61061: ये च तद्धिते

Padacheda: ये | S | 7 | 1 |

च | S | 0 | 0 |

तद्धिते | S | 7 | 1 |

Sutrartha


Vasu English Summary

There is the substitution of this stem शीर्षन् for शिरस् when a तद्धित-affix beginning with य follows.

Vasu English Translation

There is the substitution of this stem शीर्षन् for शिरस् when a तद्धित-affix beginning with य follows. The word शीर्षन् is understood here. This rule teaches substitution. The original for which this substitution comes is not given in the sutra, we must infer it. The appropriate original is शिरस् ॥ Thus शीर्षण्यो हि मुख्यो भवति, शीर्षण्यः स्वरः ॥ The affix यत् is here added by (4.3.55). The word शीर्षण् retains its original form before this affix यत्, the final अन् not being replaced by anything else (6.4.168). Why do we say when ‘a Taddhita-affix follows’? Observe शिर इच्छति = शिरस्यति, here य is not a Taddhita affix, and so there is no substitution.

Vart:- The substitution is optional when meaning ‘hair’. As शीर्षण्याः केशाः or शिरस्याः केशाः ॥

Bhashya

ये च तद्धिते ( 2498) (6067 उपसंख्यानवार्तिकम् ॥ 1 ॥) - ये च तद्धिते शिरस आदेशार्थम् - ये च तद्धिते इत्यत्र शिरसो ग्रहणं कर्तव्यम् । किं प्रयोजनम् ? आदेशार्थम् । आदेशो यथा विज्ञायेत, प्रकृत्यन्तरं मा विज्ञायि । किं च स्यात् ? यकारादौ तद्धितेऽस्कारान्तस्य श्रवणं प्रसज्येत -शीर्षण्यो हि मुख्यो भवति, शीर्षण्यः स्वरः ॥ (6068 विकल्पोपसंख्यानवार्तिकम् ॥ 2 ॥) - वा केशेषु - वा केशेषु शिरसः शीर्षन्भावो वक्तव्यः । शीर्षण्याः केशाः, शिरस्याः ॥ (6069 उपसंख्यानवार्तिकम् ॥ 3 ॥) - अचि शीर्षः - अचि परतः शिरसः शीर्षभावो वक्तव्यः । हास्तिशीर्षिः, पैलुशीर्षिः ॥ (6070 उपसंख्यानवार्तिकम् ॥ 4 ॥) - छन्दसि च - शिरसः शीर्षभावो वक्तव्यः । द्वे शीर्षे ॥ (आक्षेपभाष्यम्) इह - हास्तिशीर्ष्या, पैलुशीर्ष्या - इति, शिरसो ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति । अस्तु । नस्तद्धिते (6.4.144) इति टिलोपो भविष्यति । न सिध्यति । ये चाभावकर्मणोः (6.4.167) इति प्रकृतिभावः प्रसज्येत । (न्यासान्तरेण दोषनिवारकभाष्यम्) यदि पुनः येऽचि तद्धिते इत्युच्यते । किं कृतं भवति ? इञ्ञि शीर्षन्भावे कृते टिलोपेन सिद्धम् ॥ (न्यासान्तरे दोषभाष्यम्) नैवं शक्यम् । इह हि - स्थूलशिरस इदं स्थौलशीर्षमिति - अन् (6.4.167) अणि - इति प्रकृतिभावः प्रसज्येत । तस्मान्नैवं शक्यम् । न चेदेवं शिरसो ग्रहणेन ग्रहणाच्शीर्षन्भावः प्राप्नोति । (प्रथमाक्षेपसमाधानभाष्यम्) पाक्षिक एष दोषः । कतरस्मिन् पक्षे ? ष्यङि्वधौ द्वैतं भवति - अणिञ्ञोर्वाऽऽदेशः ष्यङ्, अणिञ्ञ्भ्यां वा पर इति । तद्यदा तावदणिञ्ञोरादेशः, तदैष दोषः । यदा ह्यणिञ्ञ्भ्यां परः, न तदा दोषो भवति, अणिञ्ञ्भ्यां व्यवहितत्वात् ॥

Kashika

शीर्षन्निति वर्तते। आदेशोऽयमिष्यते। स कथम् ? तद्धित इति हि परं निमित्तमुपादीयते, स तदनुरूपां प्रकृतिं शिरःशब्दमाक्षिपति। यकारादौ तद्धिते परतः शिरः शब्दस्य शीर्षन्नादेशो भवति। शीर्षण्यो हि मुख्यो भवति। शीर्षण्यः स्वरः। शिरसि भव इति शरीरावयवाच्च (४.३.५५) इति यत्। ये चाभावकर्मणोः (६.४.१६८) इति प्रकृतिभावः। तद्धित इति किम् ? शिर इच्छति शिरस्यति॥ वा केशेषु॥ शिरसः शीर्षन्नादेशो वक्तव्यः। शीर्षण्याः केशाः, शिरस्याः केशाः॥

Siddhanta Kaumudi

यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति ।<!वा केशेषु !> (वार्तिकम्) ॥ शीर्षण्याः शिरस्या वा केशाः ।<!अचि शीर्ष इति वाच्यम् !> (वार्तिकम्) ॥ अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ॥

Balamanorama

पद्दन्नोमाशृन्निशसन्यूषन्दोषन्यकञ्छकनुदन्नासञ्छस् प्रभृतिषु - अथ पादशब्दस्य शसादौ विशेषं दर्शयितुमाह — पद्दन्नो । पद्-दत्-नस्-मास्-ह्मद्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन्-इत्येषां समाहरद्वन्द्वः । शश्-द्वितीयाबहुवचनं प्रभृति=आदिः येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः ।अनुदात्तस्य चर्दुपधस्यान्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते । शसादिषु परेषु पदादय आदेशा वा स्युरित्यर्थः । पदाद्यादेशैश्च स्वानुरूपाः स्थानिन आक्षिप्यन्ते । तदाह — पदादन्तेत्यादिना । यथासङ्ख्यापरिभाषया, पादादीनां क्रमेण पदादय आदेशाः प्रत्येतव्याः । तत्प्रामादिकमिति । भ्रममूलकमित्यर्थः । ‘हव्या जुहान आसनि’ इति मन्त्रेआसन्यं प्राणमूचु॑रित्यादौ च आस्यार्थकत्वस्यैव दर्शनादिति भावः । दन्तशब्दस्य सुटि रामवत् । शसि पद्दन्निति ददादेशः । दत्-अस् इति स्थिते तकारस्य ‘झलां जशोऽन्ते’ इति पदान्ते विधीयमानं जश्त्वमाशङ्कितुं पदसंज्ञाविधायकं सूत्रं वक्ष्यति — ॒स्वादिष्वसर्वनामस्थान॑ इति ।

Tattvabodhini

पद्दन्नोमाशृन्निशसन्यूषन्दोषन्यकञ्छकनुदन्नासञ्छस् प्रभृतिषु - पद्दन्नो । शसादौ वेति ।अनुदात्तस्य चर्दुपधस्ये॑त्यतोऽन्यतरस्यामित्यनुवर्तत इति भावः । अत्र शस्प्रभृतयो निमित्ततयोपात्ताः, ते च पदाद्यादेशानुरूपान्प्रकृतिविशेषानाक्षिपन्तीत्याह-पाददन्तेति । यद्यसिशीर्षंश्छन्दसी॑त्यतःछन्दसी॑त्यनुवर्तते, तथापि भाषायामपि क्वचित्पदादयो भवन्ति,मासश्छन्दसी॑ति वार्तिके छन्दोग्रहणसामर्थ्यादिति वक्ष्यति । प्रामादिकमिति । तथाहि-॒आस्नो वृकस्य वर्तिका॑मिति मन्त्रे मुखादित्यर्थः, औचित्यात् ।वृकस्य चिद्वर्तिकामन्तरास्यात् इति मन्त्रान्तरसंवादाच्च । तथाहव्या जुह्वान आसनि॑ इति मन्त्रे मुखे इत्यर्थः । एवम्आसन्यं प्राणमूचुः॑ इत्यादावपि बोध्यम् ।

Padamanjari

च्छन्दसि पूर्वेणैव सिद्धमिति। भाषार्थमिदम्, यदि पूर्वसूत्रवदिहापि शीर्षन्निति प्रकृत्यन्तरं विज्ञायेत तदा। यदा शिरः शब्दाद्यचकारादिस्तद्धित उत्पद्यते तदा तस्य श्रवणं प्रसज्येतेति मत्वाऽऽह -आदेशोऽयमिष्यत इति। स कथमिति। स आदेशः कथं लभ्यते, न कथञ्चित्, स्थानिनोऽनुपादानात् पूर्वसूत्रवदिति प्रश्नः। तन्ननिमितमनुरूपां शब्दतश्चार्थतश्चान्तरतमां प्रकृतिं शिरशब्दमेवाक्षिपति। शिरस्यातीति।’सुप आत्मनः क्चन्’ । वा केसेष्विति। सूत्रेण न्त्ये प्राप्ते विकल्पितः। अत्र शिरस्यशब्दस्य केशैकविषयत्वातत्प्रयोगे केशशब्दो न प्रयोक्तव्यः, शीर्षण्यशब्दस्तु सामान्यवाचीति तत्प्रयोगे विशेषावगमाय केशशब्दः प्रयोक्तव्यः ॥

Prakriyasarvasvam

यादौ तद्धिते परे शिरसः शीर्षन्नादेशः स्यात् । शिरसि भवः । शीर्षंण्यः स्वरः । ‘केशेषु वा वाच्यम् (वा०) ।’ शीर्षण्याः शिरस्या वा केशाः । विशदाः कचा एवमुच्यन्ते । ‘नस् नासिकाया यत्तत्क्षुद्रेषु’ (वा० ६-१-६३) । नासिकायां भवं नस्यम् । नासायास्तु नास्यम् । ‘वर्णनगरयोर्नेति वाच्यम्’ (वा० ६-१-६३) । नासिक्यो वर्णः । नासिक्यं नगरम् । जाठरोऽग्निः, ललाटं ज्योतिरित्यादौ ‘सोऽस्य निवासः’ (४–३–८९) इत्येण् योज्यः ॥

Vartika

वा केशेषु ।