41019: कौरव्यमाण्डूकाभ्यां च

Padacheda: कौरव्य-माण्डूकाभ्याम् | S | 5 | 2 |

च | S | 0 | 0 |

Sutrartha

‘कौरव्य’ तथा ‘माण्डूक’ एताभ्याम् शब्दाभ्याम् स्त्रीत्वं द्योतयितुयम् ष्फ-प्रत्ययः भवति ।

स्त्रियाम् (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ष्फ प्रत्ययः प्रकृतसूत्रेण पाठ्यते । “कौरव्य” तथा च “माण्डूक” इत्येताभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् ष्फ-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । केवलः ष्फ-प्रत्ययः स्त्रीत्वं द्योतयितुम् सम्पूर्णरूपेण असमर्थः अस्ति इति कारणात् तस्मात् पुनः ङीष्-प्रत्ययः अपि नित्यं विधीयते । क्रमेण विवरणम् एतादृशम् — <hlb>1. कौरव्य-शब्दः</hlb> कुर्वादिभ्यो ण्यः (4.1.151) इति सूत्रेण “कुरु”-शब्दात् अपत्यार्थे ण्य-प्रत्यये कृते “कौरव्य” इति शब्दः सिद्ध्यति । तत्र स्त्रीत्वं द्योतयितुम् अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ष्फ-प्रत्ययः भवति, ततश्च ङीष्-प्रत्ययः अपि विधीयते —

कुरोः अपत्यं स्त्री
→ कुरु + ण्य + ष्फ + ङीष् [**कुरुनादिभ्यो ण्यः** (4.1.172) इति ण्य-प्रत्ययः । ततः **कौरव्यमाण्डूकाभ्यां च** (4.1.19) इति ष्फ । ततः **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्]
→ कुरु + य + फ + ई [इत्संज्ञालोपाः]
→ कौरु + य + फ + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ कौरो + य + फ + ई [**ओर्गुणः** (6.4.146) इति उकारस्य गुणः]
→ कौरव् + य + फ + ई [**वान्तो यि प्रत्यये** (6.1.79) इति अवादेशः]
→ कौरव् + य + आयन + ई [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति प्रत्ययादिफकारस्य आयन्-आदेशः]
→ कौरव् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य **यस्येति च** (6.4.148) इति लोपः भवति ।]
→ कौरव् + य् + आयन् + ई [**यस्येति च** (6.4.148) इति नकारोत्तस्य  अकारस्य लोपः]
→ कौरव्यायणी [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्]

<note>”कुरु”-शब्दात् तस्येदम् (4.3.120) इत्यनेन अण्-प्रत्यये कृते “कौरव” इति शब्दः सिद्ध्यति । अत्र स्त्रीत्वे विवक्षिते तु प्रकृतसूत्रम् नैव प्रवर्तते यतः प्रकृतसूत्रे “कौरव्य” इति ण्य-प्रत्ययान्तरूपस्यैव निर्देशः वर्तते । अतः “कौरव”-शब्दात् स्त्रीत्वं द्योतयितुम् टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इति ङीप्-प्रत्ययः एव भवति, येन “कौरवी” इति शब्दः सिद्ध्यति । “कौरवी सेना” इत्यादिषु उदाहरणेषु अस्य प्रयोगः दृश्यते ।</note> <hlb>2. माण्डूक-शब्दः</hlb> ढक् च मण्डूकात् (4.1.119) इति सूत्रेण “मण्डूक” शब्दात् अपत्यार्थे अण्-प्रत्यये कृते “माण्डूक” इति शब्दः सिद्ध्यति । तत्र स्त्रीत्वं द्योतयितुम् टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ष्फ-प्रत्ययः भवति, ततश्च ङीष्-प्रत्ययः अपि विधीयते —

मण्डूकस्य अपत्यं स्त्री
→ मण्डूक + अण् + ष्फ + ङीष् [**ढक् च मण्डूकात्** (4.1.119) इति ढक्-प्रत्ययः । ततः **कौरव्यमाण्डूकाभ्यां च** (4.1.19) इति ष्फ । ततः **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्]
→ माण्डूक + अ + फ + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ माण्डूक् + अ + फ  + ई [**यस्येति च** (6.4.148 इति अकारलोपः]
→ माण्डूक् + अ +  आयन + ई [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** [[7.1.2) इति प्रत्ययादिफकारस्य आयन्-आदेशः]
→ माण्डूक् + ० + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे ककारोत्तरस्य अकारस्य **यस्येति च** (6.4.148) इति लोपः भवति ।]
→ माण्डूक् + आयन् + ई [**यस्येति च** (6.4.148) इति नकारोत्तस्य  अकारस्य लोपः]
→ माण्डूकायनी

<note>**ढक् च मण्डूकात्** (4.1.119) इत्यनेन “मण्डूक”शब्दात् अपत्यार्थे ढक्-प्रत्ययः अपि भवति, येन “माण्डूकेय” इति शब्दः सिद्ध्यति । अत्र स्त्रीत्वे विवक्षिते तु प्रकृतसूत्रम् नैव प्रवर्तते यतः प्रकृतसूत्रे “माण्डूक” इति अण्-प्रत्ययान्तरूपस्यैव निर्देशः वर्तते । अतः “माण्डूकेय”-शब्दात् स्त्रीत्वं द्योतयितुम् टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इति ङीप्-प्रत्ययः एव भवति, येन “माण्डूकेयी” इति शब्दः सिद्ध्यति ।</note>

वार्त्तिकम् — <!कौरव्यमाण्डूकयोरासुरेरुपसङ्ख्यानम्!>

प्रकृतसूत्रे “आसुरि” इति शब्दः अपि स्वीकर्तव्यः — इति अस्य वार्त्तिकस्य आशयः । अतः, “असुरस्य अपत्यम्” इत्यस्मिन् अर्थे “असुर”-शब्दात् अत इञ् (4.1.95) इति इञ्-प्रत्यये कृते तत्र स्त्रीत्वं द्योतयितुम् ष्फ-प्रत्ययः, ततश्च ङीष्-प्रत्ययः भवति । प्रक्रिया इयम् —

असुरस्य अपत्यं स्त्री
→ असुर + इञ् + ष्फ + ङीष् [**अत इञ्** (4.1.95) इति इञ्-प्रत्ययः । ततः **कौरव्यमाण्डूकाभ्यां च** (4.1.19) इति ष्फ । ततः **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्]
→ आसुर + इ + फ + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ आसुर् + इ + फ  + ई [**यस्येति च** (6.4.148 इति अकारलोपः]
→ आसुर् + इ +  आयन + ई [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** [[7.1.2) इति प्रत्ययादिफकारस्य आयन्-आदेशः]
→ आसुर् + ० + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे ककारोत्तरस्य अकारस्य **यस्येति च** (6.4.148) इति लोपः भवति ।]
→ आसुर् + आयन् + ई [**यस्येति च** (6.4.148) इति नकारोत्तस्य  अकारस्य लोपः]
→ आसुरायणी [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्]

<note>स्त्रीप्रत्ययप्रकरणे इञ्-प्रत्ययान्तशब्देभ्यः वस्तुतः कोऽपि स्त्रीप्रत्ययः नैव पाठितः अस्ति ।अतः अनेन वार्त्तिकेन उक्तः ष्फ-प्रत्ययः न हि कस्यचित् बाधकरूपेण प्रवर्तते ।</note>

ष्फ-प्रत्ययान्तशब्देभ्यः ङीष्-प्रत्ययविधानम्

ष्फ-प्रत्यये विद्यमानस्य आदिस्थस्य षकारस्य षः प्रत्ययस्य (1.3.6) इत्यनेन इत्संज्ञा भवति । अयं इत्संज्ञक-षकारः अस्मिन् प्रत्यये ङीष्-प्रत्ययविधानार्थः निर्दिष्टः अस्ति । अनेन ष्फ-प्रत्ययान्तशब्दाः षित्-संज्ञकाः भवन्ति, अतः तेभ्यः षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन अग्रे ङीष्-प्रत्ययः विधीयते । केवलः ष्फप्रत्ययः स्त्रीत्वम् द्योतयितुम् न हि समर्थः, अतएव ङीष्-प्रत्ययः अपि तत्र नित्यम् भवति इति अस्य आशयः ।

Vasu English Summary

The affix ष्फ is added in the feminine after the words 1. कौरव्य and 2. माण्डूक।

Vasu English Translation

The affix ष्फ is added in the feminine after the words 1. कौरव्य and 2. माण्डूक। The word कौरव्य is formed by adding the affix ण्य to the base कुरु (4.1.151); this word, ending in अ, would have formed its feminine by टाप् (4.1.4), but for the present sutra. So also by (4.1.119), the word माण्डूक is formed by अण् added to मण्डूक; and the feminine of manduka would have been formed by nip (4.1.15), but for the present aphorism, which supersedes that affix. Thus कौरव्यायणी, माण्डूकायनी ॥

How do you explain the form कौरवी in the phrase कौरवी सेना ?

We explain it by saying that कौरवी is not the feminine of कौरव्य; but of कौरव, formed by adding अण् to कुरु by sutra (4.3.120).

Vart:- The word आसुरि should be enumerated along with kauravya and mandukya. Thus आसुरायणी ॥ The word आसुरि is formed by the affix इञ् added to the word असुर; the word ‘asuri’ would, therefore have taken the affix अण् in forming the further derivative (4.2.112). But according to the opinion of Patanjali, the word, ‘asuri’ should form its further derivative (called also शैषिक) by taking the affix छ (4.2.114). Thus आसुरीयः कल्पः (तेन प्रोक्तम्) ॥

Bhashya

कौरव्यमाण्डूकाभ्यां च (1293) (5148 सूत्रांशपूरकवार्तिकम्॥ 1 ॥) - कौरव्यमाण्डूकयोरासुरेरुपसंख्यानम् - (भाष्यम्) कौरव्यमाण्डूकयोरासुरेरुपसंख्यानं कर्तव्यम् -आसुरायणी। (5149 सूत्रांशपूरकवार्तिकम्॥ 2 ॥) - छश्च - (भाष्यम्) छश्चेति वक्तव्यम् -आसुरीयः कल्पः॥

Kashika

कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति। कुर्वादिभ्यो ण्ये (४.१.१५१) कृते ढक् च मण्डूकात् (४.१.११९) इत्यणि च। यथाक्रमं टाब्ङीपोरपवादः। कौरव्यायणी। माण्डूकायनी। कथं कौरवी सेना? तस्येदं — (४.३.१२०) — विवक्षायामणि कृते भविष्यति॥ कौरव्यमाण्डूकयोरासुरेरुपसंख्यानम्॥ आसुरायणी। शैषिकेष्वर्थेषु इञश्च (४.२.११२) इत्यणि प्राप्ते छप्रत्यय इष्यते। आसुरीयः कल्पः॥

Siddhanta Kaumudi

आभ्यां ष्फः स्यात् । टाप्ङीषोरपवादः । कुर्वादिभ्यो ण्यः (SK1175) । कौरव्यायणी । ढक् च मण्डूकात् (SK1122) इत्यण् । माण्डूकायनी ।<!आसुरेरुपसङ्ख्यानम् !> (वार्तिकम्) ॥ आसुरायणी ॥

Balamanorama

कौरव्यमाण्डूकाभ्यां च - कौरव्यमाण्डूकाभ्यां च । आभ्यामिति । कौरव्यमाण्डूकाभ्यामित्यर्थः । क्रमेणेति । कौरव्यशब्दाट्टापो माण्डूकशब्दान्ङीषस्चापवाद इत्यर्थः ।छ कौरव्यशब्दस्य यञन्तत्वान्माण्डूकशब्दस्य अणन्तत्वाच्च ‘ङीपोऽपवाद’ इत्युचितमिति भ्रमं वारयितुमाह — कुर्वादिभ्य इत्यादिना । कौरव्यायणीति । कुरोरपत्यं स्त्रीति विग्रहः । ‘कुर्वादिभ्यो ण्यः’ इति ण्यः । णकार इत्, ‘ओर्गुणः,’आदिवृद्धिः,गोत्रं च चरणैः सहे॑ति जातित्वेऽपि योपधत्वात्जातेरस्त्रीविषया॑दिति ङीषभावे टाप् प्राप्तः । तं बाधित्वा ष्फः, ष इत्, आयन्,यस्येति चे॑त्यकारलोपः । षित्त्वान्ङीष् ।यस्येति चे॑ति भावः । माण्डूकायनीति । मण्डूको नाम ऋषिः, तस्यापत्यं स्त्रीति विग्रहः ।ढक् च मण्डूका॑दित्यण्, आदिवृद्धिः, ‘यस्येति च,’गोत्रं च चरणैः सहे॑ति जातित्वान्ङीष् प्राप्तः, तं बाधित्वा ष्फः, ष इत्, आयन्, ‘यस्येति च,’ षित्त्वान्ङीष्,यस्येति चे॑ति भावः । ‘टाब्ङीपोरपवाद’ इति पाठस्तु प्रामादिकः ।आसुरेरुपसङ्ख्यानमिति ।ष्फस्ये॑ति शेषः । आसुरायणीति । असुरस्यापत्यं स्त्रीति विग्रहः ।अत इञ्, आदिवृद्धिः, ष्फः, ष इत्ायन् ।यस्येति च॑ ।षित्त्वान्ङीष्,यस्येति च॑ । णत्वमिति भावः ।

Tattvabodhini

कौरव्यमाण्डूकाभ्यां च - कौरव्य । टाम्ङीषोरिति योपधत्वेनजाति॑रिति तथापि तत्रङी॑बिति लेखकपर्माद एव । पारिभाषिकस्य पौत्रपर्भृतिगोत्रस्यैव जातित्वान्ङीषः प्राप्तिर्नेति मतान्तराभि प्रायेण वा तथोक्तमिति बोध्यम् । कौरव्यसाहचर्यान्माण्डूकशब्दोऽप्यपत्यपत्र्ययान्त एवेह गृह्रते न तुतस्येद॑मित्यणन्तः, तेनयद्यसौ कूपमाण्डूकि । तवैकावतिकः स्मय॑इति भट्टिप्रयोगः सिद्धः । तत्र हि मण्डूकस्येयं भार्येति विवक्षयातस्येद॑मित्यण् ।

Padamanjari

कौरव्यमाण्डूअकयोरित्यादि । अस्मिन्सूत्रे आसुरेरपि ग्रहणं कर्तव्यम् । आसुरिकौरव्यमाण्डूअकेभ्यश्चेति वक्तव्यमित्यर्थः । आसुरायणीति । ष्फस्य तद्धितत्वाद्’यस्येति च’ इति इञो लोपः । तदिदं तद्धितग्रहणमेव लिङ्गं भवति - आसुरेरपि ष्फ इति । यञादिष्वकारान्तेषु सवर्णदीर्घत्वेनापि रूपं सिद्धम् । शैषिकेषु चार्थोष्वति । आसुरीप्रसङ्गादिदमत्रोक्तम् ; अन्यथा द्विरासुरिग्रहणं कर्तव्यं स्यात् । आसुरीय इति । असुरस्यापत्यमासुरिः, तेन प्रोक्त आसुरीयः कल्प इति ॥

Nyaas

कथं कौरवी`इति। कौरव्यशब्दादेवात्र हीब्विहित इति मन्यमानस्य प्रश्नः। कुरुशब्दादेवात्राणन्तान्ङीब्विहित इति दर्शयन्नाह -`तस्येदम् इत्यादि।कौरव्यमाण्डूकयोः इत्यादि। कौरव्यमाण्डूकयोरनेन सूत्रेण यत्कार्यं विधीयते तस्यासुरेरप्युपसंख्यानम् = प्रतिपादनं कर्तव्यम्। आसुरेरपि ष्फः प्रतिपादयितव्य इति यावत्। तत्रेदं प्रतिपादनम् - चकारोऽत्र क्रियते,स चानुक्तसमुच्चयार्थः तेनासुरिशब्दादपि ष्फो भविष्यतीति। आसुरायणी`इति। असुरस्यापत्यमिति `अत इञ् (4.1.95) , तदन्तात् ष्फः। इञश्चेत्यणि प्राप्ते इति। तत्र प्रस्थोत्तरपदपलद्यादिकोपधादण् (4.2.110) नेति योगविभागः कर्तव्यः, तेनासुरिशब्दादपि प्रतिषिद्धे वृद्धाच्छः (4.2.114) इति छ एव भविष्यति - आसुरिणा प्रोक्त आसुरीयः कल्प इति॥

Praudhamanorama

कथं तर्हि ‘यद्यसौ कूपमाण्डूकि तवैतावतिकः स्मय’ इति भट्टिः। अत्राहुः— कौरव्यसाहचर्यादपत्यप्रत्ययान्तस्यैव माण्डूकस्येह ग्रहणम्। इह तु मण्डूकस्येयं भार्येति ‘तस्येदम्’ इत्यण्।

Prakriyasarvasvam

कौरव्यायणी । माण्डूकायनी । चकारादासुरेश्च । असुरस्यापत्यमासुरिः । ततः स्त्रियामासुरायणी । दाक्षायणी । गौरीत्यप्येवमेवेति स्वामी ॥