61064: धात्वादेः षः सः

Padacheda: धात्वादेः | S | 6 | 1 |

षः | S | 6 | 1 |

सः | S | 1 | 1 |

Sutrartha

धातोः औपदेशिकस्वरूपे आदिस्थस्य षकारस्य सकारादेशः भवति ।

धातुपाठे पाठितेभ्यः ~ 2000 धातुभ्यः प्रायेण 90 धातूनाम् औपदेशिस्वरूपे प्रथमवर्णः षकारः विद्यते । एते सर्वे धातवः षोपदेशाः धातवः नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् षकारस्य प्रक्रियायाः प्रारम्भे (इत्संज्ञालोपात् अनन्तरम्) सकारादेशः भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —

  1. ष्वदँ (आस्वादने, भ्वादिः (1.18)) → स्वद् ।

  2. ञिष्वपँ (शये, अदादिः, (2.63)) → स्वप् । अत्र ‘ञि’ इत्यस्य इत्संज्ञां कृत्वा, ततः लोपं कृत्वा प्रकृतसूत्रेण षकारस्य सकारादेशः भवति ।

  3. षहँ (चक्यर्थे, दिवादिः, (4.23) → सह् ।

  4. षुञ् (अभिषवे, स्वादिः, (5.1) → सु ।

  5. षिचँ (क्षरणे, तुदादिः, (6.170) → सिच् ।

एतादृशं षकारस्य सकारादेशे कृते धातौ द्वौ अन्यौ परिवर्तनौ अपि भवतः ** — 1. **धातौ आदिस्थात् षकारात् परः अव्यवहितरूपेण उत स्वरस्य व्यवधानेन णकारः अस्ति चेत् तस्य नकारादेशः भवति । यथा —

  1. षणँ (सम्भक्तौ, भ्वादिः, (1.535)) → सन् ।

  2. ष्णा (शौचे, अदादिः, (2.47)) → स्ना

  3. ष्णिहँ (प्रीतौ, दिवादिः, (4.97)) → स्निह् ।

  4. षणुँ (दाने, तनादिः, (8.2)) → सन् ।

एतेषु सर्वेषु अपि धातुषु मूलरूपेण नकारः एव विद्यते, परन्तु षकारस्य उपस्थितौ रषाभ्यां नो णः समानपदे (8.4.1) अथ वा अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इत्यनेन णत्वे कृते तस्य णकारादेशः कृतः वर्तते । अतः यदा षकारस्य निवृत्तिं कृत्वा तस्य स्थाने सकारः विधीयते तदा निमित्तापाये नैमित्तिकस्याप्यपायः इति परिभाषाम् अनुसृत्य णत्वस्य अपि निवृत्तिः भवति, अतश्च णकारस्य स्थाने नकारः आदेशरूपेण विधीयते । <note>येषु धातुषु नकारस्य अग्रे अनुस्वार-परसवर्णः सम्भवति, तेषु धातुषु औपदेशिकस्वरूपे एतादृशं णत्वं न कृतं दृश्यते, यतः तत्र णत्वम् अनुनासिकादेशं प्रति असिद्धम् अस्ति । यथा “षन्जँ (सङ्गे, (1.1142))” अस्मिन् धातौ विद्यमानस्य नकारस्य औपदेशिक-अवस्थायाम् णत्वं नैव कृतम् अस्ति यतः अयं नकारः णत्वात् पूर्वमेव अनुस्वारादेशं प्राप्य “षंज्” इत्येतं रूपं प्राप्नोति, तत्र च णत्वस्य नैव प्रसक्तिः विद्यते । इत्युक्ते, “षन्जँ” इत्यत्र षकारस्य सामर्थ्यात् अपि णत्वं न सम्भवति अतः अत्र नकारेण एव उपदेशः क्रियते । </note> 2. धातौ आदिस्थात् षकारात् परः अव्यवहितरूपेण टकारः ठकारः वा विद्यते चेत् तस्य यथासंख्यम् तकारः थकारः च भवति । एतादृशाः प्रायेण 25 धातवः धातुपाठे विद्यन्ते । कानिचन उदाहरणानि एतानि —

1. ष्टगेँ (संवरणे, भ्वादिः, (1.909)) → स्तग् । 2 ष्टिघँ (आस्कन्दने, स्वादिः, (5.21)) → स्तिघ् । 3. ष्ठा (गतिनिवृत्तौ, भ्वादिः, (1.1077)) → स्था । 4. ष्ठल् (स्थाने, भ्वादिः, (1.970)) → स्थल् ।

एतेषु सर्वेषु अपि धातुषु मूलरूपेण तकारः / थकारः एव विद्यते, परन्तु षकारस्य उपस्थितौ ष्टुना ष्टुः (8.4.41) इत्यनेन ष्टुत्वे कृते तस्य टकारादेशः / ठकारादेशः कृतः वर्तते । अतः यदा षकारस्य निवृत्तिं कृत्वा तस्य स्थाने सकारः विधीयते तदा निमित्तापाये नैमित्तिकस्याप्यपायः इत्यनया परिभाषया ष्टुत्वस्य अपि निवृत्तिः भवति, अतश्च टकारस्य ठकारस्य वा स्थाने अन्तरतमः तवर्गीयवर्णः आदेशरूपेण विधीयते । <note> 1. धातुपाठे षकारात् परः अव्यवहितरूपेण डकारः ढकारः वा नैव कुत्रचित् दृश्यते । अतः तेषाम् उदाहरणानि अत्र न दीयन्ते । 2. षकारात् परः अव्यवहितरूपेण णकारः यत्र विद्यते तत्र सः णकारः णत्वकार्येण सिद्धः स्वीक्रियते, न हि ष्टुत्वेन —‌ यतः णत्वं प्रति ष्टुत्वम् असिद्धम् अस्ति । अतः तत्र णत्वनिवृत्तिं कृत्वा एव णकारस्य स्थाने नकारः भवति । </note>

वार्त्तिकम् — <!सुब्धातु-ष्ठिवु-ष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः!>

प्रातिपदिकेभ्यः सनादिप्रत्ययानां योजनेन ये धातवः सिद्ध्यन्ति तेषां विषये, “ष्ठिवुँ” (निरसने, (1.641), (4.4)) इत्यस्य धातिः विषये, तथा च “ष्वष्क्” (गतौ, (1.105)) धातोः विषये प्रकृतसूत्रं नैव प्रवर्तते — इति अस्य वार्त्तिकस्य आशयः । यथा —

  1. “षण्मुखः इव आचरति” अस्मिन् अर्थे कर्तुः क्यङ् सलोपश्च (3.1.11) इत्यनेन “षण्मुख”-शब्दात् क्यङ्-प्रत्यये कृते “षण्मुखाय” इति धातुः सिद्ध्यति । अयम् नामधातुः (सुब्धातुः) अस्ति अतः अस्य आदौ विद्यमानस्य षकारस्य सकारादेशः न भवति । अतएव अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् “षण्मुखायते” इत्येव षकारघटितं सिद्ध्यति ।

  2. “ष्ठिवुँ” (निरसने, (1.641), (4.4)) अयं धातुः भ्वादिगणे, दिवादिगणे च विद्यते । अस्मिन् धातौ विद्यमानस्य आदिस्थस्य षकारस्य प्रकृतसूत्रेण सकारादेशः न भवति । यथा — “ष्ठीवति, ष्ठीवतु, अष्ठीवत्” आदयः । अत्र षत्वनिवृत्तिः न भवति अतः अत्र ष्टुत्वनिवृत्तिः अपि नैव जायते ।

  3. “ष्वष्क्” (गतौ, (1.105)) इत्यस्मिन् धातौ विद्यमानस्य षकारस्य अपि प्रकृतसूत्रेण षत्वं न भवति । अतः अस्य रूपाणि “ष्वष्कते / अष्वष्कत / ष्वष्कताम्” एतादृशानि भवन्ति ।

धातोः षोपदेशस्य प्रयोजनम्

धातुपाठे विद्यमानाः सर्वे अपि सकारादयः धातवः मूलरूपेण षोपदेशाः न सन्ति । केवलम् केषाञ्चन धातूनां विषये एव औपदेशिकस्वरूपे षःकारः श्रूयते । एतेषु सर्वेषु धातुषु स्थापितस्य षकारस्य प्रयोजनम् षत्वप्रकरणे दृश्यते । तदित्थम् — षोपदेशधातुषु जायमानः सकारः आदेशरूपेण सिद्ध्यति, अतः एतादृशः सकारः यदा इण्-वर्णात् परः विद्यते तदा तस्य आदेशप्रत्यययोः (8.3.59) इति सूत्रेण षत्वं सम्भवति । एकम् उदाहरणम् एतादृशम् —

षिवुँ (तन्तुसन्ताने, दिवादिः, (4.2))
→ षिव् [**उपदेशेऽजनुनासिक इत्** (1.3.2), **तस्य लोपः** (1.3.9) ]
→ सिव् [**धात्वादेः षः सः** (6.1.64) इति षत्वम्]
→ सिव् + लिट् [**लिट् च** (3.4.115) इति लिट्]
→ सिव् + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ सिव् + णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति णल्-आदेशः]
→ सिव् + अ [णकारलकारयोः इत्संज्ञा, लोपः]
→ सिव् सिव् + अ [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम् ।  **द्विर्वचनेऽचि** (1.1.59) इत्यनेन अजादेशात् पूर्वम् द्वित्वं भवति ।]
→ सिव् सेव् + अ [द्वित्वे कृते **पुगन्तलघूपधस्य च** (7.3.86) इति लघूपधगुणः प्रवर्तते ।]
→ सि सेव् + अ [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः अंशः अवशिष्यते ।]
→ सिषेव [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम् । अत्र "सेव्"-इत्यस्य सकारः षकारात् आदेशरूपेण सिद्ध्यति, अतः **आदेशप्रत्यययोः** (8.3.59) इत्यनेन तस्य षत्वं सम्भवति ।]

ये धातवः षोपदेशाः न सन्ति, तेषां विषये एतादृशं षत्वं न प्रवर्तते । यथा, “स्रिवुँ (गतिशोषणयोः, दिवादिः, (4.3))” अस्य धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् “सिस्रेव” इति भवति । अत्र धातौ विद्यमानः सकारः आदेशनिर्मितः नास्ति, अतः आदेशप्रत्यययोः (8.3.59) इत्यनेन तस्य षत्वम् अपि न विधीयते ।

Sutrartha (English)

A षकार present at the beginning of औपदेशिक form of a धातु is converted to सकार.

Vasu English Summary

There is the substitution of स in the room of the ष् being the initial of a verbal root as enunciated in the धातुपाठ।

Vasu English Translation

There is the substitution of स in the room of the ष् being the initial of a verbal root as enunciated in the धातुपाठ। The roots exhibited in the Dhatupatha with an initial ष, change it for स ॥ Thus षह -सहते, षिच् - सिंचति ॥ Why do we use the word ‘root’? Observe षोडश, षडिकः, षण्डः ॥ Why do we say ‘initial’? Observe — कर्षति, कृषति ॥ Why have then roots been exhibited in the Dhatupatha with an initial ष, when for all practical purposes this ष is to be replaced by स, would it not have been easier to spell at once these words with a स ? This appears cumbersome no doubt, but the spelling of the roots with ष is for the sake of brevity. Certain roots change their स into ष when preceded by certain letters: those roots which thus change their letter स for ष have been at once taught with an initial ष, and thus by (8.3.59) their स is changed to ष ॥ Thus from सिव - instead of सिसव we have सिषव ॥ Thus root is exhibited in the Dhatupatha with a ष, and thus we know that the स must be changed to ष ॥ Otherwise a list of such roots would have to be separately given. One must refer to the Dhatupatha for a list of such roots. As a general rule, however, all roots beginning with a स and followed by a vowel or a dental letter have been taught in the Dhatupatha as beginning with an initial ष, as well as the following roots स्मि, स्वद्, स्विद्, स्विज् and स्वप्, though followed by म् or व् ॥ The following roots though followed by a vowel or a dental are not taught with an initial ष viz. सृप्, सृज्, स्तृ, स्त्या, सेकृ and सृ ॥

Vart:- Prohibition must be stated of the roots derived from nouns, and of ष्ठिव् and ष्वष्क ॥ Thus षोडीयते, षण्डायते are roots derived from nouns, and though these roots begin with ष are not changed: so ष्ठिव् — ष्ठिवति, ष्वष्क — ष्वष्कते ॥ The word ष्ठिव contains in it two roots ष्ठिव् and ष्थिव्, one with ठ, another with थ, and thus we have two forms in the reduplication :- तेष्ठीव्यते, टेष्ठीव्यते ॥ The substitution of स for ष takes place in the case of the root that has थ ॥

Bhashya

धात्वादेः षः सः (2501) (सत्वाधिकरणम्) (पदकृत्यभाष्यम्) धातुग्रहणं किमर्थम् ? इह मा भूत् - षोडन्, षण्डः, षडिकः ॥ अथादिग्रहणं किमर्थम् ? इह मा भूत् - पेष्टा, पेष्टुम् । नैतदस्ति प्रयोजनम् । अस्त्वत्र सत्वम्, सत्वे कृते इण उत्तरस्यादेशसकारस्येति षत्वं भविष्यति । इदं तर्हि - लषिता, लषितुम् ॥ इदं चाप्युदाहरणम् - षेष्टा, पेष्टुम् । ननु चोक्तम् - अस्त्वत्र सत्वं सत्वे कृते इण उत्तरस्यादेशसकारस्येति षत्वं भविष्यतीति । नैवं शक्यम् । इह हि - पेक्ष्यतीति, षत्वस्यासिद्धत्वात् षढोः कः सि (8.2.41) इति कत्वं न स्यात् ॥ (6073 प्रतिषेधवार्तिकम् ॥ 1 ॥) - सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधः - सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः । सुब्धातु - षोडीयति, षण्डीयति ॥ ष्ठिवु - ष्ठीवति ॥ ष्वष्क, ष्वष्कते ॥ (वार्तिकान्यथासिद्धिबोधकभाष्यम्) सुब्धातूनां तावन्न वक्तव्यः । उपदेश इति वर्तते, उद्देशश्च प्रातिपदिकानां नोपदेशः ॥ यद्येवम्, नार्थो धातुग्रहणेन । कस्मान्न भवति - षोडन्, षण्डः, षडिक इति ? उपदेश इति वर्तते, उद्देशश्च प्रातिपदिकानां नोपदेशः ॥ ष्ठिवेरपि द्वितीयो वर्णष्ठकारः । यदि ठकारः, तेष्ठीव्यत इति न सिध्यति । एवं तर्हि थकारः । यदि थकारः, टुष्ठ्यूषति - टेष्ठीव्यते इति न सिध्यति । एवं तर्हि द्वाविमौ ष्ठिवू । एकस्य द्वितीयो वर्णष्ठकारः, अपरस्य थकारः । यस्य थकारस्तस्य सत्वं प्राप्नोति ॥ एवं तर्हि द्वाविमौ द्विषकारकौ ष्ठिवुष्वष्कती । किं कृतं भवति ? पूर्वस्य षकारस्य सत्त्वे कृते परेण सन्निपाते ष्टुत्वं भविष्यति । नैवं शक्यम्, इह हि - श्वलिट् ष्ठीवति, मधुलिट् ष्वष्कते - ष्टुत्वस्यासिद्धत्वात् डः सि धुट् (8.3.29) इति धुट् प्रसज्येत ॥ एवं तर्हि यकारादी ष्ठिवुष्वष्कती । किं यकारो न श्रूयते ? लुप्तनिर्दिष्टो यकारः ॥ (सूत्रप्रयोजनभाष्यम्) अथ किमर्थं षकारमुपदिश्य तस्य स आदेशः क्रियते, न सकार एवोपदिश्येत । लघ्वर्थमित्याह । कथम् ? अविशेषेणायं षकारमुपदिश्य सकारमादेशमुक्त्वा लघुनोपायेन षत्वं निर्वर्तयति - आदेशप्रत्यययोः (8.3.59) इति । इतरथा हि येषां षत्वमिष्यते तेषां तत्र ग्रहणं कर्तव्यं स्यात् ॥ (षोपदेशप्रदर्शकभाष्यम्) के पुनः षोपदेशा धातवः पठितव्याः ? अथ कोऽत्र भवतः पुरुषकारः ? यद्यन्तरेण पाठं किंचिच्छक्यते वक्तुं तदुच्यताम् । अन्तरेणापि पाठं किंचिच्छक्यते वक्तुम् । कथम् ? अज्दन्त्यपराः सादयः षोपदेशाः, स्मिङ्स्वदिस्विदिस्वञ्ञ्जिस्वपश्च, सृपिसृजिस्तृस्त्यासेकृसृवर्जम् ॥

Kashika

धातोरादेः षकारस्य स्थाने सकारादेशो भवति। षह — सहते। षिच — सिञ्चति। धातुग्रहणं किम् ? षोडश। षोडन्। षण्डः। षडिकः। आदेरिति किम् ? कषति। लषति। कृषति। **आदेशप्रत्यययोः**(८.३.५९) इत्यत्र षत्वव्यवस्थार्थं षादयो धातवः केचिदुपदिष्टाः। के पुनस्ते ? ये तथा पठ्यन्ते। अथवा लक्षणं क्रियते — अज्दन्त्यपराः सादयः षोपदेशाः स्मिस्विदिस्वदिस्वञ्जिस्वपितयश्च । सृपिसृजिस्तृस्त्यासेक्सृवर्जम्॥ सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः॥ षोडीयति। षण्डीयति। ष्ठीवति। ष्वष्कते। ष्ठिवु इत्यस्य द्वितीयस्थकारष्ठकारश्चेष्यते। तेन तेष्ठीव्यते टेष्ठीव्यत इति चाभ्यासरूपं द्विधा भवति॥

Siddhanta Kaumudi

धातोरादेः षस्य सः स्यात् । सात्पदाद्योः (SK2123) इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे ।{$ {!20 उर्द!} माने क्रीडायां च$} ॥

Laghu Siddhanta Kaumudi

स्नुक्, स्नुग्, स्नुट्, स्नुड्। एवं स्निक्, स्निग्, स्निट्, स्निड्॥ विश्ववाट्, विश्ववाड्। विश्ववाहौ। विश्ववाहः। विश्ववाहम्। विश्ववाहौ॥

Balamanorama

धात्वादेः षः सः - दात्वादेः । ‘ष’ इति षष्ठन्तं । तदाह — धातोरादेः षस्य सः स्यादिति । षकारस्य सः स्यादित्यर्थ- । धातुग्रहणं किम् । षट् । अत्र धात्वादित्वाऽभावान्न सकारः । आदिग्रहणं किम् । लषति । न चैवमपि षकारीत्यतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम्,आदेच उपदेशेऽशिती॑त्यत उपदेश इत्यनुवृत्तेः । एवं च षडित्यादावप्युदेशग्रहणानुवृत्त्यैव व्यावृत्तिसिद्धेर्धातुग्रहणं भाष्ये प्रत्याख्यातम् । ननु धातुपाठे स्वद स्वर्देत्येवं सकार एव उपदिश्यताम् । एवं च ‘धात्वादेः षः सः’ इत्यपि मास्त्विति चेन्मैवं, ण्यन्ताल्लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वात् । धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाऽभावेन षत्वाऽसंभवात् । नन्वेवं सति अनुस्वदत इत्यत्रादेशसकारत्वात्त्वापत्तिरित्यत आह — सात्पदाद्योरिति । सस्वद इति । लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । उर्देति । चकारादास्वादनेऽपीति केचित् ।

Tattvabodhini

धात्वादेः षः सः - धातुग्रहणं किम् । षट् षड् । आदेः किम् । लषति ।

Padamanjari

सिञ्चतीति।’से मुचादीनाम्’ इति नुम्। षोडन्निति। षड् दन्ता यस्येति बहुव्रीहौ’वयसि दन्तस्य दतृ’ ‘ष, उत्वं दतृदशधासु’ इति षष उत्वमुतरपदादेष्टुअत्वं च, ठुगिदचाम्ऽ इति नुम्, हल्ङ्यादिसयोगाचन्तलोगौ। क्वचितु षोड इति पठ।ल्ते, ततु ,षोडन्तमाचष्ट इति णिचि कृते टिलोपे पचाद्यचि रूपम्। षटशब्दोऽवल्युत्पन्नं प्रातिपदिकम्। अनुकम्पितः षडङ्गुलिः षडिकः,’बह्वचो मनुष्यनाम्नष्ठज्वा’ ,’ठाजादावूर्ध्वम्’ इत्यङ्गलिशब्दस्य लोपः। लषतीति। षकारोपदेशस्तु प्रनिलषतीत्यादौ’शेषे विभाषा’ खकादावषान्त उपदेशेऽ इति नेर्णत्वप्रतिषेधार्थं स्यात्, लेषतुः लेषुरित्यत्र ठादेशप्रत्यययोःऽ इति षत्वार्थम्। क्वचितु कषतीत्यपि पठ।ल्ते; तदयुक्तम्; षकारोपदेशसामर्थ्यादेवात्र न भविष्यति; प्रनिकषतीत्यत्रापि कखादावित्येव णत्वप्रतिषेधः सिद्धः; आदेशादित्वाभ}यासलोपौ च न स्तः - चकषतुः, चकषुः। किमर्थं पुनः षादयो धातव उपदिष्टा;, न सादय एवोपदिश्येरन्, एवं ह्यएतत्सूत्रं न कर्तव्यं भवति? तत्राह -आदोशप्रत्यययोरित्यादि। व्यवस्थानियमः - आदेशप्रत्यययोरिति सहादीनामेव षत्वं यथा स्यात्, सृपिसृजीप्रभृतीनां मा भूदित्येवमर्थं षादयः केचिदुपदिष्टाः; अन्यथा सहादीनां षत्वार्थं यत्नान्तरमास्थेयम्, तच्च गुरु भवतीति भावः। के पुनस्त इति। पाठे भ्रंशसम्भवात्प्रशनः। ये तथा पठ।ल्न्त इति। अप्रमादेन पठितव्यमित्यर्थः। अथ वा लक्षणं क्रियत इति। मन्दधियोऽनुग्रहीतुमिति भावः। अज्दन्त्यपराः सादय इति। अज्दन्त्यौ परौ येषां तेऽज्दन्त्यपराः, परशब्दोऽवयववाची। तच्चाज्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्सकारापेक्षं विज्ञायते। स्मिङ्स्विदिति।’ष्मिङीषद्धसने’ ,’ञिष्विदा गात्रप्रक्षरणे’ ‘ष्वन्ज सङ्गे’ ,’विष्वप् शये’ -एते स्वरूपेणैव पठ।ल्न्ते। वकारमकारयोरनज्दन्त्यत्वाद्वकारोऽपि केवलदन्तस्थानो न भवति।’स्वद आस्वादने’ इति। स्वदिमपि केचित्पठन्ति। सृपिसृजीत्यादि।’सृप्रृ गतौ’ ,’सृज विसर्गे’ ‘स्तृञ् आच्छादने’ ,’सत्यै ष्ट।ल्è शब्दसङ्घातयोः’ ,’सेकतिर्गत्यर्थः’ ,’सृ गतौ’ - एतान्वर्जयित्वा येऽन्येऽज्दन्त्यपरास्ते षोपदेशाः। सुब्दात्वित्यादि। सुब्धातुः क्यजाद्यन्तः,’ष्टिवु निरसने’ ,’ष्वष्कतिर्गत्यर्थः’ अनुदातेत् -एषां सत्वस्य प्रतिषेधो वक्तव्यः। तत्र सुब्दातूनां तावन्न वक्तव्यः, उपदेश इति वर्तते, न च सुब्धातवः क्वचिदुपदिश्यन्ते, एवं च कृत्वा धातुग्रहणं शक्यमकर्तुम्। उपदेशाभावादेव षोडादेर्न भविष्यति, तत् क्रियते धातोरित्यस्य निवृत्तिं सूचयितुम्। तेन’लोपो व्योर्वलि’ इति अविशेषेण भवति, ष्ठीवतिष्वष्कती द्विषकारकौ, तत्र पूर्वस्यास्तु सत्वम्, परेण सन्निपातेन षत्वं भविष्यतीति। यद्येवम्, लिट् ष्वष्कते, षत्वस्यासिद्धत्वाद्’डः सि धुट्’ इति धुट् प्रसज्येत ? एवं तर्हि यकारादी ष्ठिवुष्वष्कती, यकारस्तु’लोपो व्योर्वलि’ इति लुप्यते। ष्ठीवतीति।’ष्ठिवुक्लमुचमां शिति’ इति दीर्घत्वम्। अथास्य द्वितीयो वर्णो यदि ठकारः, तेष्ठीयत इति न सिध्यति; अथ थाकरः, टेष्ठीयत इति न सिद्ध्यति; उभयं चेष्यते, तत्राह -ष्ठीवत इत्यस्येत्यादि। उभयथा ह्याचार्येण शिष्याः पाठिता इति भावः ॥

Nyaas

सिञ्चिति इति। शे मुचादीनाम् (7.1.59) इति नुम्। षोडश इति। षट्? वा दश वास्येति संख्यायाव्यय (2.2.25) इत्यादिना बहुव्रीहिः, संख्येये ङच् (5.4.73) इत्यादिना समासान्तो ङच्। षोडन् इति। षट्? दन्ता अस्येति बहव्रीहिः, वयसि दन्तस्य दतृ (5.4.141) इति दन्तशब्दस्य दत्रादेशः। षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च (वा।765) इति षष उत्वम्, उत्तरपदादेश्च ष्टुत्वम् -डकारः। षण्डः इति। प्रातिपदिकान्तमेतदव्युत्पन्नम्। षडिकः इति। अनुकम्पितः षडङ्गुलिदत्त इति `बह्वचो मनुष्यनाम्नष्ठच् (5.3.78) इति ठच्? ठाजादावूध्र्वं द्वितीयादचः` (5.3.83) इत्यङ्गुलिदत्तशब्दस्य लोपः। ननु च लिटि धातोः (6.1.8) इत्यतोऽत्र धातुग्रहणमनुवर्त्तिष्यते, तदिह किं पुनर्धातुग्रहणेन? एवं तरह्हि एतज्ज्ञापयति -तन्निवृत्तमिति। तस्य ह्रनुवृत्तौ लोपो व्योर्वलि (6.1.64) इत्ययमपि लोपो धात्ववयवस्यैव विज्ञायते। क्नूयी (धा।पा485), क्तः -क्नूतः क्ष्मयी (धातुपाठः-486), क्तः -क्ष्मात इत्यत्रैव स्यात्; गौधरः, पचेरन्नित्यत्र न स्यात्। नन्वेवमपि धातुग्रहणमनर्थकमेव, यस्मादुपदेश इति वर्तत एव, न च प्रातिपदिकानामुपदेशः, केषां तर्हि उपदेशः? धातूनाम्? नैतदस्ति; उपदेशाधिकारो।युपदेशग्रहणेन षकारो विशिष्यते, षषश्च षकार उपदेशो भवति। `षष उत्त्वं दतृदशधासूत्तरपदादेः (वा।765) इति सूत्रे पाठात्। तस्मात्? धातुग्रहणं कर्तव्यम्। `कषति इति। भ्वादौ कषसिधेत्यादिहिसार्थो धातुवर्गे पठते। लषति इति। लष कान्तो`(धातुपाठः-888) अनयोरादिगारहणस्य भवति। ननु चोपदेशसामर्थ्यादेवात्र न भविष्यतीति, अन्यथा ह्रुपदेशस्य वैयथ्र्य स्यात्? नैतस्ति; अस्ति ह्रन्यतूपदेशस्य प्रयोजनम्। किं तत्? -**शेषे विभाषाऽकखादावषान्त उपदेशे** (8.4.18) इत्यत्र केषेग्र्रहणं मा भूत; लेषतुः, लेषुरिति षत्वं यथा स्यात्। किमर्थं पुनः षादयो उपद्ष्टाः, न सादयो ह्रुपदिश्येरन्, एवं ह्रेतत्? सूत्रं न कर्तवयं भवति? इत्यत आह -`आदेशप्रत्ययोः इत्यादि। षत्वव्यवस्थां=षत्वनियमः। आदेशप्रत्यययोः (8.3.59) इत्यनेन सहादीनामेव षत्वव्यवस्था यथा स्थादित्येवमर्थम्। षादपः केचिदुपदिष्टाः अन्यथा सहादीनां षत्वार्थ यत्नान्तरं कर्तव्यं स्यात्। तच्च गुरु भवतीत्यभिप्रायः। यद्यपि षकारादिषु सन्देहो न भवति, सकारादिषु च भवत्येव। अत्र हि न ज्ञायते -किं षोपदेशा एव सन्तः धात्वादेः षः सः (6.1.64) इत्यनेन कृतसत्वा उच्चारिताः? उत सकारादय एव? इति सन्दिह्र पृच्छति -के पुनस्ते इति। ये यथा पठन्ते इति। षादयो ये यथा पठन्ते सन्निधानात्? त एव षोपदेशा अवगन्तव्याः। अज्दन्त्यपराः इत्यादि। अज्दन्त्यौ परौ येषामिति तेऽब्दन्त्यपराः। परशब्दोऽत्रावयवे वर्तते। तच्चाच्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्? सकारापेक्षं विज्ञायते। स्मिस्विदिस्वञ्जिस्वपयश्च इति। ष्मिङीषद्धमने (धातुपाठः-948), ञिष्विदा गात्रप्रक्षरणे (धातुपाठः-1188), ष्वन्ज परिष्वङ्गे (धातुपाठः-976) ञिष्वप्? शये (धातुपाठः-1068) एते स्वरूपेणाख्यायन्ते; मकारवकारयोरज्दन्त्यत्वाभावात्। केचित् स्मिस्वदिस्वदिस्वञ्जिस्वपयश्चेति स्विदिस्थाने स्वदिं पठन्ति, तेषां तेषां स्वद [`ष्वद -धातुपाठः ] स्वर्द आस्वादने` (धातुपाठः-18,19) इति स्वदिरपि षोपदेश एव। सृपिसृजिस्तृस्त्यासेकृसृवर्जम् इति। गम्लु सुप्लृ गतौ (धातुपाठः-982,983), `सृज विसर्गे (धातुपाठः-1178), `स्तृञ्? आच्छादने (धातुपाठः-1252), ष्ट स्त्यै शब्दसङ्घातयोः, (धातुपाठः-911,910) सेक [सेकृ, रुओक -धातुपाठः-] सेकृ श्रकि श्लकि गत्यर्थाः (धातुपाठः-81,82,84,85), सृ गतौ (धातुपाठः-935) एतान्? वर्जयित्वा येऽन्येऽज्दन्तत्यपरास्ते षोपदेशाः। सुब्धातु इत्यादि। सुब्धातुः क्यजाद्यन्तः। ष्ठिच्? निरसने (धातुपाठः-560), ष्वक्क [अत्रत्याःधातवः केचन धातुपाठे न सन्ति] वुक्क मक्कतिक्क टिक्क टीक्क वगि लगि गत्यर्थाः -एषां प्रतिषेधो वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -सुब्धातौतावत्? षोडीयतीत्यादौ नैव धात्वादिः षकारः, तथा ह्रादिरवयवः। आरम्भकश्चावयवो भवति, सुब्दातुः सबन्तेन क्यचा चारभ्यते। न च षकारेणापि वर्णान्तरेणेति कुतस्तस्य षकारादित्वम्? सहादयस्तु षकारादिभिरेव वर्णेरारभ्यन्त इति युक्तं तेषां षकारादित्वम्। ष्ठिवेरपि निपातनान्न भवति, किं तन्निपातनम्? `ष्टिवुक्लमुचमां शिति (7.3.75) इति। यस्य हि सत्वं भवति तमयं प्रदेशेषु कृतसत्बमेवोच्चारयति यथा प्रदेशे -स्थाध्वोरिच्च (1.2.17) इति। ष्वक्केरप्यज्दन्त्यपरा इत्यनेन निवर्त्तितत्वान्न भवति। वकारस्य दन्त्यौष्ठत्वादज्दन्त्यग्रहणेन न गृह्रते। अथ वा यादित्यात्? ष्ठिवुष्वक्कोर्न भविष्यति, यकारस्तु लुप्तनिर्दिष्टत्वान्न श्रूयते। अथ वा -अन्यतरस्यांग्रहणमत्रानुवर्तते सा च व्यवस्थितविभाषा विज्ञायते, तेन सुब्धात्वादीनां न भवतीति। षष्ठीवति इति। ष्ठिवुक्लमुचमां शिति (7.3.75) इति दीर्घः। ष्वक्कते इति। अनुदात्तेत्त्वादात्मनेपदम्। अथ ष्ठिवो द्वितीयवर्णः किं ठकार इष्यते? उत थकारः? यदि ठकारस्तदा सिद्धम् -टेष्ठीष्यत इति, न सिध्यति -तेष्ठीव्यत इति, अभ्यासे चर्च (8.4.54) इति टकार एवान्तरतमष्ठकारस्य स्थाने प्राप्नोतीति कृत्वा; अथ थकारस्तदा सिद्धम् -तेष्ठीव्यत इति, एतन्न सिध्यति -टेष्ठीव्यत इति, आन्तरतम्याद्विधीयमानस्थकारस्य स्थाने तकार एव प्राप्नोतीत्यत आह -ष्ठिवु इत्येतस्य इत्यादि। ब्यासस्य द्वैरूप्यं यथा स्यादिति। केचिदाचार्येम शिष्या ठकारोऽयम् इत्युपदिष्टाः। अपरे पुनः थकारोऽयं ष्टुत्वेन ठकारः श्रूयते इतीममर्थं ग्राहिताः। उभयं चैतत्? प्रयोजनम्। अन्ये पुनरहुः -ष्ठिवुर्दिवादिष्वपि पुनरधीयते, तत्रैकस्य द्वितोयस्थाकारः, अपरस्य तु ठकार इति। तेष्ठीव्यत इति शर्पूर्वाः खयः (7.4.61) शेषः॥

Prakriyasarvasvam

सह्यः ।

Sudha

धात्वादेरिति । धातुग्रहणं किम् ? षड् । आदेः किम् ? लषति । स्नुट् स्नुड् । ष्णुह + उद्रिरणे, अस्मात्क्विप । कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते **धात्वादेः षः सः**(6.1.64) इति षस्य सत्वे **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सलोपे **वा द्रुहमुहष्णुहष्णिहाम्**(8.2.33) इत्यादिना घत्वे तस्य जश्त्वे **वाऽवसाने**(8.4.56) इति वा चर्त्व ‘स्नुक’ इति । चर्त्वाभावे ‘स्नुग्’ इति रूपम् । **वा द्रुहमुहष्णुहष्णिहाम्**(8.2.33) इति विकल्पाभावे **हो ढः**(8.2.31) इति ढत्वे तस्य जश्त्वे विकल्पेन चर्त्वे ‘स्नुट्’ इति । चर्त्वाभावपक्षे - ‘स्नुड्’ इति । शेषं पूर्ववत् । विश्वं वहतीत्यर्थे **भजो ण्विः**(3.2.62) इत्यतो ण्विरित्यनुवृत्तौ **वहश्च**(3.2.64) इति ण्विः । णकारः इत् । वेर्लोपः । **अत उपधायाः**(7.2.116) इति वृद्धिः। उपपदसमासः - ‘विश्ववाह’ इति रूपम् । ततस्सोर्हल्ङ्याबिति लोपे **हो ढः**(8.2.31) इति ढत्वे **वाऽवसाने**(8.4.56) इति चर्त्वविकल्पे विश्ववाट्, विश्ववाड्, विश्ववाहौ, विश्ववाहः। विश्ववाहं, विश्ववाहौ, इति सुटि रूपाणि सुगमत्वादुपेक्ष्य शसादौ अचि सम्प्रसारणसंज्ञां दर्शयति - इग्यणः सम्प्रसारणमिति ।

Vartika

सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः ।