61071: ह्रस्वस्य पिति कृति तुक्¶
Padacheda: ह्रस्वस्य | S | 6 | 1 |
पिति | S | 7 | 1 |
कृति | S | 7 | 1 |
तुक् | S | 1 | 1 |
Sutrartha¶
ह्रस्वस्वरस्य कृत्-संज्ञके पित्-प्रत्यये परे तुगागमः भवति ।
यस्मिन् कृत्-प्रत्यये पकारः इत्संज्ञकः अस्ति, सः कृत्-प्रत्ययः ह्रस्वस्वरात् अनन्तरम् विद्यते चेत् प्रकृतसूत्रेण ह्रस्वस्वरस्य “तुक्” इति आगमः भवति — इति अस्य सूत्रस्य अर्थः । अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, अतः आद्यन्तौ टकितौ (1.1.46) इत्यनेन अयं कित्-आगमः ह्रस्वस्वरात् अनन्तरम् विधीयते । आहत्य षण्णाम् कृत्-प्रत्ययानाम् विषये प्रकृतसूत्रस्य प्रयोगः सम्भवति । उदाहरणानि क्रमेण एतादृशानि — 1. **क्विप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —** “शत्रुं जयति” इत्यस्मिन् अर्थे जि-धातोः क्विप्-प्रत्यये कृते प्रकृतसूत्रेण तुगागमे कृते “शत्रुजित्” इति रूपं सिद्ध्यति । प्रक्रिया इयम् —
शत्रुं जयति
→ जि (अभिभवे, (1.1096))
शत्रुम् + जि + क्विप् [**सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्** (3.2.61) इति क्विप्]
→ शत्रुम् + जि + ० [पकारककारयोः इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः भवति ।]
→ शत्रुजि [**उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक् ।]
→ शत्रुजि तुक् [प्रत्ययलोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन प्रत्ययनिमित्तकं कार्यम् अवश्यं भवति, अतः **ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति ह्रस्वस्वरस्य तुगागमः विधीयते । अत्र ** वर्णाश्रये नास्ति प्रत्ययलक्षणम् ** इति परिभाषा नैव प्रवर्तते, यतः अत्र क्विप्-प्रत्ययस्य वर्णम् आश्रित्य किमपि कार्यं न क्रियते, केवलम् तस्य पित्त्वम् कृत्त्वं च आश्रित्य तुगागमः कृतः अस्ति ।]
→ शत्रुजित् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
2. **ल्यप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —** उपपदसमासे गतिसमासे वा क्त्वा-प्रत्ययस्य ल्यप्-आदेशे कृते ह्रस्वस्वरस्य प्रकृतसूत्रेण तुगागम भवति । यथा -
डुकृञ् (करणे, तनादिः, (8.10))
→ उप + कृ + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वाप्रत्ययः]
→ उप + कृ + ल्यप् [**कुगतिप्रादयः** (2.2.18) इति गतिसमासः । **समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37) इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः]
→ उप + कृ + य [इत्संज्ञालोपः]
→ उप + कृ तुक् + य [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति ह्रस्वस्वरस्य तुगागमः]
→ उप + कृ त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ उपकृत्य
यद्यपि धातोः अन्ते आदौ ह्रस्वस्वरः नास्ति, तथापि प्रक्रियायाम् धातोः अन्ते विद्यमानस्य वर्णस्य लोपः भवति चेत् ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण पित्-कृत्-प्रत्ययः भवितुम् अर्हति । अस्यां स्थितौ अपि प्रकृतसूत्रेण अस्य ह्रस्वस्वरस्य तुगागमः भवति । यथा —
गमॢँ (गतौ, भ्वादिः, (1.1137))
→ आ + गम् + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वाप्रत्ययः]
→ आ + गम् + ल्यप् [**कुगतिप्रादयः** (2.2.18) इति गतिसमासः । **समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37) इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः]
→ आ + गम् + य [इत्संज्ञालोपः]
→ आ + ग + य [मकारस्य **वा ल्यपि** (6.4.38) इति विकल्पेन लोपः]
→ आ + ग तुक् + य [गकारोत्तस्य अकारस्य पित्-कृत्-प्रत्यये परे **ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः]
→ आ + ग त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ आगत्य
<br>
पक्षे मकारलोपं विना "आगम्य" इत्यपि रूपं सिद्ध्यति । तस्यां प्रक्रियायां तुगागमः नैव सम्भवति, यतः तत्र ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण पित्-कृत्-प्रत्ययः न विद्यते ।]
3. **क्यप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —** एतिस्तुशास्वृदृजुषः क्यप् (3.1.109) इति सूत्रेण “इण्”, “स्तु”, “स्वृ”, “दृ” इत्येतेभ्यः अजन्तेभ्यः धातुभ्यः क्यप्-प्रत्यये कृते प्रक्रियायाम् प्रकृतसूत्रेण तुगागमः भवति —
इण् (गतौ, अदादिः, (2.40))
→ इ + क्यप् [**एतिस्तुशास्वृदृजुषः क्यप्** (3.1.109)
→ इ + य [ककारपकारयोः इत्संज्ञा, लोपः]
→ इ तुुक् + य [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति ह्रस्वस्वरस्य तुगागमः]
→ इ त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ इत्य
4. **क्वनिप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —** “राजानं कृतवान्” अस्मिन् अर्थे “कृ”-धातोः क्वनिप्-प्रत्यये कृते प्रक्रियायाम् तुगागमं कृत्वा रूपं सिद्ध्यति —
राजानं कृतवान्
→ डुकृञ् (करणे, तनादिः, (8.10))
→ राजानम् + कृ + क्वनिप् [**राजनि युधिकृञः** (3.2.95) इति क्वनिप्-प्रत्ययः]
→ राजानम् + कृ + वन् [ककारपकारयोः इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ राजन् + कृ + वन् [**उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्]
→ राजन् + कृ तुक् + वन् [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति ह्रस्वस्वरस्य तुगागमः]
→ राजन् + कृ त् + वन् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ राज + कृ + त् + वन् [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः]
→ राजकृत्वन्
5. **ङ्वनिप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —** “सु”-धातोः ङ्वनिप्-प्रत्यये कृते प्रकृतसूत्रेण तुगागमं कृत्वा रूपं सिद्ध्यति —
षुञ् (अभिषवे, स्वादिः, (5.1))
→ सु + ङ्वनिप् [**सुयजोर्ङ्वनिप्** (3.2.103) इति ङ्वनिप्-प्रत्ययः]
→ सु + वन् [ङकारपकारयोः इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ सु तुक् + वन् [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति ह्रस्वस्वरस्य तुगागमः]
→ सु त् + वन् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ सुत्वन्
6. **क्वरप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः —** इण्नश्जिसर्त्तिभ्यः क्वरप् (3.2.163) इति सूत्रेण “इण्”, “जि” तथा च “सृ” एतेभ्यः त्रिभ्यः धातुभ्यः क्वरप्-प्रत्ययः विधीयते । अत्र प्रक्रियायाम् प्रकृतसूत्रेण तुगागमं कृत्वा रूपं सिद्ध्यति —
इण् (गतौ, अदादिः, (2.40))
→ इ + क्वरप् [**इण्नश्जिसर्त्तिभ्यः क्वरप्** (3.2.163) ]
→ इ + वर [ककारपकारयोः इत्संज्ञा, लोपः ]
→ इ तुक् + वर [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति ह्रस्वस्वरस्य तुगागमः]
→ इ त् + वर [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ इत्वर
<br/>
अननैव प्रकारेण "जि + क्वरप् → जित्वर", "सृ + क्वरप् → सृत्वर" एतौ शब्दौ अपि सिद्ध्यतः ।
प्रकृतसूत्रस्य अप्राप्तिः
अष्टाध्याय्याम् आहत्य नव कृत्संज्ञकाः पित्-प्रत्ययाः सन्ति । एतेषु षण्णाम् प्रत्ययानां तु उदाहरणानि उपरि निर्दिष्टानि एव सन्ति । अन्येषाम् त्रयाणाम् प्रत्ययानाम् विषये प्रकृतसूत्रम् नैव प्रवर्तते — <listsp> 1. “अप्”-प्रत्ययः यद्यपि कृत्-संज्ञकः पित्-प्रत्ययः अस्ति तथापि तस्य विषये इदं सूत्रम् नैव प्रवर्तते, यथा अस्मिन् प्रत्यये परे अङ्गान्ते विद्यमानस्य ह्रस्वस्वरस्य **सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन गुणः सम्भवति** । गुणे कृते तत्र ह्रस्वः स्वरः एव न अवशिष्यते, अतः तुगागमस्य अपि प्रसक्तिः न वर्तते । यथा, “लु + अप् → लो + अप् → लव् + अ → लव” । अतएव ॠदोरप् (3.3.57) अस्य सूत्रस्य काशिकाव्याख्याने — इत्संज्ञकः पकारः अनुदात्तौ सुप्पितौ (3.1.4) इत्यनेन अनुदात्तस्वरविधानार्थम् कृतः अस्ति — इति स्पष्टकृतम् अस्ति । 2. “कप्”-प्रत्ययः यद्यपि कृत्-संज्ञकः पित्-प्रत्ययः अस्ति तथापि तस्य विषये इदं सूत्रम् नैव प्रवर्तते । दुहः कब् घश्च (3.2.70) इत्यनेनैव उक्तः कप्-प्रत्ययः केवलम् “दुह्” धातोः एव विधीयते । अस्मिन् धातौ अन्ते हल्-वर्णः अस्ति, अतः अस्य प्रक्रियायाम् ह्रस्वस्वरात् कप्-प्रत्ययः नैव सम्भवति । अतः अस्य प्रत्ययस्य विषये प्रकृतसूत्रं नैव प्रवर्तते । 3. “वनिप्”-प्रत्ययः यद्यपि कृत्-संज्ञकः पित्-प्रत्ययः अस्ति, तस्य विषये इदं सूत्रम् नैव प्रवर्तते, यथा अस्मिन् प्रत्यये परे अङ्गान्ते विद्यमानस्य ह्रस्वस्वरस्य सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन गुणः सम्भवति । गुणे कृते तत्र ह्रस्वः स्वरः एव न अवशिष्यते, अतः तुगागमस्य अपि प्रसक्तिः न वर्तते । </listsp>
दलकृत्यम्
1. ह्रस्वस्य इति किमर्थम् ? — दीर्घस्वरस्य तुगागमः न भवति । यथा — “सम् + भू + ल्यप् → सम्भूय” अत्र ऊकारस्य तुगागमः न भवति । 2. पिति इति किमर्थम् ? — अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति । यथा, “कृ + क्त → कृत” अत्र ऋकारस्य तुगागमः न भवति । 3. कृति इति किमर्थम् ? — कृद्भिन्नानां सूत्राणां विषये प्रकृतसूत्रं न प्रवर्तते । यथा, “तिप्” इति तिङन्तप्रत्यये परे तुगागमः न भवति — “पठ् + शप् + तिप् → पठ् + अ + ति → पठति” । एवमेव “क्विप्” इति कश्चन अन्यः सनादिप्रत्ययः अपि विद्यते, तस्य विषये अयं तुगागमः न प्रवर्तते — “क्लीबः इव आचरति = क्लीब + क्विप् → क्लीब ।” अत्र बकारोत्तरस्य अकारस्य तुगागमः न भवति ।
एकादेशस्य तुगागमं प्रति असिद्धत्वम्
एकः पूर्वपरयोः (6.1.84) अस्मिन् अधिकारे निर्दिष्टानि कार्याणि षत्वतुकोरसिद्धः (6.1.86) अनेन सूत्रेण तुगागमार्थम् असिद्धानि भवन्ति । इत्युक्ते, तुगागमे कर्तव्ये एकः पूर्वपरयोः (6.1.84) इत्यत्र विद्यमानैः सूत्रैः कृतः एकादेशः नैव दृश्यते । अतएव, “अधीत्य”, “अतीत्य” एतादृशेषु शब्देषु आदौ सवर्णदीर्घ-एकादेशं कृत्वा, तस्य असिद्धत्वात् तत्र ह्रस्वस्वरम् एव दृष्ट्वा प्रकृतसूत्रेण तुगागमः सम्भवति —
इणँ (गतौ, अदादिः, (2.40))
→ अधि + इ + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वा-प्रत्ययः]
→ अधी + क्त्वा [अत्र समासे कृते एव क्त्वा-प्रत्ययस्य ल्यप्-आदेशः भवितुम् अर्हति । समासार्थम् तु आदौ सन्धिकार्यम् करणीयम्, अतः ल्यबादेशात् पूर्वम् **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः विधीयते]
→ अधी + ल्यप् [**कुगतिप्रादयः** (2.2.18) इति उपपदसमासः । समासे कृते **समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37) इति ल्यबादेशः]
→ अधी तुक् + य [यद्यपि अत्र दीर्घस्वरात् अनन्तरम् पित्-कृत्-प्रत्ययः विद्यते, तथापि अयं दीर्घस्वरः **एकः पूर्वपरयोः** (6.1.84) इत्यस्मिन् अधिकारे विद्यमानेन **अकः सवर्णे दीर्घः** (6.1.101) इति सूत्रेण सिद्ध्यति । **षत्वतुकोरसिद्धः** (6.1.86) इति सूत्रसामर्थ्यात् अयम् एकादेशः (दीर्घस्वरः) तुगागमार्थम् असिद्धः अस्ति । अतएव अत्र **ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति सूत्रेण "अधि + इ" इत्येव स्थितिः दृश्यते । अस्यां स्थितौ ह्रस्वस्वरस्य अवश्यम् तुगागमः सम्भवति ।]
→ अधी त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, तस्य अपि लोपः भवति ।]
→ अधीत्य
बहिरङ्गः ह्रस्वादेशः अन्तरङ्गस्य तुगागमस्य कृते असिद्धः अस्ति
असिद्धं बहिरङ्गमन्तरङ्गे अनया परिभाषया बहिरङ्गकारस्य अन्तरङ्गकार्यं प्रति असिद्धत्वम् उच्यते । एतादृशम् असिद्धत्वम् प्रकृतसूत्रस्य विषये अपि प्रवर्तते । इत्युक्ते, यदि कुत्रचित् मूलरूपेण दीर्घस्वरात् अनन्तरम् पित्-कृत्-प्रत्ययः विहितः अस्ति, तर्हि तस्य दीर्घस्वरस्य बहिरङ्गकार्येण ह्रस्वादेशे कृते तस्य असिद्धत्वात् प्रकृतसूत्रेण तुगागमः नैव प्रवर्तते । यथा, “ग्रामं नयति” इत्यस्मिन् अर्थे “नी”-धातोः क्विप्-प्रत्यये कृते “ग्रामणी” इति प्रातिपदिकं सिद्ध्यति । अत्र नी-धातोः दीर्घस्वरात् अनन्तरम् क्विप्-प्रत्ययः विद्यते, अतः तस्य प्रकृतसूत्रेण तुगागमः न भवति । परन्तु यत्र “ग्रामणी” इति प्रातिपदिकम् नपुंसकलिङ्गे प्रयुज्यते, तत्र ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इति सूत्रेण कट>ग्रामणी</qt> शब्दस्य ह्रस्वादेशे कृते “ग्रामणि” इति ह्रस्वघटितं रूपं सिद्ध्यति । अयं ह्रस्वादेशः तुगागमस्य अपेक्षया बहिरङ्गः अस्ति (यतः अयम् अग्रे विद्यमानम् नपुंसकलिङ्गवाचिनं विशेष्यं दृष्ट्वा एव प्रवर्तते), अतः अयम् अन्तरङ्गस्य तुगागमस्य कृते असिद्धः भवति । अतएव अस्मिन् ह्रस्वादेशे कृते अपि प्रकृतसूत्रेण तुगागमः न प्रवर्तते । प्रक्रिया इयम् —
ग्रामं नयति तत् कुलम्
→ ग्रामम् + नी + क्विप् + कुलम् [**सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्** (3.2.61) इति क्विप्-प्रत्ययः । अग्रे विशेष्यरूपेण "कुलम्" इति शब्दः स्थापितः अस्ति ।
→ ग्रामम् + नी + ० + कुलम् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । **वेरपृक्तस्य** (6.1.67) इति अपृक्तवकारस्य लोपः]
→ ग्राम + नी + कुलम् [**उपपदमतिङ्** (2.2.19) इति उपपदसमासः । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक् ]
→ ग्रामणी कुलम् [<!अग्रग्रामाभ्यां नयतेर्णो वाच्यः!> इति वार्त्तिकेन णत्वम्]
→ ग्रामणि कुलम् [**ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इति ह्रस्वादेशः । अयम् तुगागमस्य अपेक्षया बहिरङ्गः अस्ति यतः अयम् अग्रे विद्यमानम् "कुलम्" शब्दं दृष्ट्वा प्रवर्तते । **असिद्धं बहिरङ्गमन्तरङ्गे** अनया परिभाषया अयं बहिरङ्गः ह्रस्वादेशः अन्तरङ्ग-तुगागमार्थम् असिद्धः अस्ति । अतः अत्र **ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः न हि प्रवर्तते ।]
Sutrartha (English)¶
A ह्रस्व letter that is followed by a कृत्-प्रत्यय that is पित् gets a तुगागम.
Vasu English Summary¶
To a root ending in a short vowel is added the augment त् (तुक्) when a कृत्-affix having an indicatory ए follows.
Vasu English Translation¶
To a root ending in a short vowel is added the augment त् (तुक्) when a कृत्-affix having an indicatory प् follows. Thus अग्नि + चि + क्विप् = अग्निचित्, so also सोमसुत् ॥ Similarly प्रकृत्य and प्रहृत्य and उपस्तुत्य formed by the affix ल्यप् ॥ Why do we say “ending in a short vowel”? Observe आलूय, ग्रामणीः ॥ Why do we say “having an indicatory प”? Observe कूतम्, हृतम् ॥ Why do we say “a krit affix”? Observe पटुतरः, पटुतमः, with the Taddhita-affixes तरप् and तमप् ॥ In the compound ग्रामणिकुलम्, though the root is made short, yet there is no augment तुक्, in as much as the rule by which the root has been shortened is a Bahiranga rule, and the present rule is an Antaranga one. The maxim is असिद्धं बहिरङ्गमन्तरङ्गे ॥ “That which is Bahiranga is regarded as not having taken effect, or as not existing, when that which is Antaranga is to take effect”.
Bhashya¶
ह्रस्वस्य पिति कृति तुक् (2508) (तुगधिकरणम्) (6098 तुकः पूर्वान्तत्वे दोषवार्तिकम् ॥ 1 ॥) - तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च - तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिध्यति । आराशस्त्रिच्छत्रम् । धानाशष्कुलिच्छत्रम् । निष्कौशाम्बिच्छत्रम् । निर्वाराणसिच्छत्रम् । द्विगुस्वरः - पञ्ञ्चारत्निच्छत्रम्, दशारत्निच्छत्रम् । तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ॥ (6099 पूर्वान्तत्वे दोषाभावोपपादकवार्तिकम् ॥ 2 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा एष दोषः । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणस्तुक्, अन्तरङ्गा एते विधयः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ इह तर्हि - ग्रामणिपुत्रः, सेनानिपुत्रः, ह्रस्वत्वे कृते तुक् प्राप्नोति ॥ (6100 दोषाभावोपपादकवार्तिकम् ॥ 3 ॥) - ग्रामणिपुत्रादिषु चाप्राप्तिः - ग्रामणिपुत्रादिषु चाप्राप्तिः । किं कारणम् ? बहिरङ्गलक्षणत्वादेव ॥ अथवा परादिः करिष्यते । (6101 तुकः परादित्वे दोषवार्तिकम् ॥ 4 ॥) - परादौ संयोगादेरित्यतिप्रसङ्गः - परादौ संयोगादेरित्यतिप्रसङ्गो भवति । अपच्छायात् । वाऽन्यस्य संयोगादेः(6.4.68) इत्येत्वम्प्रसज्येत ॥ (6102 दोषवार्तिकम् ॥ 5 ॥) - विलोपवचनं च - वेश्च लोपो वक्तव्यः । अग्निचित्, सोमसुत् । अपृक्तस्य इति वेर्लोपो न प्राप्नोति । नैष दोषः । अपृक्तग्रहणं न करिष्यते । यदि न क्रियते, दर्विः - जागृविः अत्रापि प्राप्नोति । अनुनासिकपरस्य विशब्दस्य ग्रहणम्, शुद्धपरश्चात्र विशब्दः । एवमपि सतुक्कस्य लोपः प्राप्नोति । निर्दिश्यमानस्यादेशा भवन्तीत्येवं न भविष्यति ॥ (6103 दोषवार्तिकम् ॥ 6 ॥) - इट्प्रतिषेधश्च - इट्प्रतिषेधश्च वक्तव्यः । परीतत् । सतुक्कस्य वलादिलक्षण इट् प्रसज्येत ॥ एवं तर्ह्यभक्तः करिष्यते ॥ (6104 अभक्तत्वे दोषवार्तिकम् ॥ 7 ॥) - अभक्ते स्वरः - यद्यभक्तस्तर्हि स्वरभेदो भवति - दधिच्छादयति, मधुच्छादयति तिङ्ङतिङः (8.1.28) इति निघातो न प्राप्नोति । ननु च तुगेवातिङ् । न तुकः परस्य निघातः प्राप्नोति । किं कारणम् ? नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः । नञ्ञ्युक्ते इवयुक्ते वाऽन्यस्मिन् तत्सदृशे कार्यं विज्ञायते, तथा ह्यर्थो गम्यते । तद्यथा - अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशमेवानयति, नासौ लोष्टमानीय कृती भवति । एवमिहापि अतिङ् इति प्रतिषेधादन्यस्मिंस्तिङ्सदृशे कार्यं विज्ञास्यते । किं चान्यदतिङ् - तिङ्सदृशम् ? पदम् ॥
Kashika¶
पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति। अग्निचित्। सोमसुत्। प्रकृत्य। प्रहृत्य। उपस्तुत्य। ह्रस्वस्येति किम् ? आलूय। ग्रामणीः। पितीति किम् ? कृतम्। हृतम्। कृतीति किम् ? पटुतरः। पटुतमः। ग्रामणि ब्राह्मणकुलमित्यत्र ह्रस्वस्य बहिरङ्गस्यासिद्धत्वात् तुग् न भवति॥
Siddhanta Kaumudi¶
इत्यः । स्तुत्यः । शास इदङ्हलोः (SK2486) । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः ।<!शंसिदुहिगुहिभ्यो वेति काशिका !> (वार्तिकम्) ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः (SK2009) ईडवन्दवृशंसदुहां ण्यतः (SK3702)इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् । आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम् ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदिताम् - (SK415) इति नलोपः । आज्यम् ॥
Laghu Siddhanta Kaumudi¶
इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥
Balamanorama¶
ह्रस्वस्य पिति कृति तुक् - ह्रस्वस्य । स्पष्टमिति न व्याख्याताम् । इत्य इति । इणः क्यपि तुक् । उपेयमित्यत्र तुईङो दैवादिकाद्यत् । वृञो ग्रहणमिति । वार्तिकमिदम् । न वृङ इति । ‘वृङ् संभक्तौ’ इति ङितः क्रैयादिकस्य न ग्रहणमित्यर्थः । वार्या ऋत्विज इति । अवश्यं भजनीया इत्यर्थः । अत्र ‘वृङ् संभक्तौ’ इत्यस्माण्ण्यदित्यर्थः ।अवद्यपण्यवर्या॑दिति निपातनसिद्धो यत्तु न , अत्र निरोध्स्य नियमस्य विवक्षितत्वात् । ननुवदः सुपी॑त्यतोऽनुवृत्त्यैव सिद्धे क्यब्ग्रहणमिह व्यर्थम् । नच चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यब्ग्रहणमिति वाच्यं, चकारस्य अस्वरितत्वेन ‘भुवो भावे’ इत्याद्युत्तरसूत्रेष्वनुवृत्त्यभावादित्यत आह — परस्यापीति । ‘ओरावश्यके’ इति विहितस्येत्यर्थः । वेति काशिकेति । वा क्यप् । तदभावे हलन्तत्वाण्ण्यत् । भाष्ये त्वेतन्न दृश्यते इति भावः । शस्यं शंस्यमिति । क्यप्पक्षेअनिदिता॑मिति नलोपः । दुह्रमिति । क्यप्पक्षे कित्त्वान्न गुणः । अत्रशंसिदुहिगुहिभ्यो वे॑त्यस्य भाष्येऽदर्शनेऽपि शंसेण्र्यत्क्यपौ प्रामाणिकावित्याह — प्रशस्यस्येति । ‘प्रशस्यस्य श्रः’ इति निर्देशबलादच्छंसेः क्यप्सिद्धः ।ईडवन्दवृशंसदुहा ण्यतः॑ इत्याद्युदात्तत्वविधौ शंसेण्र्यदन्तत्वानुवादबलाण्ण्यत्सिद्धः । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः । उपसङ्ख्यानमिति । ‘क्यप’ इति शेषः । आज्यमितिन चाङ्पूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम्, इष्टापत्तेः । पदकाराणामवग्रहाऽभावस्त्वप्रामाणिक एव, पदपाठस्याऽऽधुनिकत्वादिति भाष्ये स्पष्टम् । एवं चअस्मद्रियगित्यस्मद्रिय॑गित्यवग्रहोऽप्रामाणिक एव । अस्मद्रि - अक् इत्येवाऽवग्रहो युक्तः, अस्मच्छब्दस्य टेरद्रआदेशविधानादित्याद्यूह्रम् ।
Tattvabodhini¶
ह्रस्वस्य पिति कृति तुक् - कथं तर्हि उपेयमिति । ईङ्गताविति दैवादिकाद्यत् । * वृ इति वृञो ग्रहणं । न वृङ इति ।ईडवन्दे॑ति ज्ञापकात् । तत्र हि ईडवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ एव ग्रहणमिति भावः । परस्यापीति ।ओरावश्यके॑ इति प्राप्तस्य ण्यस्यावकाशोऽवश्यलाव्यमिति.आवश्यकाऽविवक्षायां स्तुत्य इत्यादौ क्यपोऽवकाशः । अवश्यस्तुत्य इत्यादावुभयप्राप्तौविप्रतिषेधे पर॑मिति ण्यत्स्यात्, तन्माभूदिति पुनः क्यबुक्तिरिति भावः । * आङ्पूर्वादञ्जेः संज्ञायामुपसङ्ख्यानम् । आङ्पूर्वाञ्जेरिति । ननु ण्यत्येव नलोपः कस्मान्नोक्कत इति चेन्न, कुत्वप्रसह्गातित्स्वप्रसङ्गाच्च । तस्मात्क्यबन्त एवाऽऽज्यशब्दः । नन्वेवमवग्रहः प्राप्नोति । नचेष्टापत्तिः ।आज्यं किमासी॑दित्यादौ॑ पदकारैस्तदकरणादितिचेत् । अत्र भाष्यम् — न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैस्तु लक्षममनुवर्त्त्यमिति । सत्यपि अवान्तरपदत्वेऋत्विजं॑,पूर्वेभिः॑ इत्यादाविव संप्रदायानुरोधेन क्वचिदवग्रहो न क्रियते इत्यादि तदाशयः ।
Padamanjari¶
कृता धातुराक्षिप्यते, स च ह्रस्वेन विशेष्यते, तेन तदन्तविधिर्भवतीत्याह -ह्रस्वान्तस्य धातोरिति। अग्निचित्, सोमसुदिति। ठग्नौ चेःऽ,’सोमे सुञः’ इतिक क्विप्। ग्रामणिकुलमिति व्यस्तं चेन्नपुंसकह्रस्वत्वम्, षष्ठीसमासे तु ठिको ह्रस्वोऽङ्यो गालवस्यऽ,’सोमे सुञः’ इति क्विप्। यदि पुनरयं तुट् परादिः क्रियते? चनैवं शक्यम्; इहाग्निचित्सोमसुत्,’वेरपृक्तस्य’ इति वलोपो न प्राप्नोति। इह च परितनोतीति क्विप्,’क्वौ च गमादीनाम्’ इत्यनुनासिकलोपः,’नहिवृत्ति’ इत्यादिना दीर्घः -परीतत्, तुट आर्द्धधातुकभक्तत्वादिट्प्रसङ्गः। इह चावच्छयाद्’वा’ न्यस्य संयोगादेःऽ इत्येत्वं प्रसज्येत। अथाभक्तः स्याद्, मधुच्छादयतीति’तिङ्ङतिङः’ इति निघातो न प्राप्नोति; तकारेण व्यवधानात्। न च तकार एवातिङ्; अपदत्वात्। तस्मात्पूर्वान्त एव कर्तव्यः। यद्येवम्, नपुंसकह्रस्वत्वमुपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिद्ध्यति। नपुंसकह्रस्वत्वम् -आराशष्कुलिच्छत्रम्, धानाशष्कुलिच्छत्रम्। उपसर्जनह्रस्वत्वम् -निष्कौशाम्बिच्छत्रम्; द्विगुस्वरः -पञ्चारत्निच्छत्रम्, तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ? न वा बहिरङ्गलक्षणत्वात्। बहिरङ्गस्तुक् -च्छकारसन्निपातापेक्षत्वात्, अन्तरङ्गा एते विधयः प्रागेव तत्सन्निधा नाद्भविष्यन्ति ॥
Nyaas¶
कृतात्र प्रत्ययेन धातुरुपस्थाप्यते, ह्रस्वेन च स एव विशेष्यते, च तदन्तविधिर्भवतीत्यतो ह्रस्वान्तो धातुरागमी विज्ञायत इत्याह -ह्रस्वान्तस्य धातोः इत्यादि। अग्निचित् इति। अग्नौ चेः (3.2.91) इति क्विप्। सोमसुत् इति। सोमे सुञः (3.2.90) इत्युभयत्रोपपदसमासः। प्रकृत्य`इत्यादौ प्रादिसमासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप् (7.1.37) इति ल्यप्। अथ ग्रामं नयतीति -ग्रामणि ब्राआहमणकुलमित्यत्र नपुंसकह्रस्वत्वे कृते ह्रस्वाश्रयस्तुक्? कस्मान्न भवति? इत्याह -ग्रामणि ब्राआहृणकुलम् इत्यादि। ह्रस्वत्वं हि नपुंसकार्थवृत्तिप्रातिपदिकमपेक्षत इति बहिरङ्गम्, अन्तरङ्गस्तु तुक्; वर्णमात्रापेक्षताव्त्। `आसिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इति तुग्नात्र भवति॥
Prakriyasarvasvam¶
पिति कृति परे ह्रस्वान्तस्य धातोस्तुक् स्यात् । इत्यः । <karika>“ईगताविति धातोर्यत् तस्मादेयमिति स्थिते । ‘एडी’ति पररूपे स्यादुपेयमिति नत्विणः” ॥ ६१ ॥</karika> स्तुत्यः । शास् य ।
Sutra Prayogas¶
समपेत्य (शिशुपालवधम्): ह्रस्वस्य पिति कृति तुक् इति तुगागमः।