61069: एङ्ह्रस्वात् सम्बुद्धेः

Padacheda: एङ्-ह्रस्वात् | S | 5 | 1 |

सम्बुद्धेः | S | 6 | 1 |

Sutrartha

एङन्तात् / ह्रस्वान्तात् शब्दात् विहितस्य सम्बोधनैकवचनप्रत्ययस्य हल्-वर्णः लुप्यते ।

एकारान्तम् / ओकारान्तम् / ह्रस्वस्वरान्तम् यत् शब्दस्वरूपम्, तस्मात् विहितस्य सम्बोधन-एकवचनस्य हल्-वर्णस्य प्रकृतसूत्रेण लोपः भवति । <note>**एकवचनं संबुद्धिः** (2.3.49) इति सूत्रेण सम्बोधनस्य एकवचनस्य प्रत्ययस्य सम्बुद्धिः इति संज्ञा दीयते । तस्याः एव अस्मिन् सूत्रे प्रयोगः कृतः अस्ति ।</note> उदाहरणानि एतानि — 1. एकारात् परस्य सम्बोधनस्य एकवचस्य हल्-वर्णस्य लोपः — इकारान्त-शब्दानाम् सम्बोधनैकवचनस्य सुँ-प्रत्यये परे ह्रस्वस्य गुणः (7.3.108) इत्यनेन गुणादेशे (एकारे) कृते तस्मात् परस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति —

मुनि + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
→ मुनि + स् [**उपदेशेऽजनुनासिक इत्** (1.3.2), **तस्य लोपः** (1.3.9)]
→ मुने + स् [**ह्रस्वस्य गुणः** (7.3.108)]
→ मुने [**एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति एकारात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः]

एवमेव, आकारान्त-स्त्रीलिङ्गशब्दानाम् सम्बोधनैकवचनस्य सुँ-प्रत्यये परे सम्बुद्धौ च (7.3.106) इत्यनेन एकारादेशे कृते तस्मात् परस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति —

माला + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
→ माला + स् [**उपदेशेऽजनुनासिक इत्** (1.3.2), **तस्य लोपः** (1.3.9)]
→ माले + स् [**सम्बुद्धौ च** (7.3.106)]
→ माले [**एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति एकारात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः]

2. ओकारात् परस्य सम्बोधनस्य एकवचस्य हल्-वर्णस्य लोपः — उकारान्त-शब्दानाम् सम्बोधनैकवचनस्य सुँ-प्रत्यये परे ह्रस्वस्य गुणः (7.3.108) इत्यनेन गुणादेशे (ओकारे) कृते तस्मात् परस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति —

धेनु + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
→ धेनु + स् [**उपदेशेऽजनुनासिक इत्** (1.3.2), **तस्य लोपः** (1.3.9)]
→ धेनो + स् [**ह्रस्वस्य गुणः** (7.3.108)]
→ धेनो [**एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति ओकारात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः]

3. ह्रस्वस्वरात् परस्य सम्बोधनस्य एकवचस्य हल्-वर्णस्य लोपः — अस्य उदाहरणानां क्रमेण परिगणनम् एतादृशम् — 1. अकारान्तपुंलिङ्गशब्दानाम् सम्बोधनैकवचनस्य रूपम्

बाल + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
बाल + स् [**उपदेशेऽजनुनासिक इत्** (1.3.2), **तस्य लोपः** (1.3.9)]
→ बाल  [**एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति ह्रस्वस्वरात् परस्य सम्बुद्धिप्रत्ययस्य हल्-वर्णस्य लोपः]

2. अकारान्तनपुंसकलिङ्गशब्दानां सम्बोधनैकवचनस्य रूपम्

फल + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
→ फल + अम् [**अतोऽम्** (7.1.24) इति सुँ-प्रत्ययस्य अम्-आदेशः]
→ फलम् [**अमि पूर्वः** (6.1.107) इति पूर्वरूपैकादेशः]
→ फल [**एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति सम्बुद्धिप्रत्ययस्य केवलम् **हल्-वर्णः** (मकारः) लुप्यते ।

3. दीर्घ-ईकारान्तशब्दानाम्, दीर्घ-उकारान्तशब्दानाम् सम्बोधनैकवचनस्य रूपम्

नदी / वधू + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
→ नदी / वधू +  स्  [**उपदेशेऽजनुनासिक इत्** (1.3.2), **तस्य लोपः** (1.3.9)]
→ नदि / वधु + स् [**अम्बार्थनद्योर्ह्रस्वः** (7.3.107) इति ह्रस्वः]
→ नदि / वधु [**एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति सुँ-प्रत्ययस्य लोपः]

सूत्रप्रयोगस्य स्थलानि

प्रकृतसूत्रस्य प्रयोगः अधोदत्तेषु स्थलेषु भवति

  1. अकारान्त-पुंलिङ्ग-नपुंसकलिङ्गशब्दानाम् च सम्बोधन-एकवचनस्य रूपसिद्धिः ।

  2. आकारान्त-ईकारान्त-ऊकारान्त-स्त्रीलिङ्गशब्दानाम् सम्बोधन-एकवचनस्य रूपसिद्धिः ।

  3. इकारान्त-उकारान्त-पुंलिङ्ग-स्त्रीलिङ्गशब्दानाम् सम्बोधन-एकवचनस्य रूपसिद्धिः ।

एतेषाम् सर्वेषाम् उदाहरणानि उपरि निर्दिष्टानि सन्ति ।

कतर-शब्दस्य नपुंसकलिङ्गस्य प्रक्रियाविशेषः

सर्वनामसंज्ञकस्य “कतर”-शब्दस्य नपुंसकलिङ्गस्य प्रक्रियायाम् प्रकृतसूत्रस्य प्रयोगः न भवति । तत्र प्रक्रिया एतादृशी वर्तते —

कतर  + सुँ   [सम्बोधनैकवचनस्य प्रत्ययः । **एकवचनं सम्बुद्धिः** (2.3.49) इति सम्बुद्धिसंज्ञा ।]
→ कतर + अद्ड् [**अद्ड् डतरादिभ्यः पञ्चभ्यः** (7.1.25) इति सुँ-प्रत्ययस्य अदड्-आदेशः ।]
→ कतर + अद्  [डकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः ।]
→ कतर् + अद्   [प्रत्ययस्य डित्त्वात् **टेः** (6.4.143) इति अकारलोपः]
→ कतरद् [सम्बुद्ध्यैकवचनस्य सुँ-प्रत्ययः यद्यपि मूलरूपेण अकारान्तात् शब्दात् विहितः अस्ति, तथापि अत्र "अद्" इति प्रत्ययः हलन्तात् शब्दात् परः विद्यते । अतः अस्यां स्थितौ एङन्तस्य / ह्रस्वान्तस्य शब्दस्य अभावात् अत्र हल्-वर्णस्य (दकारस्य) लोपः न प्रवर्तते ।]

अस्मिन्नेव सन्दर्भे भाष्यकारः ब्रूते — <source>विहितविशेषणं ह्रस्वग्रहणम् । यस्माद्ह्रस्वात्संबुद्धिर्विहितेति ।</source> अस्मिन् सूत्रे विद्यमानः “ह्रस्वात्” इति शब्दः “यस्मात् ह्रस्वात् सम्बुद्धिप्रत्ययः विहितः” अस्मिन् अर्थे स्वीकरणीयः इति अत्र भाष्यस्य आशयः वर्तते । अयमेव अर्थः सिद्धान्तकौमुद्याम् अङ्गशब्दस्य ग्रहणेन स्पष्टीकृतः अस्ति — <source> एङन्तात् ह्रस्वन्तात् च अङ्गात् हल् लुप्यते, सम्बुद्धेः चेत् । सम्बुद्ध्याम् आक्षिप्तस्य अङ्गस्य एङ्-ह्रस्वाभ्याम् विशेषणात् न इह — हे कतरत् कुल इति । </source> सिद्धान्तकौमुदीकारः अस्मिन् सूत्रे अङ्गात् इति शब्दम् आक्षिपति, येन “कतर् + अद्” इत्यस्यां स्थितौ ह्रस्वान्तस्य अङ्गस्य अभावात् प्रकृतसूत्रम् नैव प्रवर्तते ।

Sutrartha (English)

The हल् letter that belongs to a सम्बुद्धिप्रत्यय attached to एङन्त or ह्रस्वान्त word is removed.

Vasu English Summary

The consonant of the nominative-affix (सु and its substitute अम् ) is elided in the Vocative singular after a nominal-stem ending in ए or ओ or a short vowel.

Vasu English Translation

The consonant of the nominative-affix (सु and its substitute अम् ) is elided in the Vocative singular after a nominal-stem ending in ए or ओ or a short vowel. The word लोप is understood here also; as well as हल् ॥ The word अपृक्त however is not to be read here, as its repetition in (6.1.68) (though its anuvritti was there from the preceding sutra) indicates. The affix of Vocative is the same as that of the nominative. By (7.3.108), the short vowel of the stem is replaced by a guna vowel when the Vocative Singular affix follows. Thus we have अग्ने and वायो for अग्नि and वायु; and by (7.3.107), a short vowel is substituted for the long vowel ई and ऊ of the feminine: as नदि and वधु for नदी and वधू ॥ Now applying the present sutra, the affix स् is elided after all the above words. As हे अग्ने !, हे वायो !, हे देवदत्त !, हे नदि !, हे वधु ! The Vocative Singular of कुण्ड a Neuter noun is thus formed. By (7.1.24), अम् replaces स् of the nominative, the अ of अम् and the final अ of कुण्ड coalesce into one अ by (6.1.107), which becomes कुण्डम् ॥ Here by the rule that ‘consonant’ only is to be elided, we elide म् only (and not अ which becomes a part of the word by (6.1.85), for it is considered both as the final of the word and the initial of the affix). Now म् is not an अपृक्तं हल् for it is part of the affix अम्, and its elision would not have taken place had we read the anuvritti of aprikta into this sutra. Thus we have हे कुण्ड ! ॥ But in हे कतरत् ! there is not the elision of the त् of the affix अत्, the substitute of सु for the affix there is अद्ड् (7.1.25). This affix being डित् causes the elision of the final अ of कतर (6.4.143), and we have कतर् + अत्, here we have not a pratipadika which ends in a short vowel, but in a consonant hence त् is not elided. See also (7.1.25). The word एङ् is used in the sutra in order to indicate that the guna substitution is stronger than lopa. Therefore in हे अग्नि + सु, the affix is not elided first and then guna substituted for इ, but first there is guna substitution and then the affix is elided.

Bhashya

एङ्ह्रस्वात्संबुद्धेः (2506) (6092 एकदेश्युपसंख्यानवार्तिकम् ॥ 1 ॥) - संबुद्धिलोपे डतरादिभ्यः प्रतिषेधः - संबुद्धिलोपे डतरादिभ्यः प्रतिषेधो वक्तव्यः । हे कतरत्, हे कतमत् । किमुच्यते - डतरादिभ्यः प्रतिषेधो वक्तव्य इति यदाऽपृक्तस्येत्यनुवर्तते ? (6093 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - अपृक्ताधिकारस्य निवृत्तत्वात् - निवृत्तोऽपृक्ताधिकारः ॥ किं डतरादिभ्यः प्रतिषेधं वक्ष्यामीत्यतोऽपृक्ताधिकारो निवर्तते ? नेत्याह ॥ (6094 पूर्वोक्तार्थसमर्थकवार्तिकम् ॥ 3 ॥) - तच्चामर्थम् - स चावश्यमपृक्ताधिकारो निर्वत्यः । किमर्थम् ? अमर्थम् । अमो लोपो यथा स्यात् । हे कुण्ड, हे पीठ ॥ (आक्षेपभाष्यम्) निवृत्तेऽपि वै अपृक्ताधिकारे अमो लोपो न प्राप्नोति । किं कारणम् ? मा भूत्सर्वस्य लोपः । अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य लोपे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं स्यात् - हे कुण्ड, हे पीठेति ॥ यद्येतल्लभ्येत कृतं स्यात् । तत्तु न लभ्यम् । किं कारणम् ? अत्र हि तस्मादित्युत्तरस्य आदेः परस्य (1-1-67,54) इत्यकारस्य लोपः प्राप्नोति । अकारलोपे च सति मकारे अतो दीर्घो यञ्ञि सुपि च (7-3-101;102) इति दीर्घत्वे - हे कुण्डाम्, हे पीठाम् - इत्येतद्रूपं प्रसज्येत ॥ (सिद्धान्तभाष्यम्) एवं तर्हि हलो लोपः संबुद्धिलोपः । तद्धल्ग्रहणं कर्तव्यम् । न कर्तव्यम् । प्रकृतमनुवर्तते । क्व प्रकृतम् ? हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (68) इति । तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । नैष दोषः । एङ्ह्रस्वादित्येषा पञ्चमी हलित्यस्याः प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति ॥ एमवपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते - हे कुण्डा, हे पीठा - इत्येतद्रूपं प्रसज्येत । अमि पूर्वत्मत्र बाधकं भविष्यति । अमीत्युच्यते, न चात्रामं पश्यामः । एकदेशविकृतमनन्यवद्भवतीति ॥ अथ वेदमिह संप्रधार्यम् - संबुद्धिलोपः क्रियताम्, एकादेश इति; किमत्र कर्तव्यम् ? परत्वादेकादेशः । एवमप्येकादेशे कृते व्यपवर्गाभावात्संबुद्धिलोपो न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गो भविष्यति । उभयत आश्रयणे नान्तादिवत् । नोभयत आश्रयः करिष्यते । कथम् ? नैवं विज्ञायते - ह्रस्वादुत्तरस्याः संबुद्धेर्लोपो भवतीति । कथं तर्हि ? ह्रस्वादुत्तरस्य हलो लोपो भवतीति, स चेत्संबुद्धेरिति ॥ डतरादिभ्यः स तर्हि प्रतिषेधो वक्तव्यः । न वक्तव्यः ॥ (6095 सिद्धान्तवार्तिकम् ॥ 4 ॥) - उक्तं वा - किमुक्तम् ? सिद्धमनुनासिकोपधत्वात् इति ॥ एवमपि दलोपः साधीयः प्राप्नोति । दुक्करणाद्वा । अथवा दुक्डतरादीनामिति वक्ष्यामि ॥ डित्करणाद्वा । अथवा डिदच्छब्दः करिष्यते । स तर्हि डकारः कर्तव्यः । क्रियते न्यास एव, द्विडकारको निर्देशः - अद्ड्डतरादिभ्य इति ॥ एवमपि लोपः प्राप्नोति । विहितविशेषणं ह्रस्वग्रहणम् । यस्माद्ह्रस्वात्संबुद्धिर्विहितेति ॥ (6096 एकदेशिनो विप्रतिषेधबोधकवार्तिकम् ॥ 5 ॥) - अपृक्तसंबुद्धिलोपाभ्यां लुक् - अपृक्तसंबुद्धिलोपाभ्यां लुग्भवति विप्रतिषेधेन । अपृक्तलोपस्यावकाशः - गोमान्, यवमान् । लुकोऽवकाशः - त्रपु, जतु । इहोभयं प्राप्नोति - तत् ब्राह्मणकुलम्, यत् ब्राह्मणकुलम् । संबुद्धिलोपस्यावकाशः - अग्ने, वायो । लुकः स एव । इहोभयं प्राप्नोति - हे त्रपु, हे जतु । लुग्भवति विप्रतिषेधेन । स तर्हि विप्रतिषेधो वक्तव्यः । न वक्तव्यः ॥ (6097 सिद्धान्तवार्तिकम् ॥ 6 ॥) - न वा लोपलुकोर्लुगवधारणाद्यथाऽनडुह्यत इति - न वाऽर्थो विप्रतिषेधेन । किं कारणम् ? लोपलुकोर्लुगवधारणात् । लोपलुकोर्हि लुग्वधार्यते - लुग्लोपयणयवायावेकादेशेभ्यः । यथा - अनडुह्यत इति । तद्यथा - अनड्वानिवाचरति - अनुडुह्यत इत्यत्र लोपलुकोर्लुगवधार्यते । एवमिहापि ॥

Kashika

लोप इति वर्तते, हलिति च। अपृक्त मिति नाधिक्रियते। तथा च पूर्वसूत्रे पुनरपृक्त ग्रहणं कृतम्। एङन्तात् प्रातिपदिकाद् ह्रस्वान्तात् च परो हल् लुप्यते स चेत् संबुद्धेर्भवति। एङन्तात् — हे अग्ने। हे वायो। ह्रस्वान्तात् — हे देवदत्त। हे नदि। हे वधु। हे कुण्ड। कुण्डशब्दाद् अतोऽम्**(७.१.२४) इत्यम्। **अमि पूर्वः (६.१.१०७) इति पूर्वत्वे कृते हल्मात्रस्य मकारस्य लोपः। हे कतरदित्यत्र डिदयमद्डादेशः, तत्र टिलोपे सति ह्रस्वाभावाद् नास्ति संबुद्धिलोपः। एङ्ग्रहणं क्रियते संबुद्धिगुणबलीयस्त्वात्॥

Siddhanta Kaumudi

एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैङ्ह्रस्वाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एङ्ग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ॥

Laghu Siddhanta Kaumudi

एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥

Balamanorama

एङ्ह्रस्वात् सम्बुद्धेः - एङ्ह्रस्वात् ।एङ्ह्रस्वा॑दित्यङ्गविशेषणं, तदन्तविधिः । सुतिस्यपृक्तं हलित्यतो हलिति प्रथमान्तमनुवर्तते, तच्चाङ्गादित्यत्रान्वेति -अङ्गात् परं ह॑सिति ।लोपो व्यो॑रित्यतो ‘लोप’ इत्यनुवर्तते । तच्च हलित्यनेन सामानाधिकरण्येनान्वेति । लुप्यते इति लोपः । कर्मणि घञ् ।संबुद्धे॑रित्यवयवषष्ठी-हलित्यत्रान्वेति । ततस्च एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं यत् संबुद्ध्यवयवभूतंतल्लुप्यते इत्यर्थः फलति । तदाह — एङन्तादित्यादिना । ननु एङ्ह्रस्वादित्यस्याङ्गधिकारस्थत्वाभावात् कथमङ्गस्य विशेष्यत्वलाभः । तस्य वा किं प्रयोजनम् । एङो ह्रस्वाच्च परं संबुद्ध्यवयवभूतं हल्लुप्यत इत्येवास्तु । तत्राह-सम्बुद्ध्यक्षिप्तस्येत्यादि । संबुद्धेः प्रत्ययत्वात्तत्प्रकृतेरङ्गत्वमर्थाल्लब्धम् । तस्य च एङा ह्रस्वेन च विशेषितत्वात्तदन्तविधौ एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं हल्लुप्यत इत्यर्थलाभादिह लोपो नेत्यर्थः । इहेत्यस्य विशेष्यमाह-हे कतरत्कुलेतीति । कतरशब्दस्य नपुंसकत्वस्फोरणाय कुलशब्दः । कतरशब्दान्नपुंसकलिङ्गात्संबुद्धिः सुः ।अद्डादेशः । डकार इत् । डित्त्वसामर्थ्यादभत्वेऽपि टेरिति रेफादकारस्य लोपः ‘वाऽवसान#ए’ इति चर्त्वे कतरदिति रूपम् । यदि एङ्ह्रस्वादित्यत्राङ्गस्य विशेष्यत्वं न स्यात्, तदा कतरदित्यत्र तकारस्य हलो ह्रस्वादकारात् परत्वात्संबुद्ध्यवयवत्वाच्च लोपः प्रसज्येत । अङ्गस्य विशेष्यत्वे तु न दोषः । अत्र हि टिलोपानन्तरं कतरिति रेफान्तमङ्गम् । तत्तु न ह्रस्वान्तम् । यत्तु तन्नाङ्गम् । रेफादकारस्य सुस्थानिकाद्डादेशावयवत्वेन प्रत्ययावयवतया प्रकृतिभागानन्तर्भावात् । नन्विह हल्ग्रहणानुवृत्तिव्र्यर्था, एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्य संबुद्धेर्लोपः स्यादित्येव व्याख्यायाताम् । अस्तु वा हलनुवृत्तिः , तथापिएङन्ताद्ध्रस्वान्ताच्चाङ्गात्परा या संबुद्धिस्तदवयवो हल्लुप्यते॑ इति कुतो न व्याख्यायत इति चेत्, एवं सति हे ज्ञानाति न सिध्येत् । तदिदमजन्तनपुंसकलिङ्गाधिकारे ज्ञानशब्दाप्रक्रियावासरे मूल एव स्पष्टीभविष्यति । हे हरे हे विष्णो इति । हरिशब्दाद्विष्णुशब्दाच्च संबुद्धिः सुः । ‘ह्रस्वस्य गुण’ इति गुणः । हे हरेस्, हे विष्णोसिति स्थिते, ह्रस्वात्परत्वाऽभावात्सुलोपो न स्यादत एङ्ग्रहणमित्यर्थः । ननु गुणात्पूर्वं हे हरि स्, हे विष्णु सित्यस्यामेव दशायां ह्रस्वात्परत्वादेव सुलोपसंभवादेङ्ग्रग्रहणं व्यर्थमित्यत आह — अत्रेति । संबुद्धिलोपापेक्षयाऽयं गुणः परः, नित्यश्च, अकृतेऽपि संबुद्धिलोपे तत्प्रवृत्तेः, कृते ।ञपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्तेः, कृतेऽपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्ते, अतः संबुद्धिलोपात्प्रागेव ह्रस्वस्य गुणे कृते सति ह्रस्वात्परत्वा.ञभावात्सोर्लोपो न स्यात् । अत एङ्ग्रहणमित्यर्थः । अथ द्वितीया विभक्तिः । राम अमिति स्थिते, ‘न विभक्तौ तुस्मा’ इति मकारस्य नेत्त्वम् ।

Tattvabodhini

एङ्ह्रस्वात् सम्बुद्धेः - संबुद्ध्याक्षिप्तस्येति । तदन्तस्यैव संज्ञाभ्युपगमे तु सम्बुद्ध्याऽङ्गमाक्षेप्तुं न शक्यते इति बोध्यम् । ह्रस्वात्परत्वं नास्तीति । तथा च सूत्रे एङ्ग्रहणमावश्यकमिति भावः । किं चइमां किमाचामयसे न चक्षुषी॑इति श्रीहर्षप्रयोगेसे॑ इति पृथक्पदं,सलक्ष्मीके हे दमयन्ती॑त्यर्थ इतिनिगरणचलनार्थेभ्यश्चे॑ति सूत्रे मनोरमायां व्युत्पादितम् । ततश्च तत्रापि संबुद्धिलोपार्थमेङ्ग्रहणमावश्यकमेव । स्यादेतत् । एङ्ग्रहणस्यसे॑ इत्यत्र सावकाशतयाहे हरे॑ इत्यादौ संबुद्धिलोपो न स्यात्, संनिपातपरिभाषाविरोधात् । तथा ह्रस्वग्रहणस्यापिहे रामे॑त्यत्र सावकाशत्वात्हे गौरी॑-त्यादौ परत्वाद्धल्ङ्यादिलोपं बाधित्वाअम्बार्थनाद्यो॑रिति ह्रस्वे कृते संबुद्धिलोपो न स्यात् । लक्ष्मीशब्दे तु हल्ङ्यादिलोपस्याप्यभावाद्धे लक्ष्मीत्यत्र सुतरां संबुद्धिलोपो न स्यात् । सत्यम्,गुणात्संबुद्धे॑रिति वक्तव्ये एङ्ह्रस्वग्रहणसामर्थ्यात्संनिपातपरिभाषां बाधित्वाऽपि संबुद्धिलोपः प्रवर्तते इति दिक् ।

Padamanjari

अत्र यदि हल्ग्रहणं नानुवर्तेत, तत एङ्ह्रस्वाभ्यां सम्बुद्धिरेव विशेषणीया -एङ्न्ताद् ह्रस्वान्ताच्च परस्याः सम्बुद्धेर्लोप इति, ततश्च हे कुण्डेत्यत्र न स्यात्। कथम्? कुण्डासु इति स्थिते लोपश्च प्राप्नोत्यम्भावश्च, तत्र लोपः शब्दान्तरप्राप्त्याऽनित्याः, स हि कृतेऽम्भावे ठादेः परस्यऽ इत्यमोऽकारस्य प्राप्नोति, अकृते तु सकारस्य अम्भावस्तु लोपे कृतेऽत्यन्ताप्राप्त्याऽनित्यः- इत्युभयोरनित्ययोः परत्वादम्भावे कृतेऽमि पूर्वस्य प्राप्नोति लोपश्च। तत्रामि पूर्वत्वे कृते व्यपवर्गाभावादुभयत् आश्रणणेऽन्तादिवद्भावाभावाच्च लोपो न प्राप्नोति, लोपे च कृतेऽमोऽभावादमिपूर्वत्वं न प्राप्नोतीत्युभयोरनित्ययोः परत्वादमि पूर्वत्वे कृते लोपो न स्यात्, तस्मादनुवर्त्यं हल्ग्रहणम्। तदाह-हलिति चेति।’वर्तते’ इत्यपेक्षते। अपृक्तमिति नाधिक्रियत इति। यद्यधिक्रियेत, हे कुण्कडेत्यत्र न स्यात्; अपृक्तसंज्ञाया अभावात्। कथं पुनर्ज्ञायते -नायमधिक्रियत इति? तत्राऽऽह -तथा चेति। अनुवर्तमानेऽपि हल्ग्रहणे यद्येङ्ह्रस्वाभ्यां सम्बुद्धिर्विशेष्येत, तया हल् विशेष्येत -एङ्न्ताद् ह्रस्वान्ताच्च परा या सम्बुद्धिस्तस्या हल्लुप्यते इति, ततः हे कुण्डेत्यत्र न स्यात् पूर्वोक्तादेव हेतोः। अत एङ्ह्रस्वाभ्यां सम्बुद्ध्या च हलेव विशेषणीय इति मत्वाऽऽह -एङ्न्तात्प्रातिपदिकादित्यादि। सम्बुद्ध्याक्षिप्तप्रतिपदिकमेङ्ह्रस्वाभ्यां विशेष्यत इति तदन्तविधिलाभः। अत्र पक्षे कुण्डेत्यत्रामि पूर्वत्वस्य पूर्वं प्रत्यन्तवद्भावाद् ह्रस्वान्तात्परो हल्भवति। वस्तुतश्च सम्बुद्धेरिति लोपः सिद्धयति। अच्छब्द इति। एतच्च तत्रैव व्याख्यास्यते। ह्रस्वाभावादिति। ननु चादडेवाकारो ह्रस्वः, ततः परो हल् भवति, सम्बुद्धेश्च सम्बन्धीति लोपः स्यादेव, सम्बुद्धौतु विशेष्यमाणायां प्रकृत्यकारस्य लोपे ह्रस्वात्प्रा सम्बुद्धिर्न भवतीति लोपाप्रसङ्गः? उच्यते;’सम्बुद्ध्याक्षिप्तं प्रातिपदिकमेङ्ह्रस्वाभ्यां विशेष्यते’ इत्युक्तम्, तेन कुण्कडेत्यत्र न भविष्यति; एकादेशस्य पूर्वं प्रत्यन्तवद्भावात् प्रकृतिग्रहणेन ग्रहणात्। हे कतरदित्यत्र च न भविष्यति; टिलोपे कृते प्रकृतेरह्रस्वान्तत्वात्। सम्बुद्धिगुणबलीयस्त्वादिति। अन्यथा अग्निअसु इति स्थिते सम्बुद्धिगुणश्च प्राप्नोति, ह्रस्वादिति लोपश्च; तत्र नित्यात्वात्परत्वाच्च सम्बुद्धिगुणे कृतेऽह्रस्वान्तत्वान्न भवेत्। ननु च विहितविशेषणं विज्ञास्यते -ह्रस्वान्ताद्विहिता या सम्बुद्धिरिति? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति ? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति? एवमपि हे नदि, हे यवागु, हे कुमारीत्यत्र न स्यात्, न चात्र ङ्यन्तत्वाल्लोपो लभ्यते, दीर्घग्रहणात्। एवं तर्ह्युभयं विज्ञास्यते -विहितविशेषणम्, परविशेषणं च; तेनाग्ने, कुमारीत्यादौ सर्वत्र भविष्यति? तत्र सकृच्छ्4%अतस्य ह्रस्वग्रहणस्योभयविशेषणत्वमेव तावद् दुर्लभम्। अथापि लभ्यते? एवमपि हे कतरदित्यत्र यद्यपि टिलोपे कृते सम्बुद्धेर्ह्र स्वपरत्वाभावः, तथापि ह्रस्वान्ताद्विहिता सम्बुद्धिरिति स्यादेव लोपः। तस्मादेङ्ग्रहणं कर्तव्यम्। वयं तु ब्रूमः -ये स्वभावत एङ्न्तास्तदर्थमप्येङ्ग्रहणं कर्तव्यमिति। तद्यथाहेशब्दमतिक्रान्तो ब्राह्मणोऽतिहेः, तस्य सम्बोधनं हे अतिहे; अनुकृतः पचतेशब्दो येन तस्य सम्बोधनं हेऽनुकृतपचते; विहित ईरेप्रत्ययो येन स विहितेरेः पाणिनिः, तस्य सम्बोधनम् -हे विहितेरे इत्यादि। अत्र संग्रहश्लोकः - सम्बुद्धिर्ह्र स्वभेद्या यदि हि न च भवेन्नादिवन्नान्तवत्स्याद्, दोषोऽसौ हल्निवृतावपि लुपि भवतोऽम् पूर्वरूपे परत्वात्। ह्रस्वान्ताल्लुब्विधिः स्याद्धल इति कतरड्डित्वतो नो हलो लुप्, ह्रस्वश्रुत्या न शक्यः परविहितविधिर्नातिहेऽतोऽप्यकार्येऽङ् ॥ लोपनं लुप्, लोप इत्यर्थः ॥

Nyaas

हलिति च इति। वर्तत इत्यपेक्षते। यदि हलिति नानुवर्तेत, तदा हे कुण्ड+सु इति स्थिते लोपात्? परत्वादम्भावे कृते आदेः परस्य (1.1.54) इत्यकारलोपे सुपि च (7.3.102) इति दीर्घत्वे च हे कुण्डमित्यनिष्टं रूपं स्यादित्यभिप्रायः। अपृक्तमिति नाधिक्रियते इति। यदि ह्रपृक्तमिहानुवर्तेत, तर्हि हे कुण्डेत्यत्र लोपो न स्यात्; अपृक्तसंज्ञाया अभावादिति भावः। कथं पुनज्र्ञायते -अपुक्त इह नानुवर्तते? इत्याह -तथा च इत्यादि। तथा चेति हितौ। यस्मात् पूर्वसूत्रेऽपृक्तग्रहणं कृतमतोऽवसीयते -नात्र प्रकरणेऽपृक्तग्रहणस्यानुवृत्तिरस्तौति; अन्यथा हि वेरपृक्तस्य (6.1.67) इत्यत एवापृक्तग्रहणमनुवर्त्तिष्यत इति पुनरपृक्तग्रहणं पूर्वसूत्रे न क्रियेतेति। स चेत्? सम्बुद्धेर्भवति इति। यदि सम्बुद्धेः सम्बद्धो भवतीत्यर्थः। एतेन सम्बुद्धेरित्यस्यावयवषष्ठन्ततां दर्शयति। हे अग्ने, हे वायो इति। ह्रस्वस्य गुणः (7.3.108) । हे नदि, हे वधु इति। अम्बार्थनद्योह्र्यस्वः (7.3.107) इति ह्रस्वत्वम्। हल्मात्रस्य मकारस्य लोपः इति। हलित्यनुवृत्तेः। हे कतरदित्यत्रैकादेशे कृते ह्रस्वात्? सम्बुद्धेर्हल्? भवतीति तस्य लोपः कस्मान्न भवति? इत्याह -हे कतरत् इत्यादि। अद्ड्डतरादिभ्यः (7.1.25) इत्यत्र द्विडकारनिर्देशात्? डिच्छब्द आदेशो भवतीति डित्वाट्? टिलोपे ह्यसवो नास्तीति न भवति लोपः। अथैङ्ग्रहणं किमर्थम्, यावता हे अग्ने इत्यादावपि प्रागेव सम्बुद्धिगुणाद्? ह्रस्वादित्येवं लोपे न भवितव्यम्? इत्यत आह -एङ्ग्रहणम् इत्यादि। नित्यत्वात्? परत्वाच्च सम्बुद्धिगुमो बलीयानिति तनैव तावत्? भवितव्यम्, तत्र कृते ह्रस्वात्? परः सम्बुद्धेर्हल्? न सम्भवतीति लोपो न प्राप्नोति, अत एङ्ग्रहणं क्रियते। ननु च विहितविशेषणं विज्ञास्यते -ह्रस्वाद्विहितायाः सम्बुद्धेरिति? नैतदस्ति; एका हीयं पञ्चमी, तत्र यदि ह्रस्वाद्विहिति विशेषणं विज्ञायते तदैङन्तादपि विज्ञायेत। तथा च -हे गौरित्यत्रापि स्यात्। तस्मादेङ्ग्रहणं कर्तव्यम्॥

Prakriyasarvasvam

एङन्ताद्ध्रस्वान्ताच्च परः सम्बुद्धेर्हल् लुप्यते । कृष्ण । सम्बोधनाभिव्यक्त्यै क्वचिद्धेशब्दोक्तिः, हे कृष्ण । औजसोः प्राग्वत् । हे कृष्णौ । हे कृष्णाः । कृष्ण अम् । ‘अमि पूर्वः’ (६–१–१०७) कृष्णम् । औटि कृष्णौ । शसि जस्वद् दीर्घः । कृष्णास् ॥

Sarala

लोपो व्योर्वलि (६.१.६६), हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८) इत्याभ्यां लोपहल्पदयोरनुवृत्तिः । प्रत्ययग्रहणपरिभाषया तदाद्यंशस्योपस्थितौ तदन्तविधिस्तत्फलितमर्थमाह - एङन्तादित्यादि । सम्बुद्धेरवयवश्चेदित्यर्थः ॥

Sudha

एङ्ह्रस्वादिति । लोपो व्योर्वलि**(6.1.66) इत्यतो लोप इति **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इत्यतो हल् इति चानुवर्तते । **हे राम इति । रामशब्दात्संबोधनार्थकप्रथमैकवचनविवक्षायां सौ कृते “राम सु” इति जाते **एकवचनं संबुद्धिः**(2.3.49) इति सोः सम्बुद्धिसंज्ञायां अनुबन्धलोपे सति **यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्**(1.4.13) इत्यनेन रामशब्दस्याङ्गत्वे **एङ्ह्रस्वात् सम्बुद्धेः**(6.1.69) इत्यनेन सम्बुद्धिसम्बन्धिनि हल् रूपे सकारे लुप्ते सम्बोधनद्योतक हे इत्यस्य पूर्वयोगे कृते “हे राम” इति सिद्धम् । “रामौ” इत्यत्र तु पूर्ववत्प्रक्रिया | “रामाः” इत्यत्र पूर्ववत् प्रक्रिया बोध्या ।