61070: शेश्छन्दसि बहुलम्

Padacheda: शेः | S | 6 | 1 |

छन्दसि | S | 7 | 1 |

बहुलम् | S | 1 | 1 |

Sutrartha

वैदिकप्रयोगेषु कुत्रचित् ‘शि’ इत्यस्य लोपः कृतः दृश्यते ।

जश्शसोः शिः (7.1.20) इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः “शि”-आदेशः भवति । अस्य आदेशस्य वेदेषु बहुलम् (इत्युक्ते केषुचन स्थलेषु) लोपः कृतः दृश्यते । यथा - “त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत” (ऋग्वेदे 1.36.5) इत्यत्र विद्यमानेषु “विश्वा”, “व्रता”, “ध्रुवा” एतेषु त्रिषु शब्देषु “शि”-प्रत्ययस्य लोपः कृतः अस्ति । अत्र प्रक्रिया एतादृशी वर्तते —

विश्व+ शस् [द्वितीयाबहुवचनस्य प्रत्ययः]
→ विश्व + शि [**जश्शसोः शिः** (7.1.20) इति शि-आदेशः]
→ विश्व + न् + इ [**नपुंसकस्य झलचः** (7.1.72) इति नुमागमः]
→ विश्वा न् इ [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति उपधादीर्घः]
→ विश्वान् [ **शेश्छन्दसि बहुलम्** (6.1.70) इति शि-प्रत्ययस्य लोपः]
→ विश्वा [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः]
<br/>
एवमेव "व्रता", "ध्रुवा" — एतौ शब्दौ सिद्ध्यतः ।अनेनैव प्रकारेण "तानि" इत्यस्य स्थाने "ता", "यानि" इत्यस्य स्थाने "या" एतौ प्रयोगौ अपि दृश्येते ।

प्रकृतसूत्रेण उक्तः लोपः केवलम् केषुचन स्थलेषु एव दृश्यते, सर्वत्र न; अतएव अस्मिन् सूत्रे “बहुलम्” इति शब्दः स्वीकृतः वर्तते ।

वार्त्तिकम् — <!एमन्नादि छन्दसि पररूपं वक्तव्यम्!>

काशिकायां भाष्ये च एङि पररूपम् (6.1.94) इत्यत्र पाठितम् इदं वार्त्तिकम् कौमुदीकारेण तु प्रकृतसूत्रस्य व्याख्याने स्थापितम् अस्ति । “एमन्” , “ओद्वन्”, “इष्टि” एतेषु शब्देषु परेषु पररूपैकादेशः भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा —

  1. त्वा + एमन् = त्वेमन् ।

  2. त्वा + ओद्वन् = त्वोद्वन् ।

  3. अभि + इष्टि = अभिष्टि ।

  4. परि + इष्टि = परिष्टि ।

Sutrartha (English)

In वेदाः, ‘शि’ is seen removed at some places.

Vasu English Summary

In the छन्दस् , the elision of the case-ending इ (शि) of the nominative and accusative plural neuter, is optional.

Vasu English Translation

In the छन्दस् , the elision of the case-ending इ (शि) of the nominative and accusative plural neuter, is optional. Thus या क्षेत्रा or यानि क्षेत्राणि, या वना or यानि वनानि ॥

Bhashya

शेश्छन्दसि बहुलम् (2507) (योगानुपयोगप्रख्यापनभाष्यम्) अयं योगः शक्योऽवक्तुम् । कथम् - अग्ने त्री ते वाजिना त्री षधस्था, ता ता पिण्डानाम् - इति ? पूर्वसवर्णेनाप्येतत्सिद्धम् ॥ न सिध्यति । नुमा व्यवहितत्वात्पूर्वसवर्णो न प्राप्नोति ॥ छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः - मधोर्गृह्णाति, मधोस्तृप्ता इवासते, इत्येवमर्थम् । तत्र पुंवद्भावेन नुमो निवृत्तिः । नुमि निवृत्ते पूर्वसवर्णेन सिद्धम् ॥ भवेत्सिद्धम् - अग्ने त्री ते वाजिना त्री षधस्था । इदं तु न सिध्यति - ता ता पिण्डानामिति । इदमपि सिद्धम् । कथम् ? साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिको भविष्यति ॥ एवमपि जसि गुणः प्राप्नोति । वक्ष्यत्येतत् - जसादिषु छन्दो वावचनं प्राङ् णौ चङ्युपधायाः ॥

Kashika

शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति। या क्षेत्रा। या वना॑ (शौ॰ सं॰ १४.२.७)। यानि॒ क्षेत्रा॑णि (शौ॰ सं॰ १४.२.७)। यानि वनानि॥

Siddhanta Kaumudi

लोपः स्यात् । या ते गात्राणाम् (ता ता॒ पिण्डा॑नाम्) ॥ या ते गात्राणाम् (या ते॒ गात्रा॑णाम्) । ता ता पिण्डानाम् (ता ता॒ पिण्डा॑नाम्) ।<!एमन्नादि छन्दसि पररूपं वक्तव्यम् !> (वार्तिकम्) ॥ अपां त्वेमन् (अ॒पां त्वे॒मन्) । अपां त्वोद्मन् (अ॒पां त्वो॒द्मन्) ॥

Balamanorama

संहितायाम् - संहितायाम् । इत्यधिकृत्येति ।छे चेत्यादि विधीयते॑ इति शेषः । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यन्तथापि सूत्रक्रमानुरोधादिहोक्तम् ।

Tattvabodhini

संहितायाम् - संहितायाम् । इत्यधिकृत्येति । एतच्चइकोयणची॑त्यत्रैव वक्तव्यमपि सूत्रक्रमानुरोधेनात्रोक्तम् ।

Padamanjari

या क्षेत्रेति। शेर्लोपे कृते प्रत्ययलक्षणेन’नपुंसकस्य झलचः’ इति नुम्,’सर्वनामस्थाने च’ इति दीर्घः, नलोपः। अयं योगः सक्योऽवक्तुम्, कथम्? डादेशेन सिद्धत्वात्। कथमग्नेत्रीति? त्रिऐ इति स्थिते प्रथमयोः पूर्वसवर्णदीर्घत्वेनैव सिद्धम्। न सिद्ध्यति, नुमा व्यवहितत्वात्? च्छन्दसि नपुंसकस्य पुंवद्भावो पक्तव्यः, मधोर्गृह्णातीत्येवमाद्यर्थं पुंवद्भावेनैव नुमो निवृत्तिः। एवमपि’जसि च’ इति गुणः प्राप्नोति, वक्ष्यत्येतत् -ठुसादिषु च्छन्दसि वावचनं प्राङ् णौ चङ्युपधायाःऽ इति। अपि च या क्षेत्रा, ता ता पिण्डानामिति ताइ इति स्थिते’सुपां सुलुक्’ इतीकारस्याकारे कृते’प्रथमयोः पूर्वसवर्णः’ इति दीर्घत्वेन सिद्धम् ॥

Nyaas

जस्शसोः शिः (7.1.20) इति यः शिरादेशस्तस्यायं लोपो विधीयते। या क्षेत्रा, या वना इति। शेर्लोपे कृते प्रत्यलक्षणेन नपुंसकस्य झलचः (7.1.72) इति नुम्, सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति दीर्घः, नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः। वेति कर्तव्ये बहुलग्रहणं सर्वविधिव्यभिचारार्थम्। `तेन सर्वे विधयश्छन्दसि विक्ल्प्यन्ते (पु।प।वृ।56), इत्युपपन्नं भवति॥

Prakriyasarvasvam

जश्शसोः शेर्बहुलम् लोपः स्यात् । (त?) या४ ते धामानि । या५ (इ) इति स्थिते शेर्लोपे प्रत्ययलक्षणेन ‘नपुंसकस्य’— (७-१-७२) इति नुम् । ‘सर्वनाम- स्थाने’— (६-४-८) इति दीर्घः । न लोपः । या यानीत्यर्थः । बहुलोक्तेर्धामा- नीत्यत्र न शिलोपः ।<!विश्वजनादीनां छन्दसि वा तुग्वक्तव्यः!> (वा. ६-१-७६) विश्वजनच्छत्रम् । विश्वजनछत्रम् । यस्य छायामृतम् । <karika>स्यादिमात्रात् स्वरादूर्ध्वस्यैकोयण् सामनीष्यते । भो इ इडेति वक्तव्ये भो ३ यिडेति हि गीयते ॥ ८७५ ॥</karika> त्रिमात्रश्चतुरादिमात्रो वायमोकारः ।<!गोयूँतौ छन्दस्यवादेशो वक्तव्यः!> (वा. ६-१-७९) घृतंर्गव्यूतिमुक्षतम् ।