार्थं निपात्यते। यदि न णेऽप्यण्कृतं कार्यं न स्यात् निपातनमनर्थकं स्यात्। कर्मशब्दात् कर्म शीलमस्येति छत्त्रादिभ्यो णः (4.4.62) इति णे कृते नस्तद्धिते (6.4.144) इत्येवं टिलोपस्य सिद्धत्वात्। अन् (6.4.167) इति प्रकृतिभावान्न सिध्यतीति चेत्? नैतदस्ति; अणि हि प्रकृतिभाव उच्यते, तत्र इनण्यनपत्ये (6.4.164) इत्यतोऽणीत्यनुवर्तते। तदेवं ताच्छीलिके णेऽप्यणि कृतं कार्यं भवति इत्यस्यार्थस्य ज्ञापितत्वात् तत्रैवाण्कृतं कार्यं भवति, नान्यत्र। ` चौरी, तापसी` इति। चुरा शीलमस्यास्तपः शीलमस्या इति छत्त्रादिभ्यो णः (4.4.62) णेऽप्यण्कृतं भवतीति ङीप्। दाण्डा मौष्टा इति। दण्डः प्रहरणस्याम्, मुष्टिः प्रहरणस्यां क्रीडायामिति तदस्यां प्रहरणमिति क्रीडायाम् णः (4.2.57) इति क्रीडायां णः। अथाणित्यकारादारभ्य लणो णकारात् प्रत्याहारग्रहणं कस्मान्न भवति? टिबादीनां पुनग्र्रहणात्। प्रत्याहारग्रहणे हि तेषां ग्रहणमनर्थकं स्यात्, अणन्तादेव सिद्धत्वात्।औत्सी, औदपानी इति। उत्सस्योदपानस्येयमिति उत्सादिभ्योऽञ् (4.1.86) इत्यञ्। अथ शाङ्र्गरवाद्यञो ङीन् (4.1.73) इत्यत्र पुनरञ्ग्रहणं किमर्थं क्रियते,।यावतानेनैव सिद्धम्, तदेव हि रूपं स एव हि स्वरः, तथा हि - ङीनि सति ञ्नित्यादिर्नित्यम् (6.1.197) इत्याद्युदात्तं भवति,औत्सीत्यत्राप्युत्सशब्दादञन्तान्ञित्स्वरेणाद्युदात्तान्ङीपि कृते तदेवाद्युदात्तत्वं भवति? इत्याह - शाङ्र्गर्वाद्यञः इत्यादि। बिदस्यापत्यं गोत्रं स्त्रीति अनृष्यानन्तर्य्ये बिदादिभ्योऽञ् (4.1.104) इत्यञि कृते तस्य गोत्रञ्च चरणैः सह (का।वृ।4.1.63) इति जातित्वात् जातेरस्त्रीविषयादयोपधात् (4.1.63) इति ङीष् प्राप्नोति। तद्बाधानार्थं पुनः शाङ्र्गरवाद्यञो ङीन् (4.1.73) इत्यत्राञो ग्रहमं क्रियते। यद्येवम्, इहाञ्ग्रहमं न कर्तव्यम्, तेनैवोत्सीत्यादेरपि सिद्धत्वात्? नैतदस्ति; जातिग्रहणं तत्र इतो मनुष्यजातेः (4.1.65) इत्यतोऽनुवर्तते पुंयोगादाख्यायाम् (4.1.48) इत्यादिनाञ् बैदः, तस्य भार्या बैदीति, तस्य पुंयोग ङीषेवेष्यते, तस्मात् तत्र जातिग्रहणमनुवर्तनीयम्। तस्मश्चानुवर्तमान औत्सीत्यत्रोत्सस्येयमित्यर्थविवक्षायामञि कृतेऽजातित्वादीकारस्तत्र न प्राप्नोति,तस्मादिहाप्यञ्ग्रहणं कर्तव्यमेव।द्वयसजादीनामनुबन्धोच्चारणं प्रत्ययपरिग्रहार्थम्। प्रातिपदिकान्यपि द्व्यसजादीनि सन्ति, तत्रासत्यनुबन्धोच्चारणे तेषामपि ग्रहणं विज्ञायेत। तयशब्दोऽपि अय वय तय {णय-धातुपाठः-} नय गतौ (धातुपाठः-474,485,479,480) इति तयो धातोरजन्तं प्रातिपदिकं सम्भवति, अतस्तन्निवृत्त्य्रथं पकारोच्चारणम्।ऊरुद्वयसी इत्यादि। ऊरुप्रमाणमस्याः, जानुप्रमाणस्या इति प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इति द्वयसजादयः प्रत्ययाः।पञ्चतयी इति।पञ्चावयवा अस्या इति संख्याया अवयवे तयप् (5.2.42) ।आक्षिकी, शालाकिकी इति। अक्षैर्दीव्यति शलाकाभिर्दीव्यतीति तेन दीव्यतिखनति (4.4.2) इत्यादिना ठक्, ठस्येकादेशः।लावणिकी इति। लवणं पण्यमस्या इति लवणाट्ठञ् (4.4.52) । अथ किमर्थं ठक्ठञौर्भेदेनोपादानाम्? न विशेषकरानुबन्धानुत्सृज्य ठ`इति सामान्येनैव ग्रहणं क्रियेतेत्यत आह - `भेदेन इत्यादि। इति सामान्येन ग्रहणे सति ठनादीनामपि ग्रहणं स्यात्, अतस्तन्निवृत्त्यै भेदेन ग्रहणम्। आदिशब्दो ञिठादीनां परिग्रहाय, तेन दण्डोऽस्यास्तीति अत इनिठनौ (5.2.115) इति ठनि कृते दण्डिकीति न भवति, काशिषु भवेति काश्यादिभ्यष्ठञ्ञिठौ (4.2.116) इति ञिठे प्रत्यये कृते काशिकीति न भवति।कञोनुबन्धग्रहणं आतोऽनुपसर्गे कः (3.2.3) इत्येवादीनां निवृत्त्यर्थम्। यादृशी, तादृशी इति। त्यदादिषु दृशेरनालोचने कञ्च (3.2.60) इति कञ्, आ सर्वनाम्नः (6.3.91) इति यत्तदोरात्त्वम्। क्वरपोऽनुबन्धोच्चारणं स्थेशभास (3.2.175) इत्यादिना विहितस्य वरचो निवृत्यर्थम्। यद्येवम्, एक एवानुबन्ध उच्चारणीयः, एकेनापि वरचो निवृत्तिः सिध्यत्येव? सत्यमेतत्, तथापि मन्दबुद्धीनां सुखप्रतिपत्तयेऽनुबन्धद्वयोच्चारणम्।इत्वरी, नआरी`इति। `इण्नश्जसर्त्तिभ्य- क्वरप् (3.2.163) ह्रस्वस्य तुक्। ख्युनोऽनुबन्धोच्चारणं लाघवार्थम्; अनयथा हि षष्ठीबहुवचने कृते नुटि नामि दीर्घत्वे च गुरुच्चारणं स्यात्। आढङ्करणी इति। अनाढ आढ्यः क्रियतेऽनयेति आढसुभग (3.2.56) इत्यादिना ख्युन्, अरुर्द्विषदजन्तस्य मुम् (6.3.67) ।नञ्स्नञीकक्` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्यार्थः, तेन नञादिभ्योऽपि भविष्यतीति। स्त्रैणी,पौस्नी इति। स्त्रिया इयम्, पुंस इयमिति स्त्रीपुंसाभ्यां नङस्नञौ भवनात् (4.1.87) इति नञ्सञौ। शाक्तीकी, याष्टीकी इति। शक्तिः प्रहरणमस्याक्षितम्। तरुणी सुरा,तलुनी सुरेति - अत्र सुरादौ विषये तरुणतलुनशब्दाभ्यां ङीब्वेदितव्यः, न हि सुरादीनां वयोऽस्ति,तस्य प्राणिधर्मत्वात्। अभिनत्वमात्रं सुरादीनां तरुणतलुनशब्दाभ्यां गम्यते। यदा तु वयो विवक्ष्यते तदा गौरादिपाठान्ङीषा भवितव्यम्। तत्र स्वरे विशेषः - तरुणतलुनशब्दौ हि {कृवृदारिभ्य उनन् (द।उ।5।52) त्रो रश्च लो वा (द।उ।5।56) इत्युननप्रत्ययान्तौ व्युत्पादितौ,अतो नित्स्वरेणाद्युदात्तौ। तत्र ङीपि सत्याद्युदात्तत्वं भवति; ङीषि तु सति प्रत्ययस्वरेणान्तोदात्तत्वम्॥

Praudhamanorama

इह वृत्तिकृता सूत्रे ख्युन् प्रक्षिप्तः। औत्सीति। उत्से भवा, ‘उत्सादिभ्योऽञ्’। न च ‘शार्ङ्गरवाद्यञ्’ इति ङीना सिद्धमिदमिति वाच्यम्, तत्र जातेः इत्यनुवर्तते। अन्यथा पुंयोगेऽपि स्यात्। एतेन इह अञ्ग्रहणं स्पष्टार्थमिति प्राचो ग्रन्थः प्रत्युक्तः। इहानेकं वाक्यं, तत्र अनुपसर्जनमण् योऽकारस्तदन्तादिति व्यख्यानान्नेह— आपिशलमधीते आपिशला ब्राह्मणीति। अत्र हि प्रोक्तार्थेऽण् उपसर्जनम्, अध्येत्रण् तु लुप्तः, वर्णप्राधान्यान्न प्रत्ययलक्षणम्, अतष्टाबेव भवति। ताच्छीलिके इति। अयं भवः— ‘शीलम्’ ‘छत्रादिभ्यो णः’ इति यो णस्तस्मिन् अण्कार्यं भवति , ‘कार्मस्ताच्छील्ये’ इति ज्ञापकात्। अनेन हि ‘अन्’ इति अणि विहितं प्रकृतिभावं बाधितुं टिलोपो निपात्यते। चौरीति। चुरा शीलमस्याः।

Prakriyasarvasvam

अनुपसर्जनेभ्योऽदन्तेभ्यष्टिदादिभ्यः स्त्रियां ङीप् स्यात् । ‘चरेष्टः (३-२-१६) । वनचर ई । ‘यस्य’ (६-४-१४८) इति लोपः । वनचरी । धेटष्टिट्त्त्वात् स्तनन्धयी । धेटः खश्येव ङीबिति माधवः । तेन ‘पाघ्राध्माधेट्’— (३-१-१२७) इति शे कृते धया । ढ—आग्नेयी । अण्—कुम्भकारी । ऐन्द्री । एवं सौरी । आगस्ती । अत्र सूर्यागस्त्यसम्बन्धित्वात् ङ्यां यलोपः । अञ् -औत्सी । द्वयसजादौ—ऊरुद्वयसी, ऊरुदघ्नी, ऊरुमात्री । तयप्—द्वितयी । अयजादेशस्य स्थानिवत्त्वाद् द्वयी त्रयी । ठक्—लाक्षिकी । कालाट्ठञ् (४-३-११) । मासिकी । कञ् । तादृशी । क्वरप्—इत्वरी । ख्युन्—आढ्यङ्करणी । अनुपसर्जनादित्युक्ते- र्बहुवनचरा भूरित्यादौ न । नञ्स्नञीकक्तरुणतलुनानां च वाच्यम् । स्त्रैणी । पौंसी । शाक्तीकी । तरुणी । तलुनी । द्वौ कामिनीमात्रार्थौ वयोर्थौ च स्तः । अनयोगौरादित्वात्ङीषप्यस्ति । स्वरभेदः ।

Vartika

नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् ।

Sutra Prayogas

  • पार्वतीपरमेश्वरौ (रघुवंशम्): टिङ्ढाणञ्- इत्यादिना ङीप्।

  • दैवीनां मानुषीणां (रघुवंशम्): टिड्ढाणञ्- इत्यादिना ङीप्।

  • शालिगोप्यः (रघुवंशम्): टिड्ढाणञ- इत्यादिना ङीप्।

  • प्रतिहाररक्षी (रघुवंशम्): टिड्ढाणञ्- इति ङीप्।

  • शुद्धान्तरक्ष्या (रघुवंशम्): टिड्ढाणञ्… इति ङीप्।

  • पार्थिवीम् (रघुवंशम्): टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः इति ङीप्।

  • पौष्यां (रघुवंशम्): टिड्ढाणञ्- इत्यादिना ङीप्।

  • शिल्पकार्य (रघुवंशम्): टिड्ढाणञ्- इत्यादिना ङीप्।

  • चतुष्टयी (कुमारसम्भवम्): टिड्ढाणञ्द्वयसज्… इति ङीप् ।

  • पालनीम् (किरातार्जुनीयम्): टिद्ढाणञ्- इत्यादिना ङीप्।

  • रौचनिकीं (किरातार्जुनीयम्): टिड्ढाणञ्… इत्यादिना ङीप् ।

  • गत्वर्यो (किरातार्जुनीयम्): टिडाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः इति ङीप्।

  • नरशिखित्रयी (शिशुपालवधम्): टिड्ढाणञ् इत्यादिना ङीप्।

  • देव्य (शिशुपालवधम्): टिड्ढाणञ्- इत्यादिना ङीप्।

  • हैमनीषु (शिशुपालवधम्): टिड्ढाणञ्- इत्यादिना ङीप्।

  • गजद्वयसीः (शिशुपालवधम्): टिड्ढाणञ्- इत्यादिना ङीप्।

  • आस्माकी (शिशुपालवधम्): टिड्ढाणञ्- इत्यादिना ङीप्।

  • पुरातनीः (शिशुपालवधम्): टिड्ढाणञ् इत्यादिना ङीप्।

  • गुरुहृद्रोगकरी (शिशुपालवधम्): टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः इत्यादिना ङीप्।

  • माङ्गलिक्यः (भट्टिकाव्यम्): टिड्ढाणज् इत्यादिना ङीप् ॥

  • ब्राह्म्या (भट्टिकाव्यम्): ठिड्डाण इत्यादिना ङीप्।

  • नाऽऽरीणाऽमल-सलिला (भट्टिकाव्यम्): तदन्तात् टिड्डाणन् इत्यादिना ङीप्।