61065: णो नः¶
Padacheda: णः | S | 6 | 1 |
नः | S | 1 | 1 |
Sutrartha¶
धातोः औपदेशिकस्वरूपे आदिस्थस्य णकारस्य नकारादेशः भवति ।
धातुपाठे पाठितेभ्यः ~ 2000 धातुभ्यः प्रायेण 35 धातूनाम् औपदेशिस्वरूपे प्रथमवर्णः णकारः विद्यते । एते सर्वे धातवः णोपदेशाः धातवः नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् आदिस्थस्य णकारस्य प्रक्रियायाः प्रारम्भे (इत्संज्ञालोपात् अनन्तरम्) नकारादेशः भवति इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि —
णीञ् (प्रापणे, भ्वादिः, (1.1049)) → नी ।
णु (स्तुतौ, अदादिः, (2.30)) → नु ।
णशँ (अदर्शने, दिवादिः, (4.91)) → नश् ।
णुदँ (प्रेरणे, तुदादिः, (6.162)) → नुद् ।
णभँ (हिंसायाम्, क्र्यादिः, (9.56)) → नभ् ।
सर्वेषम् अपि णोपदेशधातूनां विषये एतादृशी णत्वनिवृत्तिः सर्वासाम् प्रक्रियाणाम् प्रारम्भे एव भवति । णत्वनिवृत्तेः अनन्तरम् णकारस्य स्थाने नित्यं नकारः एव विधीयते, अतः एते सर्वेऽपि धातवः नकारादयः एव स्वीक्रियन्ते ।
सुब्धातूनां विषये इदं सूत्रं न प्रवर्तते
प्रकृतसूत्रेण केवलम् औपदेशिकधातुषु विद्यमानस्य एव आदिस्थ-णकारस्य नकारादेशः भवति । आतिदेशिधातूनां विषये इदं सूत्रं न प्रवर्तते । अतः “णकारम् आत्मनः इच्छति” अस्मिन् अर्थे “णकार”-शब्दात् सुप आत्मनः क्यच् (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते “णकारीय” इति यः नामधातुः सिद्ध्यति, तस्मिन् विद्यमानस्य णकारस्य प्रकृतसूत्रेण नत्वं नैव सम्भवति । अतएव अस्य धातोः रूपाणि “णकारीयति, णकारीयतु, अणकारीयत्” एतादृशानि णकारघटितानि एव भवन्ति ।
णोपदेशधातूनां परिगणनम्
भाष्यकारेण प्रकृतसूत्रे णोपदेशधातूनां परिगणनं कृतम् अस्ति । अस्मिन् सन्दर्भे भाष्यकारः ब्रूते — <source> के पुनः णोपदेशाः धातवः पठितव्याः ? … अन्तरेण अपि पाठः किञ्चित् शक्यते वक्तुम् । कथम् ? सर्वे नादयः णोपदेशाः, नृति-नन्दि-नर्दि-नन्कि-नाटि-नाथृ-नाधृ-नॄ-वर्जम् । </source> इत्युक्ते, धातुपाठे विद्यमानान् नृत्-आदीन् अष्टौ धातून् विहाय अन्ये सर्वे अपि नकारादयः धातवः मूलरूपेण णोपदेशाः एव सन्ति — इति अत्र आशयः ।वस्तुतस्तु चुरादिगणे “निष्कँ (परिमाणे, (10.209))”, “नक्कँ (नाशने, (10.82))” — एतादृशाः केचन अत्र अपरिगणिताः अणोपदेशाः धातवः अपि विद्यन्ते, परन्तु अन्येषु गणेषु विद्यमानानाम् णोपदेशधातूनाम् सङ्कलनम् अस्याम् आवल्याम् साकल्येन एव कृतम् अस्ति ।
धातोः णोपदेशत्वस्य प्रयोजनम्
धातुपाठे विद्यमानाः सर्वे अपि नकारादयः धातवः मूलरूपेण णोपदेशाः न सन्ति । केवलम् केषाञ्चन धातूनां विषये एव औपदेशिकस्वरूपे णकारः श्रूयते । एतेषु सर्वेषु धातुषु स्थापितस्य णकारस्य प्रयोजनम् णत्वप्रकरणे दृश्यते । तदित्थम् — उपसर्गस्थ-रेफेण धातौ विद्यमानस्य नकारणस्य रषाभ्यां नो णः समानपदे (8.4.1) अथ वा अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इत्यनेन णत्वं न सम्भवति यतः उपसर्गः भिन्नं पदम् अस्ति । परन्तु यदि धातुः णोपदेशः अस्ति, तर्हि **उपसर्गादसमासेऽपि णोपदेशस्य (8.4.14) अनेन सूत्रेण उपसर्गस्थ-रेफम् निमित्तरूपेण स्वीकृत्य धात्वादि-णकारस्य नत्वम् अवश्यम् सम्भवति ।** इत्युक्ते, येषाम् धातूनाम् आदौ विद्यमानस्य नकारस्य उपसर्गस्थ-रेफेण णत्वम् इष्यते, तेषाम् धातुपाठे णोपदेशरूपेण स्थापनम् कृतम् वर्तते इत्याशयः । एकम् उदाहरणम् एतादृशम् —
णमँ (प्रह्वत्वे शब्दे च, भ्वादिः, (1.1136))
→ णम् [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति अकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ नम् [**णो नः** (6.1.65) इति धात्वादिणकारस्य नकारः]
→ प्र + नम् + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वा-प्रत्ययः]
→ प्र + नम् + ल्यप् [**समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37) इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः]
→ प्र + नम् + य [लकारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । पकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति द्वयोः अपि लोपः]
→ प्र + णम् + य [**उपसर्गादसमासेऽपि णोपदेशस्य** (8.4.14) इति नकारस्य णत्वम् । अत्र मूलः धातुः णोपदेशः अस्ति, अतः उपसर्गस्थ-रेफम् निमित्तरूपेण स्वीकृत्य धात्वादि-नकारस्य णत्वम् विधीयते ।]
→ प्रणम्य
यः धातुः णोपदेशः नास्ति, तस्य विषये एतादृशम् णत्वं न भवति । यथा, “नर्दँ (शब्दे (1.58))” अस्य धातोः विषये णत्वं न विधीयते — “प्र + नर्द् + ल्यप् → प्रनर्द्य”।
Sutrartha (English)¶
A णकार present at the beginning of औपदेशिक form of a धातु is converted to नकार.
Vasu English Summary¶
There is the substitution of न् for the initial ण् of the root in the धातुपाठ।
Vasu English Translation¶
There is the substitution of न् for the initial ण् of the root in the धातुपाठ। The phrase धात्वादेः is understood here. Thus णीञ् - नयति, णम - नमति, णह - नह्यति ॥ But not अण् - अणति ॥ This does not apply to roots derived from nouns. णकारमिच्छति = णकारीयात ॥The roots are exhibited in the Dhatupatha with ण् for a similar reason as they are exibited with ष ॥ By (8.4.14), these roots change their न into ण when preceded by certain prepositions. All roots beginning with a ण should be understood to have been so taught, with the exception of the following:- नृ, नन्दि नर्दि, नक्क, नाटि, नाधृ and नाथृ ॥
Bhashya¶
णो नः (2502) (नत्वाधिकरणम्) (सूत्रप्रयोजनभाष्यम्) अथ किमर्थं णकारमुपदिश्य तस्य नकार आदेशः क्रियते, न नकार एवोपदिश्यते ? लघ्वर्थमित्याह । कथम् ? अविशेषेणायं णकारमुपदिश्य तस्य नकारमादेशमुक्त्वा तस्य लघुनोपायेन णत्वं निर्वर्तयति - उपसर्गादसमासेऽपि णोपदेशस्य (8.4.14) इति । इतरथा हि येषां णत्वमिष्यते तेषां तत्र ग्रहणं कर्तव्यं स्यात् । (णोपदेशपरिगणनभाष्यम्) के पुनर्णोपदेशा धातवः पठितव्याः ? कोऽत्र भवतः पुरुषकारः ? यद्यन्तरेण पाठं किंचिच्छक्यते वक्तुं तदुच्यताम् । अन्तरेणापि पाठं किंचिच्छक्यते वक्तुम् । कथम् ? सर्वे नादयो णोपदेशाः, नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनॄवर्जम् ॥
Kashika¶
धातोरादेरित्यनुवर्तते। धातोरादेर्णकारस्य नकार आदेशो भवति। णीञ् — नयति। णम — नमति। णह — नह्यति। धात्वादेरित्येव — अणति। सुब्धातोरयमपि नेष्यते। णकारमिच्छति णकारीयति। उपसर्गादसमासेऽपि णोपदेशस्य (८.४.१४) इत्यत्र णत्वविधेर्व्यवस्थार्थं णादयो धातवः केचिदुपदिश्यन्ते। के पुनस्ते ? ये तथा पठ्यन्ते। अथ वा लक्षणं क्रियते — सर्वे नादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृनृवर्जम्
Siddhanta Kaumudi¶
धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनदर्-नाटि-नाथ्-नाध्-नन्द्-नक्क-नॄ-नृतः । इति भाष्यफलितम् । नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनद्योश्च केचिण्णोपदेसतामाहुः ॥
Laghu Siddhanta Kaumudi¶
धात्वादेर्णस्य नः। णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः॥
Balamanorama¶
णो नः - णो नः । ‘ण’ इति षष्ठन्तं । ‘धात्वादेः षः सः’ इत्यतोऽनुवर्तनादाह -धातोरादेरिति । तेन अणतीत्यादौ न नत्वम् । नः स्यादिति । नकारः स्यादित्यर्थः । नदतीति ।मेघादि॑रिति शेषः । ‘णो नः’ इति नत्वस्याऽनैमित्तकतया लिण्निमित्तादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ स्त एव, नेदतुरित्यादि । अथनृत्ननर्द्नन्दनक्क्नाट्नाथृनानृवर्ज णोपदेशाः॑ इति भाष्यं श्लोकार्धेन सङ्गृह्णाति — णोपदेशास्त्विति ।नर्द शब्दे॑ । ‘नट अवस्यन्दने’ चुरादिः । नाथृ नाधृ याञ्चादौ, द्वितीयचतुर्थान्तौ ।टु नदि समृद्धौ॑ ।नक्क नाशने॑ । नृ नये॑ ।नृती गात्रविक्षेपे॑ एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्ननकारादितयाणोपदेशाः प्रत्येतव्या इत्यर्थः ।नाटी॑ति ण्यन्तस्य प्रयोजनमाह — नाटेरिति । घटादिरिति ।नटनृत्ता॑विति घटादिपठित इत्यर्थः । तत्फलं घटादौ वक्ष्यते । मतान्तरमाह — तवर्गेति । तवर्गचतुर्थान्तनाधधातोर्नृनन्द्योश्च णोपदेशेषु पर्युदासाऽभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् ।
Tattvabodhini¶
णो नः - णो नः । धातोरिति ।धात्वादेः षः सः इत्यतोऽनुवर्तनाद्धात्वादेरित्येव । नेह — अणति । णोपदेशान्पर्युदासमुखेनाह — णोपदेशास्त्विति ।नर्द शब्दे॑ ।नट अवस्यन्दने॑ । चुरादिः । यस्तु नट नृत्ताविति घटादिः स नेह गृह्रते, नाटीति दीर्घनिर्देशात् ।नाथृ नाधृ याच्ञादौ॑ ।टुनदि समृद्धौ॑ ।नक्क नाशने॑ ।नृ नये॑ ।नृती गात्रविक्षेपे॑ । एभ्योऽष्टाभ्यो भिन्ना इत्यर्थः । तवर्गेति । तेषां मते तु पञ्चब्यो भिन्ना णोपदेशाः ।
Padamanjari¶
अणतीति। णोपदेशस्तु निरणतीत्यादौ ठुपसरगादसमासेऽपि णोपदेशस्यऽ इति णत्वार्थं स्यात्। सुब्धातोरयमपि नेष्यत इति। पूर्ववदेव सर्वे नादय इति प्रयोगे। नृतीनन्दीत्यादि।’नृती गात्रविक्षेपे’ ,’टुअनदि समृद्धौ’ ,’नर्द गर्द्द शब्दे’ ,’नक्क नाशने’ ,’नट अवस्यन्दने’ चुरादिः,’नाथृ नाधृ याच्ञोपतापैश्वर्येषु’ ॥
Nyaas¶
सुब्धातोरयमपि नेष्यते इति। पूर्वस्मदेव हेतोः। उपसर्गादसमासेऽपि इत्यादि। अत्र पूर्वानुसारेण पूर्वपक्षो विज्ञेयः। नृतीनन्दि इत्यादि। नृती गात्रविक्षे#एपे (धातुपाठः-1116), टुनदि समृद्धौ (धातुपाठः-67), नर्द गद्र्द शब्दे (धातुपाठः-56,57), नक्क वक्क [`धक्क -घातुपाठः] नाशने` (धातुपाठः-1593,1594), नट अवस्यन्दने [अवस्पन्दने -घातुपाठः] (धाचपा।1545) चुरादिणिजन्तः, नाथृ नाधृ याञ्चोपतापैआर्याशीःषु (धातुपाठः-6।7), नृ नये (धातुपाठः-809,1495)॥
Prakriyasarvasvam¶
धात्वादेर्णस्य नः स्यात् । नेयम् । ण्यन्तानामजन्तत्वादचो यत् । णिचो णचयोर्लुप्तयोरिकारमात्रमस्ति । चोरि य ।