61072: संहितायाम्

Padacheda: संहितायाम् | S | 7 | 1 |

Sutrartha

इतः आरभ्य **पारस्करप्रभृतीनि च संज्ञायाम् (6.1.157) इति यावत् यद् किमपि उच्यते तत् संहिताया: विषये एव भवति ।**

इदम् अधिकारसूत्रम् । अस्य सूत्रस्य अधिकारः पारस्करप्रभृतीनि च संज्ञायाम् (6.1.157) इति सूत्रम् यावत् प्रचलति । एतेषु सर्वेषु अपि सूत्रेषु उक्तानि कार्याणि संहितायाः विषये एव भवन्ति इति अस्य अधिकारस्य आशयः । यथा, अस्मिन् अधिकारे पाठितेन इको यणचि (6.1.77) इति सूत्रेण इक्-वर्णस्य उक्तः यणादेशः तदा एव भवति तत्र इक्-वर्णस्य यण्-वर्णस्य च मध्ये संहितायाः विवक्षा अस्ति । <note>संहितासंज्ञा परः सन्निकर्षः संहिता (1.4.109) इति सूत्रेण पाठिता अस्ति । </note>

‘संहितायाम्’ इति विषयसप्तमी

‘संहितायाम्’ इति शब्दे विद्यमाना सप्तमी ‘विषयसप्तमी’ स्वीक्रियते, न हि सतिसप्तमी । इत्युक्ते, अस्य सूत्रस्य अर्थः&nbsp; संहितायाम् सत्याम्*&nbsp; इति न क्रियते, अपि तु &nbsp;*संहितायाम् विषये*&nbsp; इति क्रियते । अस्य कारणम् **इको यणचि* (6.1.77) इति सूत्रस्य आधारेण इत्थं दातुं शक्यते — यदि *संहितायाम् सत्याम्*&nbsp; इति अर्थः भवेत्, तर्हि — *आदौ संहिता भवेत्, ततः संहितां दृष्ट्वा इक्-वर्णस्य यण्-वर्णादेशः भवेत् * — इति अर्थविधानं स्यात् । अस्यां स्थितौ संहितायाः उपस्थितौ अपि किञ्चित् कालं यावत् इक्-वर्णस्यैव उपस्थितिः तत्र भवितुम् अर्हेत्, यत् न उचितम् । वस्तुतस्तु आदौ इक्-वर्णस्य स्थाने यण्-वर्णस्य उच्चारणं भवति, ततः विरामं विना (संहितां स्वीकृत्य) अच्-वर्णस्य उच्चारणं भवति । अतः संहितायाः विवक्षायाम्, परन्तु संहितायाः ग्रहणात् पूर्वम् एव इक्-वर्णस्य स्थाने यण्-वर्णः उच्चार्यते । एतत् तदा एव सम्भवति यदा ‘संहितायाम्’ इति विषयसप्तमी गृह्यते । अतएव प्रकृतसूत्रे विद्यमाना सप्तमी विषयसप्तमी अस्ति ।

सूत्रस्य प्रत्याख्यानम्

अस्य सूत्रस्य भाष्ये भाष्यकारः इदं सूत्रं अनावश्यकम् उक्त्वा प्रत्याचष्टे । तत्र भाष्यकारस्य विधानम्, तदुपरि च कैयटस्य व्याख्यानम् एतादृशम् — <source> अयं योगः शक्यः अवक्तुम् । कथम् ? अधिकरणो नाम त्रिःप्रकारणम् —‌ व्यापकम्, औपश्लेषिकम्, वैषयिकम् इति । शब्दस्य च शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यतः उपश्लेषात् ? इको यणचि अचि उपश्लिष्टस्य — इति । तत्र अन्तरेण संहिताग्रहणं संहितायाम् एव भविष्यति ॥ <light>— 6.1.72 इत्यत्र महाभाष्यम् ।</light> उपश्लेषे च आश्रिते निर्दिष्टग्रहणम् अपि न कर्तव्यम्, व्यवहितयोः उपश्लेष-अभावात् उपश्लेषनिमित्तकार्य-अप्रसङ्गात् । संहिताधिकारे च प्रत्याख्याते, संहितासंज्ञा अपि प्रयोजनाभावात् प्रत्याख्याता एव ।<light>— 6.1.72 इत्यत्र प्रदीपे कैयटः ।</light> </source> अत्र भाष्यकारः आदौ सप्तमीविभक्तेः त्रीन् अर्थान् विवृणोति । ते एतादृशाः — <listsp> (i) व्यापकसप्तमी — यत्र एकः पदार्थः अपरं पदार्थं सम्पूर्णरूपेण व्याप्नोति, तत्र व्यापकसप्तमी अस्ति इति उच्यते । यथा, ‘तिलेषु तैलम्’ इत्यत्र तिलेषु-इति व्यापकसप्तमी अस्ति । तैलम् तिलस्य कस्मिंश्चित् एकस्मिन् विभागे न विद्यते, अपि तु सम्पूर्णं तिलं समग्ररूपेण व्याप्नोति, तस्य तिलात् पृथक्करणम् दुष्करम् एव अस्ति, इति अत्र आशयः वर्तते । ‘दध्नि घृतम्’ इति व्यापकसप्तमेः अन्यद् उदाहरणम् । (ii) औपश्लेषिकसप्तमी — यत्र एकस्य पदार्थस्य अवयवानाम् अपरस्य पदार्थस्य अवयवैः सह साक्षात् संयोगः विद्यते (two objects are so close to each other that they are practically touching each other), तत्र औपश्लेषिकसप्तमी अस्ति इति उच्यते । यथा, ‘देवदत्तः कटे उपविशति’ इत्यत्र ‘कटे’ इति औपश्लेषिकसप्तमी अस्ति । कटस्य देवदत्तेन सह साक्षात् सम्पर्कः भवति, तत्र देवदत्त-कटयोर्मध्ये अवकाशः नास्ति इति आशयः । ‘मथुरायां वसति’ इति औपश्लेशिकसप्तमेः अन्यद् उदाहरणम् । (iii) वैषयिकसप्तमी — यत्र द्वयोः पदार्थयोः साक्षात् संयोगः नास्ति, परन्तु कश्चन कल्पितः सम्बन्धः स्वीक्रियते, तत्र वैषयिकसप्तमी अस्ति इति उच्यते । यथा, ‘गङ्गायां घोषः’ (गोपालानां गृहसमूहः, A station of cowherds on the bank of River Ganga) इत्यत्र ‘गङ्गायाम्’ इति विषयसप्तमी अस्ति इति स्वीक्रियते । अत्र घोषः वस्तुतः गङ्गायाः जले नास्ति, अपितु गङ्गायाः निकटे वर्तते इति कारणेन द्वयोर्मध्ये अधिकरणसम्बन्धं स्वीकृत्य सप्तमीविभक्तिः उपयुज्यते इति आशयः । ‘गुरौ निष्ठा’ इति विषयसप्तमेः अन्यद् उदाहरणम् । </listsp> तिसृणाम् अपि सप्तमीनाम् इत्थं निर्देशं कृत्वा भाष्यकारः अग्रे एतत् सूचयति, यत् शब्दशास्त्रे एकस्य शब्दस्य अपरेण शब्देन सह विद्यमानः सम्बन्धः केवलम् पौर्वापर्यभावः (इत्युक्ते, औपश्लेषिकः सम्बन्धः — Two words uttered in extreme closeness) इत्येव भवितुम् अर्हति । यत्र औपश्लेषिकः सम्बन्धः अस्ति, तत्र संहिता भवत्येव । अतः पुनः ‘संहितायाम्’ इति पृथक् अधिकारः नावश्यकः । अतएव च, तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) अस्मिन् सूत्रे ‘निर्दिष्ट’शब्दः अपि अनावश्यकः अस्ति, तथा च संहिताधिकारे प्रत्याख्याते संहितायाम् (6.1.72) इति सूत्रम् अपि अनावश्यकम् इति सर्वम् अत्र कैयटः विवृणोति ।

Sutrartha (English)

This is an अधिकार that runs till पारस्करप्रभृतीनि च संज्ञायाम् (6.1.157). Anything told in this अधिकार happens only in the context of संहिता.

Vasu English Summary

In the following sutras up to (6.1.157) inclusive, the words संहितायाम् ‘in an unbroken flow of speech’, should be supplied.

Vasu English Translation

In the following sutras up to (6.1.157) inclusive, the words संहितायाम् ‘in an unbroken flow of speech’, should be supplied. This is an adhikara or governing sutra, exerting its influence upto (6.1.158). What ever we shall say in the sutras preceding that, must be understood to apply to words which are in संहिता, that is, which are pronounced together with an uninterrupted voice. Thus दध्यत्र, मध्वत्र the इ and उ are changed to य and व when the two words are pronounced without any hiatus. Otherwise we shall have दधि अत्र, मधु अत्र ॥

Bhashya

संहितायाम् (2509) (योगानर्थक्यबोधकभाष्यम्) अयं योगः शक्योऽवक्तुम् । कथम् ? अधिकरणं नाम त्रिः प्रकारम् - व्यापकम्, औपश्लेषिकम्, वैषयिकम् - इति । शब्दस्य च शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हत्यन्यदत उपश्लेषात् । इको यणचि (6.1.77) अचि उपश्लिष्टस्येति । तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यति ॥

Kashika

अधिकारोऽयम् अनुदात्तं पदमेकवर्जम् (६.१.१५८) इति यावत्। प्रागेतस्मात् सूत्रादित उत्तरं यद् वक्ष्यामः संहितायामित्येवं तद् वेदितव्यम्। वक्ष्यति — इको यणचि (६.१.७७) — दध्यत्र। मध्वत्र। संहितायामिति किम् ? दधि अत्र। मधु अत्र॥

Siddhanta Kaumudi

इत्यधिकृत्य ॥

Tattvabodhini

संहितायाम्। इत्यधिकृत्येति। एतच्च `इकोयणची`त्यत्रैव वक्तव्यमपि सूत्रक्रमानुरोधेनात्रोक्तम्।

Padamanjari

‘संहितायाम्’ इति विषयसप्तमीयम्। कार्यिनिमितयोः संहितायां विषयभूतायां वक्ष्यमाणं कार्यं भवतीत्यर्थः। वक्ष्यति - ठिको यणचिऽ इति, अन्तरं तु विधिमतिक्रामतोऽभिप्रायो मृग्यः। दधि अत्रेति। ननु च ठिकोयणचिऽ इत्यधिकरणसप्तम्येषा, तच्चाधिकरणमौपश्लेषिकादन्यद्वर्णेषु न सम्भवति, तत्राच्युपश्लिष्टस्येको विधीयमानो यण्वर्णान्तरव्यवाये कालव्यवाये च न भविष्यतीति नार्थः संहिताधिकारेण? ज्ञापनार्थं तु, एतज्ज्ञापयति -‘कालव्यवायो निर्द्दिष्टपरिभाषायां नाश्रीयते’ इति। तेनोतरपदादिकारेऽपि विधीयमानं कार्यमलुगादि कालव्यवधानेऽपि भवत्येव - आखरेष्ठ इत्याखरे स्थः, अग्नाविष्णू इत्यग्ना विष्णू इत्यादि ॥

Nyaas

संहितायाम् इति विषयसप्तमीयम्। तेन यदि कार्यिनिमित्तयोः संहिता विषयभूता भवति, तह्र्रेवं वक्ष्यमाणं कार्यं भवति; नान्यर्थेति वेदितव्यम्।

Prakriyasarvasvam

इतः परं संहितायां कार्यमुच्यते । कंस छेदी इति स्थिते,