Sutras 61 - 80¶
- 61061: ये च तद्धिते
- 61062: अचि शीर्षः
- 61063: पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु
- 61064: धात्वादेः षः सः
- 61065: णो नः
- 61066: लोपो व्योर्वलि
- 61067: वेरपृक्तस्य
- 61068: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्
- 61069: एङ्ह्रस्वात् सम्बुद्धेः
- 61070: शेश्छन्दसि बहुलम्
- 61071: ह्रस्वस्य पिति कृति तुक्
- 61072: संहितायाम्
- 61073: छे च
- 61074: आङ्माङोश्च
- 61075: दीर्घात्
- 61076: पदान्ताद्वा
- 61077: इको यणचि
- 61078: एचोऽयवायावः
- 61079: वान्तो यि प्रत्यये
- 61080: धातोस्तन्निमित्तस्यैव