61060: शीर्षंश्छन्दसि¶
Padacheda: शीर्षन् | S | 1 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word शीर्षन् ‘head’, is found in छन्दस्।
Vasu English Translation¶
The word शीर्षन् ‘head’, is found in छन्दस्। This word is another form of शिरः and means ‘head’. This is not a substitute of शिर in the Vedas, for both forms are found therein. Thus शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति, यत्ते शीर्ष्णो दौर्भाग्यम् ॥ In the secular literature there is only one form शिरः ॥
Bhashya¶
शीर्षं श्छन्दसि (2497) (प्रकृत्यन्तरबोधनाधिकरणम्) (6066 सूत्रार्थबोधकवार्तिकम् ॥ 1 ॥) - शीर्षन् छन्दसि प्रकृत्यन्तरम् - शीर्षन् छन्दसि प्रकृत्यन्तरं द्रष्टव्यम् । किं प्रयोजनम् ? आदेशप्रतिषेधार्थम् । आदेशो मा विज्ञायि, प्रकृत्यन्तरं यथा विज्ञायेत । किं च स्यात् ? अस्कारान्तस्य च्छन्दसि श्रवणं न स्यात् - शिरो मे शीर्यते मुखे, इदं ते शिरो भिनद्मीति, तद्वा अथर्वणः शिरः ॥
Kashika¶
शीर्षन्निति शब्दान्तरं शिरःशब्देन समानार्थं छन्दसि विषये निपात्यते, न पुनरयमादेशः शिरःशब्दस्य, सोऽपि हि छन्दसि प्रयुज्यत एव। शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति। यत्ते शीर्ष्णो दौर्भाग्यम्। छन्दसीति किम् ? शिरः॥
Siddhanta Kaumudi¶
शिरःशब्दस्य शीर्षन् स्यात् । शीर्ष्णः शीर्ष्णोजगतः (शी॒र्ष्णः शी॑र्ष्णो॒जग॑तः) ॥
Balamanorama¶
ये च तद्धिते (अचि शीर्षः) - ये च तद्धिते । शीर्षन्नादेश इति । शीर्षंश्छन्दसीत्यतस्तदनुवृत्तेरिति भावः । शीर्षण्य इति शिरसे हित इत्यर्थः । शरीरावयवत्वाद्यति शीर्षन्नादेशेये चाऽभावकर्मणो॑रिति प्रकृतिभावान्न टिलोपः । शिरस्यतीति । शिर आत्मन इच्छतीत्यर्थे ‘सुप आत्मनः’ इति क्यचि, ‘नः क्ये’ इति नियमात्पदत्वाऽभावान्न रुत्वम् ।वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितस्तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः । प्रसङ्गादाह — अचीति ।
Tattvabodhini¶
ये च तद्धिते (अचि शीर्षः) - ये च त ।शीर्षंश्छन्दसी॑त्यतोऽनुवर्तनादाह -शीर्षन्नादेश इति । वा केशेषु । शीर्षण्य इति ।ये चाऽभावे॑ति प्रकृतिभावः । शिरस्यतीति ।न क्ये॑इति नियमेन पदत्वाऽभावाद्रुत्वाऽभावः ।
Padamanjari¶
न पुनरयमादेशः शिरःशब्दस्येति। यद्यपि सूत्रे शिरस इति स्थानी नोपातः, तथापि समानार्थत्वादादेशेनाक्षिप्यते, यथा-शिवादिषु विश्रवणरवणशब्दाभ्यां विश्रवःशब्द इत्यादेशत्वशङ्का। सोऽपि हि च्छन्दसि प्रयुज्यत इति। आदेशक्षपक्षे तु तेन निवर्तितत्वाच्छिरःशब्दो न प्रयुज्येतेति भावः। ननु च ठन्यतरस्याम्ऽ इत्यनुवृतेस्तस्यापि प्रयोगो भविष्यति, सत्यम्; उतरत्रापि विकल्पानुवृत्तिः शङ्क्येतेति प्रकृत्यन्तरपक्ष एवाश्रितः ॥
Nyaas¶
किं पुनः कारणमादेशो नेष्यते? इत्याह - सोऽपि हि इत्यादि। यतः शिरःशब्दोऽपि च्छन्दति प्रयुच्यते, ततो नायमादेशः प्रयुज्यते। आदेशे हि सति शिरःशब्दस्य च्छन्दसि विषये प्रयोगो न स्यात्, निवृत्तिधर्मत्वात्? स्थानिनः। यद्यन्यतरस्यांग्रहणमिहानुवर्तते तदादेशेऽप्यदोषः। शीर्षा इति। नोपधायाः (6.4.7) इति दीर्धः। क्वचित्? शीष्र्णेति पठते, तत्? तृतीयान्तं द्रष्टव्यम्। अल्लोपोऽनः (6.4.134) इत्यकारलोपः। शीर्ष्णः इति। षष्ठएकवचनान्तमेतत्॥
Prakriyasarvasvam¶
शिरोऽर्थे शीर्षञ्छब्दः साधुः स्यात् । शीर्ष्णा शि१रः प्रतिदधे२ वरूथम् । ‘पद्दन्—’ (६-१-६३) इत्यादेशः शसः पूर्वष्वपीष्यते । ३शलादोपणी इति प्रथमाद्विवचने ।